#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00047 Uniform title: puraścaryārṇava volume 3 Main title: puraścaryārṇavaḥ volume 3 Editor : muralidhara jhā Description: Compiled by H. H. The Maharaja pratapa "Simha Saha Bahadur of Nepal. Notes: The texts have been transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski . Revision 0 Jan 28, 2007 Publisher : Prabhakari and Co Publication year : 1901 Publication city : Benaras Publication country : India #################################################### दशमहाविद्यास्तपुरश्चरणविशेषाश्च प्रदर्श्यन्ते | तथा च (मुण्डमालायाम्) काली तारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती तथा || ९-१ || वगला सिद्धिविद्या च मातङ्गी कमलात्मिका | एता दश महाविद्याः सिद्धिविद्याः प्रकीर्तिताः || ९-२ || तत्रादौ प्रथमविद्या प्रोक्ता (कुमारीतन्त्रे) भैरव उवाच | अस्ति गुह्यतमं ह्येतज्ज्ञानमेकं सनातनम् | अतीव हि सुगोप्यं च कथितुं नैव शक्यते || ९-३ || अतीव मत्प्रियाऽसीति कथयामि तव प्रिये | सर्वं ब्रह्ममयं ह्येतत् संसारं स्थूलसूक्ष्मकम् ||४ || प्रकृतिं तु विना नैव संसारमुपद्यते | तस्माच्च प्रकृतेर्मूलकारणं नैव दृश्यते || ९-५ || रूपाणि बहुसङ्ख्यानि प्रकृतेरस्ति भामिनि | एषां मध्ये महेशानि कालीरूपं मनोहरम् || ९-६ || विशेषतः कलियुगे नराणां भुक्तिमुक्तिदम् | तस्या उपासकाश्चैव ब्रह्मविष्णुशिवादयः || ९-७ || इन्द्रः सूर्यश्च वरुणः कुवेरोऽग्निस्तथाऽपरः | दुर्वासाश्च वशिष्टश्च दत्तात्रेयो बृहस्पतिः || ९-८ || बहुना किमिहोक्तेन सर्वे देवा उपासकाः | कालीकायाः प्रसादेन भुक्तिमुक्त्यादिभागिनः || ९-९ || तस्या मन्त्रं प्रवक्ष्यामि यतो रक्षेज्जगत्त्रयम् | ककारं वह्निसंयुक्तं रतिविन्दुसमन्वितम् || ९-१० || त्रिगुणं च ततः कूर्चयुग्मं लज्जायुगं ततः | दक्षिणे कालिके चेति पूर्वबीजानि चोच्चरेत् || ९-११ || वह्निजायावधिः प्रोक्तो कालिकाया मनुः शिवे | द्वाविंशत्यक्षरी सिद्धिविद्येयमीरिता || ९-१२ || मन्त्रार्थमाह (संकेततन्त्रे) ककाराद्विश्वमुत्पन्नं तेन सृष्टिस्वरूपिणी | रेफः कालाग्निरुद्रात्मा तेन संहाररूपिणी || ९-१३ || ईकारश्च महालक्ष्मीर्लोकत्रयविभाविनी | तेनेयं पालिनी शक्तिः सामरस्यं च विन्दुना || ९-१४ || (कालीतन्त्रे) ककाराच्छिवरूपत्वात् सर्वेश्वर्यप्रदायिनी | ज्वलनार्णसमायोगात् सर्वतेजोमयी शुभा || ९-१५ || विन्दुमाली केवलं तु सर्वततत्त्वप्रकाशिका | विन्दुना निष्कलत्वाच्च कैवल्यफलदायिनी || ९-१६ || कूर्चबीजं केवलं तु सर्वबोधप्रकाशकम् | चैतन्यरूपं संसारभीषणं मुक्तिदायकम् || ९-१७ || व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना | तयोर्विसर्ग ईकारो विन्दुना * तान्त्रिकी मता || ९-१८ || दक्षिणा सिद्धसाध्यादिरहिता क्षिप्रसिद्धिदा | प्. ७२५) कालसंकलनात् काली कालग्रासं करोत्यतः || ९-१९ || स्वाहेति विषयाः सर्वे देवतायां समर्पिताः | एवं समस्तरूपेण केवलं चित्कलाऽपरा || ९-२० || सर्वदेवमयी साक्षाच्छब्दब्रह्मस्वरूपिणी | एवं ध्यायेद्विशुद्धात्मा जीवन्मुक्तः स्वयं शिवः || ९-२१ || विद्यामाहात्म्यमाह (भैरवीतन्त्रे) नात्र चित्ताविशुद्धिः स्यान्नारिमित्रादिदूषणम् | न वा प्रयासबाहुल्यं समयासमयादिकम् || ९-२२ || न वित्तव्ययबाहुल्यं कायक्लेशकरं न च | देवैर्देवत्वविधये सिद्धैः खेचरसिद्धये || ९-२३ || पन्नगै राक्षसैर्मत्त्यैर्मुनिभिश्च मुमुक्षुभिः | कामिभिर्धर्मिभिश्चार्थमीप्सुभिः सेव्यते सदा || ९-२४ || य एनां चिन्तयेन्मन्त्री सर्वकामसमृद्धिदाम् | तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः || ९-२५ || तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः | राजानोऽपि च दासत्वं भजन्ते किं परे जनाः || ९-२६ || वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः | दिवारात्रिव्यत्ययं च स कर्तुं भवति क्षमः || ९-२७ || अन्ते च लभते देव्या गणत्वं दुर्लभं नरः | चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि || ९-२८ || न तस्य दुर्लभं किंचिद्यः स्मरेद्घोरकालिकाम् | (कालीतन्त्रे) अस्याः स्मरणमात्रेण सिद्धयोऽष्टौ भवन्ति हि || ९-२९ || प्. ७२६) एवं समस्तविद्यानां राज्ञी स्तोतुं न शक्यते | वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || ९-३० || सर्वसिद्धिदा देवी अनिरुद्धसरस्वती | तस्मादस्या ज्ञानमात्रात् सिद्धयः संभवन्ति हि || ९-३१ || तथा | अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् | अनिरुद्धसरस्वत्याः समो मन्त्रः सदा भवेत् || ९-३२ || तन्त्रान्तरे | कलौ काली कलौ काली कलौ काली तु केवला | साधिता कालनाथेन प्रत्यक्षा कालिका कलौ || ९-३३ || कलौ कालीं विहायाथ यः कश्चिन्मोक्षकामुकः | स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति || ९-३४ || कलौ कालीं विहायाथ यः कश्चिच्छान्तिमिच्छति | स हि शीनिवृत्त्यर्थं हिमशैलं विषेवते || ९-३५ || कलौ कालीं विहायाथ यः कश्चित् काव्यमिच्छति | स तु दुःखनिवृत्त्यर्थं पापानि कुरुते सदा || ९-३६ || श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा | कलिर्हि यस्या दासस्य पादपूजां करोति हि || ९-३७ || अज्ञानाज्ज्ञानति वाऽपि सलीलं वा सहेलया | स्मृताऽपि सिद्धिदा काली सकृदेव महेश्वरि || ९-३८ || महाविद्या सिद्धिविद्या विद्याभेदैः प्रतिष्ठिता | उपविद्यादिभेदैश्च कालिका संस्थिता भुवि || ९-३९ || ताराद्याः सकला विद्याः कालिकायाः प्रजज्ञिरे | सर्वा विद्याः कालिकायां संस्थिता एव पार्वति || ९-४० || प्. ७२७) अथ ऋष्यादिन्यासः (कालीतन्त्रे) भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक्छन्दः उदाहृतम् | देवता कालिका प्रोक्ता लज्जाबीजं तु बीजकम् || ९-४१ || शक्तिस्तु कूर्चबीजं स्यादनिरुद्धसरस्वती | (कालीक्रमे) कीलकं चाद्यबीजं तु चतुर्वर्गार्थसिद्धिदम् || ९-४२ || (कालीतन्त्रे) कवित्वार्थे नियोगः स्यादेवमृष्यादिकल्पना | अङ्गन्यासकरन्यसौ यथावदभिधीयते || ९-४३ || षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् | (वीरतन्त्रेऽपि) दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् ||४४ || न्यासान्तराणि तत्रैव द्रष्टव्यानि | अथ ध्यानं (मेरुतन्त्रे) करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् | कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणाम् || ९-४५ || खड्गाभयवरा/श्छिन्नं मुण्डं च दधतीं करैः | महामेघप्रभां श्यामां तथा चैव दिगम्बराम् || ९-४६ || कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् | कर्णावतंसतानीतशवयुग्मविराजिताम् || ९-४७ || घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् | शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् || ९-४८ || सृक्कद्वयगलद्रक्तधाराविच्छुरिताननाम् | घोररूपां महारौद्रीं श्मशानालयवासिनीम् || ९-४९ || दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् | प्. ७२८) शवरूपमहादेवहृदयोपरिसंस्थिताम् || ९-५० || शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् | महाकालसमायुक्तां शवोपरिरतान्विताम् || ९-५१ || सुखप्रसन्नवरदां स्मेराननसरोरुहाम् | एवं संचिन्तयेत् कालीं श्मशानालयवासिनीम् || ९-५२ || तथा | कपिलारत्नसम्पूर्णपृथ्वीदानस्य यत् फलम् | कोटिहोमसहस्रस्य देव्या ध्यानेन तत् फलम् || ९-५३ || एतन्मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया | पितृमातृवधाद्यैश्च किमन्यैः * क्षुद्रघातकैः || ९-५४ || अथ शापोद्धारस्तत्रान्तरे | शापोद्धारं प्रवक्ष्यामि वशिष्ठमुनिना कृतम् | चतुर्विंशतिलक्षाणि जप्त्वा कोपेन शप्तवान् || ९-५५ || अद्य प्रभृति देवेशि कालिके कालरूपिणि | तव मन्त्रेषु संसिद्धिः कष्टेनैव भविष्यति || ९-५६ || इति श्रुत्वा महादेवी प्रादुर्भूता प्रसाद्य तम् | उवाच पुत्र किमिदं शापदानं वृथा कृतम् || ९-५७ || एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर | ज्ञानं दत्तं दुराराध्यं दुर्लभं यत् सुरैरपि || ९-५८ || ततः प्रीत्या वरं लब्ध्वा ज्ञानविज्ञानसंयुतम् | उवाच प्रीतमनसा शाप्तान्तं मन्त्रसङ्कटे || ९-५९ || मातः क्रोधेन कथितं तत्रोपायमहं ब्रुवे | प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणे || ९-६० || प्. ७२९) सिद्धिं कुरुद्वयं प्रोच्य कालिकेति पदं ततः | ममाभीष्टफलं शीघ्रं देहि द्रविणसम्पदम् || ९-६१ || जपादौ मन्त्रमुच्चार्य जपान्तं च पुनः पठेत् | भविष्यति ततः सिद्धिरचिरात् परमेश्वरि || ९-६२ || अथासनभेदा उक्ता मत्स्यसूक्ते | मृद्वचूडकमासीनश्चान्येषु कोमलेषु च || ९-६३ || विष्टरे वा समासृत्य साधयेत् सिद्धिमुत्तमाम् | एषा लक्षणानि तत्रैव अर्वाक् षण्मासतो गर्भच्युतमाहुर्मृदुं बुधाः || ९-६४ || चूडोपनयनैर्हीनमेतच्चाचूडकं विदुः | निवृत्तचूडको बालो हीनोपनयनः पुमान् || ९-६५ || यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः | तथा | मृतासनं विना देवि यो जपेत् कालिकां नरः || ९-६६ || तावत् स नारकी ज्ञेयो यावदाहूतसंप्लवम् | यो वीर इत्यर्थः | पशोस्तु तादृशासननिषेधात् || ९-६७ || मृद्धासनाद्यभावेऽनुकल्प उक्तो (वीरतन्त्रे) शवाभावे विष्टरं तु शवरूप प्रकल्पयेत् | पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्धेन तु विष्टरम् || ९-६८ || (कालीतन्त्रादौ) मृताभावे कुशरूपं विष्टरं परिकल्पयेत् | विष्टरः साधकस्याथ कथ्यते शृणु साम्प्रतम् || ९-६९ || भूतपत्राणि यस्मिन् वै स कुशेत्यभिधीयते | हस्ते पादे दश दशमिता दिग्युगं हृत्सरोजे || ९-७० || प्. ७३०) विंशत्सङ्ख्याः सकलवरदे मस्तके कीर्तिताश्च | गुह्ये जिह्वावदनरदने घ्राणकर्णस्तनेषु || ९-७१ || लिङ्गे चाण्डे युगपरिमिता योजनीयाः कुशाश्च | इत्येष विष्टरः प्रोक्तः सर्वसिद्धिप्रदायकः || ९-७२ || कुशैर्वा बन्धनं कार्यं नाड्या वा परमेश्वरि | रक्तमिश्रितसूत्रेण पट्टसूत्रेण वा पुनः || ९-७३ || विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् | विधिविष्टरपद्मस्य विधिः प्रोक्तो मया तव || ९-७४ || शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः | स्वयम्भुवाक्तं सूत्रं च कर्तव्यं सर्वसिद्धये || ९-७५ || शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः | विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्वकल्पना || ९-७६ || शिवशक्तिसमायोगात् किं न सिध्यति भूतले | अथ विष्टरसंस्कारः (शक्तिसंङ्गमे) गायत्र्या त्रोटनं कार्यं मूलेन ग्रथनं चरेत् || ९-७७ || कृतसङ्कल्पको मन्त्री कोमलं वामपाणिना | कूर्चबीजेन सङ्गुह्य अस्त्रमन्त्रेण प्रोक्षणम् || ९-७८ || प्रणवं भुवनेशीं च समुच्चार्य तु तं वदेत् | शवरूप महाप्रेत चाष्टसिद्धिं प्रयच्छ मे || ९-७९ || इति स्तुत्वा तु तं सम्यक् कुशमध्ये निधापयेत् | तस्य देहे त्रिकोणं तु रक्तचन्दनकेन वै || ९-८० || मायां तन्मध्यगां लिख्य बहिर्मण्डलकं चरेत् | प्रणवम् - आः सुरेखे च वज्ररेखे ततः परम् || ९-८१ || प्. ७३१) कूर्चं चास्त्रं वह्निवधूरयं च मण्डले मनुः | आ/कारं च ततो मायां क्रो/कारं हंस एव च || ९-८२ || वह्निजायां समुच्चार्य शवप्राणाः पदं वदेत् | इह प्राणाः पदं चोक्त्वा शवजीव इह स्थितः || ९-८३ || शवस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुरेव च | क्षोत्रघ्राणानीहागत्य सुखं च चिरमेव च || ९-८४ || तिष्ठन्तु स्वाहया युक्तः प्राणसंस्थापने मनुः | प्रणवं पूर्वमुच्चार्याधारशक्तिपदं ततः || ९-८५ || कोमलासनपदं ङेऽन्तं नमोऽन्तेन तमर्चयेत् | प्रणवं कामपीठाय नमः शब्दान्नमस्क्रिया || ९-८६ || स्वर्णैर्माषत्रयैः पट्टे कार्या मूर्तिः शवस्य तु | संस्थाप्य विस्तरस्यान्ते सर्वं पूर्ववदाचरेत् || ९-८७ || मृताभाव इति वचनात् पशोः शवानुकल्पकुशविष्टरमपि नास्ति मुख्येऽधिकारिण एवानुकल्पेऽधिकारादिति सुधार्णवकृतः | आसनान्तरसंस्कारोऽप्युक्तो (भैरवतन्त्रे) कुशं व्याघ्राजिनं वाऽपि कम्बलं लोहितं तथा | कोमलाद्यासनं वाऽपि पीतवस्त्रेण वेष्टयेत् || ९-८८ || आसनं सम्यगापाद्य ततः शोधनमाचरेत् | कल्पोक्तेन विधानेन पूजां सम्यक् समाचरेत् || ९-८९ || पूजार्थमासनमहं शोधयामि महेश्वरि | देव्याज्ञामेवमादाय मूलहृन्मनुनाऽपि च || ९-९० || जलेनासनमभ्युक्ष्य कवचेनावगुण्ठ्य च | अस्त्रमन्त्रेण संरक्ष्य सदाशिवनिभं स्मरेत् || ९-९१ || तत्र पीठमनुं भक्त्या जपेदष्टोत्तरं शतम् | प्. ७३२) यथा विभवसम्भारैः पूजयित्वा सदाशिवम् || ९-९२ || सिद्धिश्वर महादेव सर्वसिद्धिप्रदायक | देहि मेऽभीष्टसिद्धिं त्वमेतदासनरूपतः || ९-९३ || इदं मन्त्रं समुच्चार्य उपविष्यासने ततः | यथाविधि विधायाथ गुरवे दक्षिणां ददेत् || ९-९४ || इत्यासनसंस्कारः | अथ देशाः (फेत्कारिणीये) एकलिङ्गे श्मशाने च शून्यागारे चतुष्टये | तत्रस्थः साधयेद्योगी विद्यां त्रिभवमोचिनीम् || ९-९५ || एकलिङ्गलक्षणमुक्तं तत्रैव | पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्षते | तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा || ९-९६ || श्मशानादिलक्षणमुक्तं (त्रिशक्तिरत्नाकरे) दह्यन्ते व्यसवो यत्र शवकीलकसंकुले | गृध्रगोमायुकाकाद्यैर्मांसंलुब्धैर्यदावृतम् || ९-९७ || तत् श्मशानमिति ख्यातं पिशाचगणसेवितम् | काकादिनीडसंयुक्तं कृत्तिच्छत्रादिसंयुतम् || ९-९८ || नागरैर्दूरनिर्मुक्तं साध्यसोद्वेगकारकम् | सौधसंरूढघासाट्यं शून्यागारं तदुच्यते || ९-९९ || चतुर्णां च यथा यत्र संयोगो युगपद्भवेत् | तच्चतुष्पथमित्युक्तं रजन्यामिष्टदायकम् || ९-१०० || पूर्वपूर्वमिदं शस्तं जघन्यश्चोरतोत्तरम् | उज्जटे पर्वते वाऽपि निर्जने वा चतुष्पथे || ९-१०१ || देवागारे देवशून्ये विल्वमूले नदीतटे | प्. ७३३) स्वगृहे निर्जनारामे तथा चाश्वत्थसन्निधौ || ९-१०२ || (कुमारीतन्त्रे) तद्भावे दिव्यगेहे सिन्दूरादिभिरङ्किते | खड्गशूलगदाकर्त्त्रीचामरव्यजनादिभिः || ९-१०३ || वितानधूपसंङ्कीर्णे कृष्णागुरुसुवासिते | युवतीनां सुरापीनां वेश्यानां लास्यशोभिते || ९-१०४ || शङ्खघण्टारवाकीर्णे दीपावलिविराजिते | एवम्भूते गृहे पूजा कालिकायाः सुशोभना || ९-१०५ || अथ पुरश्चरणविधिः (वीरतन्त्रे) आदौ मन्त्रस्य सिद्ध्यर्थं पुरश्चरणमाचरेत् | ततः सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् || ९-१०६ || (स्वतन्त्रतन्त्रे) दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः | ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये || ९-१०७ || तर्पयेत् तीर्थतायेन पयसा सर्पिषाऽपि वा | मधुना वा सितामिश्रतोयेन परमेश्वरीम् || ९-१०८ || देवीं चाभिषिञ्चेत् तोयैस्तर्णस्य दशांशतः | तद्दशांश हविष्यान्नैर्भोजयेद्भक्तितः प्रिये || ९-१०९ || कालीमन्त्रविदो विप्रान् दक्षिणां गुरवे ददेत् | पाशवं कठिनं कल्पं शृणु वैरं ततः प्रिये || ९-११० || रात्रौ मांसाशवैर्देवीं पूजयित्वा विधानतः | ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा || ९-१११ || जपेल्लक्षं ततो देवीं होमयेज्ज्वलितेऽनले | योनिकुण्डे स्थिते सर्पिर्मांसमद्ययुतं तथा || ९-११२ || प्. ७३४) दशांशं तर्पयेन्मद्यैर्मांसमिश्रैस्तु साधकः | तर्पणस्य दशांशेन अभिषिञ्च्य जगन्मयीम् || ९-११३ || दशांशं भोजयेत् वा साधु साधकं कालिकाप्रियम् | मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् || ९-११४ || ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये | एतत्कल्पद्वयाद्देवि मन्त्रः सिध्यति वै ध्रुवम् || ९-११५ || (कालीतन्त्रे) आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि | लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः || ९-११६ || रात्रैः ताम्बूलपूर्णास्यः शययायां लक्षमानतः | ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा || ९-११७ || (साधनसमुच्चये) नित्यकर्म दिवा कृत्वा रात्रौ पूजां समाचरेत् | पूजान्ते तु जपं कुर्यात् कारणास्वादमोदितः || ९-११८ || जपेन लक्षमात्रेण काली विद्या प्रसिध्यति | (भैरवतन्त्रे) लक्षं जपेद्धविष्याशी दिनेनैव जितेन्द्रियः || ९-११९ || ब्रह्मचर्यपरो भूत्वा पुरश्चरणकर्मणि | तथा रात्रौ जपेल्लक्षं मन्त्री मैथुनतत्परः || ९-१२० || कृत्वाऽचारक्रमेणैवं साधयेन्मन्त्रमात्मनः | विधानेनाथ सिद्धिः स्यान्मनुरेव न संशयः || ९-१२१ || (भैरवयामले) दीक्षाविधानमधिगम्य गुरोः सकाशा- ल्लब्ध्वा मनुं जपति लक्षमितं दिवा यः | प्. ७३५) रात्रौ हविष्यभुगमत्सरकामकोप- लोभाद्यचञ्चलमनाः स तु साधकेन्द्रः || ९-१२२ || लक्षं निशि स्ववनितासु रतावसाने नग्नो विमुक्तचिकुरस्त्वयि दत्तचित्तः | (महाकालस्तुतौ) वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिरतः || ९-१२३ || परं नक्तं नग्नो निधुवनविनोदेन च मनुं जनो लक्षं स स्यात् स्मरहरसमानः क्षितितले || (मेरुतन्त्रे) लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः || ९-१२४ || अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् | दशांशं होमयेदाज्यैस्तर्पयेदभिषेचयेत् || ९-१२५ || होमं च तर्पणं पूजा कर्तव्या तु विशेषतः | ततः प्रयोगान् कुर्वीत काम्यानिष्टफलाप्तये || ९-१२६ || (वीरचूडामणौ) साधनस्य विधिं वक्ष्ये संकेतपरमाद्भुतम् | येन विज्ञातमात्रेण खेचरत्वं च जायते || ९-१२७ || होमं कुर्यात् प्रयत्नेन पायसेन तिलेन वा | स्नातः शुक्लाम्बरधरो नित्यकर्मदिवाशुचिः || ९-१२८ || रात्रौ पूजां प्रकुर्वीत पञ्चमुद्राविधानतः | अनेनैव विधानेन लक्षमेकं जपेद्बुधः || ९-१२९ || स्वस्वकर्म पुरस्कृत्य सर्वसिद्धीश्वरो भवेत् | हावभावादिकं कुर्यान्महाचीनलतां हरेत् || ९-१३० || प्. ७३६) (श्रुतिसिद्धान्ततन्त्रे) तेनैव तर्पणं कुर्यात् स्नानपानादिकं सदा | दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् || ९-१३१ || कल्पद्वयं समाश्रित्य मन्त्रं सिध्यति सत्वरम् | गुरोराज्ञां समादाय स्नातः शुक्लाम्बरः शुचिः || ९-१३२ || दिवा लक्षं जपेद्विद्यां ब्रह्मचर्यं समाश्रितः | रात्रौ च देवदेवेशीमिष्ट्वा वामोपचारकैः || ९-१३३ || शक्तीः संपूज्य विधिवत् कृत्वा निधुवनोत्सवम् | कोमलाद्यासनासीनो मुक्तदेशी दिगम्बरः || ९-१३४ || ताम्बूलपरिपूर्णास्यः सिन्दूराङ्कितभालकः | रहस्यमालामादाय जपेल्लक्षमनन्यधीः || ९-१३५ || कुलमार्गप्रपन्नानां विधिरेषः प्रकीर्तितः | अत्र ब्राह्मणस्य पशोर्वा दक्षिणोपचारेण दिवकलक्षजपः | शूद्रस्य वीरस्य च रात्रौ वामोपचारेणैकलक्षणजप इति राघवभट्टादयः | तेषामयमाशयः | भैक्ष्यादिनियमाहारः सकृद्रात्रौ विधियते || ९-१३६ || दिवा चैव जपं कुर्यात् पौरश्चरणिको द्विजः | इति (फेत्कारिणी-)तन्त्रवचनात् | स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः || ९-१३७ || दिवा सर्वं प्रकर्तव्यं धर्मकामार्थसिद्धये | द्विजानामत्र सर्वेषां विधिरेषः प्रकीर्तितः || ९-१३८ || इति (मेरुतन्त्र-)वचनाच्च विप्रादिकर्तृकपुरश्चरणे | त्रिसन्ध्यं देवपूजां च त्रिसन्ध्यं जपमाचरेत् | रात्रौ मन्त्रं च मालां च स्पृशेन्नैव कदाचन ||१३९ || प्. ७३७) इति पशुभावप्रकरणीय-(भावचूडामणि-) वचनात् | पशुकर्तृकपुरश्चरणे च दिवस एव कालः | एवं च | द्विजानां चैव सर्वेषां दिवाविधिरिहोच्यते | शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् ||१४० || इति (महाकालसंहिता-) वचनोत्तराधात् | शूद्रकर्तृकपुरश्चरणे | गते तु प्रथमे यामे तृतीयप्रहरावधि | निशायामेव जप्तव्यं रात्रिशेषे जपेन्न च ||१४१ || वीरपुरश्चरणप्रकरणीय-(मुण्डमाला-) वचनाद्वीरकर्तृकपुरश्चरणे च रात्रिरेव काल इति व्यवस्थितौ | पशुर्गुरुमुखाल्लब्धां विद्यां कालघनप्रभाम् | पाशवेन तु कल्पेन लक्षं जपति साधकः ||१४२ || दिव्यगुरुमुखाल्लब्ध्वा कालिकां दिव्यरूपिणीम् | लक्षं जप्यात् सदा मन्त्रं वीरकल्पेन साधकः ||१४३ || इति (कालीकुलार्णव-)वचनात् | स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः | दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् ||१४४ || इति (कालीक्रम-)वचनाच्च सर्वेषामेकलक्षजपात्मकमेव पुरश्चरणं सिध्यतीति | अस्मिन् मते | लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः | रात्रौ ताम्बूलपूर्णास्यः शययायां लक्षमानतः ||१४५ || एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् | अयुतं होमयेद्देवि दिवारात्रिप्रभेदतः ||१४६ || इति सर्वेषां भिन्नभिन्नेति कर्त्तव्यताकसमुचितलक्षद्वयजपात्मकपुरश्चरणादिविधायक(कुमारीतन्त्र-)विरोधो दुर्वारः | प्. ७३८) (निरुत्तरतन्त्रेऽपि) लक्षद्वयपरिमित एव जप उक्तः | लक्षद्वयं जपेद्विद्यां दिवारात्रिप्रभेदतः इति | सुधार्णवकृतस्तु एवं लक्षद्वयं जप्त्वा इत्या (कुमारीतन्त्रा-)दिवचनाद्दिवारात्र्योर्भिन्नभिन्नाचारेणैकैकलक्षजपात्मकसमुचितलक्षद्वयजपः सर्वस्यैव प्राप्तः | स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः ||१४७ || दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् | इति (कालीक्रम-)वचनेनापवाद्यते | एवं वीरब्राह्मणस्यापि रात्रौ मैरेयाद्युपादानपुरःसरः | ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते || ९-१४८ || इत्यादिवाक्यविरुद्धो वीरभावप्रकरणीयब्राह्मणकर्तृकक्षीरोपादानविधायक-(भावचूडामणि-) विरुद्धश्च जपः प्राप्तः | तत्र द्विजानां चैव सर्वेषां दिवाविधिरिहेष्यते | इत्यपवादकं वाक्यम् | तेन वीरस्यापि ब्राह्मणस्य मैरेयाद्युपादानपूर्वकं दिवालक्षजपः पर्यवसन्नो भवति | एवं च राजन्यवैश्ययोरपि रात्रिमात्रजपापवादक | शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् || ९-१४९ || इत्युत्तराधम् | तेन (कुमारीकल्प-)वचनं राजन्यवैश्यविषयं पर्यवस्यति | अपवादविसयपरिहारेणोत्सर्गस्य व्यवस्तितैः पशूनां रात्रजपश्च पशुभावप्रकरणीय (भावचूडामणि-)वचनपरास्त एवेति सर्वमनवद्यम् | वस्तुतस्तु पशुर्गुरुमुखाल्लब्ध्वा इत्यादि (कालीकुलार्णव-)वचनात् पशोर्लब्धमन्त्रस्य पशुभावेन वीराल्लब्धमन्त्रस्य वीरभावेन च साधने एकलक्षजपो वैपरीत्ये च लक्षद्वयजप इत्याहुः अत्र वैपरोत्ये (कुमारीतन्त्रो-)क्तरीत्या लक्षद्वयजपस्य कर्तव्यतया वीराल्लब्धमन्त्रस्य पशुभावेन साधनासम्भवात् पशोर्लब्धमन्त्रस्य वीरभावेन साधनमेव वैपरीत्यमिति ध्येयम् अत्र कृष्णभट्टपादाः | एवं लक्षद्वयं जप्त्वा इत्यादि-(कुमारीतन्त्रा-)दिवचनात् सर्वेषामपि लक्षद्वयपरिमित एव जपः | पशुदिव्यवीराणामेकैकलक्षजपविधायक-(कालीकुलार्णवकालीक्रमा-)दिवचनं तु सिद्धमन्त्रविषयम् | प्. ७३९) अत एवोक्तं (यामलादैः) गुरुणा साधितो मन्त्रो यदि भाग्येन लभ्यते | लक्षमात्रं तदा जप्त्वा सर्वकर्णाणि साधयेत् इति ||१५० || तत्र विशेषस्तु | रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः | ततो नग्नां स्त्रियं नग्नो रमन् इत्यादि (स्वतन्त्रतन्त्रा-)दिवचनात् | ब्राह्मणो मदिरां दत्वा इत्यादिमहाकालोक्तविरुद्धमैरेयदानादिकम् | अज्ञानात् स्वस्त्रियम् गत्वा इत्यादिसामान्यपुरश्चरणप्रकरणीय (सिद्धान्तसम्प्रदाया-)दिवचनविरुद्धरात्रिजपप्राक्कालीनसुरतादिकं ब्राह्मणस्यापि प्राप्तम् | तदुभयमपि | द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् || ९-१५१ || स्वकीयां परकीयां वा सामान्यवनितां तथा | जपेयुस्ताः समाकृष्य क्षत्रविदशूद्रजातयः || ९-१५२ || इति (महाकालसंहिता)-वचनेनापवाद्यते | एवं च | स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव | स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुद्ध्यति ||१५३ || ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् | इत्यादिभिः पशुभावप्रकारेण (भावचूडामणि -)वचनैर्विप्रेतरपशोरपि तदुभयं निरस्तमेव | पशुमात्रस्य रात्रिजपनिषेधक (भावचूडामणि-)वचनं तु एतद्देवताद्यतिरिक्तदेवतोपासकपशुपरम् | रात्रावपि जपेत् तावत् प्रत्यवायोपशान्तये || ९-१५४ || इति पशुकर्तृककाम्यप्रकरणीय (श्रुतिसिद्धान्ततन्त्र)-वचनेन एतद्देवतोपासकपशो रात्रिजपस्यापि विहितत्वात् | शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् | प्. ७४०) इति वचनं तु शूद्राणां रात्रिजपे फलातिशयबोधकं न तु शूद्रकर्तृकदिवातनजपप्रतिषेधकम् | तथा च | वीरदिव्ययोर्दिवापाशवकल्पेनैकलक्षजपो वीरकल्पेन रात्रावेकलक्षजपरतत्रापि साक्षन्मैरेयाद्युपादानं शूद्रस्यैव न तु वीरस्यापि त्रैवर्णिकस्य तदुपादानम् | क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः || ९-१५५ || माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः | इति (भैरवतन्त्र-)वचनात् | अत एवोक्तं (महाकालसंहितायाम्) श्रूयते यत् फलाधिक्यं तत्रादौ मद्यदानतः || ९-१५६ || तद्धि शूद्रपरं ज्ञेयं न तु द्विजपरं प्रिये इति | पशोस्तु दक्षिणचारेण दिवैकलक्षजपस्तेनैवाचारेण रात्रावेकलक्षजप इति सर्वेषामपि लक्षद्वयजपात्मकमेव पुरश्चरणं पर्यवसन्नमिति पाहुः | मम त्वेवं प्रतिभाति | दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् || ९-१५७ || इत्यादि (श्रुतिसिद्धान्त-) तन्त्रवचनाद्दक्षिणमर्गिणः पाशवकल्प एव वाममार्गिणो वीरकल्प एवाधिकारित्वे सिद्धे पाशवकल्पेन च पुरश्चरणमुक्त्वा कुलमार्गप्रपन्नानां विधिरेष प्रकीर्तितः | इति तत्रैवोक्तत्वात् | कुलाचारक्रमेणैवं साधयेन्मन्त्रात्मनः || ९-१५८ || इति (भैरवतन्त्र-)वचनात् | दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः | इत्याचारप्रकरणीय (वाडवानल-)वचनाच्च एतत्कल्पद्वयाश्रयणे कौलिकस्यैवाधिकारः प्रतीयते | तथा च | पाशवकल्पेन दिवैकलक्षजपरूपपुरश्चरणं दक्षिणमार्गिणः | वीरकल्पेन रात्रावेकलक्षजपरूपपुरश्चरणं वाममार्गिणः | एतदुभयात्मकपुरश्चरणं कौलिकस्येति मार्गभेदेन पुरश्चरणस्यापि भेदः | प्. ७४१) द्विजानां चैव सर्वेषाम् इत्यादौ द्विजपदं पशुपरं न तु विप्रमात्रपरम् | तस्य त्रैवर्णिकवाचकत्वात् | अत एव क्षत्रियवैश्ययोः संग्रहाय सर्वेषामिति पदमुपात्तम् | उत्तरार्धे तु नोपात्तम् | अन्यथा राजन्यवैश्यविषयकाकाङ्क्षाया अनिवृत्तिप्रसङ्ग इति तु सुधार्णवकृतैवोक्तम् | पशुश्च दक्षिणमार्गो | एवमुत्तरार्धे शूद्रपदं वाममार्गिपरम् | अत एवोक्तं (मेरुतन्त्रे) शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता इति || ९-१५९ || दिव्यो गुरुमुखात् इत्यत्र दिव्यो वाऽप्यथ वा वीरः इत्यत्र च दिव्यवीरौ वाममार्गिणो अ तु कौलिकौ | कौलिकवाममार्गिभेदेन तयोः प्रत्येके द्वैविध्यस्य वक्ष्यमाणत्वात् तथा च दिवैकलक्षजपविधायकानि (कालिकुलार्णवा)- दिवचनानि दक्षिणमार्गपरतया रात्रावेकलक्षजपविधायकानि (साधनसमुच्चया-)दिवचनानि वाममार्गपरतया दिवारात्रिभेदेन समुचितलक्षद्वजपविधायकानि-)दिवचनानि वाममार्गपरदिवचनानि च कुलमार्गपरतया संगमनीयानीति सकलमकलङ्कम् | किञ्च लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः | अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् ||१६० || इत्यादावपि त्रिविधमार्गोपयुक्तं त्रिविधपुरश्चरणं सुधीभिराकलनीयम् | ननु पशूनामेतद्देवताराधने कथमधिकारः | दिव्यभावं वीरभावं विना कालीं न पूजयेत् | पूजयेन्नरकं याति दुःखं तस्य पदे पदे ||१६१ || पशुभावाश्रितो देवि यदि कालीं प्रपूजयेत् | रौरवं नरकं याति यावदाहूतसंप्लवम् ||१६२ || इति (निरुत्तरतन्त्र-)वचनेन निषेधादिति चेन्न | दिव्यभावमित्यादिवचनानां वामाचारप्रकरणीयतया वाममार्गिणां पशुभावाश्रयणनिषेधपरत्वात् | तथा च | वाममार्गी दिव्यभावं विना कालीं न पूजयेत् | पशुभावाश्रितः सन् यदि पूजयेत् तदा रौरवं नरकं यातीति तदर्थः | तदुक्तमन्यत्रापि | दिव्यभावं वीरभावं वाममार्गी समाश्रयेत् || ९-१६३ || प्. ७४२) पशोः संसर्गमात्रेण रौरवं नरकं व्रजेत् इति || तथा च | पशुभावो हि विप्राणां श्रेयस्करतो मतः || ९-१६४ || तस्मात् पाशवकल्पेन विप्रः कालीं प्रपूजयेत् | इति (श्रुतिसिद्धान्ततन्त्र-)वचनात् | विप्रो दक्षिणमार्गेण मयामायां प्रपूजयेत् ||१६५ || इत्यादि (सिद्धान्तसार-)वचनाच्च पशूनामेतद्देवतोपासनाधिकारित्वमक्षतमेव | अन्यथा | पशुर्गुरुमुखाल्लब्ध्वा इत्यादिपूर्वोक्त (कालोकुलार्णव-)वचनस्य | स्वाचारनिरतो निरतं दिवा लक्षं जयेत् पशुः | इत्यादि (काली क्रम-)वचनस्य चासङ्गत्यापत्तेः | एवं च | साधके क्षोभमापन्ने देवीक्षोभः प्रजायते || ९-१६६ || तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् | विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलाम् || ९-१६७ || यो जपेद्दक्षिणां कालीं तस्य दुःखं पदे पदे | कलावासवयोगेन तर्पयेत् कालिकां प्रिये || ९-१६८ || इत्यादि (निरुत्तरतन्त्र-)वचनानामपि वीरपरत्वमवगन्तव्यम् | वीरस्यापि ब्राह्मणस्य मैरेयाद्युपादाननिषेधाद्ब्राह्मणेतरवीरपरत्वमुक्तवचनानामिति बहवः | वस्तुतो ब्राह्मणस्य वीरादिभाव एव निषिद्धः | पशुभावो हि विप्राणाम् इत्युक्तत्वात् | ननु | मद्यं मत्स्यं तथा मांसं मुद्रां च मैथुनं ततः | ब्राह्मणो वीरभावेन कालिकायै निवेदयेत् ||१६८ || ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलयोगतः | पञ्चमैः पूजयेत् कालीं मोक्षार्थी यः कलौ भवेत् ||१६९ || प्. ७४३) इत्यादि (निरुत्तरतन्त्र-)वचनाद्ब्राह्मणस्य वीरभावे कथं नाधिकार इति चेन्मैवम् | ब्राह्मं वीर्यं तथा क्षेत्रं संस्कारा ब्रह्मसंभवाः | ब्रह्मणाचरणाद्ब्रह्मविद्याभिर्ब्राह्मणो भवेत् ||१७० || इति (मेरुतन्त्रो)-क्तेषु पञ्चसुलक्षणेषु निर्देशक्रमप्रातिलोम्येन लक्षणचतुष्टयहीनस्य शूद्रतुल्यस्यैव ब्राह्मणस्य वामाचाराधिकारितया सर्वाचारपरिभ्रष्टस्य तादृशस्यैव ब्राह्मणस्य कुलाचाराधिकारितया च तदितरस्य विप्रस्य तदुभयानधिकारित्वेन वीरभावनिषेधात् | तदुक्तं (मेरुतन्त्रे) उक्तेषु लक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते | तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारिता ||१७१ || तथा | चतुर्लक्षणहीनानां मार्गाः स्यु कौलिकादयः | तथा | सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् || ९-१७२ || कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् इति | अत एवोक्तं (भावनिर्णये) वृषलः पशुभावं तु न कदाऽपि समाश्रयेत् || ९-१७३ || ब्राह्मणो वीरभावं च मनसाऽपि न भावयेत् | इति च शब्दाद्दिव्यभावमपि | एवं च ब्राह्मणकर्तृकमदिराद्युपादानविध्यायकं वाक्यं यत्र यत्रोपलभ्यते तत्र तत्र ब्राह्मणपदस्य पूर्वोक्तलक्षणचतुष्टयहीनवीरब्राह्मणपरत्वमवधेयम् | तान्त्रिकमते तादृशोऽपि ब्राह्मणपदप्रयोगात् | अत एव तस्यैव ब्राह्मणस्येत्युक्तं (मेरुतन्त्रे) ब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे || ९-१७४ || वैश्यैर्धनप्रयोगे च शूद्रेर्नैव कदाचन | इति (कुलार्णव-)वचनं तु सदा पेयमित्यत्र सदा अपेयमित्यकारप्रलेषादपि सङ्गच्छते | एवं च कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रामण्यां सुराग्रहणनिषेधस्योक्तत्वात् | कुलाचाराधिकारिब्राह्मणस्यास्माभिरुपदर्शितत्वाच्च | सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिवेत् सुराम् || ९-१७५ || प्. ७४४) इति (समयाचार-)वचनं सङ्गच्छत एव | यत् तु | त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः | मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे ||१७६ || पूजनीया कलौ देवी केवलैरासवैः (यामल-)वचनम् | तत्र सर्ववर्णशब्दो ब्राह्मणेतरपरः | त्रययध्वरोणो भूदेवस्त्रिपदायज्ञसूत्रधृक् | न कदाऽपि स्पृशेद्बालां न च देव्यै निवेदयेत् ||१७७ || इति (महाकालसंहिता-)वचनेन ब्राह्मणस्य सर्वदा मैरेयदाननिषेधात् | इत्थं च | यत्रावश्यं विनिर्दिष्टं मदिरादानमुमुत्तमम् | ब्राह्मणस्ताम्रपात्रे तु गव्यं मद्यं प्रल्पयेत् ||१७८ || इति (भैरवतन्त्रो-)क्तोऽनुकल्पविधिरपि पूर्वोक्तवीरब्राह्मणपर एव | तदितरस्य तत्रापि नाधिकारः | ब्राह्मणस्त्वनुकल्पं न कृत्वा चाण्डालतामियात् | इति तन्त्रान्तरवचनात् | (महाकालसंहितायाम्) कदा चिदनुकल्पोक्तां दद्याद्देव्यै द्विजः सुराम् || ९-१७९ || उपमद्यानि ते वच्मि तानि देव्यवधारय | आर्द्रकस्य गुडस्यापि समभागे भवेत् सुरा || ९-१८० || ताम्रपात्रे तथा क्षौद्रं पयो गव्यं तथाऽत्र च | नारिकेलोदकं कांस्ये रीतौ तालरसोऽपि च || ९-१८१ || रसालश्च रसो रङ्गे वा पानसो द्रवः | मधूकपुटके द्राक्षा तत्पुष्पं तद्दलेऽपि च || ९-१८२ || चिञ्चारसं पद्मपत्रेऽश्वत्थे कारकपानकम् | उपमद्यानि चैतानि द्वादश स्युर्वरानने || ९-१८३ || प्. ७४५) द्विजो दित्सति चेन्मद्यं दद्यादेतानि नो सुराम् | एतान्यपि न देयानि सात्त्विकैर्धर्मभीरुभिः || ९-१८४ || मद्यं वाऽप्युपमद्यं वा मद्यनाम न गच्छति | पातित्यं किन्तु नामीभिस्तथैव पतितो भवेत् || ९-१८५ || अत्र द्विजपदं ब्राह्मणेतरद्विजपरं न तु ब्राह्मणपरम् | अत एवोक्तं तत्रैव | नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु | राजन्यवैश्ययोर्दानं न विप्रस्य कदाचन || ९-१८६ || एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् इति | एवं च | नानोपचारसम्भारैर्भक्तितः पूजिताऽपि च || ९-१८७ || विना मकारयोगेन नैव तुष्यति कालिका | इत्यादि (कुलरत्नावली-) वचनमपि शूद्रादिकर्तृकाराधनपरं बोद्धव्यं | विप्रादिकर्तृकोपासनायां न सात्त्विकैरेवोचारैस्तस्यास्तुष्टिश्रवणात् | एतत् सर्वं (महाकालसंहितायां) स्पष्टम् | तथा हि | वस्तुष्वन्येषु तिष्टत्सु देवीप्रीतिकरेषु च || ९-१८८ || किमेतया वै सुरया कदन्नमलरूपया | भूतप्रेतपिशाचार्थं पूयमिश्रं * सुरामिषम् || ९-१८९ || तद्ब्राह्मणेन नो देयं देव्यै नात्तव्यमेव च | न चैतया तुष्यति सा बहु वाऽपि घृणायते || ९-१९० || उद्विग्ना च भवेत् तस्माद्दद्यान्नैव द्विजः सुराम् | हतो वेदो हतो धर्मः परलोको हतः स्वकः ||१९१ || कुलं हतं हता जातिर्हतं ब्राह्मण्यमेव च | प्राज्ञंमन्येन मूर्खेण पिवताऽज्ञानतः सुराम् ||१९२ || प्.७४६) किं कृतं साधितं किं वा किं च वा समुपार्जितम् | यदयं हृतवान् स्वस्य सर्वं मद्योपसेवनात् || ९-१९३ || एवमेवाज्ञानमग्नो मामप्याशु हनिष्यति | उद्विग्नैव महामाया भवेत् तदवलोकनात् || ९-१९४|| कैवर्त्तपुक्कशम्लेच्छरजकान्त्यावसायिनाम् | चर्मकारनटप्रोथमेदोवेणूपजीविनाम् || ९-१९५|| सिद्धदुर्गन्धिशुष्कान्नं द्रव्यं मह्यं निवेद्य हि | सुधावत् पिवतां पुसां कथं विदसु न हि स्पृहा || ९-१९६ || अन्ये न सन्ति वस्त्वाद्या नैवेद्यकरणाय किम् | अस्पृश्यं यत् तदानीय मह्यं ददति कुअलिकाः || ९-१९७ || ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा | वेदेभ्यः कोटिगुणिता महामन्त्रास्तथैव च || ९-१९८ || ये पावयन्ति देहस्थान् मद्यैराकण्ठपूरितैः | मामपि प्लावयिष्यन्ति किमाश्चर्यं हि ते जनाः || ९-१९९ || सात्त्विकैरेव निअवेद्यैः कन्दैः पुष्पैः पलैर्दलैः | अभावे भावभक्तिभ्यां सत्यं तुष्टा भवाम्यहम् || ९-२०० || न मद्यमांसविस्तारैः प्रेतराक्षसभोजनैः | ब्राह्मणो मानसाः पुत्रा मरीच्यत्र्यङ्गिरोमुखाः || ९-२०१ || एतेषामन्वयोद्बूताः पुनरन्ये सहस्रशः | कश्यपश्चैव दुर्वासा दत्तात्रेयश्च चन्द्रमाः || ९-२०२ || बृहस्पतिर्विश्रवाश्च शक्तिर्दक्षो मृकण्डुजः | नारदः कपिलो व्यासः कालाग्निर्जमदग्निजः || ९-२०३ || दाक्षः कविरथर्वा च शाण्दिल्यो गौतमो मनुः | नाचिकेता भरद्वाजः श्वेताश्वतर एव च || ९-२०४ || प्. ७४७) और्वो दधीचिश्च्यवन ऋचीकश्च पराशरः | शातातपो लोमशश्च जैगीषव्यश्च देवलः || ९-२०५ || पैठीनसिर्वीतिहव्यः संवर्तोऽगस्तिरासुरिः | उपमन्युर्मतङ्गश्च तथा वाजस्रवाः कठः || ९-२०६ || उद्दालकश्चारुणेय आश्वलायन एव च | उत्तङ्कश्च यवक्रीतः कात्यायन ऋतश्रवाः || ९-२०७ || एते चान्ये च मुनयो वेदवेदाङ्गपारगाः | ईजानाः ऋतुभिः सर्वैः समाप्तवदक्षिणैः || ९-२०८ || गृणन्ती निगमं सर्वं कुर्वन्तो दुश्चरं तपः | ध्यायन्तो निष्कलं ब्रह्म जपन्तो मामकं मनुम् || ९-२०९ || सर्वदा सात्त्विकैरेवीपचारैः पूजयन्ति माम् | सदा मययर्पितहृदः सदा सद्भावभाविताः || ९-२१० || सदा मच्छरणं प्राप्ताः शान्ताः दान्ता जितेन्द्रियाः | वायवाहारा निराहारा ऊर्ध्वरेतस एव च || ९-२११ || तपोबलाद्भ्रंसयितुं शक्रमप्यलमीदृशाः | न निवेदितवन्तस्ते किमर्थं मदिरां मयि || ९-२१२ || विज्ञायास्यां महादोषं निन्द्यतां पापहेतुताम् | गर्हाकरत्वं पातित्यकारित्वं पूतितामपि || ९-२१३ || परलोकविनाशित्वं तथा नरकहेतुताम् | विप्रत्वजातिहन्तृत्वं म्लेच्छतुल्यत्वकारिताम् || ९-२१४ || अतस्तत्यजुरेवैनां संगृह्य श्रुतिपद्धतिम् | यद्यस्यां दोषराहित्यं पुण्यकारित्वमेव च || ९-२१५ || स्यात् तदा ते कथं मह्यं ददुर्नैव सुरां द्विजाः | धर्मव्यवस्थां ज्ञात्वेत्थमन्येऽपि द्विजजातयः || ९-२१६ || प्. ७४८) निवेदयिष्यन्ति नैव मह्यं मद्यं कथं चन | बोधिता अपि शास्त्रार्थैरनादृत्य वचो मम || ९-२१७ || मोहाद्व्यवहरिष्यन्ति लोभोपहतचेतसः | ये के चित् तां धर्मराजः शासिष्यति न संशयः || ९-२१८ || तीव्रैर्दण्डैर्महाघोरनरकादिनिपतनैः | इति सत्यं पुरा मह्यं प्रोवाच जगदम्बिका || ९-२१९ || तत्राहमवदं देवि देवीवक्क्रोत्थिताक्षरैः | अत परं श्रुत्यदितं धर्ममद्वाक्यमेव च || ९-२२० || देव्याज्ञां च समुल्लाङ्घ्य ये दास्यन्ति सुरां द्विजाः | तेषां शास्त्री महामाया श्रोतव्यं शृण्वतः परम् || ९-२२१ || द्विजेतरः संप्रदद्याद्देव्यै मद्यं सदा रहः | स्वयं महाप्रसादं च युञ्जीत प्रत्यहं प्रिये || ९-२२२ || मांसानि दग्धमीना/श्चसर्वदैव निवेदयेत् | शुद्रादीनामथैतेषां सद्यस्तुष्यति कालिका || ९-२२३ || द्विजानां यावती निन्दा कथिता मद्यदानतः | शूद्राणां तावती ज्ञेया प्रशस्तिर्वरवर्णिनि || ९-२२४ || अतः शूद्रः प्रयत्नेन देव्यै मद्यं निवेदयेत् | दीर्घायुष्ट्वमरोगित्वं वाग्मित्वं राजमान्यताम् || ९-२२५ || पुत्रक्षेत्रकलत्रार्थपरिपूर्णत्वमेव च | अन्ते स्वर्गादिगमनं शूद्रः प्राप्नोति मद्यतः || ९-२२६ || श्रूयते यत् फलाधिक्यं तन्त्रादौ मद्यदानतः | तद्धि शूद्रपरं ज्ञेयं नैव द्विजपरं प्रिये || ९-२२७ || स्वयं यदन्नो भवति तदन्ना तस्य देवता | पितरश्च तदन्नाः स्युरित्येवं वैदिकी स्थितिः || ९-२२८ || प्. ७४९) प्राणिजातिषु सर्वासु मानुष्यमतिदुर्लभम् | मानुष्येष्वपि देहेषु शूद्रः श्रेष्ठोऽन्त्यजातितः || ९-२२९ || शूद्राच्छतगुणो वैश्यो वेश्यात् साहस्रिको नृपः | नृपात् कोटिगुणो विप्रो ज्ञेयः स्वाध्यायतत्परः || ९-२३० || अत एव हि सर्गादौ जगत् सृष्ट्वा चराचरम् | यद्यत् सारतरं वस्तु तद्ब्रह्माऽदाद्द्विजातये || ९-२३१ || वेदाः षडङ्गशास्त्राणि क्षमा सत्यं तपो धृतिः | शौचं दान्तं दया धर्मो विवेकः कलभाषिता || ९-२३२ || त्यागः शान्तिश्च मर्यादा स्वाध्यायोऽध्यात्मचिन्तनम् | यज्ञाः सर्वहविर्गव्यं पयो मेध्यान्नमेव च || ९-२३३ || एतेषां विपरीतानि ददौ शूद्रेभ्य एव च | त्रयाणामपि वर्णानां दासभावमदात् ततः || ९-२३४ || सर्वशिल्पोपजीवित्वं मन्त्रराहित्यमेव च | अनाशीस्त्वमशौचत्वमपाङ्क्तेयत्वमेव च || ९-२३५ || अस्पृश्यत्वमपाठित्वमसम्हाष्यत्वमेव च | मद्यमांसोपयोगित्वं तद्विक्रेतृत्वमेव च || ९-२३६ || देवेभ्यस्तत्प्रदातृत्वं तदुत्पादित्वमेव च | म्लेच्छादिदेशगमनं तत्संपर्कित्वमेव च || ९-२३७ || महासाहसकारित्वं वेदाश्रोतृत्वमेव च | एतस्मात् कारणाद्देवि वेदमर्यादयाऽनया || ९-२३८ || ब्रवीमि मदिरादानेष्वेषामेवाधिकारिता | दोषोऽणुरपि नैतेषां देवेभ्यो मद्यदानतः || ९-२३९ || फलातिरेकता वाऽपि श्रूयते निगमादिषु | अतः प्रयत्नतः शूद्रो दद्याद्देव्यै परिश्रुतम् || ९-२४० || प्. ७५०) तामेव वर्जयेद्विप्रः सदा प्राणात्ययेऽपि हि | निशम्यापीदृशान् दोषानथ चेद्दातुमिच्छति || ९-२४१ || स च सा च विजानाति धर्मं वा पापमेव वा | (अगस्त्यसंहितायामपि) आवां तु पिशितै रक्तैः सुरयाऽपि सुरेश्वरि || ९-२४२ || वर्णाश्रमोचितं धर्ममविचार्य यजन्ति ये | भूतप्रेपिशाचास्ते भवन्ति ब्रह्मराक्षसाः || ९-२४३ || (मेरुतन्त्रे) अमृतेन सहोत्पन्नं स्थाने मद्यं सुधायते | विषेणापि सहोत्पन्नं तेन मद्यं विषायते || ९-२४४ || तथा | गौडी पैष्ठी च माध्वी च सुरा इत्यभिधीयते | सा क्षत्रवैश्योर्नेष्टा ब्राह्मणस्य तु का कथा इति || ९-२४५ || अथ विद्याभेदः (कालीतन्त्रे) | कलीहृदयाविद्या च सिद्धिविद्या महोदया | पुरा येन यथा जप्त्वा सिद्धिमायुर्दिवौकसः || ९-२४६ || कामाक्षरं वह्निसंस्थामिन्दिरानादविन्दुभिः | मन्त्रराजमिदं ख्यातं दुर्लभं पापचेतसाम् || ९-२४७ || त्रिगुणा तु विशेषेण सर्वशास्त्रप्रबोधिका | अनया सदृशी विद्या न हि सारस्वतप्रदा || ९-२४८ || आकर्षणवशीकारमारणोच्चाटनं तथा | शान्तिपुष्ट्यादिकर्माणि साधयेदनयाऽचिरात् इत्यादि || ९-२४९ || तथा | ध्यानपूजादिकं सर्वं साधनं च पुरस्क्रिया | अनिरुद्धसरस्वत्याः समानं सर्वमीरितम् || ९-२५० || प्. ७५१) (मेरौ) जपपूजादिकं प्राग्वद्दिशेषाद्भोगमोक्षदम् | (श्रुतिसिद्धान्ते) स्वबीजं पूर्वमुद्धृत्य कालिके वह्निगोहिनी || ९-२५१ || एषा षडक्षरी विद्या भुक्तिमुक्तिफलप्रदा | (मेरुतन्त्रे) न्यासपूजादिकं प्राग्वद्विशेषाद्भोगदो मतः || ९-२५२ || तत्रैव | क्री/ हू/ ह्री/ त्र्यक्षरात्माऽयं मन्त्रः काल्याः प्रकीर्तितः | प्राग्वज्जपादिकं चास्य विशेषात् सन्ततिप्रदः || ९-२५३ || कालीबीजं च हू/ मायां हु/ फट् पञ्चक्षरो मनुः | न्यासध्यानादिकं प्राग्वद्विशेषाद्भूतनाशनम् || ९-२५४ || क्री/ हू/ ह्री/ हु/ फडत्युक्त्वा स्वाहान्तः सप्तवर्णकः | मायाद्वन्द्वं कूर्चयुग्ममैन्द्रान्तं मदनत्रयम् || ९-२५५ || मायाविन्द्विश्वरयुतं दक्षिणे कालिके पदम् | संहारक्रमयोगेन बीजसप्तकमुद्धरेत् || ९-२५६ || एकविंशत्यक्षरात्मा ताराद्यः कालिकामनुः | (मेरुतन्त्रेऽपि) अथान्यं संप्रवक्ष्यामि एकविंशतिवर्णकम् || ९-२५७ || ओं ह्री/ ह्री/ हू/ शक्तियुग्ममस्य न्यासादि पूर्ववत् | विल्वमूले शवारूढो वटमूले तथैव च || ९-२५८ || लक्षं मनुमिमं जप्त्वा सर्वसिद्धीश्वरो भवेत् | पञ्चमं प्रतिनिध्यायं दक्षिणाम्नायसिद्धिदम् || ९-२५९ || तथा | दक्षिणे कालिके स्वाहा मनुरष्टाक्षरः परः | प्. ७५२) न्यासः प्राग्वद्ध्यानमन्त्रशवरूपशिवस्थिताम् || ९-२६० || महाकालरतासक्तां शिवाभिर्दिक्षु वेष्टिताम् | तथा | अथातः संप्रवक्ष्यामि शक्रवर्णमनूत्तमम् || ९-२६१ || क्री/ हू/ ह्री/ दक्षिणे कालिके क्री/ हु/ ह्री/ दहनप्रिया | यजनं पूर्ववत् प्रोक्तं न्यासध्यानजपादिकम् || ९-२६२ || विशेषान्नृसुरादीनामयमाकर्षणक्षमः | हू/ हू/ त्रिः क्री/ द्विश्च लज्जां स्वाहेत्याकृतिवर्णवान् || ९-२६३ || न्यासपूजादिकं प्राग्वद्विशेषेण वशीकृतिः | जपादेतस्य भवति सर्वमन्यत् तु पूर्वत् || ९-२६४ || क्री/ क्री/ क्री/ हू/ समुच्चार्य हू/ लज्जाद्वयमुच्चरेत् | दक्षिणे कालिके स्वाहा तिथिवर्णः प्रकीर्तितः || ९-२६५ || मन्त्रराजोऽयमाख्यातः पूर्ववत् स्यादुपासना | विशेषाद्गतराज्यानामयं राज्यप्रदो भवेत् || ९-२६६ || अथैतद्गात्र्याः पुरश्चरणमुक्तं (सिद्धान्तसंग्रहे) एवं ध्यात्वा महाकलीं जपेल्लक्षचतुष्टयम् | रक्ताक्तैर्विल्वपत्रैश्च तद्दशांशेन होमयेत् इति || ९-२६७ || अथ महाकालमन्त्रः (शक्तिसङ्गमे ) श्रीशिव उवाच | महाकालं समारभ्य नित्यानां निर्णयं शृणु | महाकाली महाभीमः प्रलयानलसन्निभः || ९-२६८ || कालीमायासमुद्भूतः कालीमानसिकः शिवः | महाकालः परः शम्भुः परातीतगुणाकरः || ९-२६९ || तस्य मन्त्रं प्रवक्ष्यामि येन रक्षेज्जगत्त्रयम् | कूर्चयुगमं महाकाल प्रसीदेति पदद्वयम् || ९-२७० || लज्जायुग्मं वह्निजायासंयुक्तं षोडशार्णकः | षोडशार्णा यथा मुख्याः सर्वशीचक्रमण्डले || ९-२७१ || तथाऽयं सर्वकालीषु महाकालः प्रकीर्तितः | कालिकाऽस्य ऋषिः प्रिक्तो विराट् छन्दः प्रकीर्तितम् || ९-२७२ || देवता तु महाकालः सर्वरूपी निरञ्जनः | कूर्चबीजं तथा माया शक्तिरस्य प्रकीर्तिता || ९-२७३ || स्वाहाकीलकमुद्दिष्टं काल्यर्थे विनियोगता | मायया तु षडङ्गानि ध्यानं शृणु वरानने || ९-२७४ || अथ ध्यानम् | कोटिकालानलाभासं चतुर्बाहुं त्रिलोचनम् | श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् || ९-२७५ || पञ्चप्रेतस्थितं देवं त्रिशूलं डमरूं तथा | खड्गं च खर्परं चैव वामदक्षिणयोगतः || ९-२७६ || विभ्रतं सुन्दरं देहं श्मशानंभस्मभूषितम् | नानाशवैः क्रीडमानं कालिकां हृदयस्थिताम् || ९-२७७ || लालयन्तं रतासक्तं घोरचुम्बनतत्परम् | गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् || ९-२७८ || जटापटलशोभाढ्यं सर्वशून्यालये स्थितम् | सर्वशून्य मुण्डभूषं प्रसन्नवदनं शिवम् || ९-२७९ || भावयेदिति शेषः | अथ पुरश्चरणम् | एवं पूजा विधायाथ लक्षसङ्ख्य जपेच्छिवे | प्. ७५४) तद्दशांशेन हवनं करवीरप्रसूनकैः || ९-२८० || स्वयम्भूवाऽक्तैर्बीजाक्तैः कारणाक्तैश्च वा हुनेत् | नित्यं नैमित्तिकं काम्यं कालीवत् सर्वमाचरेत् || ९-२८१ || अथ महाकालीमन्त्रो (मेरुतत्रे) अथातः संप्रवक्ष्यामि महाकालीमहामनुम् | ओं क्ष/ क्ष्रे/ क्ष्रे/ क्रे/ ततः क्रे/ च पशुं गृहाण चोच्चरेत् || ९-२८२ || हु/ फट् स्वाहा शक्रवर्णः सिद्धमन्त्र उदाहृतः | नास्य मुन्यादिकं न्यासः सिद्धमन्त्रस्य विद्यते || ९-२८३ || कृष्णतोयेन संपूर्णे घटे चाहूय कालिकाम् | ब्राह्म्यादिभिश्च दूतीभिर्युक्तां संपूज्य भक्तः || ९-२८४ || अष्टमीं चण्डिकां त्वत्र देवीं ध्यायेद्गृहे पुनः | ध्यान यथा | पञ्चवक्क्रां महारौद्रीं प्रतिवक्रं त्रिलोचनाम् || ९-२८५ || शक्तिशूलधनुर्बाणखेटखड्गवराभयान् | दक्षादक्षभुजैर्देवीं बिभ्राणां भोगिबूषणाम् || ९-२८६ || अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं वामाचारेण साधकः | पिचुमर्दस्य समिधो घृताक्ता जुहुयात् ततः || ९-२८७ || रज्ज्वा प्रज्वलिते वह्नौ तर्पणादि ततश्चरेत् | एवं सिद्धमनुर्मन्त्री मारयेदचिराद्रिपुन् || ९-२८८ || अथ भद्रकालीमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि भद्रकाल्याः परं मनुम् | हौ/ कालीति महाकाली द्विः किणिः फड्वसुप्रिया || ९-२८९ || चतुर्दशाक्षरी मन्त्रो भद्रकाल्या उदाहृतः | पदैः षद्भिः षडङ्गानि जातियुक्तानि कल्पयेत् || ९-२९० || प्. ७५५) अथ ध्यानम् | ध्यातव्येयं सदा देवी भद्रकाली भयावहा | क्षुत्क्षामा कोटराक्षी च नाहं तृप्तेति वादिनि || ९-२९१ || मसीमुखी मुक्तकेशी जगद्ग्रसनलालसा | जम्बूफलाभदशना लोलजिह्वा भयङ्करी || ९-२९२ || शूलं कपालं च शृणिं ज्वलत्पाशं च बिभ्रती | अशेषं कालिकातन्त्रे यत् प्रोक्तं तदिहापि च || ९-२९३ || जपन्यासप्रयोगाद्यं यो विशेषः स उच्यते | आराध्य प्रजपेन्मन्त्रं नित्यमष्टोत्तरं शतम् || ९-२९४ || रिष्टमाला विधातव्या जपार्थं सिद्धिमिच्छता | इयं देवी महादेवी शत्रुनिग्रहकारिणी || ९-२९५ || यथेष्टचेष्टया चिन्त्या धर्मकामार्थसिद्धिदा | अथ मन्त्रान्तरं वक्ष्ये भद्रकाल्याः सुगोपितम् || ९-२९६ || गृध्रकर्णि विरुपाक्षि लम्बस्तनि महोदरि | उत्पादयोत्पारयेति द्विधोपरि पदं भवेत् || ९-२९७ || द्विधा वेत्ति पदं हु/ फट् स्वाहा सप्तग्निवर्णकः | पिप्पलादो मुनिः प्रोक्तो निवृच्छन्द उदाहृतम् || ९-२९८ || भद्रकाली देवता स्याद्द्विरुत्पादय हृत् स्मृतम् | उपरिभ्यां शिरः प्रोक्तं वेत्तिभ्यां तु शिखा स्मृता || ९-२९९ || हु/ फड्भ्यां कवचं स्वाहयाऽस्त्रमुदीरितम् | अथ ध्यानम् | अतिरौद्रा महादंष्ट्रा भृशं दीर्घा कृशोदरी || ९-३०० || सुवृत्तनयना शूरा दीर्घघोणा मदातुरा | स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा || ९-३०१ || प्. ७५६) भृगुद्यघटसंदीप्ता महारदनभीषणा | दंष्ट्रोष्ठकोपताम्राक्षी रक्तदीर्घशिरोरुहा || ९-३०२ || त्रिशूलव्यग्रदोर्दण्डा नरकीटपलाशिनी | अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया || ९-३०३ || शिरोमाला भूषिताङ्गी पिवन्ती शोणितासवम् | नृत्यन्ति च हसन्ति च पिशाचगणसेविता || ९-३०४ || पिशाचस्कन्धमारूह्य भ्रमन्ती वसुधातलम् | शङ्करस्य मुखोत्पन्ना योगिनी योगवल्लभा || ९-३०५ || इत्थम्भूता भद्रकाली मातृभिः परिवारिता | अथ पुरश्चरणम् | ध्यात्वा सम्यक् समाराध्य ततो मन्त्रं जपेद्बुधः || ९-३०६ || अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः | घृतहोमस्तथा कार्यस्तर्पणादि समाचरेत् || ९-३०७ || धूमावत्यां च यत् प्रोक्तमनयाऽपि तदाचरेत् | अथ सिद्धिकालीमन्त्रः (कालीतन्त्रे) अथ वक्ष्ये महादेवि सिद्धविद्यां महोदयाम् || ९-३०८ || ईश्वरेण पुरा प्रोक्ता देवीं हृदीशसंज्ञिताम् | प्रणवं पूर्वसुच्चार्य हृल्लेखाबीजमुद्धरेत् || ९-३०९ || ठद्वयेन समायुक्तं विद्या राज्ञी प्रकीर्तिता | भैरवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् || ९-३१० || सिद्धिकाली ब्रह्मरूपा देवता भुवनेश्वरी | रतीबीजं बीजमस्या हृल्लेखा शक्तिरुच्यते || ९-३११ || हृल्लेखया षड्दीर्घेण प्रणवाद्येन कल्पयेत् | प्. ७५७) अङ्गषट्कं ततो न्यस्य ध्यात्वा देवीं शिवो भवेत् || ९-३१२ || ध्यानं यथा | खड्गोद्भिन्नेन्दुविम्बस्रवदमृतरसाप्लाविताङ्गो त्रिनेत्रा सव्ये पाणौ कपालाद्गलदमृतमयं मुक्तकेशी पिवन्ती | दिग्वस्त्रा बद्धकाञ्ची मणिमयमुकुटाद्यैर्युता दीप्तजिह्वा पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीधपादा || ९-३१३ || अथ पुरश्चरणम् | जपेद्द्विंशतिसाहस्रं सहस्रैरेव संयुतैः | होमयेत् तद्दशांशेन मृदुपुष्पेण मन्त्रवित् || ९-३१४ || अथ श्मशानकालीमन्त्रः (स्वतन्त्रतन्त्रे) श्मशानकालिकामन्त्रं शृणुष्वावहिता शिवे | वाणीं मायां तओ लक्ष्मीं कामबीजं ततः परम् || ९-३१५ || कालिके संपुटत्वेन चतुष्कं बीजमालिखेत् | एकादशार्णा देवेशि चतुर्वर्गफलप्रदा || ९-३१६ || ऋषिर्भृगुर्निवृच्छन्दो देवता कालिका परा | श्मशानाद्या च वाङ्माया बीजं शक्तिर्महेश्वरि || ९-३१७ || कीलकं कामाबीजं तम्इति | चतुश्चतुस्त्रिचतुस्तु विद्यामन्त्रैः षडङ्गकम् || ९-३१८ || विन्यस्य ध्यानं कुर्वीत कालिकायां समाहितः | अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम् || ९-३१९ || त्रिनेत्रां मुक्तकेशीं च शुष्कमांसातिभीषणाम् | पिङ्गाक्षीं वामहस्तेन मध्यपूर्णं कपालकम् || ९-३२० || सद्यः कृत्तशिरो दक्षहस्तेन दधतीं शिवाम् | स्मितवक्त्रां सदा वाममांसतर्पणतत्पराम् || ९-३२१ || नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदा शवैः | ७५८) एवं ध्यायेदिति शेषः | अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन इति ||३२२ || अथ सिद्धिलक्ष्मीमन्त्रः (कालानलतन्त्रे) ओं ह्री/ हु/ हा/ फ्रे/ क्षो/ क्रो/ नमः | श्रुतिश्चटी च दोग्ध्री च शोषिणी शिरया सह || ९-३२३ || दोला तदनु मालूरः सामरश्च निरत्ययः | शेषे दण्डः परिज्ञेय इयमुक्ता नवाक्षरी || ९-३२४ || नैतस्य सदृशो मन्त्रस्त्रिषु लोकेषु विद्यते | अथ मन्त्रान्तरण् तत्रैव | अथोद्धरिष्ये देवेशीं षोडशार्णां मनूत्तमाम् || ९-३२५ || यामेकवारमुच्चार्य मुच्यते जन्मसंकटात् | ह्री/ हू/ फ्रे/ छ्री/ ह्सौ/ः ह्री/ क्रो/ फ्रे/ स्त्री/ श्री/ हो/ जू/ ब्लौ/ व्री/ स्वाहा || ९-३२६ || चटी दोग्ध्री शिरोसिद्धिभूमर्द्धिः प्रोत एव च | फली पुनः शिरो रेतः प्रातरान्त्रे ततः परम् || ९-३२७ || पुरश्चरणहोमाः स्युर्मलिनाह्रदपर्यटाः | मन्त्रीऽयमपि सर्वेषां मनूनामुत्तमः स्मृतः || ९-३२८ || अनयोर्-ऋष्यादिन्यास उक्तस्तत्रैव | श्रीसिद्धिलक्ष्मीमन्त्रस्य ऋषीर्नारद ईरितः | गायत्री छन्द आख्यातं सिद्धिलक्ष्मीश्च देवता || ९-३२९ || चटीबीजं तथाऽख्यातं समीहा शक्तिरिष्यते | प्रबन्धः कीलकं विद्यात् पुरुषार्थचतुष्टये || ९-३३० || विनियोगोऽस्य मन्त्रस्य कथितस्त्वयि नारद | अथ कराङ्गन्यासौ | षड्दीर्घभाजा बीजेन कराङ्गन्यासमीरितम् || ९-३३१ || प्. ७५९) इदानीं ते सुगमेन कथयामि द्विजर्षभ | श्रुतिपूर्वं बीजमुक्त्वा अङ्गुष्ठाभ्यां पदं ततः || ९-३३२ || शेषे दण्डः समाख्यातः पुनर्बीजद्वयं वदेत् | तर्जनीभ्यां यदा तत्र दण्ड इत्यभिधीयते || ९-३३३ || पुनर्बीजद्वयं यत्र भ्यामन्त्रा मध्यमा ततः | दण्डः शेषे च विज्ञेयः पुनस्तद्बीजमेव च || ९-३३४ || अनामिका भ्यामन्ता च ततो दण्डः प्रकीर्तितः | बीजद्वयात् कनिष्ठाभ्यां पदाद्दण्डबीजं स्मृतम् || ९-३३५ || बीजद्वयं करतलपृष्ठाभ्यां दण्ड इत्यपि | इति करन्यासं कृत्वा अङ्गन्यासं चरेत् सुधीः || ९-३३६ || क्रमेणानेन वै ब्रह्मन् संभवन्यासमाचरेत् | श्रुतिचट्यौ समाभाष्य हृदयाय पदं ततः || ९-३३७ || दण्डस्तदनु विप्रर्षे बीजद्वयं तथा परम् | शिरसे पदतश्चैव दोग्ध्रीबीजं स्मृतं तदा || ९-३३८ || तद्बीजद्वयमुच्चार्य शिखायै पदमेव च | इन्द्रबीजं समाख्यातं पुनर्बीजद्वयं वदेत् || ९-३३९ || कवचाय पदाच्चैव दोग्ध्रीबीजं हि नारद | बीजे तथा समुच्चार्य नेत्रत्रयाय वौषडिति || ९-३४० || षडङ्गन्यासमित्युक्तमर्चयां कायशोधनम् | अथ ध्यानम् | ध्यानमस्याः प्रवक्ष्यामि तन्निबोध अजात्मज || ९-३४१ || श्वेतां श्वतशवारूढां नृमुण्डकृतकुण्डलाम् | पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् || ९-३४२ || व्याघ्रचर्मावृतकटीं शुष्कावयभूषिताम् | प्. ७६०) आबद्धयोगपट्टां च नरास्थिकृतभूषणाम् || ९-३४३ || हस्तैः षोडशभिर्दीप्तां विस्रस्तघनकुन्तलाम् | खड्गं बाणं तथा शूलं चक्रं शक्तिं गदामपि || ९-३४३ || जपमालां कर्तृकां च बिभ्रतीं दक्षिणैर्भुजैः | फलकं कार्मुकं नागपाशं परशुमेव च || ९-३४४ || डमरुं फेरुपोतं च नरमुण्डकपालकम् | उद्वहन्तीं करैर्वामैर्दीघसर्वाङ्गभूषणाम् || ९-३४५ || एत ध्यानं नवाक्षर्याः | षोडसार्णविद्यायास्तु ध्यानान्तरमुक्तं तत्रैव | महातेजोमयी लक्ष्मि रश्मिकोट्युयुतप्रभा | पञ्चवक्त्रा दशभुजा त्रिपञ्चनयनैर्युता ||| ९-३४६ || श्वेतवर्णनिभा देवी महाप्रेतोपरिस्थिता | मातृकाष्टकमध्यस्था सिद्धियोगनिषेविता || ९-३४७ || दारितास्या लेलिहाना ज्वालालुप्तजगत्त्रयी | उच्छ्रासोच्छ्वासवेगेन चालयन् कुलपर्वतान् || ९-३४८ || क्व चिद्देशे क्वचित् कूटे क्वचित् संहरते क्षणात् | क्वचित् सृजेत् पालयच्च स्वतन्त्राद्वा प्रवर्तते || ९-३४९ || गोनासाभरणैर्युक्ता उरगेन्द्रविभूषिता | पाशाङ्कुशधरा देवी वराभयकराम्बुजा ||३५० || सव्यहस्ते धृतं खड्गं त्रैलोक्यक्षोभकारकम् | वामे खट्वाङ्गमत्युग्र दक्षिणे शूलमुत्तमम् ||३५१ || वामे तु कलशं दिव्यं महारत्नप्रपूरितम् | एषा प्रत्यङ्गिरा देवी उन्मत्ता व्योमदेहजा ||३५२ || एकात्मा नैकभेदेन विश्वं व्याप्य व्यवस्थिता | प्रत्यङ्गिरा महादेवी सिद्धिलक्ष्मीर्जयप्रदा ||३५३ || प्. ७६१) (पद्धतौ) खट्वाङ्गाङ्कुशपाशशूलवरकृद्भीत्राणपात्र शिरः कुम्भासिज्वलितोद्भटैर्भुजवरैराभासमानां शिवाम् | रुद्रस्कन्धगतां शरच्छशिनिभां पञ्चाननां सुन्दरीं पञ्चत्र्यक्षविराजितां भगवतीं श्रीसिद्धिलक्ष्मीं भजे ||३५४ || उक्तयोः श्रीसिद्धिलक्ष्मीमन्त्रयोः पुरश्चरणं तु वक्ष्यमाण-(महाकालसंहितो-)क्तगुह्यापुरश्चरणवज्ज्ञेयम् | तदुक्तं (कालानलतन्त्रे) यथा कामकला काली गुह्यकाली यथा द्विज | यथा छिन्ना यथा तारा वज्रकापलिनी यथा || ९-३५५ || सिद्धिलक्ष्मीस्तथा देवी विशेषो नास्ति कश्चन | एकैव पूजा विज्ञेया प्रयोगाश्च तथा द्विज || ९-३५६ || अत्रानुक्तं हि यत् किञ्चित् संहितायां च तद्बिदुः | ग्रन्थगौरवभीत्या च नोक्तमन्यत् त्वयि द्विज || ९-३५७ || संक्षेपेण सिद्धिलक्ष्म्यास्त्वयि सर्वं प्रकीर्तितम् | विस्तृतं च महाकालसंहितायां दिनो?त्तम || ९-३५८ || जपः पुरश्चरणं च आचारश्च * प नारद | महाकालसंहितायां कामकलाभ्यासे प्रकीर्तितः || ९-३५९ || तेनैव वर्त्मना विप्र सिद्धिलक्ष्म्याऽखिलं * विदुः | पौनरुक्त्यभयेनात्र निगदामि न नारद || ९-३६० || अथ गुह्यकालीमन्त्रः (महाकालसंहितायाम्) गुह्यकाल्यास्तु मन्त्राणामष्टादश भिदाः प्रिये | सर्वागमेषु गोप्यास्ते न प्रकाश्याः कदा चन || ९-३६१ || मन्त्राणां भेदतो ध्यानभेदाः स्युर्विविधास्तथा | प्. ७६२) यन्त्रभेदा अपि तथा वाहनानां भिदास्तथा || ९-३६२ || यो मन्त्रो येन चाभ्यस्तस्तत्राम्नायः प्रकीर्तितः | ब्रह्मणा च वशिष्ठेन रामेण च तथा प्रिये || ९-३६३ || हिरण्याक्षाउजेनापि कुवेरेण यमेन च | भरतेन दशास्येन वलिना वासवेन च || ९-३६४ || विष्णुनाऽन्यैश्च देवैश्च दैत्येन्द्रैर्विविधैरपि | उपासिता सिद्धिहेतोर्लब्ध्वा सिद्धिश्च भूयसी || ९-३६५ || शतवक्त्राऽशीतिवक्त्रा षष्टिवक्त्रा तथैव च | षट्त्रिंशदानना विंशदानना परिकीर्तिता || ९-३६६ || तथा विंशतिवक्त्रा च दशवक्त्रा च कालिका | पञ्चवक्त्रा त्रिवक्त्रा च द्विवक्त्रा चैकवक्त्रिका || ९-३६७ || या गुह्यकाली तन्मध्ये भरतोपासिता प्रिये | दशवक्त्रा षोडशार्णा चतुष्पञ्चशद्दोर्युता || ९-३६८ || सर्वासां गुह्यकालीनां सा वै मुख्यतमा स्मृता | तामेवादौ व्याहरामि व्याहरिष्ये ततः पराः || ९-३६९ || षोडशाक्षरको म *? कीलितश्चाप्यकीलितः | तत्रादौ कीलितं वच्मि ततो वक्ष्याम्यकीलितम् || ९-३७० || कीलकाकीलकध्यानमेकमेव हि पार्वति | मन्त्रोद्धारमाह | आदौ वेदादिमुद्धृत्य ततः पस्य द्वितीयकम् || ९-३७१ || एकारयुक्तं तदधो रेफं विन्दुं च योजयेत् | सिद्धिशब्दं ततः प्रोच्य करालिं च विनिर्दिशेत् || ९-३७२ || लज्जां क्रोधमनुस्मृत्य कफोणिं वाममुद्धरेत् | वामदृग्विन्द्वधोवह्नियुक्तं कुर्यात् ततश्च तम् || ९-३७३ || प्. ७६३) वधूबीजं पुनर्मन्त्रद्वितीयं बीजमुद्धरेत् | हृन्मन्त्रो वह्निजाया च मन्त्रोऽयं षोडशाक्षरः || ९- ३७४ || प्रकारान्तरमाह | अथ वा कामिनीबीजात् पूर्वं क्रोधमनुस्मरेत् | इयं हि भरतोपास्या कीलिताऽपि च शापतः || ९-३७५ || भरतोपासिता षोडशाक्षरी द्विविधा | तत्राद्या कीलिता द्वितीया त्वकीलितेत्यर्थः | सप्तदशाक्षरीमाह | रामोपास्यामतो वक्ष्येऽक्षरसप्तदशान्विताम् | साऽपि हारीतमुनिना कीलिता तपसो बलात् || ९-३७६ || आदौ तस्यैव मन्त्रस्य चतुरोऽर्णान् समुद्धरेत् | द्वितीयबीजोपरि च हसखं विनियोजयेत् || ९-३७७ || एवं तु पञ्चमं बीजं षष्ठं खेन च वर्जितम् | सप्तां हसहीनं च करालि तदनन्तरम् || ९-३७८ || त्रयोदशैकादशके स्थाने सप्तममक्षरम् | पञ्चमं द्वादशस्थाने द्वितीयं च चतुर्दशे || ९-३७९ || आद्यं पञ्चदशे कुर्याद्वह्निजया * *? मनुः | हारीतोपासिता ह्येषा च्यवनोपासितां शृणु || ९-३८० || षष्ठपञ्चमयोरस्य व्यत्ययः समुदीरितः | एतावतैव भवति च्यावनी सुमहाफला || ९-३८१ || अत्रा रामोपासिता सप्तदशाक्षरी द्विधा हारीतोपासिता च्यवनोपासिता चेति | तयोर्मध्ये हारीतोपासितैव कीलिता च्यवनोपासिता तु न कीलितेति बोध्यम् | ऋष्यादिकमाह | षोडशाक्षरयोर्मन्त्रभेदयोरधुना ब्रुवे | ऋष्यादिकं ततः सप्तदश्याश्च कथयामि ते || ९-३८२ || अथर्वा ऋषिरुद्दिष्टो जगती छन्द उच्यते | प्. ७६४) देवता गुह्यकाली च द्वितीयार्णं तु कीलकम् || ९-३८३ || शक्तिस्तु दशमं बीजं द्वितीये नवमं भवेत् | पुरुषार्थचतुष्कस्य सिद्धये कामनास्थितिः || ९-३८४ || सप्तदश्यास्तु मन्त्रस्य परमेष्ठी ऋषिर्मतः | छन्दश्च सप्रतिष्ठाख्यं देवता गुह्यकालिका || ९-३८५ || पञ्चमार्णं कीलकं स्यात् सप्तमं शक्तिरुच्यते | तदेव विपरीतं हि च्यावनीसमुदीरितम् || ९-३८६ || प्रयोगः सर्वसिद्ध्यर्थं जपे प्रोच्चारितो भवेत् | अन्येषां मन्त्रभेदानां यदुद्धारं वदामि ते || ९-३८७ || तदा ऋष्यादिकं तेषां कथयिष्यामि पार्वति | अथ षडङ्गन्यासस्तत्रैव | द्वे पञ्च त्रीणि च द्वि च द्वे पुनर्द्वे पुनस्तथा || ९-३८७ || वर्णाक्षराणां भारत्यास्तत्तत्स्थाने प्रविन्यसेत् | तावन्तोऽर्णाः सप्रणवास्तत्र तत्र स्थले न्यसेत् || ९-३८८ || यादृशी च्यावनी मन्त्रवर्णावल्यनुतिष्ठति | तारयोर्मध्यवर्तीनि *?वीवर्णानि तानि हि || ९-३८९ || न्यस्येत् स्थानेषु तेष्वेव हारीतोपसिते मनौ | ध्यानमाह | भरतोपासिता या च रामोपास्या च या स्मृता || ९-३९० || ध्यानं तयोरेकमेव कथ्यमानं मया शृणु | ध्यायेद्देवीप्रभावोत्थप्रोच्छलद्रक्तवारिधिम् || ९-३९१ || उत्तुङ्गोत्तुङ्गकल्लोलप्रपूरितदिगन्तरम् | तत्र द्वीपं रक्तमांसपूरितं रक्तवालुकम् || ९-३९२ || नवकोटिकचामुण्डाकोटिभैरववेष्टितम् | प्. ७६५) तन्मध्ये मण्डलं ध्यायेद्योजनायुतविस्तृतम् || ९-३९३ || भैरवीकोटिघटितं प्राकारं तत्र चिन्तयेत् | एकं श्मशानं तन्मध्ये शतयोजनविस्तृतम् || ९-३९४ || चिन्तयेत् प्रोच्छलद्वह्निज्वालाव्याप्तर्क्षमण्डलम् | योगिनीकोटिविहितकरतालिकचेष्टितम् || ९-३९५ || नारान्त्रनद्धमुण्डस्रक्कृततोरणमालिकम् | तदन्तःस्थापिनीं कालीं ध्यायेन्निश्चलमानसः || ९-३९६ || रत्नसिंहासनं दिव्यं हीरमुक्तादिनिर्मितम् | धारयन्तं चतुष्कोणे युगं वेदं विचिन्तयेत् || ९-३९७ || सत्ययुगं च ऋग्वेदं शुक्लवर्णं च पूर्वगम् | त्रेतायुगं यजुर्वेदं पीतवर्णं च दक्षगम् || ९-३९८ || द्वापरं सामवेदं च रक्तं पश्चिमदिग्गतम् | अथर्ववेदं च कलिं श्याममुत्तरदिग्गतम् || ९-३९९ || उपवेदस्य शुभ्रस्य मूर्ध्नि सिंहासनं स्थितम् | तस्य सिंहासनस्योर्ध्वमन्यत् सिंहासनं महत् || ९-४०० || स्वस्वास्त्रवाहनयुतैर्दिगष्टपरि * *?भर्वृतम् | देव्याः सिंहासनधरा/स्ता/श्च ध्यायेदतन्द्रितः || ९-४०१ || स्वा स्वां दिशमवष्टभ्य स्थितान् परमशोभितान् | इन्द्रं पीतं सवज्रं च स्थितमैरावतोपरि || ९-४०२ || पावकं रक्तवर्णं च छागस्थं शक्तिपाणिकम् | यमं कृष्णं कासरस्थं दण्डहस्तं तुरङ्गम् || ९-४०३ || वरुणं पाशहस्तं च शुभ्रं मकरवाहनम् | श्यामं वायुं ध्वजधरं हरिणोपरि संस्थितम् || ९-४०४ || प्. ७६६) गदाधरं कुवेरं च कुङ्कुमाभं नरे स्थितम् | ईशानं शुभ्रवर्णं च शूलहस्तं वृषे स्थितम् || ९-४०५ || सिंहासनं तृतीयं च पञ्चप्रेतैर्घृतं प्रिये | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ९-४०६ || एते पञ्चमहाप्रेताः स्थिताः सिंहासनादधः | पीतः श्यामस्तथा रक्तो दूम्रः श्वेतः क्रमादिमे || ९-४०७ || दण्डं चक्रं च शक्तिं च शूलं खट्वाङ्गमेव च | धारयन्तो मुखे न्यस्ततर्जनीकास्त्रिलोचनाः || ९-४०८ || केशरिद्विपकोलाश्च फेत्काररवभीषणाः | ऊर्ध्वं पीठं ततो ध्यायेद्भैरवाख्यं भयानकम् || ९-४०९ || खर्वं स्थूलतरं घोरं कृष्णवर्णं चतुर्भुजम् | पञ्चवक्क्रं त्रिनेत्रं च कीकशाभरणान्वितम् || ९-४१० || खट्वाङ्गं कर्तृकां दक्षे कपालं डमरुं तथा | धारयन्तं मुण्डमालायुतं दंष्द्राग्रभीषणम् || ९-४११ || तदूर्ध्वं षोडशदलं पद्मं यज्ञोपकल्पितम् | ज्योतिष्टोमोऽग्निष्टा * ? वाजपेयश्च षोडशी || ९-४१२ || चयनं पुण्डरीकं च राजसूयोऽश्वमेधकः | बार्हस्पत्यं विश्वजिच्च गोमेधो नरमेधकः || ९-४१३ || सौत्रामण्यर्धसावित्री सूर्यकान्तोऽचलम्भिदः | एतादृशैः षोडशभिर्दलैः पद्मं प्रकल्पितम् || ९-४१४ || तस्योपरि ततो ध्यायेच्छिवासनमनुत्तमम् | विन्दुनादयुतं नीलं शशाङ्ककृतलाञ्छनम् || ९-४१५ || महार्घरत्नाभरणं त्रिनेत्रं भीमदर्शनम् | वज्रदंष्ट्रानखस्पर्शं पद्मपृष्ठे शिवोत्तमम् || ९-४१६ || प्. ७६७) पिङ्गोग्रैकजटाभारं द्विभुजं नागहारिणम् | वसानं चर्म वैयाघ्रं शूलखट्वाङ्गधारिणम् || ९-४१७ || अष्टपत्राम्बुजं तस्योपरिष्टान्नवमासनम् | धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्दिशि || ९-४१८ || यशो विवेकः कामश्च मोक्षश्चेति विदिग्दिशि | एवमष्टदलाम्भोजोपविष्टां गुह्यकालिकाम् || ९-४१९ || ध्यायेन्नीलोत्पलश्यामामिन्द्रनीलसमद्युतिम् | घनाघनतनुद्योतां स्निग्धदूर्वादलद्युतिम् || ९-४२० || ज्ञानरश्मिच्छटाटोपज्योतिर्मण्डलमध्यगाम् | दशवक्त्रां गुह्यकालीं सप्तविंशतिलोचनाम् || ९-४२१ || द्विद्विनेत्रयुतां वक्त्रे वामदक्षिणसंमुखे | सप्तस्वन्येषु वक्त्रेषु त्रित्रिलोचनसंयुताम् || ९-४२२ || ऊर्ध्ववक्त्रं द्विपकाख्यं चण्डयोगेश्वरीति हि | तस्याधः केशरिमुखं श्वेतवर्णं विभीषणम् || ९-४२३ || तस्याधः फेरुवक्त्रं च कृष्णं त्रैलोक्यडामरम् | वानरास्यं ततो वामे रक्तव *?महोज्ज्वलम् || ९-४२४ || नरास्यं तधो ज्ञेयं किर्मीराभं महोत्कटम् | ऋक्षवक्त्रं भवेद्दक्षे धूम्रवर्णं भयानकम् || ९-४२५ || गारुडास्यं ततो वामे पिङ्गवर्णं सुचञ्चुकम् | दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् || ९-४२६ || गजास्यं वातः प्रोक्तं गौरवक्त्रं स्रवन्मदम् | हयास्यं दक्षिणे काल्याः श्यामवर्णं विचिन्तियेत् || ९-४२७ || महादंष्ट्राकरालानि दारुणस्वनवन्ति च | अट्टाट्टहासयुक्तानि स्रवद्रक्तानि सर्वदा || ९-४२८ || प्. ७६८) लेलिहानविनिष्क्रान्तललज्जिह्वान्वितानि च | अहर्निशं कम्पमानान्यास्यानि दधतीं शिवाम् || ९-४२९ || भीमनिर्ह्रादिनीं भीमां भ्रूङ्गङ्गकुटिलाननाम् | पिङ्गलोर्ध्वजटाजूटां चन्द्रार्धकृतशेखराम् || ९-४३० || नानारत्नविनिर्माणसमुण्डस्वर्णभूषणाम् | स्रवद्रक्रनृमुण्डास्रक्कृतनक्षत्रमालिकाम् || ९-४३१ || आकण्ठगुल्फलम्बिन्याऽलङ्कृतां मुण्डमालया | श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्जवलाम् || ९-४३२ || शवदीर्घाङ्गुलीपङ्क्तिमण्डितोरःस्थलस्थिराम् | कठोरपिङ्गलोत्तुङ्गवक्षोजयुगलान्विताम् || ९-४३३ || महामारकतग्राववेदिश्रोणिपरिष्कृताम् | विशालजघनाभोगामतिक्षिणकटिस्थलाम् || ९-४३४ || अत्त्रनद्धार्भकशिरोवलत्किङ्किणिमण्डिताम् | चतुष्पञ्चाशता दोष्णां भूषितां जगदम्बिकाम् || ९-४३५ || रत्नमालां कपालं च चर्म पाशं तथैव च | शक्तिं खट्वाङ्गमुण्ड च भुशुण्डीं धनुरेव च || ९-४३६ || चक्रं घण्टां ततो बालप्रेतं शैलमतः परम् | नरकं कालनकुलौ सर्पमुन्मादवंशिकाम् || ९-४३७ || मुद्गरं वह्निकुण्डं च डमरुं डिण्डिमं तथा | भिन्दिपालं च मुशलं पाशं पट्टिशमेव च || ९-४३८ || शतघ्नीं च शिवापोतं वामहस्तेषु बिभ्रतीम् | अथ दक्षभुजे रत्नमालां तर्त्त्रीमसिं तथा || ९-४३९ || तर्जनीमङ्कुशं दण्डं रत्नकुम्भं त्रिशूलकम् | पञ्चपाशुपतान् बाणान् शोषकोन्मादमूर्छकान् || ९-४४० || प्. ७६९) संहारकान् मृत्युकरानेव नामप्रधारिणः | कुन्तं च पारिजातं च छुरिकां तोमरं तथा || ९-४४१ || पुष्पमालां डिण्डिभं च गृध्रं चैव कमण्डलुम् | मांसखण्डं श्रुवं बीजपूरं श्रुचं तथैव च || ९-४४२ || परशुं च गदां यष्टीं मुष्टिं कुणपलालनम् | धारयन्तीं महारौध्रीं जगत्संहारकारिणीम् || ९-४४३ || जवापुष्पाभनागेन्द्रकृतनूपरयुग्मकाम् | पाटलोरगनिर्माणलसदङ्गदशोभिताम् || ९-४४४ || धूसराहिकृतस्फीतकटिसूत्रावलम्बिनीम् | सुपाण्डुरभुजङ्गेन्द्रकृतताटङ्कशोभिताम् || ९-४४५ || श्वेतदर्वीकरानद्धजटामुकुटङ्कशोभिताम् | वैयाघ्रचर्मवसनां द्वीपिचर्मोत्तरीयकाम् || ९-४४६ || किङ्किणीजालशोभाढ्यां वीरघण्टानिवादिनीम् | नूपुरारवललितां घर्घराशब्दभीषणाम् || ९-४४७ || कटकाङ्गदकेयूरनरास्थिकृतशोभनाम् | रक्तपद्ममयीं मालां पादपद्मावलम्बिनीम् || ९-४४८ || काञ्चीकट्टारकप्रेङ्खतकटिमध्यविराजिताम् | ब्रह्मसूत्रोज्ज्वलत्कण्ठयोगपट्टोत्तरीयकाम् || ९-४४९ || सौम्योग्रभूषणैर्युक्तां नागाष्टकविराजिताम् | रत्नकुण्डलकर्णश्रीपञ्चकालानलस्थिताम् || ९-४५० || पद्मोपरिस्थितां देवीं नृत्यमानां सदोदिताम् | पद्मासनसुखासीनां सर्वदेवाधिदेवताम् || ९-४५१ || मुक्तहु/कारजिह्वाग्रं चालयन्तीं विचिन्तयेत् | त्रिकोटिशक्तिचामुण्डानवकोटिभिरन्विताम् || ९-४५२ || ७७०) महायोगिनीकोटोनामष्टादशभिरूर्जिताम् | चरन्तीं च हसन्तीं च डाकिनी षष्टिकोटिभिः || ९-४५३ || भैरव्यशीतिकोटीभिः परिवारैश्च वेष्टिताम् | कोटिकालानलज्वालान्यक्कारोद्यत्कलेवराम् || ९-४५४ || महाप्रलयकोट्यर्कविद्युदर्वुदसन्निभाम् | दुर्निरीक्षां महाभीमां सेन्द्रैरपि सुरासुरैः || ९-४५५ || शत्रुपक्षक्षयकरीं देत्यदानवसूदिनीम् | निर्विकारां निराभासां कूटस्थां चिद्विलासिनीम् || ९-४५६ || अद्वितां परमानन्दां नित्यां शुद्धां निरञ्जनाम् | सृष्टिः स्थितिश्च संहारोऽनाख्या भासा पदाभिदाम् || ९-४५७ || वेदान्तवेद्यां कैवल्यरूपां निर्वाणकारिणीम् | गुणातीतामात्मरूपप्रबोधातीतगोचराम् || ९-४५८ || एवं ध्येया महाकाली प्रोद्भिन्ननवयुवना | पञ्चवक्त्रस्य मध्यस्थां गुह्यकाली परश्वरी || ९-४५९ || अथ पुरश्चरणं तत्रैव | पर्वते वा नदी कू *? शून्यागारे शिवालये | पीठे चतुष्पथे कुर्यात् पुरश्चरणमुत्तमम् || ९-४६० || नियमास्तत्र भूयांसः प्रकर्तव्याः प्रयत्नतः | अवैधकरणात् सिद्धिहानिः स्यान्नात्र संशयः || ९-४६१ || त्रिकालमाचरेत् स्नानं हविष्यं भक्षयेन्निशि | स्वमन्त्रं चाक्षसूत्रं च गुरोरपि न दर्शयेत् || ९-४६२ || त्यजेद्दुष्टप्रवादं च परीवादं च वर्जयेत् | तथा दुर्जनसंसर्गान् स्त्रीशूद्रालापनं तथा || ९-४६३ || वस्त्रं कुशाशनं व्याघ्रचर्म चापि नृमुण्डकम् | आसनं च महादेवि प्रशस्तश्चोत्तरामुखः || ९-४६४ || शुद्धस्फटिकरुद्राक्षनृमुण्डास्थिविनिर्मिताम् | जपमालां शुभां विद्धि प्रशस्तामुत्तरोत्तराम् || ९-४६५ || अनेनोक्तविधानेन लक्षसङ्ख्यं जपेन्मनुम् | होमं दशांशतः कुर्यात् तर्पण् चाभिषेचनम् || ९-४६६ || ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत् प्रिये | (महाथर्वणसंहितायाम्) षोडशार्णां महाविद्या देवानामपि दुर्लभा || ९-४६७ || कोटिजन्मार्जितैः पुण्यैर्महद्भिर्भक्तिनोदितैः | येन लब्धा कुलेशानि सद्गुरोर्मुखपङ्कजात् || ९-४६८ || स धन्यः सर्वलोकेषु पूज्यस्त्रिभुवनौकसाम् | नातः परतरा विद्या त्रिषु लोकेषु विद्यते || ९-४६९ || अतः सर्वप्रयत्नेन विद्येयं षोडशाक्षरी | जप्तव्या साधश्रेष्ठैर्ध्यातव्या गुयकालिका || ९-४७० || येनेयं साधिता विद्या स एव सा *? सदाशिवः | (महाकालसंहितायाम्) दशवक्त्रा तु या प्रोक्ता गुह्यकाली मया तव || ९-४७१ || प्रकृतिः स परिज्ञेया कालीनां जगदम्बिका | अन्या विकृतयः प्रोक्ताः कार्यकारणभेदतः || ९-४७२ || तथा | सैव ज्ञेया वरारोहे निर्गुणब्रह्मरूपिणी | जगत् सर्वं वशे तस्या वश्या कस्यापि सा न च || ९-४७३ || विश्वं सर्वं सृजति सा कोऽपि सृजति तां न हि | सा पालयति संसारं तां पालयति कोऽपि न || ९-४७४ || प्. ७७२) तां न संहरते कोऽपि सा सर्वं सहरत्यदः | तदाज्ञयाऽनिलो वाति सूर्यस्तपति तद्भयात् || ९-४७५ || तद्भीत्याऽग्निः पचत्यन्नं मृत्युश्चरति तद्भयात् | (म्हाथर्वणसंहितायाम्) श्रीदेव्युवाच | परात् पर परेशान शशाङ्ककृतशेखर || ९-४७६ || योगादियोगिन् सर्वज्ञ सर्वभूतदयापर | त्वत्तः श्रुता मया मन्त्राः सर्वतन्त्रेषु गोपिताः || ९-४७७ || विधिवत् पूजनं चापि न्यासावरणकक्रमैः | तारा च च्छिन्नमस्ता च तथा त्रिपुरसुन्दरी || ९-४७८ || बाला च वगला चापि त्रिपुरा भैरवी तथा | काली दक्षिणकाली च कुब्जिका विवरेश्वरी || ९-४७९ || अघोरा राजमात * *? सिद्धिलक्ष्मीस्त्वरुन्धती | अश्वारूढा भोगवती नित्यक्लिना च कुक्कुटी || ९-४८० || कौमारी चापि वाराही चामुण्डा चण्डिकाऽपि च | भुवनेशी तथोच्छिष्टचाण्डाली चण्डघण्टिका || ९-४८१ || कालसंकर्षिणी चापि गुह्यकाली तथाऽपरा | एताश्चान्याश्च वै देव्यः समन्त्राः कथितास्त्वयाः || ९-४८२ || किन्तु कामकलाकालीं नोक्तवानसि मे प्रभो | तत् किं मययपि गोप्यं ते प्रायशः परमेश्वर || ९-४८३ || न हीदृशं त्रिलोकेषु तत किं चन विद्यते | प्. ७७३) यदकथ्यं मयि भवेदपि प्राणाधिकाधिकम् || ९-४८४ || तत् किं गोपयसि प्राज्ञ मयीदं दैवतं महत् | यद्यस्मि ते दयापात्रं मान्याऽस्मि स्नेहभाजनम् || ९-४८५ || अनुग्राह्याऽस्मि कान्ताऽस्मि तदेमां वद साम्प्रतम् | देवीं कामकलाकालीं समन्त्रध्यानपूर्विकाम् || ९-४८६ || श्रीमहाकाल उवाच | धन्याऽस्यनुगृहीताऽसि तया देव्यैव सर्वथा | यत् ते बुद्धिः समुत्पन्ना तां देवीं प्रति भामिनि || ९-४८७ || विधाय शपथं देवि कथयामि तवाग्रतः | न हीदृशं भुक्तिमुक्तिसाधनं भुवि विद्यते || ९-४८८ || यथार्थमात्थ देवि त्वं गोप्यत्वं चापि सर्वथा | किन्तु भक्तिविशेषात् ते कथयामि न संशयः || ९-४८९ || राज्यं दद्याद्धनं दद्यात् स्त्रियं दद्याच्छिरस्तथा | न तु कामकलाकालीं दद्यात् कस्यापि न क्वचित् || ९-४९० || इन्द्रेणोपासिता पूर्वं देवराज्यमभीसिता | वरुणेन कुवेरेण् ब्रह्मणा च * या? तथा || ९-४९१ || रामेण रावणेनापि यमेनापि विवस्वता | चन्द्रेण विष्णुना चापि तथाऽन्यैश्च महर्षिभिः || ९-४९२ || सहेलं वा सलीलं वा यस्याः स्मरणमात्रतः | विद्यालक्ष्मीः राज्यलक्ष्मीः कीर्तिलक्ष्मीर्वशे स्थिता || ९-४९३ || विद्यार्थी लभते विद्यां धनार्थी लभते धनम् | राज्यार्थि लभते राज्यं कान्तार्थी कामिनीं शुभाम् || ९-४९४ || यशोऽर्थी कीर्तिमाप्नोति मुक्त्यर्थी मुक्तिमाप्नुयात् | अणिमाद्यष्टसिद्ध्यर्थी सिद्ध्यष्टकमवाप्नुयात् || ९-४९५ || प्. ७७४) तथा | द्विसप्ततितमं यावत् पुरुषाः पूर्वजाः स्थिताः | तेषां भाग्योदयैः पूर्णैर्विद्येयं यदि लभ्यते || ९-४९६ || तदा सर्वस्वदानेन गृह्णीयादविचारयन् | कृतकृत्यं मन्यमानो गुरोः पादावभिस्पृशन् || ९-४९७ || तथा | एकतः प्राणदानं स्यादेकतश्चैतदर्पणम् | तुलया विधृतं चेत् स्यादेतद्दानं विशिष्यते || ९-४९८ || तथा | कोटिजन्मार्जितैः पुण्यैर्लभ्यते वा न लभ्यते | शपथं कुरु देवेशि प्रकाश्येयं न कुत्र चित् || ९-४९९ || सत्यं सत्यं त्रिसत्यं मे ततो वक्ष्यामि पार्वति | नो चेत् तेऽपि न वक्ष्यामि प्रमाणं तत्र सैव मे || ९-५०० || देव्युवाच | शपे त्वच्चरणाब्जाभ्यां हिमाद्रिं शिरसा शपे | शपे स्कन्दैकद * * *? यद्येनामन्यतो ब्रुवे || ९-५०१ || शपेऽथ वा तया देव्या यां मे त्वं कथयिष्यसि | प्रकाशयामि यद्येनां सैव मे विमुखी भवेत् || ९-५०२ || महाकाल उवाच | साधु साधु महाभागे प्रतीतिर्मेऽधुना त्वयि | अकार्षीः शपथं यस्मात् तस्माद्वक्ष्याम्यसंशयम् || ९-५०३ || समाहिता सावधाना भव देवि वरानने | विधेहि चित्तमेकाग्रं बद्ध्वाऽञ्जलिपुटं प्रिये || ९-५०४ || कालीं कामकलापूर्वां शृणुष्वावहिता मम | प्. ७७५) तथा | या गुह्यकाली सैवेयं काली कामकलाऽभिधा || ९-५०५ || मन्त्रभेदाद्ध्यानभेदाद्भवेत् कामकलात्मिका | यथा त्रिभेदा तारा स्यात् सुन्दरी सप्तसप्ततिः || ९-५०६ || दक्षिणा पञ्चभेदा स्यात् तथेयं गुह्यकालिका | सप्तधा ध्यानमन्त्राभ्यां जायते भिन्नरूपिणी || ९-५०७ || यथा पञ्चाक्षरो मन्त्रो देवी चैकजटा स्मृता | द्वाविंसत्यक्षरो मन्त्रो देवी दक्षिणकालिका || ९-५०८ || तथाऽन्येष्वपि देवेषु मुख्यासु बहुषु प्रिये | देवि कामकलाकाली मनुरष्टादशाक्षरः || ९-५०९ || षोडशार्णा यथा मुख्या सर्वश्रीचक्रमध्यगा | तथेयं नवकालीषु सदा मुख्यतमा स्मृता || ९-५१० || त्रैलोक्याकर्षणो नाम मन्त्रोऽस्याः परिकीर्तितः | तस्योद्धारं प्रवक्ष्यामि शृणु यत्नेन पार्वति || ९-५११ || श्रुत्वाऽवधारयस्वेमां सर्वकल्याणहेतवे | मन्त्रोद्धारमाह | आद्यवर्गाद्यवर्णोऽक्ष्णा वामेन परिशीलितः || ९-५१२ || मूर्ध्नि मूर्ध्ना यतृतीययुगधः परिकर्तितः | विन्दुवामाक्षिसंयुक्तो वह्निः खपरमस्तकः || ९-५१३ || वामश्रुत्यर्धचन्द्रेण तृतीयः सपरो भवेत् | दक्षस्कन्धोर्ध्वदन्ताभ्यां चाक्षरो विन्दुमस्तकः || ९-५१४ || ओष्ठवर्गद्वितीयो हपूर्वाधरोष्ठविन्दुयुक् | षडक्षराणि सम्बोध्य यथानामस्थितिक्रमात् || ९-५१५ || प्रतिलोमेन चोद्धृत्य तानि बीजानि पञ्च वै | प्. ७७६) भूतबीजाद्यमारभ्य मारबीजान्तमेव हि || ९-५१६ || वैश्वानरवधूयुक्तो मन्त्रो ह्यष्टादशाक्षरः | अस्याः स्मरणमात्रेण यावन्त्यः सन्ति सिद्धयः || ९-५१७ || स्वयमायान्ति पुरतो जपादीनां च का कथा | सप्त कामकलाकाल्या मनवः सन्ति गोपिताः ||| ९-५१८ || तेषु सर्वेषु मन्त्रेषु मुख्योऽयं परिकीर्तितः | स्मरणादस्य मन्त्रस्य मूर्च्छिताः सर्वदेवताः || ९-५१९ || स्तम्भिता वेपमानाश्च उत्तिष्ठन्त्यतिविह्वलाः | निदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव || ९-५२० || किं बहूक्तेन देवेशि सत्यपूर्वं ब्रवीम्यहम् | सहस्रवदनेनापि लक्षकोट्याननेन वा || ९-५२१ || महिमा वर्णितुं शक्यो नास्य वर्षायुतैर्मया | सामान्यतो विजानीहि यद्यदिच्छति साधकः || ९-५२२ || तत् तत् करोति सकलं प्रजापतिरिवापरः | त्रैलोक्याकर्षका * * नाम? मन्त्रः सर्वार्थसाधकः || ९-५२३ || ऋष्यादिन्यासमाह | अतः परं प्रवक्ष्यामि छन्दश्चर्षिं च बीजकम् | अस्य कामकलाकालीमन्त्रस्याहमृषिर्मतः || ९-५२४ || छन्दश्च बृहतीख्यातं देवी चेयं प्रकीर्तिता | आद्यबीजं तु बीजं स्यात् क्रोधार्णं शक्तिरेव च || ९-५२५ || विनियोगोऽस्य सर्वस्य सर्वदा सर्वसिद्धये | षडङ्गं पञ्चबीजैस्तैर्नाम्नाऽप्येकं च कारयेत् || ९-५२६ || नामाक्षराणि प्रत्येकं तत्र देयानि पार्वति | प्. ७७७) अथ ध्यानम् | ध्यानमस्याः प्रवक्ष्यामि कुरु चित्तैकतानताम् || ९-५२७ || उद्यद्धनाघनाश्लिष्यज्जपाकुसुमसन्निभाम् | मत्तकोकिलनेत्राभां पक्वजम्बूफलप्रभाम् || ९-५२८ || सुदीर्घप्रबलालम्बिविस्रस्तघनमूर्धजाम् | ज्वलदङ्गारवच्छोणनेत्रत्रितयभूषिताम् || ९-५२९ || उद्यच्छारदसंपूर्णचन्द्रकोकनदाननाम् | दीर्घदंष्ट्रायुगोदञ्चद्विकरालमुखाम्बुजाम् || ९-५३० || वितस्तिमात्रनिष्क्रान्तललज्जिह्वाभयानकाम् | व्यात्ताननतया दृश्यद्वात्रिंशद्दन्तमण्डलाम् || ९-५३१ || निरन्तरं वेपमानोत्तमाङ्गां घोररूपिणीम् | अंसासक्तनृमुण्डासृक्पिवन्तीं वक्त्रकन्दरात् || ९-५३२ || सृक्वद्वन्द्वस्रवद्रक्तस्नापितोरोजयुग्मकाम् | उरोजाम्भोजसंसक्तसम्पतद्रुधिरोच्चयाम् || ९-५३३ || सश्वीत्कृतिं धयन्तीं तल्लेलिहानरसज्ञया | ललाटे घननारासृग्विहित * *? चित्रकाम् || ९-५३४ || सद्यश्छिन्नगलद्रक्तनृमुण्डकृतकुण्डलाम् | श्रुतिनद्धकचालम्बिवतंसलसदंसकाम् || ९-५३५ || स्रवदस्रौघया शश्वन्मानव्या मुण्डमालया | आकण्ठगुल्फलम्बिन्याऽलङ्कृतां केशबद्धया || ९-५३६ || श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्ज्वलाम् | शवदीर्घाङ्गुलिपङ्क्तिमण्डितोरःस्थलस्थिराम् || ९-५३७ || कठोरपीवरोत्तुङ्गवक्षोजयुगलान्विताम् | महामारकतग्राववेदिश्रोणिपरिष्कृताम् || ९-५३८ || प्. ७७८) विशालजघनाभोगामतिक्षीणकटिस्थलाम् | अन्त्रनद्धार्भकशिरोवलत्किङ्किणीमण्डिताम् || ९-५३९ || सुपीनषोडशभुजां महाशङ्खाञ्चदङ्गदाम् | शवानां धमनीपुञ्जैर्वेष्टितैः कृतकङ्कणाम् || ९-५४० || ग्रथितैः शवकेशैः स्रग्दामभिः कटिसूत्रिणीम् | शवपोतकरश्रेणीग्रथनैः कृतमेखलाम् || ९-५४१ || शोभमानाङ्गुलीमांसमेदोमज्जाङ्गुलीयकैः | असिं त्रिशूलं चक्रं च शरमङ्कुशमेव च || ९-५४२ || ललानं च तथा कर्त्त्रीमक्षमालां च दक्षिणे | पाशं च परशुं नागं चापं मुद्गरमेव च || ९-५४३ || शिवापोतं खर्परं च वसासृङ्मेदसाऽन्वितम् | लम्बत्कचं नृमुण्डं च धारयन्तीं स्ववामतः || ९-५४४ || विलसन्नूपुरां देवीं ग्रथितैः शवपञ्जरैः | श्मशानप्रज्वलद्घोरचिताग्निज्वालमध्यगाम् || ९-५४५ || अधोमुखमहा?दीर्घप्रसुप्तशवपृष्ठगाम् | वमन्मुखानलज्वालाजालव्याप्तदिगन्तराम् || ९-५४६ || प्रोत्थायैव हि तिष्ठन्तीं प्रत्यालीढपदक्रमात् | वामदक्षिणसंस्थाभ्यां नदन्तीभ्यां मुहुर्मुहुः || ९-५४७ || शिवाभ्यां घोररूपाभ्यां वमन्तीभ्यां महानलम् | विद्युदङ्गारवर्णाभ्यां वेष्टितां परमेश्वरीम् || ९-५४८ || सर्वदैवानुलग्नाभ्यां पस्यन्तीभ्यां महेस्वरीम् | अतीव भीषमाणाभ्यां शिवाभ्यां शोभितां मुहुः || ९-५४९ || कपालसंस्थं मस्तिष्कं ददतीं च तयोर्द्वयोः | दिगम्बरां मुक्तकेशीमट्टहासभयानकाम् || ९-५५० || प्. ७७९) सप्तधा बद्धनारान्त्रयोगपट्टविभूषिताम् | संहारभैरवेणैव सार्धं संभोगमिच्छतीम् || ९-५५१ || अतिकामातुरां कालीं हसन्तीं खर्वविग्रहाम् | कोटिकालानलज्वालान्यक्कारोद्यत्कलेवराम् || ९-५५२ || महाप्रलयकोट्यर्कविद्युदर्वुदसन्निभाम् | कल्पान्तकारिणीं कालीं महाभैरवरूपिणीम् || ९-५५३ || महाभीमां दुर्निरीक्षां सेन्द्रैरपि सुरासुरैः | शत्रुपक्षक्षयकरीं दैत्यदानवसूदनीम् || ९-५५४ || चिन्तयेदीदृशीं देवीं कालीं कामकलाभिधाम् | अथ पुरश्चरणं तत्रैव | अतः परं प्रवक्ष्यामि पौरश्चरणिकं विधिम् || ९-५५५ || एकस्मिन् पत्रविहिते सिद्धिस्तात्कालिकी भवेत् | भूमिशुद्धिर्द्रव्यशुद्धिः पूर्वैव कथिता मया || ९-५५६ || यमाश्च नियमा ये स्युः पुरश्चरणकर्मणि | सर्वानेव प्रयुञ्जीत सततं भक्तितत्परः || ९-५५७ || कृतनित्यक्रियः प्रातः कृतपूजाविधिः शुचिः | नरास्थि निखनेद्भूमावस्त्रमन्त्रमुदीरयन् || ९-५५८ || तारं क्रोधोऽनु ह्री/ पाशस्मरभूतान् समुद्धरेत् | सिद्धिमुच्चार्य देहीति युग्मं वह्न्यङ्गनां वदेत् || ९-५५९ || भूतबीजं फ्रोमिति | तथा | तदुपर्येव चास्तीर्य स्वासनं सुष्ठु कल्पितम् | नृमुण्डमग्रतः कृत्वा नरास्थिजपमालाया || ९-५६० || लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः | प्. ७८०) अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च || ९-५६१ || दशांशं होमयेन्मन्त्री तर्पयेदभिषेचयेत् | होमे सन्तर्पणे चैव पूजावत् कथितो विधिः || ९-५६२ || पूजायां वा प्रयोगे वा होमे वा तर्पणेऽथ वा | गुह्यकालीविधानेन सर्वं कार्यं शुचिस्मिते || ९-५६३ || अत्रानुक्तं विधानं यत् तत्रत्यं तत् प्रकल्पयेत् | तत्राप्यनुक्तं यत् किञ्चित् तत्रोक्तो दक्षिणाविधिः || ९-५६४ || इति प्रथममहाविद्याप्रकरणम् | अथ द्वितीयविद्यायाः (फेत्कारिणीतन्त्रे) कैलाशशिखरासीनं चन्द्रखण्डविराजितम् | वक्षःस्थले समासीना पृच्छति स्म नगात्मजा || ९-५६५ || कथमीशान सार्वज्ञ मलभ/स्ते तपोधनाः | कां विद्यां प्राप्य कवयो भारतादि प्रचक्रिरे || ९-५६६ || श्रुत्वा नगात्मजावाक्यं विहस्य परमेश्वरः | प्राह प्रियां परिष्वज्य साधु साध्विति पूजयन् || ९-५६७ || शृणु साध्वि महाविद्यामज्ञानेन्धनदाहिनीम् | यामवाप्य महात्मानो धर्मकामार्थमुक्तिषु || ९-५६८ || नासाध्यं मेनिरे किञ्चित् कवयः शुद्धबुद्धयः | वादे सदसि या वाचः स्तम्भिनी प्रतिवादिनाम् || ९-५६९ || विद्याहानिकरी देवि विदुषां वलिदानतः | हास्याय या सदस्यानामशुद्धमपि जल्पयेत् || ९-५७० || वादिनं चापि राजानं मन्त्रिणं वशमानयेत् | जल्पयेद्वादिनमित्यन्वयः | मन्त्रस्य ज्ञानमात्रेण जपात् सर्वज्ञतां नयेत् || ९-५७१ || प्. ७८१) मन्त्रोद्धारणमाह | सपरं प्रथमं दत्वा चतुर्थस्वरभूषितम् | रेफारूढं स्फुरद्दीप्तमिन्दुविन्दुसमन्वितम् || ९-५७२ || त्रकारं च ततो दद्याच्चतुर्थेनैव भूषितम् | दीर्घोकारसमायुक्तं हकारं योजयेत् ततः || ९-५७३ || फट्कारं च ततो दद्यात् संपूर्णः सिद्धमन्त्रतः | * *?री हकारः | शेषं स्पष्टम् | (मत्स्यसूक्ते) अथ वक्ष्ये महादेव्या मन्त्रोद्धारमनुत्तमम् || ९-५७४ || यच्च ज्ञात्वा नरो भाति वाचस्पतिरिवापरः | मायाबीजं समुद्धृत्य तवर्गप्रथमं तथा || ९-५७५ || रतिविन्दुवह्नियुतं द्वितीयं बीजमुत्तमम् | कूर्चबीजं तृतीयं तु फट्कारस्तदनन्तरम् || ९-५७६ || सम्पूर्णसिद्धमन्त्रस्तु रश्मिपञ्चकसंयुतः | पञ्चरश्मिः प्रणवः | तदुक्तं (तारार्णवे) अनन्तरं समुद्धृत्य मायोत्तरमनुं ततः || ९-५७७ || पपञ्चमः समायुक्तं पञ्चरश्मिः प्रकीर्तितः | अनुत्तरमकारः | मायोत्तरमुकारः | पपञ्चमो मकारः | (तत्त्वबोधे) तारं लज्जां न्त्रकामेशीं हु/ फडित्युग्रतारिका || ९-५७८ || माया त्त्री/ हूमथास्त्रान्तमित्येकजटयाऽर्चयेत् | अस्त्रहीनमिदं नीलसरस्वत्या विनिर्दिशेत् || ९-५७९ || कामेशी ईकारः | त्र्यक्षरोऽसौ महामन्त्रः फट्कारान्तौ हृदि स्थितः | पञ्चरश्मिसमायुक्तोऽथाज्ञानेन्धनदाहकः || ९-५८० || प्. ७८२) (मत्स्यसूक्ते) लज्जाबीजं बधूबीजं कूर्चबीजं तथा हि फट् | एवं पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी || ९-५८१ || तथा | तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती | कुल्लुकेति समाख्याता त्रिषु लोकेषु गोपिता || ९-५८२ || (तारार्णवे) वशिष्ठाराधिता चोग्रा न शीघ्रफलदा यतः | अतस्तेनैव मुनिना शापो दत्तः सुदारुणः || ९-५८३ || ततः प्रभृति विद्येयं फलदात्री न कस्य चित् | शक्तिबीजं त्रपान्तस्थबीजोपरि नियोजितम् || ९-५८४ || ततः पभृति विद्येयं वधूरिव यशस्विनी | फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् || ९-५८५ || विषक्षयकरी विद्या अमृतत्वप्रदायिनी | मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते || ९-५८६ || मूको भवति वागीशो गीष्पतिर्जायते नरः | शक्तिबीजमिति | शक्तिबीजं सकारः | त्रपान्तस्थबीजं त्रोङ्कारः | तेन स्त्रीमिति वधूबीजं भवति | शापस्तु कृष्णावतारपर्यन्तमेव | जाते कृष्णावतारे तु पुनः शापात् प्रमुच्यते || ९-५८७ || इति तन्त्रान्तरवचनात् | मन्त्रार्थमाह (साधनसमुच्चये) प्रणवाद्ब्रह्मरूपा सा सोऽहं तत्त्वस्वरूपिणी | व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना || ९-५८८ || तयोर्विसर्ग ईकारो विन्दुना तान्त्रिकी मता | तकारः सर्वपापघ्नो रेफस्तत्त्वप्रकाशकः || ९-५८९ || प्. ७८३) विन्दुमाली महाबीजं शब्दब्रह्मप्रकाशकम् | कूर्चं प्रबोधरूपं स्यादस्त्रं जाड्यविनाशकम् || ९-५९० || एवं यो वेत्ति शुद्धात्मा स तु साक्षान्महेश्वरः | (मत्स्यसूक्ते) श्रीबीजाद्या यदा विद्या तदा श्रीः सर्वतो मुखी || ९-५९१ || एषैव हि महाविद्या मायाद्या सकलेष्टदा | वाग्भवाद्या महावाक्यस्वरूपा सर्ववाङ्मयी || ९-५९२ || तथा | गुटिकासिद्धिवेतालपातालवटयक्षिणी | परपुरप्रवेशश्च आज्ञासिद्धिः प्रजायते || ९-५९३ || जिह्वायां चिन्तनादेव त्रिकालज्ञो भवेद्ध्रुवम् | यस्तु विद्यामभेदेन चिन्तयेत् साधकोत्तमः || ९-५९४ || जीवन्मुक्तो विमुक्तश्च अन्ते सोऽपि भवेद्ध्रुवम् | (ब्रह्मसंहितायां फेत्कारिण्यां ) च | क्षिप्रप्रसादाज्जगतां सदा नीलसरस्वती || ९-५९५ || विशेषतः कलियुगे मत्प्रसादाद्भविष्यति | सिद्धमन्त्रो यदा मन्त्री बालिशस्यापि मूर्धनि || ९-५९६ || करं दत्वा दिशत्याशु सोऽपि श्लोकान् पठेत् पुनः | दिशति श्लोकं कुर्वित्याज्ञापयति | तथा | मन्त्रस्य ज्ञानमात्रेण अनुभावद्वयं भवेत् || ९-५९७ || तात्कालिकी च कविता परैरनविभाव्यता | अथ ऋष्यादिन्यासः (मेरुतन्त्रे) मुनिरक्षोभ्यसंज्ञोऽस्या बृहतीछन्द ईरितम् || ९-५९८ || तारादेवी ह्री/ च बीजं हू/ शक्तिश्चास्य कीर्तिता || प्. ७८४) (मन्त्रचूडामणौ) अक्षोभ्य ऋषिरेतस्या बृहतीछन्द ईरितम् || ९-५९९ || नीलसरस्वती देवी त्रिषु लोकेषु गोपिता | हू/ बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदा || ९-६०० || दामोदरमिश्रकृतसंग्रहे | अक्षोभ्य ऋषिरेतस्या बृहतीच्छन्द ईरितम् | नीलसरस्वती देवी त्रिषु लोकेषु गोपिता || ९-६०१ || हू/ बीजमन्त्रः शक्तिः स्यान्माया स्त्री/ कीलकं स्मृतम् | विनियोगो भवेद्देवि चतुर्वर्गफलाप्तये || ९-६०२ || उग्रतारा देवतेति (मन्त्रचूडामणौ) अथ कराङ्गन्यासौ | तत्रादौ उग्रतारायाः (ताराकल्पे) षड्दीर्घमायाबीजेन षडङ्गविधिरीरितः | नीलसरस्वत्यास्तु (सिद्धसारस्वते) अखिलवाग्रूपिणीं प्रोच्य हृदाय नमो वदेत् || ९-६०३ || अखण्डवाग्रूपिणीं च शिरसे वह्निवल्लभा | ब्रह्मवाग्रूपिणीमुक्त्वा शिखायै वषडित्ययि || ९-६०४ || विष्णुवाग्रूपिणीमुक्त्वा कवचाय हुमुच्चरेत् | रुद्रवाग्रूपिणीं नेत्रत्रयाय वौषडित्यपि || ९-६०५ || सर्ववाग्रूपिणीमुक्त्वा अस्त्राय फडिति स्मरेत् | षड्दीर्घमायया बीजं बीजान्ते तानि योजयेत् || ९-६०६ || एकजटायाः (तन्त्रचूडामणौ) बीजान्ते एकजटायै हृदयं परिकीर्तितम् | तारिण्यै शिरसे तद्वद्वज्रोदके शिखां तथा || ९-६०७ || उग्रजटे च कवचं महापरिसरे तथा | प्. ७८५) पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते || ९-६०८ || न्यासोऽयमुग्रतारैकजटयोर्विरुद्ध इति साम्प्रदायिकः | अथ ध्यानम् (गन्धर्वतन्त्रे) श्मशानं तत्र संचिन्त्य तत्र कल्पद्रुमं स्मरेत् | तन्मूले मणिपीठं च नानामणिविभूषितम् || ९-६०९ || शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः | चतुर्दिक्षु शवामुण्डाश्चिताङ्गारास्थिभूषिताः || ९-६१० || तन्मध्ये भावयेद्देवीं यथोक्तध्यानयोगतः | (नीलतन्त्रे) प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् || ९-६११ || खर्वां लम्बोदरीं भीमां व्याघ्रचर्मवृतां कटौ | नवयौवनसंपन्नां पञ्चमुद्राविभूषिताम् || ९-६१२ || चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् | खड्गकर्त्त्रीधरां सव्ये वामे मुण्डोत्पलान्विताम् || ९-६१३ || पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् | बालार्कमण्डलाकारलोचनत्रयभूषिताम् || ९-६१४ || प्रज्वलत्पितृभूमध्यगतां दंष्ट्राकरालिनीम् | सावेशस्मेरवदनामस्थ्यालङ्कारभूषिताम् || ९-६१५ || विश्वव्यापकतोयान्तः श्वेतपद्मोपरिस्थिताम् | (श्यामारहस्यादौ) खड्गकर्त्त्रीसमायुक्तसव्येतरभुजद्वयाम् || ९-६१६ || कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् इति पाठः | (तन्त्रान्तरे) खड्गकर्त्त्रीधरां देवीं कपालोत्पलधारिणीम् इति पाठः || ९-६१७ || प्. ७८६) (मन्त्रचूडामणौ) तस्योपरिगृहे देवीं खर्वां नीलमणिप्रभाम् | लम्बोदरीं व्याघ्रचर्मसमावृतनितम्बिनीम् ||६१८ || पीनोन्नतपयोभारां रक्तवर्त्तुललोचनाम् | ललज्जिह्वां महाभीमां दंष्ट्राकोटिसमुज्ज्वलाम् || ९-६१९ || नीलोत्पललसन्मालां बद्धजूटां भयङ्करीम् | श्वेतास्थिपट्टिकायुक्तकपालपञ्चशोभिताम् || ९-६२० || ललाटे रक्तनागेन कृतकर्णावतंसकाम् | अतिशुभ्रमहानागकृतहारमहोज्ज्वलाम् || ९-६२१ || दूर्वादलश्यामनागकृतयज्ञोपवीतिनीम् | चतुर्भुजां रक्तमांसखण्डमण्डितमुष्टिना || ९-६२२ || जटाजूटाक्षसूत्रेण शोभितां तीक्ष्णधारया | खड्गेन दक्षिणस्योर्ध्वे शोभितां वीरनादिनीम् || तदधःस्थाद्वीजवृन्तकर्त्त्रिकालङ्कृतां पराम् | वामोर्ध्वे रक्तनालेन दिगम्बरमनोहराम् || ९-६२३ || दधतीं नीलपद्मं च तदधःस्थात् कपालकम् | जगतां जाड्यसंयुक्तं दधतीं कुन्दसन्निभम् || ९-६२४ || धूम्राभनागसंदोहकृतकेयूरसत्वराम् | सुवर्णवर्णनागेन कङ्कणोज्ज्वलपाणिकाम् || ९-६२५ || शुभ्रवर्णमहादेवकृतसद्विमलासनम् | निर्यन्त्रणभिया तद्वत् संकुचत्प्रपदात्मिकाम् || ९-६२६ || शवपादद्वयारूढवामपादां महोन्मुखीम् | कुन्दाभनागसंशोभिकटिसूत्रां त्रिलोचनाम् || ९-६२७ || असृग्रक्तेन नागेन कृतनूपुरपल्लवाम् | प्. ७८७) सद्यश्छिन्नगलतद्रक्तमुण्डै रक्तविभूषणैः ||६२८ || अन्योन्यकेशग्रथितैः पादपद्मविलम्बितैः | पञ्चाशद्भिर्महामालाशोभितां परमेश्वरीम् ||६२९ || ज्वलच्चितामध्यसंस्थां द्वीपिचर्मोत्तरांशुकाम् | अक्षोभ्यनागसम्बद्धजटाजूटां वरप्रदाम् ||६३० || एवम्भूतां महादेवीमात्मानं यागवस्तु च | विज्ञापयेन्महादेवपण्डितोहे महाकविः ||६३१ || (तारोपनिषदि) विरुद्धवाक्यार्थशरीरमण्डले नवाम्बुदाभां गुरुमुन्नतोदरीम् | अतीव खर्वां नवयौवनस्था मधःस्थशार्दूलककृत्तिमूर्धजाम् || ९-६३२ || अनैक्यमाहत्य शवोपरिस्थितां शवार्धमालीढपरीतमध्यमाम् | विशीर्णवर्णां नृशिरःस्रजोद्भवां त्रयीविवर्त्तारुणलोचनत्रयाम् || ९-६३३ || अभेदपिङ्गैकजटाविराजितां विभूषणाच्छिन्नसितास्थिभीषणाम् | महाष्टसिद्धिप्रकराहिभूषणा मट्टादृहासैर्जगतामभीतिदाम् || ९-६३४ || जटास्वनन्तः श्रवसोश्च तक्षको महाहिपद्मो हृदि हारभूषणाम् | तथैव कर्कोटकृतोपवीतिकां सुमेखलायामथ देववासुकिः || ९-६३५ || प्. ७८८) सशङ्खपालः किलकङ्कणो मतः पदेषु पद्मः किलनूपुरश्रियम् | भुजेषु नागः कुलिकोऽङ्गदो मतो भुजोऽर्धमालामहता स्थितिः स्थिता || ९-६३६ || सितश्च रक्तो धवलश्च मेचक स्तथैव नागोऽथ सितश्च पाण्डरः | भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वे मुनिभिर्ज्वलच्चिताम् || ९-६३७ || कपालकर्त्त्रीग्रथितोग्रमूर्द्धजां सनालमिन्दीवरकान्तिमालाम् | विकोषखड्गं सततं च दक्षिणे स्वपौरुषोत्थैर्दधतीं भुजैः सदा || ९-६३८ || पदार्थदंष्ट्राद्वयपञ्चमुद्रया विराजमानामसितोत्पलस्रजम् | विचिन्तयेत् तां च कवित्वकारिणी- मन्यागतार्थं प्रजपेच्च तारिणीम् || ९-६३९ || (फेत्कारिणीतन्त्रेऽपि) प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा वरा खन्गेन्दीवरकर्त्तृखर्परभुजा हू/कारबीजोद्भवा | खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्वृता जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् || ९-६४० || प्रत्यालीढलक्षणं तु (संगीतरत्नाकरे) वामो यत्र निषण्णोरुरन्तरे पूर्वमानतः | दक्षिणं चरणं चाग्रे पञ्चतालप्रसारितम् || ९-६४१ || प्. ७८९) अस्त्रौ द्वावपि तद्विन्द्यादालीढं तु सदैवतम् | आलाढाङ्गविपर्यासात् प्रत्यालीढमुदाहृतम् || ९-६४२ || तालं वितस्तिः | अस्रौ चक्रौ | मौलावक्षोभ्यभूषितामिति | अत्राक्षोभ्यो नागरूपः | अक्षोभ्यो देवीमूर्धन्यस्त्रीमूर्तिर्नागरूपधृगिति (भावचूडामणि-) वचनात् | अथ पुरश्चरणविधिः | तत्रादौ मन्त्रध्यानमुक्तं (साधनसमुच्चये) मूलचक्रे च हृल्लेखां सूर्यकोटिसमप्रभाम् | स्वाधिष्ठाने पीतवर्णं द्वितीयं च विभावयेत् || ९-६४३ || नाभौ जीमूतसंकाशं कूर्चबीजं महाप्रभम् | अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् || ९-६४४ || मूलादिब्रह्मरन्ध्रान्तं विद्यां विभावयेत् | सूर्यकोटिप्रतीकाशां योगिनां दृष्टिगोचराम् || ९-६४५ || तदुक्तं (तारातन्रे) स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये | रहस्यमालामादाय लक्षमेकं जपेत् सदा || (सुरेन्द्रसंहितायाम्) लक्षमात्रं जपेन्मन्त्रं दशांशमसितोत्पलैः | आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् || ९-६४६ || कालागुरुद्रवोपेतैर्विमलैर्गन्धवारिभिः | तर्पयेच्च परां देवीं तत्प्रकारमिहोच्यते || ९-६४७ || जले चावाह्य विधिवत् पाद्याद्यैरुपचारकैः | संतर्प्य विधिवद्देवीं परिवारान् सकृत् सकृत् || ९-६४८ || देवीबुद्ध्या स्वमान्मानं संपूज्य साधकोत्तमः | तारिणीं सिञ्चयामीति जलं मूर्ध्नि विनिःक्षिपेत् || ९-६४९ || कुम्भाख्यमुद्रया देवि नमोऽन्तेनाभिषेचनम् | प्. ७९०) (वीरचूडामणौ) चतुर्लक्षं जपेन्मन्त्रं दशांशं जुहुयात् सुधीः || ९-६५० || पद्मैस्त्रिमधुरोपेतैर्वाक्पतिर्जायते नरः | (तारार्णवे) एवं ध्यात्वा हविष्याशी जपेल्लक्षचतुष्टयम् || ९-६५१ || रहस्यमालामादाय जपेद्वा लक्षमेव च | (मेरुतन्त्रे) रतं कुर्वन्नदन् भक्ष्यमनेकं दधि मध्वपि || ९-६५२ || मधु मांसं च ताम्बूलं जपेल्लक्षचतुष्टयम् | दशांशं जुहुयाद्रक्तपद्मैः क्षीराज्यलोलितैः || ९-६५३ || शवमुण्डं पूरयित्वा जपस्थाने जपं चरेत् | नारीं पश्यन् स्पृशन् गच्छन् महानिशि वलिं हरेत् || ९-६५४ || न कार्यः सुभ्रुवां द्वेषो यत्नतः परिपूजयेत् | जपे न कालनियमो न स्थितौ सर्वदा जपेत् || ९-६५५ || श्मशाने शून्यसदने देवागारेऽथ निर्जने | पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् || ९-६५६ || समरे शत्रुनिहतं यद्वा षण्मासिकं शिशुम् | विद्यां संसाधयेच्छीघ्रं साधितैवं प्रसिध्यति || ९-६५७ || एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति | अथैतद्विद्याभेदास्तत्रैव | अथातः संप्रवक्ष्यामि दैत्यानां वरसिद्धये || ९-६५८ || ब्रह्मणोपासितां तारां वल्यादिभिरूपासितम् | ओं त्री/ ह्री/ हू/ समुचार्य ह्री/ हु/ फड्नगवर्णकः || ९-६५९ || मुनिर्ब्रह्मा च गायत्री छन्दस्तारा च देवता | न्यासा/स्तु पूर्ववत् कुर्याद्ध्यानमस्या निरूप्यते || ९-६६० || प्. ७९१) श्वेताम्बरां चन्द्रकान्तिं चन्द्रर्धकृतशेखराम् | कर्त्तरीं च कपालं च कराभ्यां दधतीं भजेत् || ९-६६१ || नानालङ्कारशोभाढ्यां त्रीक्षणां पद्मसंस्थिताम् | जपपूजादिकं सर्वमस्याः पूर्ववदाचरेत् || ९-६६२ || मधुयुक्परमान्नेन होमाद्विद्यानिधिर्भवेत् | रक्तां वश्ये स्वर्णवर्णां स्तम्भने मारणेऽसिताम् || ९-६६३ || उच्चाटने धूम्रवर्णां शान्तौ श्वेतां स्मरेदिमाम् | अथातः संप्रवक्ष्यामि तारकस्य वराय तु || ९-६६४ || ब्रह्मणोपासितां तारां द्वादशार्णां सुदुर्लभाम् | वाचं लज्जां रमां कामं हसरा औसमन्विताः || ९-६६५ || विसर्गाढ्याः पञ्चमं तु कूटमेतदुदीरितम् | हु/ उग्रतारे हु/ फट् मन्त्रः प्रोक्तो जपादिकम् || ९-६६६ || सर्वं पूर्ववदेवास्य कलौ प्रत्ययकारिणी | अथातः संप्रवक्ष्यामि ब्रह्मणा समुपासिताम् || ९-६६७ || हिरण्यकसिपोर्दातुं वरं सप्तार्णसंमिताम् | प्रणवं कवचं मायां क्ली/ प्राक् कूटं च पञ्चमं || ९-६६८ || हु/ फडन्तः सर्वमस्या न्यासाद्यं पूर्ववद्भवेत् | अथातः संप्रवक्ष्यामि हरिणा या ह्युपासिता || ९-६६९ || बौद्धमार्गप्रचारार्थं सिद्धिदा द्वादशाक्षरी | उपासिता ब्रह्मणा या तस्याः कूटे तु पञ्चमे || ९-६७० || सौरुक्त्वा साधिता विद्या द्वादशार्णाऽतिबुद्धिदा | यत्प्रभावाद्दिवो दासः काश्या उच्चाटितः पुरा || ९-६७१ || तस्यास्तु पूर्ववज्ज्ञेयं न्यासध्यानजपादिकम् | अथातः संप्रवक्ष्यामि सप्तार्णां रामसेविताम् || ९-६७२ || प्. ७९२) लक्ष्मीप्रभृति नाशार्थं तेन मत्तः सदा हली | ब्रह्मोपासितसप्तार्णा मध्ये कूटं तु पञ्चमम् || ९-६७३ || तत् त्यक्त्वा सौ/स्तत्र चोक्त्वा बलरामेण सेविता | शत्रुक्षयकरी चेयं तथा वाक्सिद्धिकारिणी || ९-६७४ || ध्यानपूजादिकं प्राग्वत् प्रयोगादिकमेव च | अथातः संप्रवक्ष्यामि नारायणसुसेविता || ९-६७५ || पञ्चार्णा यत्प्रभावेण दैत्यानां कदनं कृतम् | त्री/ हु/ फट् क्ली/ वाग्भवं च पञ्चार्णा सर्वसिद्धिदा || ९-६७६ || असां त्रयाणां तु मुनिर्विष्णुः प्राग्वज्जपादिकम् | अथातः संप्रवक्ष्यामि मया या समुपासिता || ९-६७७ || दत्ता च रविणाऽदित्यै सा विद्या तु षडक्षरी | ओं ह्री/ हू/ ह्री/ हु/ फडिति मुनिः सोऽहं च पूर्ववत् || ९-६७८ || ज्ञेयं न्यासादिकं सर्वं प्रयोगादि च पूर्ववत् | अथान्यं संप्रवक्ष्यामि चास्याः पञ्चाक्षरं मनुम् || ९-६७९ || जलन्धरवधार्थं तु मया सिद्धं कृतं सुराः | स्त्री/ हु/ मायां हु/ फडिति मनुः पञ्चाक्षरो मतः || ९-६८० || तन्त्रान्तरेऽपि | वधूबीजं च कवचं मायां कूर्चं तथाऽस्त्रकम् | सार्धंपञ्चाक्षरो मन्त्रो द्वितीयः परिकीर्तितः || ९-६८१ || (मेरुतन्त्रे) मया पञ्चमुखैर्जप्तो दक्षमार्गेण भो सुराः | देवांशेषु च विप्रेषु तथा धर्मपरेषु च || ९-६८२ || यमानां नियमानां च तन्त्रस्था नान्यदेवताः | वाममार्गाराधितास्तु कार्यं साधयितुं क्षमाः || ९-६८३ || प्. ७१३) दक्षिणाराधिता देवा रणसाहाययकारकाः | तेजोनिधीन् रिपून् हत्वा नयन्ति ब्रह्मशाश्वतम् || ९-६८४ || क्षत्रियाणां क्षयार्थं तु मया रामाय चार्पिता | पञ्चामृतं सुरास्थाने मांसस्थाने च सूरणम् || ९-६८५ || मत्स्यस्थाने खण्डो बोध्यो धर्मपत्न्यां रतं रतम् | अन्यत् पूर्ववदेव स्याद्गुह्यमेतत् प्रकाशितम् || ९-६८६ || लुब्धस्तारां न सेवेत लोकद्वयपरिक्षयात् | अस्याः पूजादिकं प्राग्वद्विशेषोऽत्र निरूपितः || ९-६८७ || तारायाः सद्गुरोः सिद्धिः स्त्रीरते भ्रान्तता भवेत् | अथातः संप्रवक्ष्यामि महातारामनुं सुराः || ९-६८८ || सिद्धिर्मार्गद्वयेनापि वर्णावर्णाधिकारतः | त्री/ ह्री/ ह्रा/ हु/ नमस्तारायै महापदमुच्चरेत् || ९-६८९ || तारायै सकलेत्युक्त्वा उस्वरान् तारय द्वयम् | तारद्वयं वह्निजाया द्वात्रिंशार्णो मनुर्मतः || ९-६९० || न्यासपूजाजपाद्यं तु प्राग्वत् सर्वं समाचरेत् | (तारिणीतन्त्रे) ईश्वर उवच | श्रूयतां शैलतनये जाड्यनाशकरि पूरा || ९-६९१ || चतुर्वर्गफला विद्या मन्त्रसिद्धिप्रदायिका | वर्गाद्यं वह्निसंयुक्तं वामाक्षिपरिभूषितम् || ९-६९२ || नादविन्दुसमायुक्तं वसुसिद्धिप्रदायकम् | पुनश्चतुर्मुखं देवि रकारेण विभूषितम् || ९-६९३ || स्वरेणैव चतुर्थेन चन्द्रखण्डेन च प्रिये | लाञ्छितं वै महाबीजं चतुर्वर्गफलप्रदम् || ९-६९४ || प्. ७९४) ततः कृष्णे पदं चोक्त्वा ततो देवीपदं स्मृतम् | ह्री/कारं च ततो दद्यात् स्वपूर्वमुद्धरेत् ततः || ९-६९५ || इकारेण च रेफेण मकारेण च भूषितम् | ततो वाग्भवमुच्चार्य मन्त्रमेनं समुद्धरेत् || ९-६९६ || नवाक्षरो मनुर्देवि तारिण्याः समुदीरितः | इयमेव महाविद्या स्वर्गे मर्त्ये सुदुर्लभा || ९-६९७ || अष्टसिद्धिप्रदा देवि चतुर्वर्गफलप्रदा | अथ ऋष्यादिन्यासः शक्तिरस्य ऋषिः प्रोक्तो बृहतीछन्द ईरितम् || ९-६९८ || तारिणी देवता प्रोक्ता ह्री/कारं बीजमुच्यते | वाग्भवं शक्तिरित्युक्तमिति ऋष्यादिकं चरेत् || ९-६९९ || अथ ध्यानम् | कृष्णां लम्बोदरीं भीमां नागकुण्डलशोभिताम् | रक्तमुखीं ललज्जिह्वां रक्ताम्बरधरां कटौ || ९-७०० || पीनोन्नतस्तनीमुग्रां महानागेन वेष्टिताम् | शवस्योपरि देवेशि तस्योपरि कपालके || ९-७०१ || नासाग्रध्याननिरतां महाघोरां वरप्रदाम् | चतुर्भुजां दीर्घकेशीं दक्षिणस्योर्ध्वबाहुना || ९-७०२ || बिभ्रतीं नलिनीमेकां वामोर्ध्वे पानपात्रकम् | वराभयधरां देवीमधस्ताद्दक्षवामयोः || ९-७०३ || पिवन्तीं रौधिरीं धारां पानपात्रे सदाशिवे | सर्वसिद्धिप्रदां देवीं नित्यां गिरिनिवासिनीम् || ९-७०४ || लोचनत्रयसंयुक्तां नागयज्ञोपवीतिनीम् | दीर्घनासां दीर्घजङ्घां दीर्घाङ्गीं दीर्घजिह्विकाम् || ९-७०५ || प्. ७९५) चन्द्रसूर्याग्निभेदेन त्रिलोचनसमन्विताम् | शत्रुनाशकरीं देवीं महाभीमां वरप्रदाम् || ९-७०६ || व्याघ्रचर्मशिरोबद्धां जगत्त्रयविभाविताम् | साधकानां सुखं कर्त्त्री सर्वलोकभयङ्करीम् || ९-७०७ || एवम्भूतां महादेवीं तारिणीं प्रणमाम्यहम् | अथ पुरश्चरणम् | एवं संपूजयित्वा च एभिर्द्रव्यैर्महेश्वरि || ९-७०८ || लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः | अथाक्षोभ्यमन्त्रः | (ब्रह्मसंहितायाम्) अक्षोभ्यस्य मनुं त्यक्त्वा देवीं तारां जपेद्यदि || ९-७०९ || सिद्धिहानिर्भवेत् तस्य रौरवं नरकं व्रजेत् | अक्षोभ्यस्य मनुं विप्र कवचं सारमुत्तमम् || ९-७१० || अतिगुह्यं महाध्यानं सर्वध्यानेषु चोत्तमम् | अग्रे मनुं प्रवक्ष्यामि ध्यानं चैव ततः परम् || ९-७११ || कवचं च ततः पश्चात् कथयामि क्रमेण तु | अनुत्तरं समुद्धृत्य पपञ्चमविभूषितम् || ९-७१२ || अक्षोभ्येति? च स्वाहेति रमाद्यन्तं महामनुः | स्वयम् - ऋषिश्च संप्रोक्तो विराट्छन्द उदीरितम् || ९-७१३ || अक्षोभ्यो देवता प्रोक्तस्त्रिमूर्त्तिर्नागरूपधृक् | विनियोगस्तु नियतं पुरुषार्थचतुष्टये || ९-७१४ || अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकम् | सहस्रादित्यसंकाशं नागरूपधरं शुभम् || ९-७१५ || विद्युत्कोटिसमं वक्त्रं वह्निभास्वरलोचनम् | सार्धत्रिवलयोपेतं जटाकोट्यग्रसंस्थिताम् || ९-७१६ || प्. ७९६) महालावण्यसंयुक्तं सुरासुरनमस्कृतम् | सूर्यविद्युत्समाभासं महामणिशिखोपरि || ९-७१७ || एतद्रूपं महाकायं देवैरपि सुपूजितम् | तन्त्रान्तरे | अक्षोभ्यं पूजयित्वाऽदौ तारां संपूजयेत् सुधीः || ९-७१८ || तथा | पुरश्चर्यादिकं चास्य तारिणीवत् समाचरेत् | इति ताराप्रकरणम् | अथ श्रीविद्या | तत्रादौ कामराजविद्या (चन्द्रपीठे) स्मरो भगं विन्दुमती लपरा वाग्भवं मतम् || ९-७१९ || शिवो जीवः स्मरः शम्भुर्लपरा कामकूटकम् | भृगुः कामः क्षमा माया कामराजाभिधा मता || ९-७२० || कूटत्रयस्य वाग्भवादिसंज्ञा च तत्रैवोक्ता | प्रथमं वाग्भवं कूटं द्वितीयं कामकूटकम् | तृतीयं शक्तिकूटं स्यात् कूटत्रयतनुर्मनुः || ९-७२१ || अथ लोपामुद्राख्या विद्या (ज्ञानार्णवे) शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां पराम् | कामराजाख्यविद्यायाः शक्तिं तुया चतु * *म् || ९-७२२ || हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता | कामराजाख्यविद्याया वाग्भवे एकारमीकारं च विहायादौ हकारसकारौ दद्यादित्यर्थः | इयमगस्त्योपासिता | अथ षोडशी (योगिनीतन्त्रे) श्रीबीजमाया स्मरयोनिशक्ति- स्तारं च माया कमलाऽथ विद्या || ९-७२३ || शक्त्यादिबीजैश्च विलोमतोक्त्या श्रीषोडशीयं च शिवोपदिष्टा | प्. ७१७) तन्त्रान्तरे | श्रीबीजं शक्तिबीजं च कामबीजं च वाग्भवम् || ९-७२४ || बालान्तसंस्थितं बीजं प्रणवं च ततः परम् | शक्तिबीजं रमां चैव विद्यां च परमेश्वरि || ९-७२५ || लोपां वा कामराजं वा त्रिकूटामथ वा पराम् | विन्यस्य प्रणवाद्यानि बीजानि पञ्च सुन्दरि || ९-७२६ || विपरीतक्रमेणैव विन्यसेत् षोडशीं पराम् | (मायातन्त्रेऽपि) लक्ष्मीः परा मदनयोनियुता च शक्ति- स्तारः परा च कमलाऽप्यथ मूलविद्या || ९-७२७ || शक्त्यादिभिश्च विपरीततया प्रदिष्टा श्रीमन्त्रराज उदितः परदेवतायाः || (महाकालसंहितायाम्) अतः परतरा विद्या न भूता न भविष्यति || ९-७२८ || केनापि नैव शप्तेयं न च केनापि कीलिता | (ज्ञानार्णवे) वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || ९-७२९ || वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी | ब्रह्मविद्या स्वरूपा हि भुक्तिमुक्तिफलप्रदा || ९-७३० || एकोच्चारेण देवेशि वाजपेयस्य कोटयः | अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा || ९-७३१ || काश्यादितीर्थयात्राः स्युः सार्धकोटित्रयान्विताः | तुलां नायान्ति देवेशि नात्र कर्या विचारणा || ९-७३२ || एकोच्चारेण गिरिजे किं पुनर्ब्रह्मकेवलम् | षोडशार्णा महाविद्या न प्रकाश्या कदा चन || ९-७३३ || प्. ७१८) गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति | अपि प्रियतमे देयं सुतदारधनादिकम् || ९-७३४ || राज्यं देयं शिरो देयं न देया षोडशाक्षरी | सप्तलक्षं महाविद्यास्तन्त्रादौ कथिताः प्रिये || ९-७३५ || सारात् सारतरा चेयं महाविद्या सुगोपिता | अथ ऋष्यादिन्यासस्तत्रैव | ऋषिरस्य महेशानि दक्षिणामूर्तिरव्ययः || ९-७३६ || पङ्क्तिश्छन्दः समाख्यातं देवी त्रिपुरसुन्दरी | वाग्भवं बीजमित्युक्तं शक्तिस्तु शक्तिकूटकम् || ९-७३७ || कामराजः कीलकं स्यादृष्यादिन्यास ईरितः | वाग्भवादीनां बीजादिरूपत्वे हेतुरुक्तो (दक्षिणामूर्तिसंहितायाम्) निःसरन्ति महामन्त्रा महाग्नेर्विष्फुलिङ्गवत् || ९-७३८ || तथैव मातृका वर्णा निःसृता वाग्भवा प्रिये | अत एवास्य देवस्य वाग्भवं बीजमुच्यते || ९-७३९ || योषित् पुरुषरूपेण स्फुरन्ती विश्वमातृका | महामोहेन देवेशि कीलयन्ती जगत्त्रयम् || ९-७४० || अतस्तत्कीलकं देवि तेन सौभाग्यगर्भिता | पालयन्ती जगत् सर्वं तेनेयं शक्तिरुच्यते || ९-७४१ || अथ कराङ्गन्यासस्तन्त्रान्तरे | अ/ आ/ सौ/ रिति प्रोक्तं बीजं त्रिविधमुत्तमम् | एतद्बीजं द्विरावृत्य मध्यमाद्यङ्गुलीषु च || ९-७४२ || शुद्धिं करस्य कुर्वीत तलयोः पृष्ठयोरपि | चतुर्थी नतिसंयुक्ता नाममन्त्रैः पृथक् प्र्ठक् || ९-७४३ || मध्यमाऽनामिका चैव कनिष्ठाङ्गुष्ठतर्जनी | प्. ७१९) क्रमेण नाम चाख्यातमङ्गुलीनां महेश्वरि || ९-७४४ || (नवरत्नेश्वरे) सर्वज्ञता नित्यसुतृप्तता च अनादिबोधश्च स्वतन्त्रता च | अलुप्तशक्तित्वमनन्तता च षडाहुरङ्गानि शिवे शिवाद्याः || ९-७४५ || अत्र बहुविधन्यासजालं (ज्ञानार्णवादौ) द्रष्टव्यम् | अथ ध्यानम् | बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् | पाशाङ्कुशधनुर्बाणधारयन्तीं शिवां श्रये || ९-७४६ || (सिद्धान्तसंग्रहे महाकालसंहितायां) च | उद्यच्चन्द्रोदयक्षुब्धरक्तपीयूषवारिधेः | मध्ये हेममयी भूमी रत्नमाणिक्यमण्डिता || ९-७४७ || तन्मध्येनन्दनोद्यानं मदनोन्मादनं महत् | नित्याभ्युदितपूर्णेन्दुज्योत्स्नाजालविराजितम् || ९-७४८ || सदा सह वसन्तेन कामदेवेन रक्षितम् | कदम्बचूतपुन्नागनागकेशरचम्पकैः || ९-७४९ || वकुलैः पारिजातैश्च सर्वर्त्तुकुसुमोज्ज्वलैः | झङ्कारमुखरैर्भृङ्गैः कूजद्भिः कोकिलैः शुकैः || ९-७५० || नानावर्णैरथान्यैश्च द्विजसङ्घैर्निषेवितम् | शिखिकारण्डहंसाद्यैर्नानापक्षिभिरावृतम् || ९-७५१ || नानापुष्पलताकीर्णैः शोभितं वृक्षखण्डकैः | पर्यन्तदीर्घिकोत्फल्लकमलोत्पलसम्भवैः || ९-७५२ || रजोभिर्धूसरैः सम्यक् सेवितं मलयानिलैः | ध्यात्वैवं नन्दनोद्यानं तदन्तः प्राङ्गणं स्मरेत् || ९-७५३ || शुद्धकाञ्चनसंकाशवसुधाभिरलङ्कृतम् | प्राङ्गणं चिन्तयित्वेत्थं सुरसिद्धनिषेवितम् || ९-७५४ || प्. ८००) तन्मध्ये मण्डपं ध्यायेद्व्याप्तब्रह्माण्डमण्डलम् | सहस्रादित्यसंकाशं चतुरस्रं सुशोभितम् || ९-७५५ || रत्नतेजःप्रभापुञ्जपिञ्जरीकृतदिङ्मुखम् | मध्यस्तम्भविनिर्मुक्तं कोणस्तम्भसमन्वितम् || ९-७५६ || महामाणिक्यवैदूर्यरत्नकाञ्चनभूषितम् | मुक्तादामवितानाढ्यं रत्नसोपानमण्डितम् || ९-७५७ || मन्दवायुसमाक्रान्तं गन्धधूपतरङ्गितम् | रत्नचामरघण्टादिवितानैरुपशोभितम् || ९-७५८ || जातीचम्पकपुन्नागकेतकीमल्लिकादिभिः | रक्तोत्पलसिताम्भोजमाधवीभिः सुपुष्पकैः || ९-७५९ || बद्धाभिश्चित्रमालाभिः सर्वत्र समलङ्कृतम् | तिर्यगूर्ध्वलसद्रक्तपुत्तलीकोटिमण्डितम् || ९-७६० || नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा | तन्मध्ये भावयेन्मन्त्री परिजातं मनोहरम् || ९-७६१ || स्वर्णादिरत्नभूमिं च वालुकां काञ्चनप्रभाम् | उद्यदादित्यसंकाशं व्याप्तब्रह्माण्डमण्डपम् || ९-७६२ || शतयोजनविस्तीर्णं ज्योतिर्मन्दिरमुत्तमम् | चतुर्द्वारसमायुक्तं हेमप्राकारमण्डितम् || ९-७६३ || रत्नोपकॢप्तिसंशोभिकपाटाष्टकसंयुतम् | नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् || ९-७६४ || हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम् | मध्यकोणस्थितस्तम्भनवरत्नसमन्वितम् || ९-७६५ || महामाणिक्यवैदूर्यरत्नचामरशोभितम् | कल्पवृक्षे गिरेः पार्श्वे छत्रं तन्मण्डपोपरि || ९-७६६ || प्. ८०१) सुवर्णसूत्रै रचितं तन्मध्ये रत्नमण्डपम् | तन्मध्ये स्फुरितं ध्यायेत् त्रिशृङ्गं ज्योतिरुत्तमम् || ९-७६७ || तस्य मध्ये महाचक्रं पीयूषपरिपूरितम् | रत्नसिंहासनं तस्या वेद्या मध्ये स्मरेच्छुभम् || ९-७६८ || विरिञ्चिविष्णुरुद्रेशरूपपादचतुष्टयम् | सदाशिवमयं साक्षात् तस्मिन् परशिवात्मकम् || ९-७६९ || पुष्पपर्यङ्कतन्मध्ये श्रीमदुद्यानपीठके | पर्यङ्कबन्धविलसत्स्वस्तिकासनशालिनीम् || ९-७७० || ध्यायेत् परशिवाङ्कस्थां पद्ममध्योज्ज्वलाकृतिम् | त्रिपुरां सुन्दरीं देवीं बालार्ककिरणारुणाम् || ९-७७१ || जपाकुसुमसंकासां दाडिमीकुसुमोपमाम् | पद्मरागप्रतीकाशां कुङ्कुमारुणसन्निभाम् || ९-७७२ || स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् | कालालिकुलसंकाशकुटिलालकपल्लवाम् || ९-७७३ || प्रत्यगारुण संकाशवदनाम्भोजमण्डिताम् | किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् || ९-७७४ || पिनाकधनुराकारभ्रूलतां परमेश्वरीम् | आनन्दमुदितोल्लासलीलां दोलितलोचनाम् || ९-७७५ || स्फुरन्मयूखसङ्घातविलसद्धेमकुण्डलाम् | स्वगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् || ९-७७६ || विश्वकर्मविनिर्माणसूत्रविस्पष्टनासिकाम् | ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपमाम् || ९-७७७ || दाडिमीबीजपङ्क्त्याभदन्तपङ्क्तिविराजिताम् | स्मितमाधुर्यविजितमाधुर्यरससागराम् || ९-७७८ || प्. ८०२) अनौपम्यगुणोपेतचिवुकोद्देशशोभिताम् | कम्बुग्रीवां महादेवीं मृणालसदृशैर्भुजैः || ९-७७९ || रक्तोत्पलदलाकारसुकुमारकरां भुजाम् | कराम्बुजनखज्योतिर्विद्योतितनभस्तलाम् || ९-७८० || मुक्ताहारलतोपेतसमुन्नतपयोधराम् | त्रिवलीवलयामुक्तमध्यदेशसुशोभिताम् || ९-७८१ || लावण्यसरिदावर्त्तनिम्ननाभिविभूषिताम् | अनर्घ्यरत्नघटितकाञ्चीयुतनितम्बिनीम् || ९-७८२ || नितम्बबिम्बद्विरदरोमराजिवराङ्कुशाम् | कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् || ९-७८३ || लावण्यकुसुमाकारजानुमण्डलबन्धुराम् | लावण्यकदलीतुल्यजङ्घायुगलमण्डिताम् || ९-७८४ || गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् | तनुं दीर्घाङ्गुलीच्छन्ननखराजिविराजिताम् || ९-७८५ || ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् | शीतांशुशतसंकाशकान्तिसंतानहासिनीम् || ९-७८६ || लौहित्यजितसिन्दूरजपादाडिमरागिणीम् | रक्तवस्त्रपरीधानां पाशाङ्कुशकरोद्यताम् || ९-७८७ || रक्तपद्मनिविष्टां तु रक्ताभरणभूषिताम् | जगदाह्लादजननीं जगद्रञ्जनकारिणीम् || ९-७८८ || चतुर्भुजां त्रिनेत्रां तु पञ्चबाणधनुर्धराम् | कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् || ९-७८९ || महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् | सर्वशृङ्गारवेशाढ्यां सर्वाभरणभूषिताम् || ९-७९० || प्. ८०३) जगदानन्दजननीं जगद्रञ्जनकारिणीम् | जगदाकर्षणकरीं जगत्कारणरूपिणीम् || ९-७९१ || सर्वलक्ष्मीमयीं नित्यां सर्वशक्तिमयीं भजे | अथ दीपिनीविद्या तत्रैव | वाङ्मायाकमलाबीजं वाग्भवाद्ये नियोजयेत् || ९-७९२ || तारं लक्ष्मीं च वाग्बीजं मन्मथं भुवनेश्वरीम् | तज्जप्त्वा च ततः पश्चाद्वाग्भवाख्यं समुच्चरेत् || ९-७९३ || प्रणवं भुवनेशानीं रमां कामं च वाग्भवम् | कामराजं ततो जप्त्वा त्रैलोक्यक्षोभकारकम् || ९-७९४ || ओंकारं चापि वाग्बीजं रमां मन्मथमायया | स्वप्नावतीं महादेवि जपेत् तत्र समाहितः || ९-७९५ || प्रणवं चाधरं कामं रमां च भुवनेश्वरीम् | मधुमतीं ततो जप्त्वा मायाश्रीकूर्चबीजकम् || ९-७९६ || प्रणवाद्यं च देवेशि हंसबीजपुटीकृतम् | एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् || ९-७९७ || जपनियमस्तु | जपेदादौ जपेत् पश्चात् सप्त वाराननुक्रमात् | कामराजादिबीजानां दीपनं चैव कारयेत् || ९-७९८ || अथ पुरश्चरणविधिः (वामकेश्वरतन्त्रे) तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपधृक् | किंशुकैर्हवनं कुर्याद्दशांशं च वरानने || ९-७९९ || कुसुम्भकुसुमैर्वाऽपि मधुरत्रयमिश्रितैः | (सिद्धान्तसारेऽपि) लक्षमात्रं जपेद्विद्यां हविष्याशी जितेन्द्रियः || ९-८०० || होमं कुर्याद्दशांशेन किंशुकैर्मधुराप्लुतैः | प्. ८०४) एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति इति || ९-८०१ || अथ त्रिपुरभैरवमन्त्रः (वामकेश्वरे) माया लक्ष्मीस्तथा हंसः प्रासादबीजमेव च | वह्निजायान्तको मन्त्रो भवेत् त्रैपुरभैरवः || ९-८०२ || षडङ्गमूलमन्त्रेण वलिपूजादिकं तथा | अथ ध्यानम् | एकवक्क्रं त्रिनयनं चतुर्बाहुसमन्वितम् || ९-८०३ || दक्षिणे चाङ्कुशं खड्गं वामे खेटकपाशकौ | धारयन्तं रक्तवर्णं वृषासनगतं विभुम् || ९-८०४ || उर्द्ध्वकेशं हारहारं कपालमालयाऽन्वितम् | एवंविधं महादेवि ध्यायेत् त्रिपुरभैरवम् || ९-८०५ || अस्य पुरश्चरणं षोडशीपुरश्चरणसमानम् | अथ बालामन्त्रः (त्रिपुरासारसमुच्चये) अथ त्रिलोकार्चितशासनाया वक्ष्यामि बीजत्रयमम्बिकायाः | गोप्तव्यमेतत् कुलधर्मविद्भि रमुष्य हेतोर्निजसिद्धये च || ९-८०६ || कान्तादिभूतपदगं कगतार्धचन्द्रं दन्तान्तपूर्वजलधिस्थितवर्णयुक्तम् | एतज्जपं नरवरो भुवि वाग्भवाख्यं वाचां सुधारसमुचां लभते स सिद्धिम् || ९-८०७ || कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं कामाख्यं गदितं जपान्मनुरयं साक्षाज्जगत्क्षोभकृत् | दन्तान्तेन युतं सदण्डिसकलं संमोहनाख्यं कुलं प्. ८०५) सिध्यत्यस्य गुणाष्टकं खचरतासिद्धिश्च नित्यं जपात् || ९-८०८ || ऋषिर्दक्षिणामूर्तिसंज्ञो महात्मा भवेच्छन्द एतस्य मन्त्रस्य पङ्क्तिः | सरस्वत्यचिन्त्यप्रभावा प्रदिष्टा | बुधैर्देवता देववृन्दार्चिताङ्घ्रिः || ९-८०९ || अमुष्य मन्त्रस्य रदान्तयुक्तं बीजं सदण्डं नकुलीशपूर्वम् | शक्तिस्तु सा खण्डलकर्णपूर्वसहार्धजैवातृकमाननान्तम् || ९-८१० || (मेरुतन्त्रे तु) बालाबीजं वाग्भवं स्यात् तार्त्तीयं शक्तिरुच्यते | कीलकं कामराजः स्याद्द्विरावृत्या षडङ्गकम् इत्युक्तम् || ९-८११ || (त्रिपुरासारसमुच्चये) वर्णः शुक्लो मुनिभिस्त्रिभुवनमहितस्य मन्त्रराजस्य | आगमपारगमतिभिर्गान्धारोऽस्य स्वरो गदितः || ९-८१२ || विद्यामूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं सर्वथा सिद्धिकामैः | देव्या शप्ता येन विद्येयमाद्या पूर्वं तेन प्राणहीनाऽभवत् सा || ९-८१३ || ज्ञातव्येत्यनेन तु जप्तव्येति सूचितम् | देव्या शष्तेत्यनेन च निषेधहेतुर्दर्शितः | शापनिर्मुक्तिप्रकारस्तु तत्रैवोक्तः | शिवशक्तिबीजमत एव शम्भुना निहितं तयोरुपरि पूर्वबीजयोः | अकुलं कुलोपरि च मध्यसाधरे दहनं ततः प्रभृति सोर्जिताऽभवत् || ९-८१४ || संज्ञाभेदमाह | भैरवीयमुदिता कुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा | प्. ८०६) सैव शीघ्रफलदा भुवि विद्येत्युच्यते पशुजनेष्वतिगोप्या || ९-८१५ || अकुलं हकारस्तत्पूर्वा चेद्भैरवी | कुलं सकारस्तत्पूर्ण चेद्विद्येत्युच्यत इत्यर्थः आद्यन्तबीजयोर्वह्निबीजाभावाद्वक्ष्यमाणत्रिपुरभैरवोविद्यावैल-क्षण्यमस्या बोद्धव्यम् | अस्या ध्यानमुक्तं (मेरुतन्त्रे) अभयं पुस्तकं बालां वरं च दधतीं करैः | अरुणामरुणाब्जस्थां रक्तवस्त्रां द्विजेशकाम् || ९-८१६ || तन्त्रान्तरे तु | संस्मरेत् त्रिपुरां बालां शरच्चन्द्रसमप्रभाम् इति | शुक्लवर्णेयमुक्ता | (त्रिपुरासारसमुच्चये) पाशाङ्कुशाभयवरोद्यतपाणिपद्माम्-इत्यायुधविशेष उक्तः || ९-८१७ || अथ पुरश्चरणं (ज्ञानार्णवे) वर्णलक्षं जपेन्मन्त्रं दशांशं हवनं चरेत् | तर्पणादि ततः कुर्यात् सर्वसौभाग्यभाग्भवेत् इति || ९-८१८ || इति श्रीविद्याप्रकरणम् | अथ भुवनेश्वरोविद्या (शारदायाम्) अथ वक्ष्ये जगद्धात्रोमधुना भुवनेश्वरीम् | ब्रह्मादयोऽपि यां ज्ञात्वा लेभिरे श्रियमूर्जिताम् || ९-८१९ || नकुलीशोऽग्निमारुढो वामनेत्रार्धचन्द्रवान् | बीजं तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः || ९-८२० || ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः | कथिता सुरसङ्घेन सेविता भुवनेश्वरी || ९-८२१ || षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् | अथ ध्यानम् | उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् || ९-८२२ || स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजेद्भुवनेशीम् | प्. ८०७) अथ पुरश्चरणम् | प्रजपेन्मन्त्रविन्मन्त्रं द्वात्रिंशल्लक्षमानतः || ९-८२३ || त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः | अथ मन्त्रान्तरं तत्रैव | वाग्भवं शम्भुवनिता रमा बीजत्रयात्मकम् || ९-८२४ || मन्त्रं समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् | षड्दीर्घभाजा मध्येन वाग्भवाद्येन कल्पयेत् || ९-८२५ || षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् | अथ ध्यानम् | सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् || ९-८२६ || पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् || अब पुरश्चरणम् | रविलक्षं जपेन्मन्त्रं पायसैर्मधुराप्लुतैः || ९-८२७ || दशांशं जुहुयान्मन्त्री पीठे प्रागीरिते यजेत् | अथ मन्त्रान्तरं तत्रैव | वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता || ९-८२८ || मध्येन दीर्घयुक्तेन वाक्पुटेन प्रकल्पयेत् | अङ्गानि जातियुक्तानि क्रमेण मनुवित्तमः || ९-८२९ || अथ ध्यानम् | श्यामाङ्गीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं रत्नाढ्यं चषकं परं भयहरं संबिभ्रतीं शाश्वतीम् | मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लासिनीं वन्देऽहं सुरपूजितां हरवधूं रक्तारविन्दस्थिताम् || ९-८३० || प्. ८०८) अथ पुरश्चरणम् | तत्त्वलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः | पालाशपुष्पैः स्वाद्वक्तैः पुष्पैर्वा राजवृक्षकैः || ९-८३१ || अथ मन्त्रान्तरं तत्रैव | अनन्तो विन्दुसंयुक्तो मायाब्रह्माग्नितारवान् | पाशादिस्त्र्यक्षरो मन्त्रः सर्ववश्यफलप्रदः || ९-८३२ || ऋष्याद्याः पूर्वमुक्ताः स्युर्बीजेनाङ्गक्रिया मता | अथ ध्यानम् | वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् || ९-८३३ || बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरीं ताम् | अथ पुरश्चरणम् | हविष्यभुग्जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः || ९-८३४ || षट्सहस्रं प्रजुहुयाज्जपान्ते मन्त्रवित्तमः | दधिक्षौद्रघृताक्ताभिः समिद्भिः क्षीरभूरुहाम् || ९-८३५ || तत्सङ्ख्यया तिलैः शुद्धैः पयोऽक्तैर्जुहुयात् ततः | अस्याः पुमान्महादेवः | तन्मन्त्रः पञ्चाक्षरस्तत्प्रकरण एवोक्तः | इति भुवनेश्वरीविद्याप्रकरणम् | अथ भैरवीविद्या | तत्रादौ त्रिपुरभैरवीविद्या प्रोक्ता (शारदायाम्) अथ वक्ष्ये परां विद्यां त्रिपुरामतिगोपिताम् || ९-८३६ || यां ज्ञात्वा सिद्धसङ्घानामधिपो जायते नरः | वियद्भृगुहुताशस्थो भौतिको विन्दुशेखरः || ९-८३७ || वियत् तदादिकेन्द्राग्निस्थितं वामाक्षिविन्दुमत् | आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् || ९-८३८ || वाग्भवं प्रथमं बीजं कामबीजं द्वितीयकम् | प्. ८०९) तृतीयं शक्तिबीजाख्यं त्रिभिर्बीजैरितीरिता || ९-८३९ || पञ्चकूटात्मिका विद्या वेद्या त्रैपुरभैरवी | ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिः समीरितम् || ९-८४० || देवता देशिकैरुक्ता देवी त्रिपुरभैरवी | तथा | षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता || ९-८४१ || न्यासान्तराणि विस्तरभयादुपेक्षितानि पुरश्चरणस्यैवात्र निरूपणीयत्वात् | अथ ध्यानम् | उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वराम् | हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्क्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् || ९-८४२ || अथ पुरश्चरणं | दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः | पुष्पिर्भानुसहस्राणि जुहुयाद्ब्रह्मवृक्षजैः || ९-८४३ || त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः | तत्त्वलक्षं लक्षत्रयम् | अथ चैतन्यभैरवीमन्त्रो (मेरुतन्त्रे) चैतन्यभैरवीमन्त्रस्त्र्यक्षरः कथ्यतेऽधुना || ९-८४४ || सहावैकारसंयुक्तौ प्रथमं बीजमीरितम् | सकला ह्री/ समायुक्ता द्वितीयं बीजमुच्यते || ९-८४५ || सहारा औसमायुक्ता विसर्गान्तास्तृतीयकम् | अत्र त्रिभिर्बीजैर्द्विरावृत्त्या षडङ्गन्यासः कार्यः | अथ ध्यानम् | उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् || ९-८४६ || मुकुटोर्ध्वलसच्चन्द्ररेखां रक्ताम्बराञ्चिताम् | प्. ८१०) पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् || ९-८४७ || वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् | एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासने स्थिताम् || ९-८४८ || पुरश्चर्यादिकं प्राग्वत् प्रयोगा/श्चापि साधयेत् | प्राग्वदिति त्रिपुरभैरवीवत् | अथ भुवनेश्वरभैरवीमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि भुवनेश्वरभैरवीम् | ८४९ || हसावैकारसंयुक्तौ प्रथमं बीजमीरितम् | हसकला ह्री/ समेता द्वितीयं बीजमुच्यते || ९-८५० || हसावौकारसंयुक्तौ विसर्गान्तं तृतीयकम् | षड्दीर्घान्वितमध्येन बीजेनोक्तं षडङ्गकम् || ९-८५१ || अथ ध्यानम् | जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् | चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् || ९-८५२ || नानालङ्कारशुभगां पीनोन्नतघनस्तनीम् | पाशाङ्कुशवराभीतीर्दधानां च शिवां श्रये || ९-८५३ || चैतन्यभैरवीवत् स्याद्यद्यन्नोक्तमिहार्थवत् | अस्याः पुरश्चरणं तु त्रिपुरभैरवीपुरश्चरणवद्बोध्यम् | अथ कमलेश्वरीभैरवी तत्रैव | अथातः संप्रवक्ष्यामि भैरवीं कमलेश्वरीम् | हसस्थाने सहेत्युक्त्वा सर्वं मन्त्रादि पूर्ववत् || ९-८५४ || राज्ञा ज्ञाता ततः शप्ता तुहिनागेऽभवन्नदी | त्यक्तस्तया वाममार्गो राजभीत्या तु मत्कृते || ९-८५५ || यतो लब्धं तया दुःखं कलौ ख्यातिं गमिष्यति | प्रनष्टेषु च देवेषु प्रत्यक्षेयं भविष्यति || ९-८५६ || प्. ८११) अवर्णाश्चापि वर्णाश्च भविष्यन्ति वरप्रदाः | त्यक्त्वा मपञ्चकं पूजां कृत्वा ये जपतत्पराः || ९-८५७ || अस्यास्तीरे पुरश्चर्या नवकात् संप्रसीदति | भुवनेशी भैरवी तु कृत्वा रूपान्तरं मम || ९-८५८ || कार्यार्थं बहवः शिष्याः कौलिका वामिनः कृताः | तस्या ध्यानाद्यर्चनादि प्राग्वद्दक्षिणमार्गतः || ९-८५९ || अथ संपत्प्रदाभैरवी (ज्ञानार्णवे) यथाऽसौ त्रिपुरा बाला तथा त्रिपुरभैरवी | संपत्प्रदा नाम तस्याः शृणु निर्मलमानसे || ९-८६० || शिवश्चन्द्रो वह्निसंस्थो वाग्भवं तदनन्तरम् | कामबीजं तथा देवि शिवचन्द्रान्वितं ततः || ९-८६१ || पृथ्वीबीजं तु वह्न्याढ्यं तार्त्तीयं शृणु वल्लभे | शक्तिबीजे महेशानि शिववह्नी नियोजयेत् || ९-८६२ || कुमार्याः परमेशानि हित्वा सर्गं तु वैन्दवम् | त्रिपुराभैरवी देवी महासंपत्प्रदा प्रिये || ९-८६३ || त्रिपुरभैरवी विसर्गरहिता संपत्प्रदा भवति | न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् | ध्यानं यथा | आताम्रार्कसहस्राभां स्फुरच्चन्द्रकलाजटाम् || ९-८६४ || किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् | गलद्रुधिरपङ्काढ्यमुण्डमालाविराजिताम् || ९-८६५ || नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् | मुक्ताहारलताराजत्पीनोन्नतघनस्तनीम् || ९-८६६ || रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् | प्. ८१२) पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् || ९-८६७ || वरदानरतां नित्यां महासंपत्प्रदां स्मरेत् | अस्याः पुरश्चरणमपि पूर्ववद्बोध्यम् | अथ कौलेशभैरवी तत्रैव | संपत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् || ९-८६८ || हसराद्यैव देवेशि त्रिषु बीजेषु पार्वति | इयं तु सहराद्या स्याद्ध्यानपूजादिकं तथा || ९-८६९ || त्रिपुरभैरवीवदिति शेषः | आदिपदात् पुरश्चरणस्यापि संग्रहः | अथ कामेश्वरभैरवी तत्रैव | कामेश्वरी च रुद्रार्णा पूर्वसिंहासने स्थिता | एतस्या एव विद्याया बीजद्वयमुदाहृतम् || ९-८७० || तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे | एतस्या एव तार्त्तीयं रुद्रार्णा परमेश्वरि || ९-८७१ || ध्यानपूजादिकं देवि चैतन्यावत् समीरितम् | एवं पुरश्चरणमपि | अथ षट्कूटाभैरवी (ज्ञानार्णवे) डाकिनीराकिनीबीजे लाकिनीकाकिनीयुगम् || ९-८७२ || शाकिनीहाकिनीबीजे आहृत्य सुरसुन्दरि | आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् || ९-८७३ || शक्रस्वरान्वितं देवि तार्त्तीयं बीजमालिखेत् | विन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे || ९-८७४ || द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि | पुरश्चरणं तु पूर्ववत् | अथ नित्याभैरवी तत्रैव | एतस्या एव विद्यायाः षडर्णाः क्रमशः स्थिताः || ९-८७५ || प्. ८१३) विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा | न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् || ९-८७६ || अथ रुद्रभैरवी तत्रैव | शिवचन्द्रौ मादनान्तं पान्तं वह्निसमन्वितम् | शक्तिभिन्नं विन्दुनादकलाढ्यं वाग्भवं प्रिये || ९-८७७ || संपत्प्रदाया भैरव्याः कामबीजं तदेव हि | सदाशिवस्य बीजं तु महासिंहासनस्य च || ९-८७८ || सदाशिवबीजं प्रेतबीजम् एषा विद्या महेशानि वर्णितुं नैव शक्यते | ऋष्यादिन्यासस्त्रिपुरभैरवीवत् | अथ ध्यानम् | उद्यद्भानुसहस्राभां चन्द्रचूडां त्रिलोचनाम् | नानालङ्कारशुभगां सर्ववैरिनिकृन्तनीम् || ९-८७९ || वमद्रुधिरमुण्डालीकलितां रक्तवाससम् | त्रिशूलं डमरूं खड्गं तथा खेटकमेव च || ९-८८० || पिनाकं च शरान् देवीं पाशाङ्कुशयुतं क्रमात् | पुस्तकं चाक्षमालां च शिवसिंहासनस्थिताम् || ९-८८१ || तन्त्रान्तरे | न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् | एवं पुरश्चरणमपि | अत्र भैरवो वटुकस्तन्मन्त्रपुरश्चरणं शिवप्रकरणे प्रोक्तम् | इति भैरवीप्रकरणम् | अथ छिन्नमस्ताविद्या | (विश्वसारे यामले च) प्रचण्डचण्डिकां वक्ष्ये सर्वकामफलप्रदाम् || ९-८८२ || यस्याः प्रसादमात्रेण शिव एव भवेन्नरः | अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् || ९-८८३ || प्. ८१४) कवित्वं च सुपाण्डित्यं लभते नात्र संशयः | मन्त्रोद्धारमाह | लक्ष्मीं लज्जां ततो मायां मात्राद्वादशिकामथ || ९-८८४ || वज्रवैरोचनीये च माये फट्स्वाहया युते | लक्ष्मीबीजं यदाऽद्यं स्यात् तदा श्रीः सर्वतोमुखी || ९-८८५ || लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः | मायाबीजेन चाद्येन महापातकनाशनम् || ९-८८६ || मात्राद्वादशिकाबीजमाद्यं स्यान्मुक्तिदायकम् | अत्र लज्जापदं कामबीजपरम् | तथा चोक्तम् | अत्र लज्जापदं देवि कामबीजपरं भवेत् | महाकालमतं प्रोक्तं मन्त्रोद्धारं शुभावहम् इति || ९-८८७ || मन्त्रोद्धारश्लोकस्थलज्जापदस्य तु मायाबीजपरत्वेऽपि न क्षतिः | श्रीबीजानन्तरं क्वचित् कामबीजस्य क्वचिन्मायाद्वयस्य च दर्शनात् | मायापदस्य क्व चित् कूर्चपरत्वमपि दृश्यते | सविन्दुवामश्रुतियुग्वियन्माया प्रकीर्तिता इति | मात्राद्वादशिका वाग्भवम् | (विश्वसारे) ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी | एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा || ९-८८८ || तदुक्तं (मेरुतन्त्रे) प्रणवं च रमां लज्जां बीजद्वन्द्वं च वाग्भवम् | वज्रवैरोचनीये ह्री/ ह्री/ फट्स्वाहा घनाक्षरः || ९-८८९ || भैरवोऽस्य मुनिः प्रोक्तः सम्राट्छन्द उदाहृतम् | छिन्नमस्ता भवेद्देवी वाममार्गेण सिद्धिदा || ९-८९० || प्. ८१५) (यामलादौ) आसामृषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः | सम्राट्छन्दो देवता च छिन्नमस्ता प्रकीर्तिता || ९-८९१ || मायाबीजं स्वाहा शक्तिः कथिता ब्रह्मयोनिना | धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः || ९-८९२ || (मेरौ) आ/ खड्गाय हृदाख्यातमी/ सुखड्गाय मस्तकम् | ओं वज्राय शिखा प्रोक्ता ऐ/ पाशाय तनुच्छदम् || ९-८९३ || औमङ्कुशाय नेत्रं स्यादश्वासुरक्षयाय च | हू/ हू/ नवार्णोऽस्त्रमन्त्रः सर्वे स्युः प्रणवादिकाः || ९-८९४ || स्वाहान्ताः सर्व एवैते ततो ध्यानं समाचरेत् | ध्यानं यथा | भास्वन्मण्डमध्यस्थां विपरीतरतस्थितौ || ९-८९५ || रतिकामौ समारूढां विकीर्णसकलालकाम् | वामे करे निजशिरश्छिन्नं संदधतीं पुनः || ९-८९६ || गलान्निर्गतमस्रं च पिवन्तीं तन्मुखेन च | डाकिनीवर्णिनीभ्यां च सखीभ्यां परिवारिताम् || ९-८९७ || अथ मन्त्रान्तरम् (महाकालसंहितायाम्) अथातश्छिन्नमस्ताया मन्त्रं ते व्याहराम्यहम् | जिघृक्षयाऽपि यस्य स्युः साधकस्याष्ट सिद्धयः || ९-८९८ || नातः परतरा का चिदुग्रा देवी भविष्यति | तस्मादसक्तैर्मनुजैर्न ग्राह्येयं कथं चन || ९-८९९ || सिद्धिर्वा मृत्युरपि वा द्वयोरेकतरं भवेत् | प्रणवं च रमाबीजं लज्जां वाग्भवमेव च || ९-९०० || वज्रवैरोचनीये च इत्येवं तत उद्धरेत् | प्. ८१६) क्रोधद्वयं ततश्चास्त्रं स्वाहान्तः षोडशाक्षरः || ९-९०१ || अस्य न्यासादिकं पूर्ववत् कार्यम् | अथ ध्यानम् ध्यानमस्याः प्रवक्ष्यामि तत्र चेतो निवेशय | स्वनाभौ नीरजं ध्यायेत् शुद्धं विकशितं सितम् || ९-९०२ || तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः | जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् || ९-९०३ || रजःसत्त्वतमोरेखायोनिमण्डलसन्निभम् | मध्ये तस्या महादेवीं सूर्यकोटिसमप्रभाम् || ९-९०४ || छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् | प्रसारितमुखीं भीमां लेलिहानोग्रजिह्विकाम् || ९-९०५ || पिवन्तीं रक्तधारां च निजकण्ठसमुद्भवाम् | विकीर्णकेशपाशां तां नानापुष्पसमन्विताम् || ९-९०६ || दक्षिणे च करे कर्त्त्री मुण्डमालाविभूषिताम् | दिगम्बरां महाघोरां प्रत्यालीढपदस्थिताम् || ९-९०७ || अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् | सदा षोडशवर्षीयां पिनोन्नतपयोधराम् || ९-९०८ || नागाङ्गदां नागकाञ्चीं नागनूपुरसंयुताम् | नागकुण्डलसंयुक्तामष्टनागसमन्विताम् || ९-९०९ || विपरीतरतासक्तरतिकामोपरिस्थिताम् | डाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः || ९-९१० || दक्षिणे वर्णिनीं ध्यायेद्वामपार्श्वे तु डाकिनीम् | वर्णिनीं लोहितश्यामां मुक्तकेशीं दिगम्बराम् || ९-९११ || कपालकर्त्त्रिकाहस्तां वामदक्षिणयोगतः | प्. ८१७) देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् || ९-९१२ || अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् | डाकिनीं वामपार्श्वे तु कल्पान्तज्वलनोपमाम् * || ९-९१३ || विद्युच्छटाभनयनां दन्तपङ्क्तिवलाकिनीम् | दंष्ट्राकरालवदनां पीनोत्तुङ्गपयोधराम् || ९-९१४ || महाघोरां महादेवीं मुक्तकेशीं दिगम्बराम् | लम्बोदरीं कालरात्रीं नागयज्ञोपवीतिनीम् || ९-९१५ || लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् | कपालकर्त्त्रिकाहस्तां वामदक्षिणयोगतः || ९-९१६ || देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् | करस्थितकपालेन भीषणेनातिभीषणाम् || ९-९१७ || आभ्यां निषेव्यमाणां तु ध्यायेद्देवीं विचक्षणः | दुर्निरीक्षां चेतसाऽपि सर्वकामफलप्रदाम् || ९-९१८ || अथ मन्त्रान्तरं (यामले) भुवनेशीं कामबीजं कूर्चबीजं च वाग्भवम् | भुवनेशीं कूर्चबीजं वाग्भवं तदनन्तरम् || ९-९१९ || वज्रवैरोचनीये च हु/ फट् स्वाहा ततः परम् | मन्त्रान्तरम् | हृल्लेखावाग्भवं कूर्चं वाग्भवं कूर्चमेव च || ९-९२० || अस्त्रान्ता छिन्नमस्ता या महाविद्या प्रकीर्तिता | यस्याश्च सदृशी विद्या जगत्स्वपि न विद्यते || ९-९२१ || षड्वर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः | एतदुभयस्य ऋष्यादिकरषडङ्गन्यासः पूर्ववत् कार्यः | प्. ८१८) ध्याने विशेषो यथा | अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने || ९-९२२ || प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्त्रिकां दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिवन्तीं मुदा | नागाबद्धशिरोमणित्रिनयनां हृद्युत्पलालङ्कृतां रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जपासन्निभाम् || ९-९२३ || दक्षे चातिसिता विमुक्तचिकुरा कर्त्त्री तथा खर्परं हस्ताभ्यां दधती रजोगुणभवा नाम्नाऽपि सा वर्णिनी | देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिवन्ती मुदा नागाबद्धशिरोमणिर्मनुविदा ध्येया तथा सा सुरैः || ९-९२४ || वामे कृष्णतनुस्तथैव दधती खड्गं तथा खर्परं प्रत्यालीढपदा कबन्धविगलद्रक्तं पिवन्ती मुदा | सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी शक्तिः साऽपि परात् परा भगवती नाम्ना परा डाकिनी || ९-९२५ || अथ मन्त्रान्तरं तत्रैव | वज्रवैरोचनीये च कूर्चयुग्मं सफट् ठठः | ताराद्यैषा महाविद्या सर्वतेजोऽपहारिणी || ९-९२६ || न्यासध्यानादिकं सर्वं षोडशीवत् समाचरेत् | मन्त्रान्तरम् | वियच्छ्रोत्रयुतं विन्दुनादयुक्तं ततः प्रिये || ९-९२७ || एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी | द्विठान्तैषा महाविद्या त्रैलोक्यमोहकारिणी || ९-९२८ || ताराद्या च भवत्येषा चतुवर्गफलप्रदा | न्यासध्यानादिकं सर्वं पूर्ववत् परिकीर्तितम् || ९-९२९ || प् ८१९) अथ पुरश्चरणं (विश्वसारे) लक्षमेकं जपं कुर्यात् पुरश्चरणकर्मणि | महाविद्याविषये च जपं लक्षप्रमाणकम् || ९-९३० || सर्वत्र सर्वतन्त्रेषु कथितं पद्मयोनिना | (रुद्रयामलेऽपि) पुरश्चर्यां जपेल्लक्षं दशांशं जुहुयात् ततः || ९-९३१ || घृताक्तैर्विल्वकाष्ठैश्च होमकर्म समाचरेत् | उदुम्बरसमिद्भिर्वा पालाशैर्वा समाचरेत् || ९-९३२ || अपामार्गसमिद्भिर्वा[ अपामार्गैः शमीभिर्वा इति २ पु० पा०|] होतव्यं मन्त्रसिद्धये | (यामलान्तरेऽपि) देवीं ध्यात्वा जपेन्मन्त्रं लक्षसङ्घ्यं हविष्यभुक् || ९-९३३ || जुहुयात् तद्दशांशेन विल्वकाष्ठैर्घृतप्लुतैः | (वाराहीतन्त्रे तु) शून्यागारे श्मशाने च वृषशून्ये शिवालये || ९-९३४ || त्रिलक्षं प्रजपेन्मन्त्रं ततः सिद्धिर्भवेद्ध्रुवम् इत्युक्तम् | (गन्धर्वतन्त्रेऽपि) दिवसे ब्रह्मचर्येण रात्रौ तु स्त्रीसहायवान् || ९-९३५ || मपञ्चकं पुरस्कृत्य महाशङ्खाक्षमालया | जपेल्लक्षत्रयं देवि युगानुरूपतः कलौ || ९-९३६ || शतसाहस्रकं चान्यज्जपेच्छ्रद्धापरो नरः | समाप्ते च त्रिलक्षे तु होमकर्म समाचरेत् || ९-९३७ || कलौ पापसमाकीर्णे सत्यधर्मविवर्जिते | चतुर्गुणा क्रिया जप्या तेन सिद्धिर्न संशयः || ९-९३८ || दिवसे दक्षिणाचारेण रात्रौ वामाचारेण च पुरश्चरणविधिः कौलिकविषयः | प्. ८२०) (मेरुतन्त्रे) एवं पूजा प्रकर्तव्या जपेल्लक्षचतुष्टयम् | पालाशैर्विल्वजैर्वाऽपि जुहुयात् कुसुमैः फलैः || ९-९३९ || तर्पणादि तत कुर्यादेवं सिद्धो भवेन्मनुः | अत्र (विश्वसारो-)क्तषोडशाक्षरमन्त्रस्य पुरश्चरणमेकलक्षजपस्तन्त्रान्तरोक्तमन्त्रान्तराणां लक्षत्रयजपः | (मेरुतन्त्रो-)क्तसप्तदशाक्षरमन्त्रस्य लक्षचतुष्टयपरिमितो जप इति वदन्ति | (भूतभैरवे) आदौ जप्त्वा भैरवस्य क्रोधस्यास्य मनुं जपेत् || ९-९४० || अस्थिमालां समादाय वज्रवैरोचनीमनुम् | क्रोधभैरवमन्त्रस्तत्रैवोक्तः | अथ क्रोधमनुं वक्ष्ये असाद्यं येन सिध्यति || ९-९४१ || बीजं हालाहलं गृह्य क्रोधबीजमतः परम् | भयङ्करार्णमाभाष्यासिताङ्गं क्षतजत्विषम् || ९-९४२ || प्रलयाग्निमहाज्वालामाभाष्य मनुमुद्धरेत् | एवमुच्चारितः क्रोधः स्वयमेव प्रसिध्यति || ९-९४३ || ततस्तु क्रोधमन्त्रेण षडङ्गन्यासमाचरेत् | विषं वज्रयुतं बोधि महाकालं न्यसेद्धृदि || ९-९४४ || विषं हरयुगं वज्रकूर्चाद्यं विन्यसेच्छिरः | हालाहलं देहयुतं वज्रकालं न्यसेच्छिखाम् || ९-९४५ || विषमस्त्रयुतं वज्रमायुधं कवचं न्यसेत् | ताराबीजयुतं वज्रं महाकालाय नेत्रयोः || ९-९४६ || विषं हनुयुतं गृह्य दहगृह्य परान्वितम् | क्रोधं वज्रयुतं तद्वत् सर्वदुष्टानथापरम् || ९-९४७ || ततो मारय वज्रास्त्रं दिग्बन्धान्तं षडङ्गकम् | प्. ८२१) ध्यानमाह | तत्र मध्ये न्यसेद्भीमं तप्तज्वालासमाकुलम् || ९-९४८ || साट्टहासं महारौद्रं भिन्नाञ्जनचयोपमम् | प्रत्यालीढं चतुर्बाहुं दक्षिणे[वज्रधारिणम् इति ४ पु० पा०] चक्रधारिणम् || ९-९४९ || तर्जनीं वामहस्तेन तीक्ष्णदंष्ट्राकरालिनम् | कपालरत्नमुकुटं त्रैलोक्यस्य विनायकम् || ९-९५० || आदित्यकोटिसंकाशमष्टनागविभूषितम् | अपराजितपदाक्रान्तमुद्रावान् बलविष्टिभिः || ९-९५१ || अनामिकाद्वयं बद्ध्वा आकुञ्च्य तर्जनीद्वयम् | कनिष्ठां मध्यमां चैव ज्येष्ठाङ्गुष्ठेन च क्रमात् || ९-९५२ || एवं मुद्राधरो भीमस्त्रैलोक्यासाध्यसाधकः | अस्य मन्त्रस्य पुरश्चरणं तु प्रचण्डचण्डिकापुरश्चरणवत् | जपहोमविधानं च शिवशक्त्योः समं विदुः इति वचनात्[रमाकामस्तथा लज्जा वाग्भवं वज्रवैपदम् | रोचनीये लज्जाद्वन्द्वं मन्त्रं स्वाहासमन्वितः || इयं सा षोडशी प्रोक्ता सर्वकामफलप्रदा | कथिताः सकला विद्याः सारात् सारतराः शुभाः || २ पु० इदं श्लोकद्वयमधिकं दृश्यते |] || ९-९५३ || इति छिन्नमस्ताप्रकरणम् | अथ धूमावतीविद्या | (महाथर्वणसंहितायाम्) दान्तौ सवामकर्णेन्दुधूमावत्यग्निगेहिनी | अष्टाक्षरी महाविद्या भजतां सर्वसिद्धिदा || ९-९५४ || (मेरुतन्त्रे) पिप्पलादो मुनिश्छन्दो निवृज्ज्येष्ठाऽस्य देवता | प्. ८२२) षड्दीर्घविन्दुयुक्तेन धकारेण षडङ्गकम् || ९-९५५ || आद्यबीजद्वयान्तस्थैः षद्वर्णैर्न्यासमाचरेत् | अङ्गुष्ठादौ षडङ्गेषु पुनर्देवीं विचिन्तयेत् || ९-९५६ || ध्यानं तथा | विवर्णा चञ्चला कृष्णा दीर्घा च मलिनाम्बरा | विमुक्तकुन्तला दीर्घा विधवा विरलद्विजा || ९-९५७ || काकध्वजरथारूढा विलम्बितपयोधरा | शूर्पहस्ताऽतिरुक्षाक्षी धूतहस्ता त्वरान्विता || ९-९५८ || प्रवृद्धरोमा तु भृशं जटिला कुटिलेक्षणा | क्षुत्पिपासार्दिता नित्यं सदा कलहतत्परा || ९-९५९ || एवंविधां सदा ध्यायेत् ततः कर्म समाचरेत् | अथ पुरश्चरणम् | जपेत् कृष्णचतुर्दश्यां शून्यागारे दिवा निशि || ९-९६० || उपवासपरश्चैवमेकाहात् सिद्धिमाप्नुयात् | यद्वा श्मशाने विपिने जपेल्लक्षं तु वाग्यतः || ९-९६१ || सोष्णीष आर्द्रवासाश्च तेन मन्त्रः प्रसिध्यति | होमश्चात्र घृतेनैव तर्पणादि ततश्चरेत् || ९-९६२ || अथ वा प्रजपेल्लक्षं श्मशाने विगताम्बरः | निशाभोजी दशांशेन तिलैर्हवनमाचरेत् || ९-९६३ || अथ मन्त्रान्तरं तन्त्रान्तरे | धू/ बीजत्रितयं प्रोच्य धुरयुग्मं समुच्चरेत् | धूमावतीपदं प्रोच्य क्रो/स्वाहा फट्समन्विता || ९-९६४ || मन्त्रः प्राथमिकः प्रोक्तो द्वितीयं शृणु सादरम् | प्रणवं धूम्रबीजं च धूमावतिपदं वदेत् || ९-९६५ || प्. ८२३) देवदत्तो धावतीति स्वाहान्तो मनुराडयम् | ऋषिः क्षपणकः ख्यातो गायत्री छन्द ईरितम् || ९-९६६ || धूमावती देवता च धू/बीजं बीजमीरितम् | स्वाहा शक्तिः समुच्चाटे विनियोगः प्रकीर्तितः || ९-९६७ || धा/षट्कैस्तु षडङ्गानि ध्यानं शृणु वरानने | काकारूढाऽतिकृष्णाभा भिन्नदन्ता विरागिणी || ९-९६८ || मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्त्ता रयातुरा | चञ्चला चातिकामार्त्ता क्लिष्टा पुष्टा पिशङ्गिका || ९-९६९ || मलिना श्रमणी रक्ता व्यक्तगन्धा विरोधिनी | धूतशूर्पाग्रहस्ता च ध्येया धूमावती परा || ९-९७० || पुरश्चरणमाह | लक्षं जपेन्महेशानि जगदुच्चाटनं चरेत् | अथाघोरमन्त्रः (शारदायाम्) अथाभिधास्ये विधिवदघोरास्त्रमनूत्तमम् || ९-९७१ || यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः | हुमन्तः स्तम्भने मन्त्रः क्रोमाकृष्टौ समासने || ९-९७२ || वषडन्तः संवरणे नमोऽन्तो विषमासने | ग्रहचौररिपुध्वंसे हु/ क्रोमन्तो विधीयते || ९-९७३ || शक्तान्तश्चाखिलेष्टास्यै क्षौमन्तो मारणे भवेत् | फडन्तो भूतसंहारे मन्त्रोऽयं कल्पपादपः || ९-९७४ || (ईश्वरकल्पे) तु प्रस्फुरद्वयं बन्धद्वयं च | अयं मन्त्र एकचत्वारिंशदक्षर उद्धृतः (पदार्थादर्शटोकायाम्) मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं ततः | घोरघोरतरेत्यन्ते तनुरूपपदं पुनः || ९-९७५ || प्. ८२४) चटयुग्मं तदन्ते स्यात् प्रचट द्वितयं ततः | कहयुग्मं वमद्वन्द्वं [वहयुग्मं वदद्वन्द्वम् इति २ पु० पा०] ततो बन्धयुगं पुनः || ९-९७६ || घातयद्वितयं वर्म फडन्तः समुदाहृतः | एवं पञ्चाशदर्णोऽयमघोरास्त्रमहामनुः || ९-९७७ || अघोरोऽस्य मुनिः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् | अघोररुद्रः संदिष्टो देवता मन्त्रवित्तमैः || ९-९७८ || हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् | शिखा दशभिराख्याता तावद्भिः कवचं मतम् || ९-९७९ || वसुवर्णैः स्मृतं नेत्रमाशार्णैर्रस्त्रमीरितम् | ध्यानम् | सजलघनसमाभं भीमदंष्ट्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् || ९-९८० || परशुडमरुखड्गाखेटकं बाणचापौ त्रिशिखनरकपाले बिभ्रतं भावयामि || अथास्य पुरश्चरणं तत्रैव | लक्षमेकं जपेन्मन्त्रं घृतसिक्तैस्तिलैः शुभैः || ९-९८१ || तद्दशांशं प्रजुहुयान्मन्त्री मन्त्रस्य सिद्धये | इति धूमावतीप्रकरणम् | अथ वगलामुखीविद्या | (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि स्तम्भनीं वगलामुखीम् || ९-९८२ || तारं मायां समुच्चार्य वदेच्च वगलामुखि | तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् || ९-९८३ || स्तम्भयेति पदं जिह्वां कीलयेति ततः परम् | प्. ८२५) बुद्धिं विनाशय ह्री/ ओं स्वाहा षट्त्रिंशवर्णकः || ९-९८४ || नारायणो मुनिस्त्रिष्टुप्छन्दश्च वगलामुखी | देवी बीजं तु हृल्लेखा स्वाहा शक्तिः समीरिता || ९-९८५ || विनियोगोऽस्य विख्यातः पुरुषार्थचतुष्टये | हृल्लेखा हृदयं प्रोक्तं शिरश्च वगलामुखी || ९-९८६ || शिखा तु सर्वदुष्टानां ततो वाचं मुखं पदम् | स्तम्भयेति च वर्मोक्तं जिह्वां कीलय नेत्रकम् || ९-९८७ || बुद्धिं विनाश्यास्त्रं स्यात् षडङ्गन्यास ईरितः | अथ ध्यानम् | गम्भीरां च मदोन्मत्तां तप्तकाञ्चनसन्निभाम् || ९-९८८ || चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् | मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् || ९-९८९ || पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् | हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् || ९-९९० || पीतभूषणभूषां च स्वर्णसिंहासनस्थिताम् | अथ पुरश्चरणम् | हरिद्राग्रथिता माला पीताम्बरधरः स्वयम् || ९-९९१ || पीतासनः स्मरेत् पीतमयुतं जपमाचरेत् | दशांशेन कृतो होमः पीतद्रव्यैः प्रतर्पयेत् || ९-९९२ || सर्वं पीतोपचारेण मन्त्रः सिद्ध्यति मन्त्रिणः | वज्रयोगिनीमिश्रकृतसंग्रहे तु | पीताम्बरधरो भूत्वा पूर्वाशाभिमुखस्थितः | लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया || ९-९९३ || ब्रह्मचर्ययुतो नित्यं प्रयतो ध्यानतत्परः | प्. ८२६) प्रियङ्गुपायसेनापि पीतपुष्पैश्च होमयेत् इत्युक्तम् || ९- ९९४ || अथ मन्त्रान्तरं (यामले) वह्निहीनेन्द्रयुग्माया वगलामुखि सर्वयुक् | दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्तयेत् || ९- ९९५ || जिह्वां कीलय बुद्धिं च विनाशय पदं वदेत् | पूर्वबीजं ततस्तारं वह्निजायावधिर्भवेत् || ९- ९९६ || ताराधिका चतुस्त्रिंशदक्षरा वगलामुखी | नारायणो [नारदोऽस्य मुनिरिति क्व चित् पाठः] मुनिश्छन्दः पङ्क्ति श्रीवगलामुखी || ९- ९९७ || देवता मन्त्रगं बीजं शक्तिः पावकसुन्दरी | सर्वशत्रुमुखस्तम्भे विनियोगः प्रकीर्तितः || ९- ९९७ || षड्दीर्घभाजा बीजेन षडङ्गन्यास ईरितः | अथ ध्यानम् | मध्ये सुधाब्धिमणिमण्डपरत्नवेदी सिंहासनोपरिगतां परिपीतवर्णाम् || ९- ९९८ || [पीताम्बराभरणमाल्यविभूषिताङ्गीम् इत्यपि पाठो बहुत्र श्रूयते | ] पिताम्बरां कनकभूषणमाल्यशोभां देवीं भजामि धृतमुद्गरवैरिजिह्वाम् | जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् || ९- ९९९ || [गदाभिघातेन इति २ पु० पा० |] पदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभूजां नमामि | अथ पुरश्चरणं तत्रैव | जपमाला च देवेशि हरिद्राग्रन्थिसम्भवा || ९- १००० || पीतासनसमारूढः पीतध्यानपरायणः | प्. ८२७) पीतपुष्पार्चनं नित्यमयुतं जपमाचरेत् || ९- १००१ || तद्दशांशकृतो होमः पीतद्रव्यैः सुशोभनैः | अस्याः पुमान् मृत्युञ्जयस्तन्मन्त्रपुरश्चरणं च शिवप्रकरण एवोक्तम् | इति वगलामुखीप्रकरणम् | अथ मातङ्गीविद्या | (यामले) अथ वक्ष्ये महादेवीं मातङ्गीं सर्वसिद्धिदाम् || ९- १००२ || अस्याः सेवनमात्रेण वाक्सिद्धिं लभते ध्रुवम् | प्रणवं च ततो मायां कामबीजं च कूर्चकम् || ९- १००३ || मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः | ऋषिः स्याद्दक्षिणामूर्तिर्विराट्छन्द उदीरितम् || ९- १००४ || मातङ्गी देवता देवी सर्वसिद्धिप्रदायिनी | अङ्गन्यासकरन्यासौ कुर्यान्मन्त्री समाहितः || ९- १००५ || षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् | अथ ध्यानम् | श्यामाङ्गीं शशिशेखरां त्रिनयनां सद्रत्नसिंहासने संस्थां रत्नविचित्रभूषणयुतां संक्षीणमध्यस्थलाम् || ९- १००६ || आपोनस्तनमण्डलां स्मितमुखीं ध्यायेद्दधन्तीं क्रमाद् वेदैर्बाहुभिरङ्कुशासिलतिके पाशं तथा खेडकम् | अथ पुरश्चरणम् | पुरश्चरणकाले तु षट्सहस्रं जपेन्मनुम् || ९-१००७ || तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह | ब्रह्मतरूद्भवैः काष्ठैः साधकः शक्तिभिः सह || ९-१००८ || एवं पुरस्क्रियां कृत्वा प्रयोगविधिमाचरेत् | प्. ८२८) अथ मन्त्रान्तरं (मेरुतन्त्रे) अथोच्छिष्टां प्रवक्ष्यामि मातङ्गीं गोकुवर्णकाम् || ९-१००९ || नम उच्छिष्टचाण्डालि मातङ्गीति पदं वदेत् | सर्ववशङ्करि स्वाहा मन्त्रोऽयं मोहयेज्जगत् || ९-१०१० || छन्दो निवृत् सगायत्रं मुनी नारदतुम्बुरौ | देवता चात्र मातङ्गी द्वित्रित्रित्रिरसाक्षिभिः || ९-१०११ || अङ्गानि स्युर्मन्त्रवर्णैस्ततो ध्यायेद्धृदम्बुजे | ध्यानं यथा | कृष्णाम्बरां यावकार्द्रचरणामुन्नतस्तनीम् || ९-१०१२ || मुक्ताप्रवालमालाढ्यां शङ्खकुण्डलधारिणीम् | अथ मन्त्रान्तरं तत्रैव | अथान्यं संप्रवक्ष्यामि मातङ्गीमन्त्रमद्भुतम् || ९-१०१३ || कामिनी रञ्जिनी स्वाहाष्टाक्षरोऽयमुदीरितः | ऋषिः संमोहनश्छन्दो निवृत् प्रोक्ताऽस्य देवता || ९-१०१४ || सर्वसंमोहिनी चाङ्गं द्विरावृत्तिपदैर्भवेत् | अथ ध्यानम् श्यामाङ्गी वल्लकों दोर्भ्यां वादयन्तीं सुभूषणाम् || ९-१०१५ || चन्द्रावतंसां विविधैर्गायनैर्मोहतीं जगत् | अनयोः पुरश्चरणम् | प्रजपेदयुतद्वन्द्वं दशांशं जुहुयात् ततः || ९-१०१६ || मधूकजैस्त्रिमध्वक्तैः सर्वं संमोहयेज्जगत् | अथ राजमातङ्गीमन्त्रस्तत्रैव | अथान्यं संप्रवक्ष्यामि चतुष्पञ्चाशदक्षरम् || ९-१०१७ || ओं ह्री/ नमश्च ब्रह्मश्रीराजिते राजपूजिते | जये च विजये गौर्यषे गान्धारिपदं वदेत् || ९-१०१८ || प्. ८२९) त्रिभुवनवशङ्करि सर्वस्त्रीपुरुषेति च | वशङ्करि सुसु दुदु घेघे वावाऽग्निगेहिनी || ९-१०१९ || अजो मुनिस्तथा छन्दो निवृद्गायत्रमीरितम् | देवता राजमातङ्गी षडङ्गादि तु मायया || ९-१०२० || अथ ध्यानम् | [एतच्चिह्नान्तर्गतः पाठः ५ पुस्तकेऽधिक उपलभ्यते |] अमृतोदधिमध्यस्थे रत्नद्वीपे मनोहरे | स्वर्णप्राकारसंवीते मणिरत्नविनिर्मिते || ९-१०२१ || कदम्बविल्वकद्वारे कल्पवृक्षोपशोभिते | वेदिमध्ये सुखास्तीर्णे रत्नसिंहासने शुभे || ९-१०२२ || अष्टपत्रं महापद्मं केशराढ्यं सकर्णिकम् | तन्मध्ये तु त्रिकोणं स्यादष्टपत्रं ततो बहिः || ९-१०२३ || पुनः षोडशपत्रं स्यात् तद्वाह्ये स्याच्चतुर्दलम् | वेदास्रं सचतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् || ९-१०२४ || तस्य मध्ये सुखासीनां श्यामवर्णां शुचिस्मिताम् | कदम्बमालाभरणां पूजितां च सुरासुरैः || ९-१०२५ || प्रलम्बालकसंयुक्तां चन्द्ररेखावतंसिकाम् | ललाटे तिलकोपेतामीषत्प्रहसिताननाम् || ९-१०२६ || किञ्चित्स्वेदाम्बुमधुरललाटफलकोज्ज्वलाम् | वलीतरङ्गमध्याभां रोमराजीविराजिताम् || ९-१०२७ || सर्वाभरणसंयुक्तां मुक्ताहारविभूषिताम् | नानामणिगणोन्नद्धकटिसूत्रैरलङ्कृताम् || ९-१०२८ || वलयै रत्नखचितैः केयुरैर्मणिभूषितैः | प्. ८३०) भूषितां द्विभूजां बालां मदाघूर्णितलोचनाम् || ९-१०२९ || आपीनमण्डलाभोगसमुन्नतपयोधराम् | प्रलम्बवर्णाभरणां कर्णोत्तंसविराजिताम् || ९-१०३० || तमालनीलां तरुणीं मधुमत्तां मतङ्गिनीम् | चतुःषष्टिकलारूपां पार्श्वस्थशुकसारिकाम् || ९-१०३१ || कोटिबालार्कसंकाशां जपाकुसुमसन्निभाम् | एवं वा पीतवर्णां वा ध्यायेन्मातङ्गिनीं पराम् || ९-१०३२ || अथ पुरश्चरणम् | [एतच्चिह्नान्तर्गतः पाठ ५ पुस्तकेऽधिक उपलभ्यते |] अयुतं प्रजपेन्मन्त्रं होमयेत् तद्दशांशतः | बन्धूककुसुमैर्मन्त्री मधुरत्रयलोलितैः || ९-१०३३ || अथ सुमुखीमन्त्रः (गुह्यातन्त्रे) शृणु मन्त्रं महादेवि यथावत् कथयामि ते | दद्यादुच्छिष्टशब्दं तु तथा चाण्डालिनीति च || ९-१०३४ || सुमुखीति ततो देवीं कीर्तयेत् तदनन्तरम् | महापिशाचिनी तस्मान्मायाबीजमनन्तरम् || ९-१०३५ || विन्दुनादसमायुक्तं ठकारत्रितयं ततः | सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् || ९-१०३६ || इयं विद्या महाविद्या सर्वपापप्रणाशिनी | स्वर्गदा मोक्षदा विद्या सर्वसौभाग्यदा[राज्यसौभाग्यदा इति २- ४ पु० पा०] तथा || ९- १०३७ || सदोच्छिष्टमुखो भूत्वा स्मरेद्देवीं जयप्रदाम् | तदाऽचान्तो भवेद्देवि विनैवाचमने कृते || ९-१०३७ || दुर्भगा सुभगा नूनं दुःखिता सुखिनी भवेत् | प्. ८३१) बन्ध्याऽपि लभते पुत्रं शतहायनजीवनम् || ९-१०३८ || दुर्बलो बलमाप्नोति मूर्खो विद्यामवाप्नुयात् | यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् || ९-१०३९ || विधानं चात्र वक्ष्यामि शृणु देवि वरानने | नारिदोषो न वा विघ्नो नाशौचं नियमो न च || ९-१०४० || यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स वाध्यते | तथा | अजो मुनिः समाख्यातश्छन्दो गायत्रमस्य तु || ९-१०४१ || देवता सुमुखी प्रोक्ता मायया तु षडङ्गकम् | अथ ध्यानम् | शवोपरिसमासीनां रक्ताम्बरपरिच्छदाम् || ९-१०४२ || रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् | षोडशाब्दां च युवतीं पीनोन्नतपयोधराम् || ९-१०४३ || कपालकर्त्त्रिकाहस्तां परज्योतिःस्वरूपिणीम् | वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः || ९-१०४४ || उच्छिष्टेन वलिं दत्वा जपेत् तद्गतमानसः | उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता || ९-१०४५ || उच्छिष्टजपमानस्य जायन्ते सर्वसिद्धयः | अस्य मन्त्रस्य पुरश्चरणमष्टसहस्रजपः | येषां जपे च होमे च -इत्यादिपूर्वोक्तवचनात् || ९-१०४६ || अथ वश्यामातङ्गीमन्त्रः (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि वश्यमातङ्गिकामनुम् | ओं राजमुखि राजाधिमुखि वश्यमुखीति च || ९-१०४७ || मायां श्री/ क्ली/ देवदेवि महादेवि ततो वदेत् | देवाधिदेवि सर्वेति जनस्य मुखमुच्चरेत् || ९-१०४८ || प्. ८३२) मम वशं कुरु द्वन्द्वं स्वाहान्तोऽङ्गकृतार्णकः | दिक्सप्तकृतदेवेषुमन्त्रार्णैरङ्गकल्पनम् || ९-१०४९ || विज्ञेयं राजमातङ्गीतुल्यं पूजाजपादिकम् | प्रयोगा/श्चापि जानीयाद्विशेषाद्वशकृत् त्वियम् || ९-१०५० || मन्त्रान्तरमाह | माया नमो हिलिद्वन्द्वं चण्डमातङ्गिनीति च | स्वाहेति तिथिवर्णोऽस्या न्यासपूजादिकं भवेत् || ९-१०५१ || राजमातङ्गिकातुल्यं जपश्चायुतसङ्ख्यकः | घृतपायसहोमश्च प्रयोगाद्यं च पूर्वत् || ९-१०५२ || अथ कर्णमातङ्गीमन्त्रः | अथातः संप्रवक्ष्यामि कर्णमातङ्गिकामनुम् | वाग्भवं हृदयं चाथ श्रीमातङ्गिपदं वदेत् || ९-१०५३ || अमोघे सत्यवादिनि मम कर्णेपदं ततः | अवतरपदं द्वेधा सत्यं कथय युग्मकम् || ९-१०५४ || एह्येहि श्री/ च मातङ्ग्यै नमस्त्र्यब्ध्यर्णको मनुः | अङ्गानि वाग्भवेनात्र पूजाद्यं च कृताकृतम् || ९-१०५५ || अथ पुरश्चरणम् | लक्षं जपः पायसाद्यैः होमः सिद्धो भवेन्मनुः | कर्णे तु कथयेद्देवी पृच्छकस्य शुभाशुभम् || ९-१०५६ || इति मातङ्गीप्रकरणम् | अथ लक्ष्मीविद्या | (शारदायाम्) अथ वक्ष्ये श्रियो मन्त्रान् श्रीसौभाग्यफलप्रदान् | यस्याः कटाक्षमात्रेण त्रैलोक्यमपि वर्धते || ९-१०५७ || वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् | प्. ८३३) बीजमेतच्छ्रियः प्रोक्तं चिन्तारत्नमिवापरम् || ९-१०५८ || ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता | षड्दीर्घयुक्तबीजेन षडङ्गानि प्रकल्पयेत् || ९-१०५९ || अथ ध्यानम् | कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजै- र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां श्रियम् | विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्षौमाबद्धनितम्बविम्बललितां बन्देऽरविन्दस्थिताम् || ९-१०६० || अथ पुरश्चरणम् | भानुलक्षं जपेन्मन्त्री दीक्षितो विजितेन्द्रियः | श्रियमभ्यर्चयेन्नित्यं सुगन्धिकुसुमादिभिः || ९-१०६१ || तत्सहस्रं च जुहुयात् कमलैर्मधुरोक्षितैः | जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुरान्वितैः || ९-१०६२ || वैल्वैः फलैर्वा जुहुयात् त्रिभिर्वा साधकोत्तमः | अथ मन्त्रान्तरं तत्रैव | वाग्भवं वनिता विष्णोर्माया मकरकेतनः | चतुर्बीजात्मको मन्त्रश्चतुर्वर्गफलप्रदः || ९-१०६३ || अङ्गानि कुर्याद्दीर्घाद्यै रमाबीजेन तन्त्रवित् | अथ ध्यानम् | माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजै र्हस्ताग्राहितरत्नकुम्भसलिलैराषिच्यमानां सदा || ९-१०६४ || हस्ताब्जैर्वरदानमब्जयुगलाभीतीर्दधानां हरेः कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजाननाम् | अथ पुरश्चरणम् | भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः || ९-१०६५ || प् ८३४) जुहुयादरुणैः फुल्लैस्तत्सहस्रं जितेन्द्रियः | अथ मन्त्रान्तरं तत्रैव | दीर्घायादिर्विसर्गान्तो ब्रह्मा भानुर्वसुन्धरा || ९-१०६६ || वान्ते सिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः | ऋषिर्दक्षो विराट् छन्दो देवता श्रीः समीरिता || ९-१०६७ || देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् | विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् || ९-१०६८ || अस्त्रं कमलरूपिण्यै नमोऽन्ताः प्रणवादिकाः | अङ्गमन्त्राः समुद्दिष्टा ध्यायेद्देवीमन्यधीः || ९-१०६९ || अथ ध्यानम् | आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रती दानं पद्मयुगाभयं च वपुषा सौदामिनीवल्लभा | मुक्तादामविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् || ९-१०७० || अथ पुरश्चरणम् | दशलक्षं जपेदेनं मन्त्रविद्विजितेन्द्रियः | दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः || ९-१०७१ || अथ माहलक्ष्मीमन्त्रस्तत्रैव | वाग्भवं शम्भुवनिता रमा मकरकेतनः | तार्त्तीयं च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः || ९-१०७२ || अर्घीशाढ्यो भृगुस्त्यै हृन्मन्त्रोऽयं द्वादशाक्षरः | महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्वसिद्धिदः || ९-१०७३ || ऋषिर्विद्या समुद्दिष्टो गायत्री छन्द ईरितम् | देवता जगतामादिर्महालक्ष्मीः समीरिता || ९-१०७४ || हस्तौ संशोध्य मन्त्रेण तारादि हृदयान्तिकम् | प्. ८३५) बीजानां पञ्चकं न्यस्येदङ्गुलीषु यथाक्रमम् || ९-१०७५ || मन्त्रशेषं न्यसेन्मन्त्री तलयोरुभयोरपि | मूर्धादि चरणं यावन्मन्त्रेण व्यापकं चरेत् || ९-१०७६ || मूर्धाक्षिवक्षोगुह्याङ्घ्यैः पञ्च बीजानि विन्यसेत् | शेषान् न्यसेत् सप्तवर्णान् हृदये सप्तधातुषु || ९-१०७७ || अङ्गानि पञ्चभिर्बीजैरस्त्रं शिष्टाक्षरैर्भवेत् | ज्ञानैश्वर्यादिभिर्युक्तैश्चतुर्थ्यन्तैः सजातिभिः || ९-१०७८ || ज्ञानमैश्वर्यशक्तिं च बलवीर्ये स्वतेजसा | ज्ञानैश्वर्यादयः प्रोक्ताः षट् क्रमादङ्गयोजिताः || ९-१०७९ || ध्यानमाह | एवं न्यस्तशरीरोऽसौ स्मरेदुद्यानमद्भुतम् | चम्पकाशोकपुन्नागपाटलैरुपशोभितम् || ९-१०८० || लवङ्गमाधवीविल्वदेवदारुनमेरुभिः | मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः || ९-१०८१ || चन्दनैः कर्णिकारैश्च मातुलुङ्गैः सवञ्जुलैः | दाडिमीलकुचाङ्कोलैः पूगैः कुरवकैरपि || ९-१०८२ || कदलीकुन्दमन्दारनारिकेलैरलङ्कृतम् | अन्यैः सुगन्धिपुष्पाद्यैर्वृक्षखण्डैश्च मण्डितम् || ९-१०८३ || मालतीमल्लिकाजातिकेतकीशतपत्रकैः | यावन्तीतुलसीनन्द्यावर्तैर्दमनकैरपि || ९-१०८४ || सर्वर्त्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् | मन्दमारुतसम्भिन्नं कुसुमामोददिङ्मुखम् || ९-१०८५ || तस्य मध्ये सदा फुल्लैः कुसुमोत्पलपङ्कजैः | सौगन्धिकैश्च कह्लारैर्नवैः कुवलयैरपि || ९-१०८६ || प्. ८३६) हंससारसकारण्डभ्रमरैश्चक्रनामभिः | अन्यैः कलकलाराविविहङ्गैरुपशोभिते || ९-१०८७ || महासरसि तन्मध्ये पुलिनेऽतिमनोहरे | परितः पारिजाताद्यमण्डितं मणिकुट्टिमम् || ९-१०८८ || उद्यदादित्यसंकाशभास्वरं शशिशीतलम् | चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् || ९-१०८९ || रत्नोपकॢप्तसंशोभिकपाटाष्टकसंयुतम् | नवरत्नसमाकॢप्तं तुङ्गगोपुरतोरणम् || ९-१०९० || हेमदण्डं शिखालम्वि ध्वजावलिपुरस्कृतम् | नवरत्नसमाबद्धस्तम्भराजिविराजितम् || ९-१०९१ || सहस्रदीपसंयुक्तदीपदण्डविराजितम् | तप्तहाटकसंकॢप्तवातायनमनोहरम् || ९-१०९२ || नानारत्नांशुकोद्बद्धसुवर्णशतकोटिभिः | किङ्किणीमालिकायुक्तपताकाभिरलङ्कृतम् || ९-१०९३ || जातरूपमयै रत्नविचित्रैरतिविस्तृतैः | माणिक्यवज्रवैदूर्यस्वर्णमालावलीयुतैः || ९-१०९४ || अन्तरान्तरसम्बद्धरत्नैर्दृष्टिमनोहरैः | विचित्रैश्चित्रबद्धैश्च वितानैरुपशोभितम् || ९-१०९५ || सर्वरत्नसमायुक्तं हेमकुट्टिममुज्ज्वलम् | केतकोमालतीजातीचम्पकोत्पलकेसरैः || ९-१०९६ || मल्लिकातुलसीवाशानन्द्यावर्त्तकदम्बकैः | एतै रम्यैश्च कुसुमैरलङ्कृतमहीतलम् || ९-१०९७ || अब्जकाश्मीरकस्तूरीमृगनाभितमालकैः | प्. ८३७) चन्दनागुरुकर्पूरैरामोदितदिगन्तरम् || ९-१०९८ || एवं सञ्चिन्त्य मनसा मण्डपं सुमनोहरम् | तन्मध्ये भावयेन्मन्त्री परिजातं मनोहरम् || ९-१०९९ || तस्याधस्तात् स्मरेन्मन्त्री रत्नसिंहासनं महत् | तस्मिन् सञ्चिन्तयेद्देवीं महालक्ष्मीं मनोहराम् || ९-११०० || बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां रत्नाकल्पविभूषितां कुचनतां शालैः करैर्मञ्जरीम् | पद्मौ कौस्तुभरत्नमप्यविरतं सम्बिभ्रतीं सुस्मितां फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परां देवताम् || ९-११०१ || शिञ्जन्मञ्जीरसंशोभिपादाम्भोजविराजिताम् | नवरत्नगणाकीर्णकाञ्चीदामविभूषिताम् || ९-११०२ || मुक्तामाणिक्यवैदूर्यसम्बद्धोदरबन्धनाम् | विभ्राजमानां मध्येन वलित्रितयशोभिताम् || ९-११०३ || जाह्नवीसलिलावर्त्तशोभिनाभिविभूषिताम् | पटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनीम् || ९-११०४ || वारिवाहविनिर्मुक्तमुक्तादामगरीयसीम् | बिभ्रतीमुत्तरासङ्गं दुकूलपरिकल्पितम् || ९-११०५ || तप्तकाञ्चनसम्बद्धवैदूर्याङ्गदभूषणाम् | पद्मरागस्फुरत्स्वर्णकङ्कणाढ्यकराम्बुजाम् || ९-११०६ || माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृताम् | तप्तहाटकसंकॢप्तमालाग्रैवेयशोभिताम् || ९-११०७ || विचित्रविविधाकल्पां कम्बुसंकाशकन्धराम् | उद्यद्दिनकराकारमणिताटङ्कमण्डिताम् || ९-११०८ || प्. ८३८) रत्नाङ्कितलसत्स्वर्णकर्णपूरोपशोभिताम् | जपाविद्रुमलावण्यललिताधरपल्लवाम् || ९-११०९ || दाडिमीफलबीजाभदन्तपङ्क्तिविभूषिताम् | कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभाननाम् || ९-१११० || पुण्डरीकदलाकारनयनत्रयशोभिताम् | भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमाम् || ९-११११ || विकशत्तिलपुष्पश्रीविजयोद्यतनासिकाम् | ललाटकान्तिविभवविजितार्धसुधाकराम् || ९-१११२ || सान्द्रसौरभसंपन्नकस्तूरीतिलकाङ्किताम् | मत्तालिमालाविलसद्दलकाढ्यमुखाम्बुजाम् || ९-१११३ || पारिजातप्रसूनश्रीवाहिधमिल्लबन्धनाम् | अनर्घरत्नघटितमुक्ताटङ्कितमस्तकाम् || ९-१११४ || सर्वलावण्यवसतिं भवनं विभ्रमश्रियः | तेजसां जन्मभूमिं तां महालक्ष्मीं विचिन्तयेत् || ९-१११५ || अथ पुरश्चरणम् | एवं ध्यात्वा ततो देवीं हविष्याशी जितेन्द्रियः | भानुलक्षं जपेन्मन्त्री दशांशं जुहुयात् तिलैः || ९-१११६ || जुहुयात् श्रीफलैः पद्मैः प्रत्येकमयुतं ततः | तर्पयेत् सलिलैः शुद्धैः सुगन्धैरयुतद्वयम् || ९-१११७ || (मेरुतन्त्रे) जपेद्भास्करलक्षं च नियताशी यतव्रतः | तद्दशांशं प्रजुहुयाद्घृतैस्त्रिस्वादुसंयुतैः || ९-१११८ || पद्मैः रमाद्रुमफलैः प्रत्येकमयुतं हुनेत् | सुशीतैः शुचिभिस्तोयैस्तर्पयेदयुतद्वयम् || ९-१११९ || प्. ८३९) अथ मन्त्रान्तरं तत्रैव | शम्भुपत्नी श्रिया रुद्धा कमौ भगवती मही | ब्रह्माऽदित्यो धरा दीर्घा लकारो भगवान् मरुत् || ९-११२० || प्रसीदयुगलं भूयः श्रीरुद्धा भुवनेश्वरी | महालक्ष्मी नमोऽन्तः स्यात् प्रणवादिरयं मनुः || ९-११२१ || सप्तविंशत्यक्षराढ्यः प्रोक्तः सर्वसमृद्धिदः | कमले हृदयं प्रोक्तं शिरः स्यात् कमलालये || ९-११२२ || शिखा प्रसीद तेनैव कवचं चतुरक्षरैः | अस्त्रमेतैः पदैः कुर्याच्छ्रीबीजपुटितैः पृथक् || ९-११२३ || अथ ध्यानम् | सिन्दूरारुणकान्तिमब्जवसतीं सौन्दर्यवारां निधिं कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् | हस्ताब्जैर्वसुपात्रमब्जयुगलादर्शौ वहन्तीं परा मावीतां परिचारिकाभिरनिशं ध्यायेत् प्रियां शार्ङ्गिणः || ९-११२४ || अथ पुरश्चरणम् | लक्षं जपेत् फलैर्विल्वैर्जुहुयान्मधुरोक्षितैः | दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना || ९-११२५ || तत्रान्तरे | मन्दाक्षमिन्दिरारुद्धं त्र्यक्षरोऽयं महामनुः | हृदन्तः पञ्चवर्णोऽस्य सर्वमेकार्णवद्भवेत् || ९-११२६ || अथ साम्राज्यलक्ष्मीमन्त्रः (मेरुतन्त्रे) अथ वक्ष्ये गणेशेन काशीराज्याप्तये मम | शाम्बादित्यस्य रक्षोदिग्भागे लक्ष्मीरुपासिता || ९-११२७ || साम्राज्यलक्ष्मीर्विख्याता गतराज्यप्रदायिनी | लक्ष्मीविनायकस्तत्र प्रसिद्धोऽसौ गजाननः || ९-११२८ || प्. ८४०) दक्षिणेनैव मार्गेण तस्याः सिद्धिर्न वामतः | सकारं च हकारं च कलरा वर्णपञ्चकम् || ९-११२९ || ईकारस्वरसंयुक्तं प्रथमं कूटमुच्यते | ह/ बीजं तु द्वितीयं स्यात् प्रोक्तोऽयं द्व्यक्षरी मनुः || ९-११३० || ऋषिर्हरिश्च गायत्री छन्दो लक्ष्मिश्च मोहिनी | साम्राज्यदा देवतोक्ता कूटं बीजं प्रकीर्तितम् || ९-११३१ || शक्तिः श्री/ च षडङ्गानि षड्भिर्दीर्घैः समाचरेत् | अथ ध्यानम् | अतशीपुष्पसंकाशां रत्नभूषणभूषिताम् || ९-११३२ || शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः | षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् || ९-११३३ || एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत् सुधीः | तद्दशांशेन पद्मैस्तु हुनेत् साम्राज्यसिद्धये || ९-११३४ || एवमाराधयेल्लक्ष्मीं साम्राज्यं स्यादसंशयम् | नारायणमन्त्रस्तु तत्प्रकरण एवोक्तः | इति लक्ष्मीविद्याप्रकरणम् | अथ नीलक्रमादयः | (शक्तिसङ्गमवीरतन्त्रसारसंग्रहेषु) देव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || ९-११३५ || दशानामपि विद्यानां दश वै ये क्रमाः प्रभो | पुरैव कथिताः स्वामि/स्तान् क्रमान् वद संप्रति || ९-११३६ || शिव उवाच रहस्यातिरहस्यं च कथ्यते तव भक्तितः | महानीलक्रमेणैव कालिका सिद्धिदायिनी || ९-११३७ || प्. ८४१) महानीलक्रमो देवि द्विविधः परिकीर्तितः | सकलो निष्कलश्चेति तं क्रमं शृणु पार्वति || ९-११३८ || खड्गहस्तः शिरोन्यस्तः सर्वदा मुक्तकुन्तलः | सदा मांसासवोल्लासी विजयाघूर्णलोचनः || ९-११३९ || सिन्दूरतिलकं भाले पाणौ तु मदिरारसम् | रात्रौ पर्यटनं चैव रात्रौ शक्तेः प्रपूजनम् || ९-११४० || योनिचुम्बनकं कर्म शक्तेरालिङ्गनं तथा | न करोति नरो यस्तु स कथं तव पूजकः || ९-११४१ || ताम्बूलयोनिचक्रं च मुण्डमालां शवासनम् | सिन्दूरं खड्गकं चैव संविदासवयो रसम् || ९-११४२ || एतान् विहाय यः कश्चित् कालीं साधितुमुद्यतः | इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् || ९-११४३ || कोट्यर्बुदयुगैर्देवि न हि सिध्यति कालिका | सिन्दूरविन्दुर्भ्रूमध्ये स्वयम्भूमुनिपत्रकम् || ९-११४४ || रक्तचन्दनकं वाऽपि त्रिपुण्ड्रं च ततोपरि | कुर्वन् दले कज्जलस्य विन्दुर्देयो महेश्वरि || ९-११४५ || महानीलक्रमे देवि तिलकः परिकीर्तितः | श्मशानशायी मांसाशी संविदानन्दमानसः || ९-११४६ || स्त्रियं पश्यन् स्पृशन् गच्छन् सर्वकालं जपं चरेत् | वेश्यारतः श्मशानस्थो मृदुचूडकसंयुतः || ९-११४७ || दन्ताक्षमालया देवि गजदन्तेन मेरुणा | मालां कृत्वा जपेद्देवि सदा ताम्बूलचर्वकः || ९-११४८ || कपालमालाभरणो रामाचुम्बनतत्परः | प्. ८४२) शक्त्यानन्दो नेत्रयुगे मुखे हाला गृहाङ्गणे || ९-११४९ || वेश्या बालाकरे माला शक्तिलीला भगाम्बुजे | योनिसञ्चुम्बनं कृत्वा सर्वकाले जपं चरेत् || ९-११५० || शक्तेर्भर्गं नमस्कार्यं सर्वमेतच्चराचरम् | अधिकारी प्रहृष्टात्मा स्त्रीभक्तो विजितेन्द्रियः || ९-११५१ || ईदृग्विधो नरो देवि महानीलक्रमो मतः | राजदन्तमयी माला द्विरदोष्ट्राश्वसम्भवा || ९-११५२ || अशक्तानां निष्कलः स्यात् तं क्रमं शृणु पार्वति | पीताया दुग्धकं पित्वा सच्चिदान्दमानसः || ९-११५३ || स्फाटिकीं मालिकां कृत्वा विहारे जपमाचरेत् | दिक्कालनियमो नास्ति स्थित्यादिनियमो न च || ९-११५४ || न जपे कालनियमो महामन्त्रस्य साधने | यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः || ९-११५५ || भ्रान्तिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव वा | मृदु कोमलकं देवि चूडकं वाऽप्यचूडकम् || ९-११५६ || शवं वीरासनं कृत्वा योनित्वगासनं च वा | कामरूपासनं देवि सुरतासनमेव च || ९-११५७ || सिन्दूरासनकं देवि पर्वतासनमेव च | प्रयोगासनकं देवि महाप्रयोगासनं तथा || ९-११५८ || श्रीमुण्डसुरतं वाऽपि श्रीवीरसुरतं च वा | पञ्चवीरासनं देवि सुरेन्द्रादिदिशां क्रमात् || ९-११५९ || इति नीलक्रमः | प्. ८४३) देव्युवाच | देवेश श्रोतुमिच्छामि महाचीनक्रमं परम् | शिव उवाच | महाचीनक्रमो देवि कथ्यते सांप्रतं मया || ९-११६० || महाचीनक्रमेणैव तारा शीघ्रफलप्रदा | ब्रह्मचीनो वीरचीनो दिव्यचीनस्तृतीयकः || ९-११६१ || महाचीनो निष्कलश्च चीनः पञ्चविधो मतः | महाचीनक्रमो देवि द्विविधः परिकीर्तितः || ९-११६२ || सकलो निष्कलश्चेति सकलो बौद्धगोचरः | निष्कलो ब्राह्मणानां च द्वितीयः परिकीर्तितः || ९-११६३ || तथा | स्नानादि मानसं शौचं मानसः प्रवरो जपः | पूजनं मानसं दिव्यं मानसं तर्पणादिकम् || ९-११६४ || मानसो नियमः प्रोक्तो मानसं दन्तधावनम् | सर्व एव शुभः कालो नाशुभो विद्यते क्व चित् || ९-११६५ || न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि | शुद्धिं न कारयेदत्र निर्विकल्पं मनश्चरेत् || ९-११६६ || नात्र शुद्धेरपेक्षाऽस्ति न चामेध्यादि दूषणम् | य एवं चिन्तयेन्मन्त्रं सर्वकामसमृद्धिदम् || ९-११६७ || गद्यपद्यमयी वाणी सभायां तस्य जायते | तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः || ९-११६८ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः || ९-११६९ || प्. ८४४) महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् | स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः || ९-११७० || जपस्थाने महाशङ्खं निवेश्योर्ध्वे जपं चरेत् | स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यचूडके || ९-११७१ || भुक्त्वा ताम्बूलमन्या/श्च भक्ष्यद्रव्यान् यथारुचि | मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसम् || ९-११७२ || भोज्यान्यशेषभक्ष्याणि दत्वा भुक्त्वाऽचरेज्जपम् | दिक्कालनियमो नास्ति स्थित्यादिनियमो न च || ९-११७३ || न जपे कालनियमो नार्चादिषु वलिष्वपि | स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने || ९-११७४ || वस्त्रासनं गेहदेहस्पर्शास्पर्शादिवारिणा | तैलं संलाप्य देवेशि ताम्बूलं भक्षयन् सदा || ९-११७५ || नानाम्बराणि सन्धार्य देहं वस्त्रेण मार्जयेत् | एवं स्नानं चरेद्देवि सर्वदा तद्गताशयः || ९-११७६ || केशान् संबर्धयेद्देवि सर्वदा तैलभूषितः | नाधर्मो विद्यते सुभ्रु किं तु धर्मो महान् भवेत् || ९-११७७ || स्वेच्छाचारोऽत्र कथितः प्रचरेद्धृष्टमानसः | कृतार्थमन्यमानस्तु सन्तोष्य निजमानसम् || ९-११७८ || हरेर्नाम न गृह्नीयान्न स्पृशेत् तुलसीदलम् | वर्जयेद्बिल्वपत्रं च मरुं यत्नेन वर्जयेत् || ९-११७९ || नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन | नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् || ९-११८० || सद्यो मद्यं पिवेद्देवि मातङ्गीभिर्विहारवान् | योनिं चुम्बा/ल्लिहन् पश्यन् जपं कुर्यादनन्यधीः || ९-११८१ || प्.८४५) यनौ विचिन्त्य जप्तव्यं सिद्धिर्वत्सरमात्रतः | अन्यथा नैव सिद्धिः स्यात् प्रजप्तैरपि कोटिभिः || ९-११८२ || पुरश्चरणलक्षैश्च होमादीनां च कोटिभिः | भ्रूयुग्मे कुन्तले देवि सिन्दूरं तदनन्तरम् || ९-११८३ || कुचन्दनं त्रिपुण्ड्रं च पङ्कजं वा सकेशरम् | मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् || ९-११८४ || इत्याचारपरो नित्यं महाचीनक्रमी भवेत् | कर्णनेत्रान्तरस्थो यो महाशङ्खः प्रकीर्तितः || ९-११८५ || पञ्चाशन्मणिभिर्माला गोनरेभास्थिसम्भवा | मालां कुर्यान्महेशानि चाष्टसिद्धीश्वरो भवेत् || ९-११८६ || सैव तारा महेशानि नात्र कार्या विचारणा | यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः || ९-११८७ || कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा | (स्वच्छन्दभैरवतन्त्रे) न शौचादिक्रियाः कार्याः स्मृतिशास्त्रप्रचोदिताः || ९-११८८ || एका लिङ्गे गुदे पञ्च इत्याद्या याः प्रकीर्तिताः | न ताः कार्याः साधकेन्द्रैः यदीच्छेच्चिरजीवितम् || ९-११८९ || (सिद्धान्तसंग्रहेऽपि) न देशकालनियमो भक्ष्यादिनियमो न हि | शौचादिनियमो नास्ति महामन्त्रस्य साधने || ९-११९० || दिवसे वा तथा रात्रौ रात्रिशेषे निशामुखे | मांसं भुक्त्वाऽसवं पीत्वा स्त्रियं गत्वा चरेज्जपम् || ९-११९१ || (शक्तिसङ्गमे) सकलस्तु मया प्रोक्तो निष्कलं शृणु पार्वति | प्. ८४६) मणिबन्धादधः पाणिं पादौ गुल्फादधः शिवे || ९-११९२ || मुखं प्रक्षालयेद्देवि चीनस्नानमिदं भवेत् | जानुभ्यामवनीं गत्वा भूमौ मस्तकमानयेत् || ९-११९३ || चीनमार्गे नमस्कारः कीर्तितस्तु मया तव | पूर्वक्रमस्य देवेशि क्रमः प्रतिनिधिर्मया || ९-११९४ || स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये | तथा म्लानो न मे देहो न च पापं ममास्ति वै || ९-११९५ || किं स्नानां कस्यचित् स्नानमस्नातः कृतभोजनः | सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्ठितम् || ९-११९६ || मयि जाता मन्त्रसिद्धिर्मम देवा वरप्रदाः | तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् || ९-११९७ || तत्तेजसा स्वस्थदेहं संभाव्य जपमाचरेत् | भावनावशमापन्नो भवेद्योगी महाकविः || ९-११९८ || गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च | तदभावे जलं देवि संभाव्य पूजनं चरेत् || ९-११९९ || तद्भावहृदयासन्नः सदा तद्गतमानसः | द्वन्द्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् || ९-१२०० || ब्रह्मा चैव वशिष्ठश्च तथाऽन्ये च ऋषीश्वराः | निष्कलक्रममार्गेण भजन्ति सततं शिवे || ९-१२०१ || ताराभक्ता महेशानि ब्राह्मणाः परिकीर्तिताः | ब्रह्मविद्या महाविद्या सर्वत्र दुर्लभा कलौ || ९-१२०२ || रहस्यातिरहस्यं च गोप्तव्यं पशुसंकटे | इति महाचीनक्रमः | प्. ८४७) अथ दिव्यचीनक्रमस्तत्रैव | देव्युवाच | छिन्नमस्ताविधौ देवि क्रमं मे ब्रूहि सत्वरम् || ९-१२०३ || शिव उवाच दिव्यचीनक्रमेणैव छिन्नमस्ता वरप्रदा | क्रमद्वयं महेशानि पूर्वमेव प्रकाशितम् || ९-१२०४ || एतस्यास्तिलको देवि भ्रूमध्ये च कुचन्दनम् | तदन्ते रोचनापत्रैस्त्रिपुण्ड्रं दिव्यवर्णकैः || ९-१२०५ || श्मशानभस्मविन्दुं तु तन्मध्ये दापयेत् प्रिये | मुखे मुखं प्रदत्वा तु सर्वकालं जपेच्छिवे || ९-१२०६ || योनिचक्रं समालोक्य यत् किंचित् कुरुते नरः | तत् तदक्षयमाप्नोति छिन्नाविद्याप्रसादतः || ९-१२०७ || दिक्कालनियमो नास्ति स्थित्यादिनियमो न हि | पाताले कुहरे दुर्गे पर्वते तटिनीतटे || ९-१२०८ || अन्तरिक्षे तथा भूमौ सर्वत्र जपमाचरेत् | विशेषः कथितो देवि शक्तितत्त्वस्य पालकः || ९-१२०९ || इति दिव्यचीनक्रमः | अथ गन्धर्वक्रमः | देव्युवाच | गन्धर्वाख्यं क्रमं देव कथयस्व मयि प्रभो | शिव उवाच | गन्धर्वाख्यक्रमेणैव सुन्दरी सिद्धिदायिनी || ९-१२१० || गन्धर्वाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् | भ्रूमध्ये कुङ्कुमं देवि तन्मध्ये मालयागुरु || ९-१२११ || प्. ८४८) अष्टगन्धत्रिपुण्ड्रस्य मध्ये कस्तूरिकान्वितम् | सुगन्धिश्वेतलौहित्यपुष्पैः संभूषितो नरः || ९-१२१२ || अष्टगन्धस्य धूपेन नानासौगन्ध्यभूषितः | रक्तमाल्याम्बरधरो मुक्ताहारोपशोभितः || ९-१२१३ || पूर्णाभिषिक्ते शिरसि तेन तत्र न मुण्डनम् | सदा चोष्णोदकैः स्नायात् तदभावे यथोदकैः || ९-१२१४ || गृहं चित्रैस्तु संचित्रं दर्पणोदरसन्निभम् | वितानध्वजभूषाढ्यं घण्टानादोपशोभितम् || ९-१२१५ || पञ्चवादित्रसंयुक्तं नानाघोषसमन्वितम् | अन्तःसूक्ष्माम्बरैर्युक्तं स्वर्णपात्रादिरञ्जितम् || ९-१२१६ || ग्रैवेयवलयाङ्गुल्यभूषणैर्भूषितः सदा | नानामधुरभोज्यैश्च दुग्धपानैरनेककैः || ९-१२१७ || नानाभोगेन युक्तोऽयं गन्धर्वाख्यक्रमो भवेत् | इति गन्धर्वक्रमः | अथ भैरवक्रमः | इति संक्षेपतः प्रोक्तं भैरवाख्यं शृणु क्रमम् || ९-१२१८ || स्वपुष्पक्रमयोगेन भैरवी भुवि दुर्लभा | स्वपुष्पाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् || ९-१२१९ || तरुणीं सुन्दरीं रम्यां तारुण्यामृतविग्रहाम् | सदा रते साभिलाषां मैथुनोद्यतमानसाम् || ९-१२२० || मन्त्रयन्त्रसमायुक्तां समानीय महेश्वरि | नग्नां तां च विधायादौ स्वयं नग्नो जपं चरेत् || ९-१२२१ || परस्परालोकनं च कर्तव्यं च परस्परम् | प्. ८४९) अविकारी यदा देवि साधनार्हो न चान्यथा || ९-१२२२ || विकारे भावमाने च साधको नश्यति क्षणात् | साऽपि चेद्देवदेवेशि सविकारा यदा भवेत् || ९-१२२३ || पुष्पिणीमनुना देवि बलात् पुष्पं समानयेत् | द्राविणीमनुना देवि बलाद्दृष्ट्या द्रवं नयेत् || ९-१२२४ || केलिदोषवशाद्देवि नायं योगो भविष्यति | तस्मात् पाशवकल्पेन बाला शस्ताऽधुना शिवे || ९-१२२५ || बालायामुभयाचारो दक्षिणो मुख्य एव हि | तथा | शीघ्रं च सिद्धिकामश्चेद्गवाक्षं योगमभ्यसेत् || ९-१२२६ || यत्र स्त्रीणां समूहोऽस्ति नदीनदसमुद्रके | यत्र स्नानं प्रकुर्वन्ति गवाक्षं तत्र कारयेत् || ९-१२२७ || तमालोक्य प्रयत्नेन जपं कुर्यान्निरन्तरम् | इति संक्षेपतः प्रोक्तं तिलकं शृणु पार्वति || ९-१२२८ || वामहस्ततले यन्त्रं विलिख्य यत्नतः शिवे | अविशिष्टेन तिलकं कारयेत् परमेश्वरि || ९-१२२९ || भाले कस्तूरिकाविन्दुं मुनिपत्रं कुचन्दम् | तन्मध्ये श्वेतविन्दुं च केशादिपूर्ववद्भवेत् || ९-१२३० || दशविद्याविधौ देवि केशवर्धनमीरितम् || इति भैरवक्रमः | अथ कमलाक्रमः | देव्युवाच | देवेश श्रोतुमिच्छामि कमलाक्रमनिर्णयम् || ९-१२३१ || शिव उवाच | भ्रूमध्ये घुसृणं देवि सिन्दूरं तदनन्तरम् | प्. ८५०) श्वेतं त्रिपुण्ड्रं देवेशि तन्मध्ये केशरं शिवे || ९-१२३२ || स्नातः शुक्लाम्बरधरस्त्रीसन्ध्यं स्नानमाचरेत् | हविष्याशी भूमिशायी मधुरान्नप्रियो नरः || ९-१२३३ || भृगुवासरपर्यन्तं द्वितीयं भृगुवासरम् | प्रत्यहं पूजयेद् देवि नानावादित्रनिस्वनैः || ९-१२३४ || दिनषोडशपर्यन्तं प्रत्यहं तु समाचरेत् | पुनस्तद्दिनमारभ्य तद्दिनान्तं महेश्वरि || ९-१२३५ || पूजयेत् प्रयतो नित्यं देवताभावतत्परः | प्रदक्षिणा प्रकर्तव्या कलाभावक्रमेण च || ९-१२३६ || दीपास्तत्र प्रदातव्याः कलावृद्धिक्रमेण च | ब्रह्मणान् भोजयेन्नित्यं कलाभावक्रमेण च || ९-१२३७ || इत्याचारपरः श्रीमान् विष्णुरूपो नरो भवेत् | राजचिह्नानि सर्वाणि प्रयतः पूजयेत् सदा || ९-१२३८ || सर्वसाम्राज्यलक्ष्म्यास्तु नाथो भूयान्न संशयः | धनदा तस्य गेहस्था राजा च किङ्करो भवेत् || ९-१२३९ || इति कमलाक्रमः | अथ ब्रह्ममार्गक्रमः | देव्युवाच | देवेश श्रोतुमिच्छामि ब्रह्ममार्गक्रमं शिव | शिव उवाच | वेश्यायाः कज्जलं देयं सिन्दूरेण त्रिपुण्ड्रकम् | हरिद्रा भ्रूयुगे देया श्वेतपत्रं समाचरेत् || ९-१२४० || रक्तविन्दुं च तन्मध्ये सर्वदा तद्गतो भवेत् | भोजने शयने रात्रौ मैथुनं सर्वदा भवेत् || ९-१२४१ || प्. ८५१) उच्छिष्टहस्तो देवेशि उच्छिष्टेन वलिं हरेत् | शक्त्युच्छिष्टं परोच्छिष्टं भोजनं सार्वकालिकम् || ९-१२४२ || जपं कुर्यान्महेशानि रात्रावेव जपं चरेत् | ताम्बूलभक्षी मांसाशी भुक्त्वा चार्चां च कारयेत् || ९-१२४३ || उच्छिष्टहस्तः प्रजपेद्ब्रह्ममार्गः प्रकीर्तितः | इति ब्रह्ममार्गक्रमः | अथ महाराजक्रमः | देव्युवाच | महाराजक्रमं देव कथयस्व मम प्रभो || ९-१२४४ || शिव उवाच | महाराजक्रमो देवि कथ्यते शृणु साम्प्रतम् | नानाविचित्रसोपानमण्डिते चित्रमण्डपे || ९-१२४५ || सौधाट्टालकसंशोभिवितानध्वजशोभिते | नानोपवनसंयुक्ते हंसमायूरशोभिते || ९-१२४६ || नानाविचित्रशब्देन गजवाजिविराजिते | सर्वतो भद्रसंयुक्ते नानाभरणभूषिते || ९-१२४७ || धूपामोदसमायुक्ते चित्रदीपैरलङ्कृते | रत्नसिंहासने रम्ये रत्नाभरणभूषिते || ९-१२४८ || जातीचम्पकपुन्नागकेतकीगन्धशोभिते | कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमैर्युते || ९-१२४९ || जटामांस्यादिसौगन्धलेपनैः परिभूषितः | घण्टादिनादसंयुक्तः सर्वदा शुद्धमानसः || ९-१२५० || आनन्दमग्नहृदयो दिव्यवस्त्रैरलङ्कृतः | दिव्यमालाम्बरधरो दिव्यभूषाविभूषितः || ९-१२५१ || प्. ८५२) ताम्बूलपूर्णवदनो देवेन्द्र इव राजितः | वेदपात्रैर्नृत्यपात्रैर्भोगपात्रैर्निनादितः || ९-१२५२ || नृत्यगीतैश्च वादित्रैश्चतुर्विंशतिवादकैः | सङ्गीतरागतालैश्च ध्वनिभिश्च निनादितः || ९-१२५३ || नानादेशीयभाषाभिर्गद्यपद्यैरलङ्कृतः | नानाविचित्रभूषाभिर्भूषितः साधकोत्तमः || ९-१२५४ || समस्तराजचर्याभिर्मोहयन्राजनायिकाः | श्रीमहाराजमातङ्गी सर्वदेवप्रमोहिनी || ९-१२५५ || तस्यास्तु तिलकं देवि कथ्यते शृणु पार्वति | कुचन्दनं च भ्रूमध्ये गुरुसारस्तदन्तरे || ९-१२५६ || कस्तूरिकात्रिपुण्ड्रं च तन्मध्ये केशरं शिवे | महाराजक्रमो देवि कथितस्तु मया तव || ९-१२५७ || अथ वा देवदेवेशि स्वयं गानपरो भवेत् | इति महाराजक्रमः | अथ दिव्यभावक्रमः | देव्युवाच | वद श्रीभुवनेशान्याः क्रमं परमदुर्लभम् || ९-१२५८ || शिव उवाच | दिव्यभावक्रमेणैव भुवना शीघ्रसिद्धिदा | हकारः शिवरूपः स्याद्रकारः पापनाशकः || ९-१२५९ || ईकारः कामरूपः स्यान्माया तेन प्रकीर्तिता | ब्रह्माण्डमेतद्देवेशि मायया वेष्टितं भवेत् || ९-१२६० || यस्या मायां विना देवि न किञ्चित् प्रतिभासते | यद्भासरहितं किञ्चिन्न च तद्भासते क्वचित् || ९-१२६१ || प्. ८५३) यद्भासासहितं देवि जगदेतत् प्रभासते | यां विना तु महेशानि जगज्जडसमं भवेत् || ९-१२६२ || एवं क्रमेण देवेशि सदा तद्गतमानसः | त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा || ९-१२६३ || एतस्यास्तिलकं देवि कथ्यते यत्नतः शृणु | श्वेतचन्दनविन्दुं तु भ्रूमध्ये तु प्रलापयेत् || ९-१२६४ || गन्धसारं तदन्ते स्यात् त्रिपुण्ड्रं दिव्यवर्णकैः | रक्ताक्षता/श्च तन्मध्ये तेन सिद्धीश्वरो भवेत् || ९-१२६५ || इति दिव्यभावक्रमः | अथ धूम्रक्रमः | देव्युवाच | देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिव | शिव उवाच | धूमावत्याः क्रमो देवि कथ्यते शृणु पार्वति || ९-१२६६ || भ्रूमध्ये कज्जलं देवि भस्मविन्दुस्तदन्तरे | त्रिपुण्ड्रं च ललाटे स्याच्छवभस्म तदन्तरे || ९-१२६७ || कृष्णवस्त्राम्बरधरः कृष्णगन्धविभूषितः | गन्धपुष्पेण संयुक्तः श्मशानासनसङ्गतः || ९-१२६८ || धूम्रवर्णं जगत् सर्वं मन्त्री धूम्रमयो भवेत् | काकपिच्छं चासनं स्यात् कृष्णद्रव्यं प्रधारयेत् || ९-१२६९ || ब्रह्मचारी मिताहारी निर्विकल्पो जितेन्द्रियः | सत्यवादी दृढाचारो भूशायी कुशविष्टरः || ९-१२७० || स्नानं त्रिषवणं कुर्यादुच्चाटनपरायणः | स्वचित्तं काकवत् कृत्वा जगदुच्चाटयेद्ध्रुवम् || ९-१२७१ || प्. ८५४) इत्याचारपरो भूयाद्धूम्रक्रमगतो भवेत् | इति धूम्रक्रमः | अथ सौभाग्यक्रमस्तत्रैव | सौभाग्यार्चाक्रमेणैव वगला शीघ्रसिद्धिदा || ९-१२७२ || पीताम्बरधरो मन्त्री पीतभूषणभूषितः | पीतमाल्याम्बरधरः पीतगेहे समास्थितः || ९-१२७३ || पीतद्रव्योपभोगी च पीतासनसमन्वितः | पीतहोमो पीतपुष्पी पीतसक्तिसमन्वितः || ९-१२७४ || रोचनां भ्रुवि संदद्यात् कुङ्कुमं मुनिपत्रकम् | हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खादिरं शिवे || ९-१२७५ || हरिचन्दनधूपेन धूपितः परमेश्वरि | सर्वाङ्गसुन्दरीं रम्यां सर्वावयवशोभिताम् || ९-१२७६ || नबोढां पुष्पिणीं चैव प्रार्थयेद्विप्रकन्यकाम् | अष्टम्यां च चतुर्दश्यां पौर्णमास्यां कुमारिकाम् || ९-१२७७ || अथ वा भौमवारे वा निशायां भृगुवासरे | सुवासितेन तैलेन कुर्यादभ्यञ्जनं तथा || ९-१२७८ || तूलिकातल्पमानीय आस्तीर्योदङ्मुखस्तदा | तस्योपरि समास्तीर्य समन्त्रैर्जातिचम्पकैः || ९-१२७९ || कर्पूरं चैव कस्तूरीमिश्रितं चन्दनं तथा | सर्वाङ्गे लेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् || ९-१२८० || पर्यङ्कोपरि तां कन्या चन्दनेन विलेपिताम् | ध्रुवाद्यैरिति मन्त्रेण कन्यां दक्षिणतो मुखी || ९-१२८१ || उन्मुखीं शयने कुर्याच्छ्रीसूक्तेन कुमारिकाम् | प्. ८५५) तस्याः पादौ प्रसार्याथ गुप्तेनार्चनमाचरेत् || ९-१२८२ || न्यस्त्वा षोढाद्वयं चैव वगलापञ्चकं न्यसेत् | कन्यां चैव न्यसेद्देवं तत्तदङ्गानि संस्मरेत् || ९-१२८३ || अनन्यजपुरं चैव मार्जयेन्मूलविद्यया | गन्धद्वारेति मन्त्रेण कुर्यात् कस्तूरिलेपनम् || ९-१२८४ || मूलमन्त्रेण चैतन्यपुष्पमालां समर्पयेत् | निवेदयेद्द्रव्यशुद्धिं ततश्च जपमाचरेत् || ९-१२८५ || प्रयोगः सिद्धिदः पुंसां मन्त्रसिद्धिकरः परः | एतत्क्रमं विना देवि प्रयोगो न भवेत् क्वचित् || ९-१२८६ || तस्मात् सर्वप्रयत्नेन सिद्ध्यर्थी देवि भूतले | अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् || ९-१२८७ || त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् | इति सौभाग्यक्रमः | अथ दिव्यवीरपशुभावाः | (भावचूडामणौ) देव्युवाच | भावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् || ९-१२८८ || गुरवस्त्रिविधाश्चात्र तथैव मन्त्रदेवताः | शक्तिमन्त्रो महादेव विशेषान्मन्त्रसिद्धिदः || ९-१२८९ || आद्यभावो महादेव श्रेयान् सर्वसमृद्धिदः | द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः || ९-१२९० || सर्वनिन्दित इति ब्राह्मणेतरविषयः | ब्राह्मणस्य तु पशुभावान्यभावश्रयणे निन्दाश्रवणात् | तथा | लक्षजापात् तथा होमात् कायक्लेशादिविस्तरैः | प्. ८५६) न भावेन विना देव तन्त्रमन्त्राः फलप्रदाः || ९-१२९१ || किं वीरसाधनेनैव विश्वदृष्टिकुलाकुलैः | किं पीठपूजनेनैव किं कन्याभोजनादिभिः || ९-१२९२ || स्वयोषित्प्रीतिदानेन किं परेषां तथैव च | किं जितेन्द्रियभावेन किं कुलाचारकर्मणा || ९-१२९३ || यदि भावविशुद्धात्मा न स्यात् कुलपरायणः | भावेन लभते मुक्तिं भावेन कुलवर्धनम् || ९-१२९४ || भावेन कुलवृद्धिः स्याद्भावेन कुलशोभनम् | किं न्यासविस्तरेणैव किं तत्तच्छुद्धिविस्तरैः || ९-१२९५ || किं तथा पूजनेनैव यदि भावो न जायते | केन वा पूज्यते विद्या न चेत् केन न जप्यते || ९-१२९६ || फलाभावश्च देवेश भावाभावात् प्रजायते | तथा | प्रथमो दिव्यभावस्तु कथ्यते शृणु सादरम् || ९-१२९७ || यद्वर्णदेवता यत्र तत्तेजःपुञ्जपूरितम् | तेजोमयं जगत् सर्वं विभाव्य मूर्तिकल्पनम् || ९-१२९८ || तत्तन्मूर्तिमये मन्त्रे स्वेन स्वेनैव वा पुनः | आत्मानं तन्मयं दृष्ट्वा सर्वभावं तथैव च || ९-१२९९ || तत्सर्वं योषिति ध्यात्वा चिन्तयेद्यतमानसः | अशेषकुलसंपन्ना नानाजातिसमुद्भवा || ९-१३०० || नानादेशोद्भवा वाऽपि गुणलावण्यसंयुता | द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दकम् || ९-१३०१ || तावत् कुमारी विज्ञेया मन्त्रयन्त्रफलप्रदा | कुमारीपजनाच्चैव कुमारीभोजनादपि || ९-१३०२ || प्. ८५७) एकद्वित्र्यादिबीजानां फलदा नात्र संशयः | ताभ्यः पुष्पं फलं वाऽपि अनुलेपादिकं तथा || ९-१३०३ || वलिप्रियं च नैवेद्यं दत्वा तद्भावपूरितः | दत्वा तदङ्ग आत्मानं वलिभावे विचेष्टितम् || ९-१३०४ || ताभिः प्रायः कथालापं क्रीडाकौतूहलादिकम् | यथातथं तत्प्रियकृत् कृत्वा सिद्धीश्वरो भवेत् || ९-१३०५ || तस्मात् षोडशपर्यन्तं युवतीति प्रवक्ष्यते | तत्र भावप्रकाशश्चेत् सद्भावः परमो मतः || ९-१३०६ || रक्षितव्याः प्रयत्नेन अक्षतास्ता न कारयेत् | एष ते कथितो देव दिव्यभावः सुखावहः || ९-१३०७ || न देयो यस्य कस्यापि पशोर्गोप्यः प्रयत्नतः | इति दिव्यभावः | अथ वीरभावस्तत्रैव | देव्युवाच | वीरभावो महादेव कथ्यते शृणु भैरव || ९-१३०८ || निर्द्वन्द्वमानसो भूत्वा हृदा कामकला तनुः | निशासु पूजा प्रवरा हेतुयुक्ता तथैव हि || ९-१३०९ || निजं कुलं समाधाय स्वयं भैरवरूपधृक् | कुलं च भैरवीरूपं तद्गात्रे न्यासविस्तरम् || ९-१३१० || विन्यसेत् केवलं न्यासं नवयोन्यात्मकं तथा | नवयोन्यत्मकमिति श्रीविद्यापरम् | प्रसूनतूलिकामध्ये पुष्पप्रकरसंयुते || ९-१३११ || नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् | लिखित्वा पूजयेच्छक्तौ घटस्थापनपूर्वकम् || ९-१३१२ || प्. ८५८) स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् | लिखित्वा तत्र कुम्भं वै सौवर्णं राजतं तथा || ९-१३१३ || ताम्रं भूमिमयं वाऽपि महालोहविवर्जितम् | स्थापयेत् कलशाधारं कुम्भं सुगन्धिवासितम् || ९-१३१४ || हेतुद्रव्यं ब्राह्मणादिभेदतः संप्रपूरयेत् | ब्राह्मणादिभेदत इति क्षीराज्यमध्वासवरूपं ब्राह्मणादिभिः पूरणीयमित्यर्थः | एवं च वीरब्राह्मणस्य हेतुस्थाने क्षीरमेव च | पशोस्तु तदपि नेति बोध्यम् | तत्र यन्त्रं विलिख्यादौ यद्यत् कुलसमुद्भवम् || ९-१३१५ || ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् | धेनुयोनी प्रदर्श्याथ प्रसृतं तद्विचेष्टितम् || ९-१३१६ || दृष्ट्वाऽमृतं स्वपात्रं वै नृत्यन्ति योगिनीगणाः | नृत्यन्ति भैरवाः सर्वे नृत्यन्ति मातरोऽपि च || ९-१३१७ || इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः | ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः || ९-१३१८ || अर्घभाण्डं त्रिधा कृत्वा गुरवे चैकभागकम् | एवं कुलाय वै दत्त्वा एकेन देवतर्पणम् || ९-१३१९ || पीत्वा कुलरसं नानावस्त्रालङ्कारभूषणम् | साक्षाद्यदि गुरुर्न स्यात् तदा तोये विसर्जयेत् || ९-१३२० || आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीम् | तत्तत्कल्पविधानेन तत्तद्यत्नेन पूजयेत् || ९-१३२१ || विसर्जनं विधायान्ते स्वकुले योजयेत् ततः | तद्विम्बरसपानेन अमृतं भक्ष्यते मया || ९-१३२२ || तच्चकोररसास्वादे सम्मदो मम जायते | तत्फलग्रहणादेव मेरुशृङ्गावरोहणम् || ९-१३२३ || प्. ८५९) लतालिङ्गनमात्रेण सुधाधौतकलेवरः | मूलयोगे कृते तत्र जपेदष्टसहस्रकम् || ९-१३२४ || नित्यजाप्ये च होमे च यत्र सङ्ख्या न चोदिता | तत्रेयं गणना प्रोक्ता अष्टोत्तरसहस्रकम् || ९-१३२५ || जलपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत् ततः | विधाय तर्पणं देव प्रदक्षिणमनुव्रजेत् || ९-१३२६ || स्तुत्वा प्रणम्य कल्पोक्तस्तवेन स्तावयेत् ततः | इति वीरकुलं देव देववन्द्यं मनोहरम् || ९-१३२७ || (कालीकल्पे) रात्रौ पर्यटनं चैव रात्रौ शक्तिं प्रपूजयेत् | अकृत्वा कथमीशान मद्भक्तः कौलिको भवेत् || ९- १३२८ || (मेरुतन्त्रे) कुलं तु गोपयेद्देवि नारिकेलरसाम्बुवत् | गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् || ९-१३२९ || (कुलार्णावे) वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव | इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव || ९-१३३० || सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः | वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशनात् || ९-१३३१ || (मेरौ) न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् | स्त्रियं शतापराधां वा पुष्पेणापि न ताडयेत् || ९-१३३२ || दोषान् न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् | तथा | कन्याः कुमारिका नग्ना उन्मत्ता अपि योषितः || ९-१३३३ || प्. ८६०) न निन्देत जुगुप्सेत न हसेन्नावमानयेत् | एकवृक्षं श्मशानं च समूहं योषितामपि || ९-१३३४ || नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः | तथा | तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा || ९-१३३५ || तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः | न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् || ९-१३३६ || दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन | श्लेष्मान्तककरञ्जार्कनिम्बाश्वत्थकदम्बकाः || ९-१३३७ || विल्वो वटोऽदुम्बरश्च चिञ्चा चेति दश स्मृताः | प्रायश्चित्तं भृगोः पातं सन्यासं व्रतधारणम् || ९-१३३८ || तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् | प्रायश्चित्तादिकं तन्त्रोक्तभिन्नम् | (रौद्रे) वीरभावं महेशानि सर्वथा न प्रकाशयेत् || ९-१३३९ || (वीरचूडामणौ) पूजाकाले महेशानि यदि कोऽप्यत्र गच्छति | दर्शयेद्वेष्णावीं मुद्रां विष्णुन्यासं तथा स्तवम् || ९-१३४० || अन्तः शाक्ता बहिः शैवाः सभायां वैष्णवा मताः | नानारूपधरा वीरा विचरन्ति महीतले || ९-१३४१ || (भावचूडामणौ) यद्देशे विद्यते वीरस्तत्कुलं वाऽपि भैरव | न च मारीभयं तत्र न च राजभयादिकम् || ९-१३४२ || सुमङ्गलं सदा तत्र धनपुत्रविवर्धनम् | लक्ष्मीस्तत्र महादेव सुस्थिरा भवति ध्रुवम् || ९-१३४३ || प्. ८६१) मन्त्रः स्वप्नप्रबोधिन्या अवश्यं वृक्षमूलके | योजनीयः प्रयत्नेन न च विघ्नः प्रजायते || ९-१३४४ || नान्यवीरस्य तद्योग्यं ग्रहणैर्दैवतैरपि | योगिनीभिर्न लुप्तं च तन्न पापेन लिप्यते || ९-१३४५ || यत्र तत्र कुजे वारे श्मशानगमने कृते | पूजाफलं भवेत् तत्र सप्तवासरसम्मितम् || ९-१३४६ || चतुर्दश्यां गते तत्र पक्षपूजाफलं भवेत् | न गच्छेन्नार्यतः स्थाने पशुरेव न संशयः || ९-१३४७ || नास्त्यस्मादधिकं देव इति चिन्तापरायणः | मदेन द्रव्यभोक्ता च भवेत् कुलपरायणः || ९-१३४८ || साधके क्षोभमापन्ने मम क्षोभः प्रजायते | तस्माद्यत्नाद्वीरवरो भवेद्भोगयुतः सुखी || ९-१३४९ || भोगेन मोक्षमाप्रोति भोगेन कुलसाधनम् | विना हेतुमनास्वाद्य क्षोभयुक्तो महेश्वर || ९-१३५० || न पूजा मम संपर्कं न ध्यानमनुचिन्तनम् | तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् || ९-१३५१ || नात्र प्रच्युतिदोषोऽस्ति नापरं दोषभूषणम् | यद्यद्वदति निद्राति यत् करोति यदर्चति || ९-१३५२ || तत्सर्वं कुलरूपं च ध्यात्वा च विहरेत् सुखी | एकाकी निर्जने देशे श्मशाने पर्वते वने || ९-१३५३ || शून्यगेहे नदीतीरे निःसङ्गो विहरेन्मुदा | वीराणां जपकालस्तु सर्वकालः प्रशस्यते || ९-१३५४ || सर्वदेशे सर्वपीठे कर्तव्यं च न संशयः | प्. ८६२) यदि विप्रो भवेद्भ्रष्टः कुलधर्मपरायणः || ९-१३५५ || तदा तेन विधानेन कर्तव्यं कुलतोषणम् | अपरापुष्पगर्भे तु कुलस्थानं मनोहरम् || ९-१३५६ || सर्वदेवमुखं तत्र महाकामकलात्मकम् | हयारिकुसुमे देवः स्वयमस्ति सदाशिवः || ९-१३५७ || तन्मध्ये लघुमादाय पुष्पमध्ये तु चन्दनम् | रक्तं वा कुसुमं दत्वा ध्यात्वाऽत्मानं शिवात्मकम् || ९-१३५८ || योजयेच्छिवशक्त्योस्तु ऐक्यं संभावयेद्धिया | क्षणं विचिन्त्य तत्रैव संपूज्य परमेश्वरीम् || ९-१३५९ || जप्त्वा तदेव कुण्डाख्यं द्रव्यं परमदुर्लभम् | यत्रापराजितापुष्पं जपापुष्पं च भैरव || ९-१३६० || करवीरे रक्तशुक्ले द्रोणपुष्पं च तिष्ठति | तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजयेन्मम || ९-१३६१ || दत्ते चैव जपापुष्पे पट्टवस्त्रफलं लभेत् | ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितम् || ९-१३६२ || अपरायास्तु माहात्म्यं वक्तुं न हि महेश्वर | वीरसाधनकार्यं च कर्तव्यं वीरपूरुषैः || ९-१३६३ || दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः | वरं पामरकार्यं च न पशोरिति निश्चितम् || ९-१३६४ || यद्यन्न मत् पुरा प्रोक्तं संकेतं मन्त्रसाधने | अञ्जनं गुटिकादिं च कुर्याद्वीरो महाबलः || ९-१३६५ || दिव्ये वीरे न भेदोऽस्ति यद्भेदं तत् तु कथ्यते | शान्तो विनीतो मधुरः कलालावण्यसंयुतः || ९-१३६६ || प्. ८६३) दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः | (कुलरत्नावल्याम्) दिव्यवीरौ सुरेशानि शक्तिसेवापरायणौ || ९-१३६७ || वामिकौलिकभेदाभ्यां प्रत्येकं द्विविधौ स्मृतौ | (भावचूडामणौ) विभूतिभूषणैर्वाऽपि चन्दनैर्वा विलेपितः || ९-१३६८ || आकारगोपनो वाऽपि त्यक्तो वा कुलभैरव | रक्तचन्दनदिग्धो वा वैष्णवो वाऽप्यवैष्णवः || ९-१३६९ || अपमाने तु पूजायां हृष्टः पुष्टः सदा भवेत् | देवनिन्दापरो वाऽपि तत्र पूजापरोऽपि वा || ९-१३७० || पूजा च तत्तद्रहितः कुलाकुलमते स्थितः | निजभावसमायुक्तो देववद्विरहेत् क्षितौ || ९-१३७१ || स्वकुलान्ते पुरश्चर्या कार्या रात्रौ न चान्यथा | वेदहीने द्विजे देव यथा न श्रुतिसंकथा || ९-१३७२ || विष्णुभक्तिं विना देवीभक्तिर्न प्रभवेद्यथा | शाक्तज्ञानं विना मुक्तौ यथा हास्याय कल्पते || ९-१३७३ || गुरुं विना यथा तन्त्रे नाधिकारः कथं चन | पतिहीना यथा नारी सर्वकर्मविवर्जिता || ९-१३७४ || कुलं विना देवविधौ कदाऽपि मम साधने | नाधिकारीति कौलेय तस्माद्भावपरो भवेत् || ९-१३७५ || अविनीतं कुलं यस्य स क कथं मम पूजकः | तस्माद्यत्नात् तथा कार्यं यथा स्याद्विनयान्वितम् || ९-१३७६ || भावाभावे कुले शास्त्रे नाधिकारः कथं चन | तेन भावविशुद्धश्च साधकः कौलिको भवेत् || ९-१३७७ || इति वीरभावक्रमः | प्. ८६४) देव्युवाच | पशुभावं प्रवक्ष्यामि शृणु वत्स समाहितः | यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः || ९-१३७८ || प्रथमं पूर्वसेवार्थं यत्नतः शुद्धिमाचरेत् | नमस्य भोजनं कुर्यान् न स्त्रियं मनसा स्मरेत् || ९-१३७९ || न परद्रव्यलोभी स्यान्न भोगे मानसं भजेत् | सिन्धुतीरे पर्वते वा कानने च सुरालये || ९-१३८० || विल्वमूले विविक्ते च पुण्यक्षेत्रे च शोभने | न शूद्रदर्शनं कुर्यात् कौटिल्यं यत्नतस्त्यजेत् || ९-१३८१ || देवता शुभवर्णा तु ध्यातव्या सुसमाहितैः | त्रिसन्ध्यं देवपूजा तु त्रिसन्ध्यं जपमाचरेत् || ९-१३८२ || रात्रौ मन्त्रं च मालाश्च स्पृशेन्नैव कदा चन | न मन्त्रमुच्चरेद्भुक्त्वा मौनी स्यात् सर्वकर्मसु || ९-१३८३ || पर्वकाले स्त्रियं नैव गच्छेत् साधकसत्तमः | पुष्पं गन्धं जलं चैव स्वयमानीप पूजयेत् || ९-१३८४ || मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् | ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् || ९-१३८५ || पुराणश्रवणे श्रद्धा वेदवेदार्थतत्परः | न रात्रौ भोजयेद्विद्वान् ताम्बूलं परमेश्वर || ९-१३८६ || गुरुणा यद्यदादिष्टं तत्सर्वं यत्नतश्चरेत् | स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव || ९-१३८७ || स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुध्यति | रक्तवस्त्रं न गृह्णीयाद्देवीभक्तिपरायणः || ९-१३८८ || प्. ८६५) विष्णुतन्त्रेषु कल्याणि तदनुष्ठानमेव च | कार्यं वीरकथालापं न कुर्याद्वीरवन्दिते || ९-१३८९ || नित्यश्राद्धं गयाश्राद्धं सन्ध्यावन्दनमेव च | तीर्थस्नानं पीठदेशगमनं धर्मतत्परः || ९-१३९० || (मेरुतन्त्रे) देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे | पादुकासनविण्मूत्रमैथुनानि विवर्जयेत् || ९-१३९१ || प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् | विरूपां वा मुक्तकेशीं कामार्तां च न निन्दयेत् || ९-१३९२ || कन्यायोनौ पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् | नालोकयेत् परद्रव्यं परदारा/श्च वर्जयेत् || ९-१३९३ || धान्यगोगुरुदेवाग्निकुशपुस्तकसंमुखम् | नैव प्रसारयेत् पादौ न चैतानि विलङ्घयेत् || ९-१३९४ || आलस्यमदसंमोहशापपैशून्यविग्रहान् | असूयामात्मसन्मानं परिनिन्दाश्च वर्जयेत् || ९-१३९५ || (भावचूडामणौ) भावस्तु मानसो धर्मः शाब्दः स हि कथं भवेत् | तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतम् || ९-१३९६ || यथेक्षुगुडमाधुर्यमशनैर्ज्ञायते प्रभो | तथा भावविभावस्तु मनसा परिभाव्यते || ९-१३९७ || तन्त्रान्तरे | उत्तमो दिव्यभावः स्याद्वीरभावस्तु मध्यमः | पशुभावोऽवरः प्रोक्तो भावमेकं समाश्रयेत् || ९-१३९८ || इति पशुभावक्रमः | प्. ८६६) (सिद्धान्तसंग्रहे) संप्रदायानथो वच्मि गौडकाश्मीरकेरलान् | सर्वार्थसिद्धिसंकल्पपूजापुष्पार्पणादनु || ९-१३९९ || नैवेद्यान्ते च हवनं ताम्बूलान्ते वलिर्मतः | पूजनं वामहस्तेन दक्षहस्तेन तर्पणम् || ९-१४०० || साक्षाद्दानं मकारणे हृदि देव्या विसर्जनम् | गौडाक्षसप्रदायोऽयं सेवितो वामिभिः सदा || ९-१४०१ || विनियोगादर्चनार्थं वलिः पीठार्चनादनु | होमः पञ्चोपचारान्ते दक्षिणार्चनतर्पणे || ९-१४०२ || गव्यं तु ताम्रपात्रस्थं वारुणी स्याद्घृतं विना | लवणार्द्रकपिण्याकपलाण्डुमाषपञ्चकम् || ९-१४०३ || लशुनं च महादेवि मांसप्रतिनिधिः स्मृतः | मत्स्याभावे तु क्रमुकं ताम्बूलं यद्यदामिषम् || ९-१४०४ || गुडाभावे तण्डुलं वा भर्जितं चणकादिकम् | विलिखेत् पञ्चमाभावे शक्तिबीजं त्रिकोणकम् || ९-१४०५ || वामोरौ साधको रक्तं चन्दनेन विधानवित् | शक्तिं संपूज्य तत्रैव तद्गायत्रीं शतं जपेत् || ९-१४०६ || स्वयम्भूकुसुमाभावे रक्तचन्दनकं क्षिपेत् | हयारिकुसुमं शम्भुः शक्तिः प्रोक्ताऽपराजिता || ९-१४०७ || तयोः समेलनोत्पन्नं गृह्णीयाच्च कुलामृतम् | तथा | ताम्रे गव्यादिपिण्याकं गृञ्जनं पायसं पयः || ९-१४०८ || एते तत्त्वानुकल्पाश्च सहस्रारे विसर्जनम् | प्. ८६७) काश्मीरसंप्रदायोऽसौ विज्ञेयः कौलिकप्रियः || ९-१४०९ || पिण्याकं तिलकल्कः | गृञ्जनं लशुनम् | तथा | सङ्कल्पो देवताप्रीत्यै तत्त्वानां भावनैव हि | आत्मा विद्या शिवः सर्वः पूर्णश्चेति क्रमेण च || ९-१४१० || पूजा पञ्चोपचारान्ते पूजान्ते च वलिर्भवेत् | पूजनं दक्षहस्तेन वामहस्तेन तर्पणम् || ९-१४११ || होमः समस्तकर्मान्ते हृद्येवोद्वासनं स्मृतम् | केरलारव्यः संप्रदायो मुनिभिः समुपासितः || ९-१४१२ || इति संप्रदायक्रमः | बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्रचित्रामृत स्रोतःशालिनि संनिबन्धनसरित्संभेदमभ्यर्हितम् | सन्मुक्तोपमयुक्तिभाजि नवमो रम्यस्तरङ्गोऽगमत् सर्वोर्वीपतिनाथनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे || ९-१४१३ || इति श्रीमन्महाराजधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे दशमहाविद्यापुरश्चरणनिरूपणं नाम नवमस्तरङ्गः || ९ || अथ सरस्वत्यादिमन्त्रास्तत्पुरश्चर- णविशेषाश्च प्रदर्श्यन्ते | तथा च (शारदायाम्) अद्रिर्वरुणसंरुद्धो दवाग्वादिनि ठद्वयम् | वागीश्वर्या दशार्णोऽयं मन्त्रो वाग्विभवप्रदः || १०-१ || ऋषिः कण्वो विराट्छन्दो देवता वाक् समीरिता | शिरःश्रवणदृङ्नासावदनान्धुगुदेष्विमान् || १०-२ || न्यासार्णान् प्राग्वदङ्गानि मातृकोक्तानि कल्पयेत् | अथ ध्यानम् | तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः कुचभरनमिताङ्गी संनिषण्णा सिताब्जे || १०-३ || निजकरकमलोद्यल्लेखनीपुस्तकश्रीः सकलविभवसिद्ध्यै पातु वाग्देवता नः | अथ मन्त्रान्तरं तत्रैव | दशलक्षं जपेन्मन्त्रं दशांशं जुहुयात् ततः || १०-४ || पुण्डरीकैः पयोऽभ्यक्तैस्तिलिर्वा मधुराप्लुतैः | अथ मन्त्रान्तरं तत्रैव | हृदयान्ते भगवति वदशब्दयुगं ततः || १०-५ || वाग्देवि वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् | मनुं षोडशवर्णाढ्यं वागैश्वर्यफलप्रदम् || १०-६ || मनोः षड्भिः पदैः कुर्यात् षडङ्गं जातिसंयुतैः | अथ ध्यानम् | शुभ्रां शुभ्रविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां प्. ८६९) व्याख्यामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैः || १०-७ || बिभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् | अथ पुरश्चरणम् | हविष्याशी जपेत् सम्यग्वसुलक्षमनन्यधीः || १०-८ || दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः | अथमन्त्रान्तरं तत्रैव | तारो माया धरो विन्दुः शक्तिस्तारं सरस्वती || १०-९ || ङेन्ता नत्यन्तिको मन्त्रः प्रोक्त एकादशाक्षरः | ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नवरन्ध्रेषु च क्रमात् || १०-१० || मन्त्रवर्णान् न्यसेन्मन्त्री वाग्भवेनाङ्गकल्पना | अथ ध्यानम् | वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां चन्द्रार्धाङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् || १०-११ || वीणामक्षगुणं सुधाट्यकलशं विद्यां च तुङ्गस्तनीं दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे | अथ पुरश्चरणम् | जपेद्द्वादशलक्षाणि तत्सहस्रं सिताम्बुजैः || १०-१२ || नागचम्पकपुष्पैर्वा जुहुयात् साधकोत्तमः | अथ मन्त्रान्तरं तत्रैव | वाचस्पतेऽमृते भूयः प्लुवः प्लुवेति कीर्तयेत् || १०-१३ || वागाढ्यो मुनिभिः प्रोक्तो रुद्रसङ्ख्याक्षरो मनुः | कुर्यादङ्गानि विधिवद्वागाद्यैः पञ्चभिः पदैः || १०-१४ || अथ ध्यानम् | आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं प्. ८७०) बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुन्दप्रभा | भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् || १०-१५ || अथ पुरश्चरणम् | रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः | मातृकाकल्पिते पीठे पूजयेत् तां यथा पुरा || १०-१६ || अथ मन्त्रान्तरं तत्रैव | तोयस्थं शयनं विष्णोः सकेवलचतुर्मुखम् | विन्द्वर्घीशयुतो वह्निविन्दुसद्योऽम्बुमान् भृगुः || १०-१७ || उक्तानि त्रीणि बीजानि सद्भिः सारस्वतार्थिनाम् | अङ्गानि कल्पयेद्वीजैद्विरुक्तैर्जातिसंयुतैः || १०-१८ || अथ ध्यानम् | मुक्ताहारावदातां शरसि शशिकलालङ्कृतां बाहुभिः स्वै र्व्याख्यां वर्णाक्षमालां मणिमयकलशं पुस्तकं चोद्वहन्तीम् | अपीनोत्तुङ्गवक्षोरुहभरविनमन्मध्यदेशामधीशां वाचामीडे चिराय त्रिभुवननमितां पुण्डरीके निषण्णाम् || १०-१९ || अथ पुरश्चरणम् | त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात् तद्दशांशतः | पायसेनाज्यसिक्तेन संस्कृते हव्यवाहने || १०-२० || अथ चिन्तामणिसरस्वतीमन्त्रो (मेरुतन्त्रे) अथादौ संप्रवक्ष्यामि चिन्तामणिसरस्वतीम् | तारं माया च हसरानैकाराढ्यान् सविन्दुकान् || १०-२१ || पुनर्मायां च तारं च वदेत् ङेन्तां सरस्वतीम् | हृदयान्तो भवार्णोऽयं मन्त्रस्तु परिकीर्तितः || १०-२२ || त्रिष्टुप्च्छन्दो मुनिः कण्वश्चिन्तामणिसरस्वती | प्. ८७१) देवता ह्सै/ च बीजं स्यात् ह्री/ शक्तिस्त्वङ्गकल्पने || १०-२३ || स्वरसंपुटितैः कादिवर्गैः स्यादङ्गकल्पनम् | अथ ध्यानम् | हंसारूढां मौक्तिकाभां मन्दहास्येन्दुशेखराम् || १०-२४ || वीणामृतघटाक्षस्रग्दीप्तहस्तां कजस्थिजाम् | अथ पुरश्चरणम् | जपेद्द्वादशलक्षक मित्युक्त्वा सिताब्जै रविसाहस्रं हुनेद्वाऽथ च चम्पकैः || १०-२५ || अथ पारिजातसरस्वतीमन्त्रः (दक्षिणामूर्तिसंहितायाम्) संपत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् | तारेण परया देवी संपुटीकृत्य मन्त्रवित् || १०-२६ || सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीरितः | ऋषिस्तद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् || १०-२७ || पारिजातेश्वरी वाणी देवता परिकीर्तिता | तृतीयं च द्वितीयं च बीजं शक्तिश्च तारकम् || १०-२८ || कीलकं परमेशानि महासारस्वतप्रदम् | षड्दीर्घस्वरसंभिन्नबीजेनाङ्गानि विन्यसेत् || १०-२९ || अथ ध्यानम् | हंसारूढा वर्रहसितहारेन्दुकुन्दावदाता वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुरेखा | विद्यावीणामृतमयघटाक्षस्रजादीप्तहस्ता शुध्रा?ब्जस्था भवदभिमतप्राप्तये भारती स्यात् || १०-३० || अथ पुरश्चरणं तन्त्रान्तरे | वर्णलक्षं जपेन्मन्त्रं तद्दशांशं ततो हुनेत् | किंशुकैश्चम्पकैर्वाऽपि तिलाज्यमधुलोलितैः || १०-३१ || नवाक्षरोऽपि यो मन्त्रस्तत्रादौ प्रणवस्ततः | प्. ८७२) संपत्प्रदाधाग्भवस्ततो लज्जाबीजमिति | (शारदायाम्) एवमुक्तेषु मन्त्रेषु दीक्षितो यतमानसः || १०-३२ || एकं यो भजते भक्त्या स भवेद्भुक्तिमुक्तिभाक् | सुसितैर्गन्धकुसुमैः पूजा सारस्वते विधौ || १०-३३ || दूर्वाबीजाङ्कुरं पुष्पं राजवृक्षसमुद्भवम् | उत्पलानि प्रशस्तानि सिन्धुवाराङ्कुराणि च || १०-३४ || भजन् सरस्वतीं नित्यमेतानि परिवर्जयेत् | आम्रातं गृञ्जनं विम्बं करञ्जं लशुनं तथा || १०-३५ || तैलं पलाण्डुं पिण्याकं साङ्गाष्टमपि भोजने | सर्वं पर्युषितं त्याज्यं सदा सारस्वतार्थिना || १०-३६ || नाचरेन्निशि ताम्बूलं स्त्रियं गच्छेद्दिवा न च | न सन्ध्ययोः स्वपेज्जातु नाशुचिः किञ्चिदुच्चरेत् || १०-३७ || प्रदोषे तु भवेन्मौनी दिग्वस्त्रां न विलोकयेत् | न पुष्पितां स्त्रियं गच्छेन्न निन्देद्वामलोचनाम् || १०-३८ || न मृषा वचनं ब्रूयान्नाक्रमेत् पुस्तकं सुधीः | अक्षराढ्यानि पत्राणि नोपेक्षेत न लङ्घयेत् || १०-३९ || चतुर्दश्यष्टमीपर्वप्रतिपद्ग्रहणेषु च | संक्रमेषु च सर्वेषु विद्यां नैव पठेन्नरः || १०-४० || व्याख्याने संत्यजेन्निद्रामालस्यं जृम्भणां बुधः | क्रोधं निष्ठीवनं तद्वन्नीचाङ्गस्पर्शनं तथा || १०-४१ || मनुष्यसर्पमार्जारमण्डूकनकुलादयः | अन्तरा यदि गच्छेयुस्तदा व्याख्यां परित्यजेत् || १०-४२ || निशासु दीपभ्रंशे च पाठं सद्यः परित्यजेत् | प्. ८७३) ज्ञात्वा दोषानिमान् सम्यग्भक्त्या यो भारतों भजेत् || १०-४३ || वाचां सिद्धिमवाप्तोति वाचस्पतिरिवापरः | इति सरस्वतीप्रकरणम् | अथ त्वरितामन्त्रः | तत्रैव | ततोऽभिधास्ये त्वरितां त्वरितं फलदायिनीम् || १०-४४ || तारो माया वर्मबीजमृद्धिरीशस्वरन्विता | कूर्मस्तदन्तो भगवान् क्षस्त्री/ दीर्घतनुच्छदम् || १०-४५ || संवर्तो भगवान् माया फडन्तो द्वादशाक्षरः | मुनिरर्जुन आख्यातो विराट् छन्दः समीरितम् || १०-४६ || त्वरिता देवता प्रोक्ता पुरुषार्थफलप्रदा | तथा | कूर्माद्यैः पञ्चभिर्वर्णैः पूर्वपूर्वविवर्जितैः || १०-४७ || द्वाभ्यां द्वाभ्यां षडङ्गानि कल्पयेत् साधकोत्तमः | अथ ध्यानम् | श्यामां वर्हिकलापशेखरयुतामाबद्धपर्णांशुकां गुञ्जाहारलसत्पयोधरभरामष्टाहिपान् बिभ्रतीम् || १०-४८ || ताटङ्काङ्गदमेखलां गुणरणन्मञ्जीरतां प्रापितां कैरीतीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे | अथ पुरश्चरणम् | लक्षं संजप्य मन्त्रज्ञो मन्त्रमेनं जितेन्त्रियः || १०-४९ || दशांशं जुहुयाद्वैल्वैर्मधुराक्तैः समिद्वरैः | तथा | एवं सिद्धमनुर्मन्त्री नारीनरनरेश्वरैः || १०-५० || मान्यते वत्सरादर्वाग्लक्ष्म्या जितघनेश्वरः | इति त्वरितामन्त्रः | प्. ८७४) अथ नित्यक्लिन्नामन्त्रस्तत्रैव | तारो माया वाग्भवान्ते नित्यक्लिन्ने मदद्रवे || १०-५१ || वाङ्माया वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः | द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां पञ्चभिरक्षरैः || १०-५२ || वाचं विना समस्तेनाप्यङ्गषट्कमथाचरेत् | अथ ध्यानम् | द्वीपं त्रिकोणविपुलं सुरद्रुममनोहरम् || १०-५३ || कूजत्कोकिलनादाढ्यं मन्दमारुतसेवितम् | भृङ्गपुष्पलताकीर्णमुद्यच्चन्द्रदिवाकरम् || १०-५४ || स्मृत्वा सुधाब्धिमध्यस्थं तस्मिन् माणिक्यमण्डपे | रत्नसिंहासने न्यस्तत्रिकोणोज्ज्वलकर्णिके || १०-५५ || पद्मे संचिन्तयेद्देवीं साक्षात् त्रैलोक्यमोहिनीम् | नित्यां भजे बालशशाङ्कचूडां पाशाङ्कुशौ कल्पलतां कपालम् || १०-५६ || हस्तैर्बहन्तीमरुणां त्रिनेत्रा मास्फालयन्तीं कलवल्लकीं ताम् | अथ पुरश्चरणम् | त्रिलक्षं प्रजपेन्मन्त्रमाज्येन जुहुयात् ततः || १०-५७ || दशांशमिति शेषः | इति नित्यक्लिन्नामन्त्रः | अथान्नपूर्णामन्त्रः | (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि अन्नपूर्णामहामनुम् | ओं ह्री/ श्री/ क्ली/ नमः प्रोक्त्वा भगवति पदं वदेत् || १०-५८ || माहेश्वरि चान्नपुर्णे स्वाहा विंशतिवर्णकः | प्. ८७५) छन्दोऽनुष्टब्मुनिर्ब्रह्मा ह्यन्नपूर्णा च देवता || १०-५९ || ह्री/ बीजं चापि शक्तिः श्री/ कीलकं क्ली/ प्रकीर्तितम् | षड्दीर्घयुक्तहृल्लेखा षडङ्गेषु प्रकीर्तिता || १०-६० || अथ ध्यानम् | तप्तकाञ्चनसंकाशां बालेन्दुकृतशेखराम् | नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् || १०-६१ || चित्रवस्त्रपरीधानां मीनाक्षीं कलशस्तनीम् | नृत्यन्तमीशमनिशं दृष्ट्वाऽनन्दमयीं पराम् || १०-६२ || सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् | अन्नदानरतां नित्यां भूमिश्रीभ्यां नमस्कृताम् || १०-६३ || दुग्धान्नभरितं पात्रं सरत्नं वामहस्तके | दक्षिणे तु करे देव्या दर्वीं ध्यायेत् सुवर्णजाम् || १०-६४ || पुरश्चरणम् | लक्षं जपेत् सनियमस्तद्दशांशेन होमयेत् | रम्यपायसर्पिर्भ्यामेवं भवति सिद्धिदा || १०-६५ || अथ मन्त्रान्तरं (शारदायाम् ) माया हृद्भगवत्यन्ते माहेश्वरि पदं ततः | अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः || १०-६६ || अऽऽगानि मायया कुर्यात् ततो देवीं विचिन्तयेत् | अथ ध्यानम् | रक्तां विचित्रवसनां नवचन्द्रचूडा- मन्नप्रदाननिरतां स्तनभारनम्राम् || १०-६७ || नृत्यन्तमिन्दुशकलाभरणं विलोक्य हृष्टां भजे भगवतीं भवदुःखहर्त्रीम् | प्. ८७६) अथ पुरश्चरणम् | यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकम् || १०-६८ || साज्येनान्नेन जुहुयात् तद्दशांशमनन्तरैः | इत्यन्नपूर्णामन्त्रः | अथ प्रत्यङ्गिरामन्त्रः | (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि परकृत्यानिवारिणीम् || १०-६९ || देवीं प्रत्यङ्गिरां नाम सर्वापद्विनिवारिणीम् | ओं अ/ क/ च/ तथा ट/ त/ प/ ह्म/ भो/ ह्री/ समुच्चरेत् || १०-७० || हु/स उक्त्वा हु/ तथाऽस्त्रं स्वाहान्तं षोडशाक्षरः | मुनिर्विधाता छन्दोष्णिग्देवताः षट् प्रकीर्तिताः || १०-७१ || महावायुर्महापृथ्वी महाकाशस्तथैव च | महासमुद्रनामा च महापर्वत एव च || १०-७२ || महाग्निश्चेति हु/ बीजं ह्री/ शक्तिः परिकीर्तिता | लज्जया तु षडङ्गानि षड्दीर्घान्वितयाऽचरेत् || १०-७३ || मन्त्रदेवी/स्ततो मन्त्री ध्यायेत् सुस्थिरमानसः | अथ ध्यानम् | नानारत्नार्चिराक्रान्तं वृक्षाम्भःस्रवणैर्युतम् || १०-७४ || व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् | मत्स्यकूर्मादिबीजाढ्यं नवरत्नसमन्वितम् || १०-७५ || घनच्छायं सकल्लोलमकूपारं विचिन्तयेत् | ज्वालावलीसमाक्रान्तं जगत्त्रितयमद्भुतम् || १०-७६ || पीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये | त्वरा समुत्थरावौघमलिनं रुद्धभूदिवम् || १०-७७ || प्. ८७७) पवनं संस्मरेद्विश्वजीवनं प्राणरूपतः | नदीपर्वतवृक्षादिकलिताग्राससंकुला || १०-७८ || आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा | सूर्यादिग्रहनक्षत्रकालचक्रसमन्वितम् || १०-७९ || निर्मलं गगनं ध्यायेत् प्राणिनामाश्रयः पदम् | पुरश्चरणमाह | एवं षड्देवता ध्यात्वा सहस्राणि तु षोडश || १०-८० || जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् | व्रीहयस्तण्डुला आज्यं सर्षपाश्च यवास्तिलाः || १०-८१ || एतैर्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् | अथ मालामन्त्रस्तत्रैव | अथ प्रत्यङ्गिरामालामन्त्रः सिद्धः प्रकीर्त्त्यते || १०-८२ || ओं ह्री/ नमः कृष्णवाससेशतेविश्वसहस्रहिम् | सिनि सहस्रवदने महाबले पराजिते || १०-८३ || प्रत्यङ्गिरे परसैन्यपरकर्मपदं वदेत् | विध्वंसिनि परमन्त्रोत्सादिनीति ततो वदेत् || १०-८४ || सर्वभूतेति दमनि सर्वदेवान् वदेत् ततः | बन्धयुग्मं सर्वविद्या द्विश्च्छिन्धि क्षोभयद्वयम् || १०-८५ || परयन्त्राणीति वदेत् स्फोटयद्वितयं ततः | सर्वशृङ्खला/स्त्रोटय त्रोटय ज्वल चोच्चरेत् || १०-८६ || ज्वालाजिह्वे करालेति वदने प्रत्यमुच्चरेत् | गिरे ह्री/ नम इत्येष सपादशतवर्णवान् || १०-८७ || ब्रह्माऽनुष्टुब्मुनिश्छन्दो देवी प्रत्यङ्गिरा मता | बीजशक्ती तारमाये कृत्यानाशेति योजनम् || १०-८८ || प्. ८७८) षडङ्गानां विधिश्चात्र षड्दीर्घान्वितमायया | अथ ध्यानम् | सिंहारूढातिकृष्णाङ्गीं ज्वालावक्त्रां भयङ्कराम् || १०-८९ || शूलखड्गकरां वस्त्रे दधतीं नूतने भजे | अथ पुरश्चरणम् | अयुतं प्रजपेन्मन्त्रं सहस्रं तिलराजिकाः || १०-९० || हुत्वा सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् | ग्रहभूतादिकारिष्टं सिञ्चेन्मन्त्रं जपन् जलैः || १०-९१ || विनाशयेत् परकृतं यन्त्रमन्त्रादिसाधनम् | [एतच्चिह्नान्तर्गतः पाठः ४ पु० अधिको दृश्यते |] अथ मन्त्रान्तरं (सिद्धान्तसंग्रहे) ओं यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव || १०-९२ || तां ब्रह्मणाऽपनिर्नुद्मप्रत्यक् कर्त्तारमिच्छतु | ह्रो/ मुन्याद्या विनियोगान्ता मलामन्त्रवदस्य तु || १०-९३ || षडङ्गानि च पादेन पादार्धैश्चरणेन च | कुर्याद्वेदादिषड्दीर्घहृल्लेखापुटितेन च || १०-९४ || शिरोभ्रूमध्यवदनगलबाहुद्वयेष्वथ | हृन्नाभिपार्श्वकट्यन्धुपादेषु पदशो न्यसेत् || १०-९५ || व्यापकन्तं समस्तेन कृत्वा ध्यायेन्महेश्वरीम् | खड्गचर्मधरां कृष्णां मुक्तकेशीं विवाससम् || १०-९६ || दंष्ट्राकरालवदनां भीषाभां सर्वभूषणाम् | ग्रसन्तीं वैरिणं ध्यायेत् प्रेरितां शिवतेजसा || १०-९७ || पुरश्चरणमाह | अयुतं प्रजपेदेनं मन्त्री प्रयतमानसः | प्. ८७९) दशांशं जुहुयात् पश्चादपामार्गेध्मराजिकाम् || १०-९८ || सर्पिषा च समायुक्तां ततः सिद्धो भवेन्मनुः | प्रयोगेषु जपेन्मन्त्रमष्टोत्तरशतं बुधः || १०-९९ || तावतैव तु होमेन परकृत्या विनश्यति | इति प्रत्यङ्गिरामन्त्रः | अथ कुब्जिकामन्त्रः | (कुलालिकाम्नायतन्त्रे) श्रीकुब्जिकोवाच | कथं तु लघ्विकानाथ वद मन्त्रपदान्विताम् || १०-१०० || सर्वज्ञां सर्वदा देव लक्षणेन समन्विताम् | उवाच भैरवो ह्येवं लघ्विकां शृणु लघ्विके || १०-१०१ || किन्तु त्वया न वक्तव्या यावन्नादेशितः शिशुः | च्चेवीति प्रथमं पदं णिकिणिकि द्वितीयकम् || १०-१०२ || छी/ छा/ पदं तृतीयं च खिमुरघो-अचतुर्थकम् | मेनणञङेति पञ्चमं ह्रौ/ ह्रा/ ह्री/ षष्ठकं पदम् || १०-१०३ || यै काब्जिकुश्रो सप्तमं त्यैवगभ मोनाष्टमम् | एषा सा समया देवी द्वात्रिंशाक्षरमालिनी || १०-१०४ || पञ्चप्रणवमाद्यन्तनियुक्ता लक्षणान्विता | आदिकूटावसाने च द्विचत्वारिंशमालिनी || १०-१०५ || विलोमेनोच्चरेद्देवि गुरुवक्त्रोपदेशतः | रेफसहमिदं कूटं विद्यायाः सप्तमं स्मृतम् || १०-१०६ || श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम | स्वमनीषिकातोऽन्यथा सविद्धिष्टोमरीचिभिः || १०-१०७ || गुप्त गुप्ततरं कार्यं योगिनीहृदयनन्दनम् | प्. ८८०) यस्माद्भस्मारमित्येवं सर्वस्वं योगिनीकुले || १०-१०८ || अथ चेत् सर्वपीठेषु मातेयं समयात्मिका | अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयम् || १०-१०९ || जायते नात्र संदेह इति माता सुरक्षिता | हृदयाद्यस्त्रपर्यन्तमेकोच्चारेण सुव्रते || १०-११० || सिद्धिमार्गे यथा ब्रूमि विलोमेन विलोमतः | यस्त्रा-अ यैर्वाणाकक्को च्चेवि णिकिणिकि ययात्रत्रने केरिताहंमजलकु छा/ छी/ यचावकयैपारूहुबखीमुरघो-अ मे नणञङ यैखाशि खेशिरर्वव ह्री/ ह्रा/ ह्रौ/ सेरशि यैपादीलकु यैकाब्जिकुश्री ययादहृ यैलामत्कहृत्यैवगभ मोन | पञ्चादशाक्षरं हृदयं शिरश्चैव त्रयोदश || १०-१११ || शिखारुद्रक्षरा ज्ञेया कवचैकोनविंशति | तिथिसङ्ख्या भवेन्नेत्रमस्त्रं चैव चतुर्दश || १०-११२ || पञ्चप्रणव आद्यन्तो यथा विद्या तथाऽन्तिमा | एतत्कौलिकभाषायां कथितं ते सप्रत्ययम् || १०-११३ || सस्फुटं गुरुवक्क्रस्थं विलोमस्थं न सिध्यति | कौलिकेऽदः समाख्यातं सिद्धमार्गे सुदुर्लभम् || १०-११४ || अथ ध्यानं (परातन्त्रे) वृषभे संस्थितं देवं खवर्णरूपशोभितम् | एकवक्त्रं त्रिनेत्रं च भुजाष्टादशधारिणम् || १०-११५ || परशुं डमरुं बाणं खड्गमङ्कुशवज्रकम् | शङ्खं च वेणुवाद्यं च वरदं दक्षिणे करे || १०-११६ || वामे खट्वाङ्गशूलं च धनुः फलकपाशकम् | प्. ८८१) घण्टां कपालं वेणुं च अभयं भयनाशनम् || १०-११७ || पट्टेन बन्धितं जानुवामोरुस्था च कुब्जिका | एकवक्त्रा त्रिनेत्रा च करुणावरवर्णिता || १०-११८ || द्विभुजा वरदा देवी सिंहस्थाऽभयसव्यसु | नानाभरणभूषाङ्गी खण्डेन्दुकृतशेखरा || १०-११९ || वर्वरा केशपाशेन चारुपीनघनस्तनी | एवं येध्या कुजा माता पश्चिमाम्नायनायिका || १०-१२० || अथ पुरश्चरणम् | (कुलालिकाम्नायतन्त्रे) अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया | लघ्वीशगुणतुल्योऽसौ हर्ता कर्ता स्वयं प्रभुः || १०-१२१ || खेचरीणां पदं सो हि पश्यति ह्यविचारतः | निराचारेण योगेन चिन्तयन्तो महेश्वरीम् || १०-१२२ || इति कुब्जिकामन्त्रः | अथ गङ्गामन्त्रः | (मेरुतन्त्रे) अथ वक्ष्ये रुद्रशीर्षनिवासिन्याः परान् मनून् | तारो नमः शिवायै च नारायण्यै पदं वदेत् || १०-१२३ || दशहरायै गङ्गायै स्वाहान्तो विंशदर्णकः | व्यासो मुनिः कृतिश्छन्दो गङ्गा देवी प्रकीर्तिता || १०-१२४ || त्रिवह्निवेदबाणाग्निनेत्रवर्णैः षडङ्गकम् | अथ ध्यानम् | चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् || १०-१२५ || रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् | चामरैर्बीजमानां च श्वेतच्छत्रोपशोभिताम् || १०-१२६ || प्. ८८२) अथ पुरश्चरणम् | लक्षं जपेद्दशांशेन जुहुयात् सघृतैस्तिलैः | अथ मन्त्रान्तरं तत्रैव | अथान्यं संप्रवक्ष्यामि वामाचाराघनाशनम् || १०-१२७ || बहिर्यजनकर्तारः शिद्धाः स्युर्यत्प्रभावतः | तारो नमो भगवति वाग्भवं च हिलिद्वयम् || १०-१२८ || मिलिद्वयं च गङ्गे मां पावयद्वितयं वदेत् | स्वाहान्तस्तारको वर्णो मनुः पापप्रणाशनः || १०-१२९ || ईश्वरोऽस्य मुनिश्छन्दोऽमितं गङ्गा च देवता | रामवेदाङ्गवह्न्यङ्गनेत्रार्णैरङ्गकल्पनम् || १०-१३० || अथ ध्यानम् | रक्ताम्बरां रक्तवर्णां शूलकुम्भवराभयान् | करैः संदधतीं स्मेरां कच्छपस्थां सुरादिभिः || १०-१३१ || तद्रूपाभिः स्वपापस्य नाशाय सुनिषेविताम् | अथ पुरश्चरणम् | वर्णलक्षं जपेद्धोमः प्रोक्तः पद्मैर्दशांशतः || १०-१३२ || एवं सिद्धमनुर्मन्त्री मरुदादिकनिर्जले | देशे गत्वा जलार्थं तु पुरश्चर्यां समाचरेत् || १०-१३३ || होमादिसर्वं निर्वृत्य गङ्गामावाहयेत् ततः | तत्र कूपादिकं कृत्वा भवेत् तदमृतोपमम् || १०-१३४ || कल्पस्थायितयाऽगाधं समस्तगदनाशनम् | तथा | इयमादिमसप्तार्णं त्यक्त्वोक्ता तु नखाक्षरी || १०-१३५ || प्राग्वन्मुन्यादिकं बाणवेदत्रित्रित्रिबाहुभिः | मन्त्रार्णैः स्युः षडङ्गानि पुरश्चर्यार्णलक्षकम् || १०-१३६ || प्. ८८३) होमद्रव्यादिकं प्राग्वत् सिद्धमन्त्रः समाचरेत् | प्रयोगं जलमध्ये तु स्थित्वा जप्त्वाऽयुतं मनुम् || १०-१३७ || त्र्यहादवर्षाकालेऽपि वृष्टिर्भवति भूयसी | अथ मन्त्रान्तरं तत्रैव | तारो हिलिमिलिद्वन्द्वे गङ्गे देवि नमो मनुः || १०-१३८ || तिथिवर्णोऽयस्य मुन्यादिः पूजा पूर्ववदीरिता | त्रिद्वित्र्यक्षिकृताब्ध्यर्णैः षडङ्गविधिरीरितः || १०-१३९ || एतस्य भजनाज्जन्तोर्नातीर्थे मरणं भवेत् | पुनर्मन्त्रान्तरमाह | तारो लज्जा रमा हार्दं ततो भगवती पदम् || १०-१४० || सम्बुध्यन्तं गङ्गदयिते नमो हु/ तथाऽस्त्रकम् | अष्टादशार्णमन्त्रोऽयं मुन्याद्यं पूर्ववन्मतम् || १०-१४१ || इति गङ्गामन्त्रः | अथ मणिकर्णिकामन्त्रः | तत्रैव | अथातः संप्रवक्ष्यामि मणिकर्णीमनुद्वयम् | तरो वाक् ह्री/ रमा कामस्तारोऽयं मणिकर्णिके || १०-१४२ || नम ओं तिथिवर्णोऽयं मन्त्रः परमदुर्लभः | मुनिर्व्यासोऽतिशक्वरी छन्दः स्यान्मणिकर्णिका || १०-१४३ || देवता चन्द्रनेन्त्राक्षिद्वीषुत्र्यर्णैः षडङ्गकम् | अथ ध्यानम् | बीजपूरं दक्षहस्ते वामेन्दीवरमालिका || १०-१४४ || बद्धाञ्जलिः श्वेतवस्त्रा त्र्यक्षा चन्द्रनिभानना | पश्चिमाभिमुखी स्मेरा पद्मस्था पद्ममालिका || १०-१४५ || नानालङ्कारभूषाढ्या ध्येया श्रीमणिकर्णिका | प्. ८८४) अथ पुरश्चरणम् | लक्षत्रयं जपेन्मन्त्रं जुहुयात् तद्दशांशतः || १०-१४६ || पुण्डरीकैस्त्रिमध्वक्तैर्यजेत् तां गङ्गया समम् | इति मणिकर्णिकामन्त्रः | अथ वाग्मतीमन्त्रः | तत्रैव | अथातः संप्रवक्ष्यामि वाग्मत्याश्च मनुद्वयम् || १०-१४७ || वाग्बीजं प्रथमो मन्त्रो नारदोऽस्य मतो मुनिः | छन्दोऽनुष्टुब्देवता तु वाग्मती परिकीर्तिता || १०-१४८ || अथ ध्यानम् | श्वेतम्बरां श्वेतवर्णां श्वेतगन्धानुलेपनाम् | सुधाकुम्भं च पद्मं च वीणां पुस्तकमेव च || १०-१४९ || करैर्दधन्तीं मीनस्थां मुक्ताभरणभूषिताम् | एवं ध्यात्वा कर्णिकायां यजेद्देवीं षडस्रके || १०-१५० || रुद्रधारां मणिमतीं फल्गुं विष्णुमतीं तथा | प्रभावतीं भानुमतीं भूपुरे तु दिगीश्वरान् || १०-१५१ || अथ पुरश्चरणन् | लक्षत्रयंजपेन्मन्त्रं पञ्चखाद्यैस्तथा हूनेत् | तर्पणादि ततः कृत्वा सिद्धो मन्त्रः प्रजायते || १०-१५२ || सद्योजातस्य बालस्य जिह्वायां बीजमालिखेत् | मधुना स्वर्णलेखन्या सोऽष्टवर्षः कविर्भवेत् || १०-१५३ || वाग्मत्यां वाऽथ गङ्गायां पुरश्चर्यां करोति यः | द्वितीयामप्रतिग्राही भिक्षाशी चाथ मौनवान् || १०-१५४ || प्. ८८५) ब्रह्मचारी भूमिशायी श्वेताम्बधरः शुचिः | वाक् सिद्धिं लभतेऽवश्यं दाता भोक्ता त्वयाचकः || १०-१५५ || अथ मन्त्रान्तरं तत्रैव | रमात्रपावाग्बीजानि वदेद्ङेऽन्ता च वाग्मती | नमो ममेति च पदे धारणां च ततो धियम् || १०-१५६ || वाचमद्भुतां प्रदेहि स्वाहान्तस्तत्त्ववर्णकः | मुन्यादिकं तथा पूजा पुरश्चर्या च पूर्ववत् || १०-१५७ || इति वाग्मतीमन्त्रः | अथ चन्द्रमन्त्रः | (शारदायाम्) अथोच्यते चन्द्रमसो मनुः सर्वसमृद्धिदः | खड्गीशस्थो भृगुर्विन्दुमनुः स्वरसमन्वितः || १०-१५८ || सोमाय हृदयान्तोऽयं मन्त्रः प्रोक्तः षडक्षरः | ऋषिरुक्तो भृगुश्छन्दः पङ्क्तिः सोमोऽस्य देवता || १०-१५९ || दीर्घभाजा स्वबीजेन मनोरङ्गक्रिया मता | अथ ध्यानम् | कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुविम्बाननं मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः || १०-१६० || हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं स्वस्थाङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे | अथ पुरश्चरणम् | रसलक्षं जपेन्मन्त्रं साधको विजितेन्द्रियः || १०-१६१ || तत्सहस्रं प्रजुहुयात् पायसेन ससर्पिषा | अथ मन्त्रान्तरं (मेरुतन्त्रे) ओं आ/ श्री/ श्रु/ सविन्दुः स सोमायेत्यग्निगेहिनी || १०-१६२ || प्. ८८६) दशाक्षरश्चन्द्रमन्त्रो जप्यश्चायं नृपायुतम् | होमादिकप्रयोगा/श्च सर्वं पूर्ववदाचरेत् || १०-१६३ || इति चन्द्रमन्त्रः | अथ भौममन्त्रः | तत्रैव | अथ भौममनुं वक्ष्ये सर्वरोगनिवारणम् | अ/ च अङ्गारको ङेऽन्तो हृदन्तश्चाष्टवर्णकः || १०-१६४ || ऋष्याद्या ब्रह्मगायत्री भूमिपुत्राः प्रकर्तिताः | अङ्गषट्कं त्वस्य मनोर्निजबीजेन संमतम् || १०-१६५ || अथ ध्यानम् | नमाम्यङ्गारकं रक्तं रक्ताम्बरविभूषणम् | जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् || १०-१६६ || अथ पुरश्चरणम् | लक्षाष्टकं जपः प्रोक्तः खदिरोद्भवकैर्हुनेत् | साज्यैः संतर्पणं रक्तचन्दनाद्यैः समाचरेत् || १०-१६७ || अथ मन्त्रान्तरं तत्रैव | अथ मन्त्रान्तरं वक्ष्ये भूमिमन्त्रस्य सिद्धिदम् | ओं हा/ ह/सः ख/ ख इति मन्त्रः प्रोक्तः षडक्षरः || १०-१६८ || मुनिर्विरूपो गायत्री छन्दो देवो धरात्मजः | षड्भिर्वणैः षडङ्गानि मनोः कुर्वीत साधकः || १०-१६९ || अथ ध्यानम् | जवाकुसुमसंकाशं शक्तिं शूलं गदां वरम् | मेषसंस्थं रक्तवस्त्रं तं वन्देऽहं धरात्मजम् || १०-१७० || अस्य पुरश्चरणं षड्लक्षजपः | रसलक्षं जपेद्धोमं समिद्भिः खदिरस्य च | इति तत्रैवोक्तत्वात् | प्. ८८७) ओं क्रा/ क्री/ क्रौ/ सविन्दुः सकुजायेत्यग्निगेहिनी || १०-१७१ || दशाक्षरो भौममन्त्रो जप्यश्चायं नवायुतः | पुनर्मन्त्रान्तरमाह | ओं श्री/ क्ली/ ह्री/ समुच्चार्य ङेऽन्तो भौमो हृदन्तकः || १०-१७२ || दशाक्षरी मनुः प्रोक्तो विरूपाक्षो मुनिर्मतः | गायत्री छन्द उदितं देवता मङ्गलो भवेत् || १०-१७३ || ह्री/ बीज/ श्री/ च शक्तिः स्यात् कीलकं क्ली/ प्रकर्तितम् | कालादिकं समुच्चार्य नियोग ऋणनाशने || १०-१७४ || षड्दीर्घयुक्तबीजेन अङ्गुल्यादिषडङ्गकम् | अथ ध्यानम् | ततो ध्यायेद्रक्तवर्णं रक्तमाल्यांशुकावृतम् || १०-१७५ || कण्ठे कमलमालाढ्यं करयोः शक्तिशूलकम् | मङ्गलानां मङ्गलं च सर्वकामफलप्रदम् || १०-१७६ || अथ पुरश्चरणम् | एवं ध्यात्वा जपेल्लक्षं जुहुयात् करवीरजैः | जवाप्रसूनैः पुरुभिर्मधुरत्रितयान्वितैः || १०-१७७ || रक्तचन्दनगन्धाढ्यैर्यजेदरुणभूषणम् | विधिना भूमितनयं सर्वाभीष्टफलप्रदम् || १०-१७८ || इति कुजमन्त्रः | अथ भौममन्त्रः | तत्रैव | अथातः संप्रवक्ष्यामि बुधमन्त्रं महाद्भुतम् | बुं ङेऽन्तं बुधशब्दं च हृदयान्तः षडर्णकः || १०-१७९ || बुधमन्त्रोऽस्य मुन्याद्या ब्रह्मपऽऽक्तिबुधा मताः | प्. ८८८) षडङ्गानि स्वबीजेन विन्यस्यैवं विचिन्तयेत् || १०-१८० || अथ ध्यानम् | वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् | जानुस्थवामहस्ताब्जं साभयेतरपाणिकम् || १०-१८१ || अथ पुरश्चरणम् | प्रजपेद्वर्णसाहस्रं दशांशं जुहुयाद्घृतैः | अथ मन्त्रान्तरं तत्रैव | ओं ब्रा/ ब्री/ ब्रू/ सविन्दुः सबुधायेत्यग्निगेहिनी || १०-१८२ || दशाक्षरः सौम्यमन्त्रो जपो लक्षैकसङ्ख्यया | इति बुधमन्त्रः | अथ बृहस्पतिमन्त्रः | तत्रैव | अथातः संप्रवक्ष्यामि गुरुमन्त्रं गुरुत्वकृत् || १०-१८३ || बृ/ बृहस्पतये हृच्च मन्त्रश्चाष्टाक्षरो मतः | छन्दोऽनुष्टुब्मुनिर्ब्रह्मा देवः प्रोक्तो बृहस्पतिः || १०-१८४ || बृ/ बीजं पतये शक्तिर्बीजेनैवाङ्गकल्पनम् | अथ ध्यानम् | सुवर्णाभं पीतवस्त्रं रक्तस्वर्णाम्बरादिकम् || १०-१८५ || किरन्तं दक्षहस्तेन तद्राशिं वामपाणिना | स्पृशन्तं सम्यगपरं विपणौ कनकादिकम् || १०-१८६ || नानालङ्कारशोभाढ्यं विद्यासागरपारगम् | अथ पुरश्चरणम् | जपित्वाऽशीतिसाहस्रं हुत्वा धेनुघृतेन वा || १०-१८७ || धर्माधर्मादिपीठे तं पूजयेदङ्गदिश्यकैः | अथ मन्त्रान्तरं तत्रैव | ओं ज्रा/ ज्री/ ज्रू/ सविन्दुः सचतुर्थ्यन्तो बृहस्पतिः || १०-१८८ || प्. ८८९) वह्निस्त्रीविश्ववर्णोऽयं जप्यः पञ्चदशायुतम् | इति बृहस्पतिमन्त्रः | अथ शुक्रमन्त्रः | तत्रैव | वस्त्रं मे देहि शुक्राय हृदयान्तः शुमादिकः || १०-१८९ || एकादशाक्षरो मन्त्रो विराट् छन्द उदाहृतम् | ब्रह्मा मुनिर्देवता तु शुक्रो दैत्यादिपूजितः || १०-१९० || षड्भिः पदैः षडङ्गानि ततो देवं विचिन्तयेत् | अथ ध्यानम् | शुक्रं नमाम्यापणस्थं मुक्ताभरणभूषिणम् || १०-१९१ || स्वर्णवासोरत्नधाराविमुग्धान्तःकरद्वयम् | अथ पुरश्चरणम् | अयुतं प्रजपेन्मन्त्रं सहस्रं जुहुयाद्घृतैः || १०-१९२ || अथ मन्त्रान्तरं तत्रैव | ओं ह्रा/ ह्री/ ह्रौ/ सविन्दुः सशुक्रायेत्यग्निगेहिनी | दशाक्षरः शुक्रमन्त्रो जप्योऽयं द्वादशायुतम् || १०-१९३ || उदुम्बरसमिद्भिश्च होमयेत् सकलापदः | भूपैः कृता विनश्यन्ति स्त्रीसौख्यमुपजायते || १०-१९४ || इति शुक्रमन्त्रः | अथ शनैश्चरमन्त्रः | तत्रैव | शनैश्चराय हृदयं शमाद्यश्चाष्टवर्णकः | मुन्याद्या ब्रह्मगायत्रशनैश्चरसमाह्वयाः || १०-१९५ || षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् | अथ ध्यानम् | वन्दे शनैश्चरं वक्रदंष्ट्रं नीलविभूषणम् || १०-१९६ || प्. ८९०) वामजानुस्थितं वामकरं दक्षे वरं दधत् | [एतच्चिह्नान्तर्गतः पाठः ५ पुस्तक एवोपलभ्यते |] (मार्तण्डभैरवतन्त्रे) नीलाद्रिशोभाञ्चितदिव्यमूर्तिः खड्गी त्रिदण्डी शरचापहस्तः || १०-१९७ || शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी | इति ध्यानान्तरमुक्तम् | अथ पुरश्चरणं (मेरौ) जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः || १०-१९८ || षडङ्गग्रहदिक्पालसायुधैः परिपूजनम् | न शनैश्चरभक्तानामापदो न दरिद्रता || १०-१९९ || अथ मन्त्रान्तरं तत्रैव | ओं प्रा/ प्री/ प्रौ/ स इत्युक्त्वा शनैश्चरपदं वदेत् | ङेऽन्तं स्वाहा द्वादशार्णो जपः प्रयुतसंमतः || १०-२०० || हुनेच्छमीसमिद्भिश्च क्लीवाः सर्वेऽस्य वश्यगाः | इति शनैश्चरमन्त्रः | अथ राहुमन्त्रः | तत्रैव | अपरं तु मनुं वक्ष्ये राहवे नम उच्चरेत् || १०-२०१ || रा/ पूर्वकः षडर्णोऽयं वर्णैरेवाङ्गकल्पनम् | मुन्याद्या ब्रह्मगायत्रराहवः परिकीर्तिताः || १०-२०२ || अथ ध्यानम् | वन्दे राहुं धूम्रवर्णं सर्वकायं कृताञ्जलिम् | विकृतास्यं रक्तनेत्रं धूम्रालङ्कार[मण्डितम् इति २-३-४पु० पा०|] मन्वहम् || १०-२०३ || अथ पुरश्चरणम् | जपेद्वर्णसहस्रं तु होमयेद्गोघृतेन च | प्. ८९१) ग्रहाशाधिपशस्त्रैश्च पूजावृत्तिरुदीरिता || १०-२०४ || राहोरुपासको भूपः संग्रामे विजयी भवेत् | अथ मन्त्रान्तरं तत्रैव | ओं सा/ सी/ सौ/ सविन्दुः सराहवे त्वग्निगेहिनी || १०-२०५ || दशाक्षरो राहुमन्त्रो जप्यश्चायं दशायुतः | दूर्वाभिर्होमयित्वा च द्विजान् संतर्प्य सिध्यते || १०-२०६ || इति राहुमन्त्रः | अथ केतुमन्त्रः | तत्रैव | के/ केतवे हृदित्येवं केतुमन्त्रः षडर्णकः | ब्रह्मा मुनिर्मतश्छन्दः पङ्क्तिः केतुश्च देवता || १०-२०७ || के/ बीजं वे/ तु शक्तिः स्याद्बीजेनैव षडङ्गकम् | अथ ध्यानम् | वन्दे कुतुं कृष्णवर्णं कृष्णवस्त्रविभूषितम् || १०-२०८ || वामोरुन्यस्ततद्धस्तं साभयेतरपाणिकम् | अथ पुरश्चरणम् | जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः || १०-२०९ || अथ मन्त्रान्तरं तत्रैव | ओं प्रा/ प्री/ प्रौ/ सविन्दुः सकेतवे वह्निगेहिनी | दशाक्षरः केतुमन्त्रो जप्योऽयं द्वादशायुतम् || १०-२१० || होमः कुशैः प्रकर्तव्यो घृताक्तैस्तर्पणादि च | उपासकानामेतस्य केतवोऽग्रे चलन्ति हि || १०-२११ || इति केतुमन्त्रः | अथ ग्रहमातृकामन्त्राः | तत्रैव | अथातः संप्रवक्ष्यामि ग्रहमातृसुसाधनम् | प्. ८९२) ग्रहमातरि तुष्टायां किं ग्रहैर्दुरितैरपि || १०-२१२ || ग्रहमातरि तुष्टायां सुग्रहैः किं प्रयोजनम् | मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा || १०-२१३ || उल्का सिद्धा संकटा च विकटा गर्भपालिका | रुद्रनक्षत्रतश्चाष्टौ जन्मधिष्ण्यक्रमाद्दशाः || १०-२१४ || फलं नामानुरूपं स्यादेकोपचयतो द्वयोः | पिङ्गला सूर्यजननी महाधिव्याधिकारिणी || १०-२१५ || तुष्टा चेच्छत्रुवर्गस्य रुष्टा कुर्याच्च साधके | ब्जे/ बीजं तु समुच्चार्य पिङ्गले वैरिवार्णिणि || १०-२१६ || प्रसीद फडिति प्रोक्तस्त्रयोऽग्निशक्तिवर्णकः | दीर्घषट्कयुजा पूर्वबीजेन च षडङ्गकम् || १०-२१७ || अथ ध्यानम् | पिङ्गवर्णां पिङ्गकेशीं पिङ्गनेत्रां धनुःशरान् | हस्ताभ्यां दधतीं पद्मयुगलं तां भजाम्यहम् || १०-२१८ || अथ पूजाविधिं वक्ष्ये सर्वासामेव तन्त्रतः | जवापुष्पाणि शस्तानि धूपो गुग्गुलुसम्भवः || १०-२१९ || घृतप्रदीपो मधुरा नैवेद्याः पायसादयः | अलङ्कारास्तथा रक्तास्तथा वस्त्राणि चन्दनम् || १०-२२० || स्वर्णालङ्करणैश्चापि सद्द्रव्यैर्बहुपञ्चकैः | तर्पयेत् परमेशानि तत्तन्मन्त्रैः सहस्रधा || १०-२२१ || सुवर्णपत्रे निच्छिद्रे हस्तायामे मनोरमे | कृत्वा यन्त्रं तथोक्तं तु योगिनीं तत्र पूजयेत् || १०-२२२ || तत्तन्मन्त्रवरं जप्त्वा विघ्नशान्त्यै सहस्रशः | प्. ८९३) सप्ताहेन प्रजायेत त्रिविधोत्पातवारणम् || १०-२२३ || ततश्च कुण्डं विधिवत् कृत्वा च चतुरस्रकम् | अथ वा स्थण्डिले शुद्धे सुलिप्ते गोमयाम्बुभिः || १०-२२४ || चतुर्हस्तप्रमाणेन योजयेत् स्थिरमानसः | योगिन्यग्निं तु संस्थाप्य कृत्वा पूर्वोदिताः क्रियाः || १०-२२५ || अन्यासां दशवारं तु विरुद्धायाः सहस्रधा | विल्वपत्रैस्तत्फलैश्च कमलैर्नागकेशरैः || १०-२२६ || जुहुयात् पायसान्नेव तथैव कुलवस्तुना | सहस्रमयुतं वाऽपि लक्षं वा कामनाक्रमात् || १०-२२७ || अथ पूजाम् प्रवक्ष्यामि मध्ये देवीं प्रपूजयेत् | इच्छां ज्ञानं क्रियां शक्तिं त्रिषु कोणेषु पूजयेत् || १०-२२८ || मन्मथान् पञ्च तदधः पञ्चकोणेषु पूजयेत् | षडङ्गं पूजयेत् पश्चादष्टपत्रेऽन्ययोगिनीः || १०-२२९ || तद्वाह्यभूपुरे लोकपालानस्त्राणि पूजयेत् | पूजाप्रकारो होमश्च सर्वासामयमेव हि || १०-२३० || विशेषः पुनरत्रास्ति शत्रूच्छेदाभिचारके | खड्गचर्मधरामुग्रां ध्यायेत् षड्भुजधारिणीम् || १०-२३१ || गरुडासनमासीनां वैरिनिग्रहकारिकाम् | लक्षमेकं प्रजप्यादौ जपेल्लक्षं हि तर्पयेत् || १०-२३२ || सर्वशत्रुविनाशः स्याद्दुःखं नाप्नोति कुत्रचित् | अथातः संप्रवक्ष्यामि चन्द्रमातुश्च साधनम् || १०-२३३ || मायाद्यो वह्निजायान्तो मङ्गले मङ्गलालये | एकादशाक्षरो मन्त्रो मङ्गलायाः प्रकीर्तितः || १०-२३४ || प्. ८९४) कृत्वाऽयेन षडङ्गानि दीर्घषट्कयुजा तथा | ध्यायेदेनां त्रिनयनामुद्यदादित्यसन्निभाम् || १०-२३५ || दरस्मेरमुखाम्भोजां सिन्दूरसुन्दुराधराम् | पद्मद्वयं धनुर्बाणान् दधतीं भुजपल्लवैः || १०-२३६ || सुगुञ्जन्मञ्जुमञ्जीरकाञ्चीगुणविराजिताम् | एवं ध्यात्वा महेशानि पूर्ववत् परिपूजयेत् || १०-२३७ || ततो लब्धमनुं जप्त्वा तारमायापुरःसरम् | योगिनीक्षेत्रवटुकगणाधिपवलिं हरेत् || १०-२३८ || सर्वासामेव पूजान्ते मङ्गलैव प्रसीदति | अथ पुरश्चरणमाह | योगिन्यास्तु प्रसादार्थं वर्णलक्षं जपेन्मनुम् || १०-२३९ || दुर्योगिन्यनुकूलार्थं जपेत् तत्सङ्ख्यकायुतम् | अदृष्टप्रतिबद्धस्य शुभायास्तु फलस्य च || १०-२४० || प्राप्तये प्रजपेत् तावत्सहस्रं प्रत्यहं जपम् | प्रकर्तव्यो वर्णशतं यावद्दुष्टा तु योगिनी || १०-२४१ || तुष्टाया वर्णदशकं रोगिणं चाभिमन्त्रयेत् | वर्णतुल्येन मन्त्रेण यस्याः सेवापरो भवेत् || १०-२४२ || तस्याः पीडानिवृत्तिः स्याद्वर्णाभ्यन्तर्गतैर्दिनेः | एवं विधिर्नवानां तु विज्ञेयः सुरसत्तमाः || १०-२४३ || योगिनी तुल्यफलदा वाममार्गे च दक्षिणे | अथातः संप्रवक्ष्यामि भ्रामरीं भौममातरम् || १०-२४४ || क्षी/ भ्रामरि पदं चोक्त्वा जय तान्मे अधीश्वरि | भ्रामय क्ली/ षोडशार्णो मन्त्रोऽस्याः परिकीर्तितः || १०-२४५ || प्. ८९५) पिङ्गलावत् सर्वमस्याः सिद्धये शर्करान् दश | मन्त्रयित्वाऽनया मार्गे दशदिक्षु च संत्यजेत् || १०-२४६ || प्रातस्ततो व्रजेन्मार्गं मार्गस्थाः सर्व एव हि | सर्वे मोहं समायान्ति व्याघ्राः सर्पाश्च तस्कराः || १०-२४७ || शुल्किनो दुष्टभूपाश्च नित्यमेवं समाचरेत् | उपानत्कतले यस्य लिखित्वा नाम च व्रजेत् || १०-२४८ || योजनैकं जपेन्मन्त्रं स भ्रमेच्च वसुन्धराम् | अथातः संप्रवक्ष्यामि भद्रिकां बुधमातरम् || १०-२४९ || प्लू/ बीजं तोयभूयोगाज्जातमादौ समुच्चरेत् | भद्रिके मे मम भद्रं देहीति च पदं पुनः || १०-२५० || वदेच्च परभद्राणि नाशय द्वितयं ततः | स्वाहान्तो जिनवर्णोऽयं भद्रिकाया मनुर्मतः || १०-२५१ || षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः | मङ्गलावच्छुभानां स्याद्ध्यानं दुष्फलदायिनी || १०-२५२ || पिङ्गलावत् समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना | अथातः संप्रवक्ष्यामि धन्याख्यां गुरुमातरम् || १०-२५३ || श्रीधनदे समुच्चार्य धन्ये स्वाहाऽष्टवर्णकः | षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः || १०-२५४ || नास्ति धन्यासमा का चिदिह लोके फलप्रदा | पुरश्चर्यात्रयं कृत्वा प्राग्जन्मार्जितपातकम् || १०-२५५ || संस्तम्भ्य धन्या ददते धन्यत्वं साधकाय तु | बृहस्पतीश्वरात् पश्चात् काश्यां धन्यां विलोकयेत् || १०-२५६ || पुरश्चर्यां तत्र कृत्वा वैश्यो धन्यः प्रजायते | प्. ८९६) अथातः संप्रवक्ष्यामि सिद्धां शुक्रस्य मातरम् || १०-२५७ || ह्री/ सिद्धे मे सर्वमानं समुक्त्वा साधयद्वयम् | हृदयान्तो मित्रवर्णः सिद्धाया मनुरीरितः || १०-२५८ || बीजेनैव षडङ्गानि जपाद्यम् प्रोक्तवच्चरेत् | नास्ति सिद्धोपासकानां कर्मासिद्धिस्तु कुत्रचित् || १०-२५९ || उपासका ये सिद्धायाः येनाम्नायेन जायते | तदाम्नायकदेवानां पाकेऽस्याः सर्वमेव हि || १०-२६० || षट्कर्म सिध्यते तस्य मनोराराधनं विना | अथातः संप्रवक्ष्यामि चोक्त्वा मन्दस्य मातरम् || १०-२६१ || ओं मम रोगं नाशय भञ्जयैकादशाक्षरः | सर्वरोगापहो मन्त्रो मार्जनात् सप्तघस्रतः || १०-२६२ || उल्कामन्त्रो यस्य सिद्धो न गदास्तस्य मन्दिरे | शीतलायां महामार्यां महिषं लक्षणान्वितम् || १०-२६३ || उल्काप्रीत्यै तमुत्सृज्य नगरे भ्रामयेत् पुनः | नानावाद्यैः परिवृतं वस्त्रादिभिरलङ्कृतम् || १०-२६४ || उत्सृजेत् तं यमाशायामुपद्रवशमो भवेत् | अथातः संप्रवक्ष्यामि संकटां राहुमातरम् || १०-२६५ || ह्री/ संकटे च रोगं मे परमं नाशयद्वयम् | षोडशार्णस्तु मन्त्रोऽयं सर्वदुःखापनोदनः || १०-२६६ || कारागृहे जपेल्लक्षं बन्धमोक्षः प्रजायते | वीरेश्वरादुदक् काश्यां संकटा यत्र संस्थिता || १०-२६७ || तत्र षोडशलक्षाणि जप्त्वा होमस्तु दूर्वया | तस्य सिद्धो भवेन्मन्त्रस्तन्मुखाद्यदि निःसरेत् || १०-२६८ || प्. ८९७) अमुकस्यामुकं कष्टं गतं तद्धतमेव हि | अथातः संप्रवक्ष्यामि विकटां केतुमातरम् || १०-२६९ || तारो नमो भगवति विकटे वीरपालिके | प्रसीदयुगलं मन्त्रः प्रकृत्यर्णः प्रकीर्तितः || १०-२७० || काश्यां वीरेश्वरासन्ना पश्चिमे विकटा स्थिता | तत्र मन्त्रमिमं जप्त्वा ग्रहतप्ताश्च बालकाः || १०-२७१ || उदरं चापि बन्ध्यायाः प्रसवत्यास्तथा शिरः | पित्रादिभिस्त्यक्तबालास्तथा मातृविवर्जिताः || १०-२७२ || साधकस्य करस्पृष्ट्वा नीरोगाश्चिरजीविनः | इति ग्रहमातृकामन्त्राः | अथ दिक्पालमन्त्राः | तत्रादौ शक्रमन्त्र उक्तस्त्रैव | ज्ञ्मिन्द्राय नमश्चेति शक्रमन्त्रः षडक्षरः || १०-२७३ || पङ्क्तिश्छन्दो मुनिर्ब्रह्मा देव इन्द्रः प्रकीर्तितः | मायेति शक्ति/ रि/ बीजं बीजेनैव षडङ्गकम् || १०-२७४ || अथ ध्यानम् | पीतवर्णं सहस्राक्षं वज्रप्द्मकरं विभुम् | सर्वालङ्कारसंयुक्तं नौमीन्द्रं दिक्पतीश्वरम् || १०-२७५ || अस्य पुरश्चरणणं तत्रैव | प्रजपेल्लक्षमेकं तु तिलाज्याभ्यां हुनेत् ततः | एवं सिद्धमनुर्मन्त्री प्रयोगं कर्त्तुमर्हति || १०-२७६ || अथाग्निमन्त्रः (शारदायाम्) व्याहृतित्रयमग्नेः स्याज्जातवेद इहावह | सर्वकर्माणि संभाष्य साधयाग्निप्रिया ततः || १०-२७७ || ताराद्योऽयं मनुः प्रोक्तः पञ्चविंशतिवर्णवान् | प्. ८९८) ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवताऽनलः || १०-२७८ || विभक्तः पञ्चभिः षड्भिश्चतुर्भिः पञ्चभिस्त्रिभिः | द्वाभ्यामङ्गक्रिया प्रोक्ता वर्णैर्मूलमनोः क्रमात् || १०-२७९ || अथ ध्यानम् | अंसासक्तसुवर्णमाल्यमरुणस्रक्चन्दनालङ्कृतं ज्वालापुञ्जजटाकलापविलसन्मौलिं सुमुक्ताम्बरम् | शक्तिस्वस्तिकदर्भमुष्टिकजपस्रक्स्रुक्स्रुवाभीवरान् तदोर्भिर्बिभ्रतमञ्चितत्रिनयनं रक्ताभमग्निं भजे || १०-२८० || अथ पुरश्चरणम् | गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः | जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः || १०-२८१ || अमावास्यादिने विप्रान् भोजयेन्मधुरोत्तरैः | भक्ष्यैर्भोज्यैर्यथाशक्ति दद्यात् तेभ्योऽत्र दक्षिणाम् || १०-२८२ || भुक्त्वा भोगं समानीय होमद्रव्याणि शोधयेत् | अपरं दिनमारभ्य होमं कुर्यदतन्द्रितः || १०-२८३ || क्रमाद्वटसमिद्ब्रीहितिलराजीहविर्घृतैः | प्रत्येकमष्टोत्तरशतं जुहुयादनिशं सुधीः || १०-२८४ || दशाहमेवं निर्वर्त्त्य विधानेन विधानवित् | दत्वा पूर्णाहुतिं सम्यगेकादश्यां द्विजोतमान् || १०-२८५ || संपूज्य तर्पयेद्वित्तैर्यथाविभवमादरात् | गुरवे दक्षिणां दद्यादरुणां गां पयस्विनीम् || १०-२८६ || वासांसि धनधान्यादि दत्वा संप्रीणयेद्गुरुम् | अथ यमन्त्रो(मेरुतन्त्रे) ओं क्रो/ ह्री/ आ/ च तद्बीजं ङेऽन्तं वैवस्वतं वदेत् || १०-२८७ || प्. ८९९) धर्मराजाय भक्तानुग्रहकृते नमो वदेत् | चतुर्विंशतिवर्णोऽयं यममन्त्रोऽखिलेष्टदः || १०-२८८ || सिद्धीष्विस्वङ्गयुग्मार्णैः षडङ्गानि स्मरेद्यमम् | मेघश्यामं प्रसन्नास्यं नानालङ्कारसंयुतम् || १०-२८९ || महिषस्थं दण्डधरं संस्तुतं पितृभिर्वृतम् | नानारूपधरैर्दूतैः श्वेतवस्त्रं भजेद्यमम् || १०-२९० || अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं हुनेदाज्यान्वितैस्तिलैः | अथ नैरृतमन्त्रस्तत्रैव | ओं क्ष/ निर्-ऋतये रक्षाधिपतये पदं वदेत् || १०-२९१ || धूम्रवर्णाय खड्गेति हस्ताय प्रेतवाहनः | ङेऽन्तस्ततश्च हृदयं त्रिंशदर्णो मनुर्मतः || १०-२९२ || ओं क्षमाद्यैर्हृदन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः | ध्यानम् | किरीटिनं च पिङ्गाक्षं धूम्राभं प्रेतवाहनम् || १०-२९३ || नानारक्षोगणैः सेव्यः खड्गचर्मधरं भजे | पुरश्चरणं तत्रैव | जपेत् त्रिंशत्सहस्राणि गुञ्जाज्याभ्यां हुनेत् पुनः || १०-२९४ || अथ वरुणमन्त्रस्त्रैव | अथातः संप्रवक्ष्यामि मन्त्रं वरुणदैवतम् | तारं व/ वरुणायेति जलाधिपतये वदेत् || १०-२९५ || वदेच्च शुक्लवर्णाय पाशहस्ताय संवदेत् | मकरेति वाहनाय नम एकत्रिवर्णकः || १०-२९६ || त्रिष्टुप्छन्दो वशिष्ठर्षिर्देवता वरुणो मतः | ओं वमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः || १०-२९७ || प्. ९००) ध्यानम् | श्वेतांशुकं दधद्धस्तैः पाशाङ्कुशवराभयान् | स्वच्छारविन्दवसतिर्मुक्ताभरणभूषितः || १०-२९८ || तुन्दिलश्च प्रसन्नास्यो वरुणो निधिदोऽस्तु मे | पुरश्चरणम् | जपेद्वर्णसहस्रं तु होमः पद्माक्षकैर्मतः || १०-२९९ || अथ वायुमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि वायुमन्त्रं महाद्भुतम् | तारं य/ वायवे प्राणाधिपतये पदं वदेत् || १०-३०० || कृष्णवर्णायाङ्कुशेति हस्ताय मृगवाहना - | य नमो गोद्विवर्णोऽयं वायोर्मन्त्र उदीरितः || १०-३०१ || गणकोऽस्य मुनिश्छन्दो निवृद्वायुश्च देवता | पञ्चाङ्गानि मनोरस्य ओं य/ बीजादिकैः पदैः || १०-३०२ || ध्यानम् | कृष्णवर्णं धावमानं मृगस्थं वेगवत्तरम् | पाशाङ्कुशकरं प्रेतकृत्यापरिमलान्वितम् || १०-३०३ || अथ पुरश्चरणम् | जपेद्वर्णसहस्राणि लाजाज्याभ्यां च होमयेत् | सिद्धमन्त्रस्तु तत्कालं भवेद्भूमौ बलाधिकः || १०-३०४ || अथ कुवेरमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि राजराजमनून् शुभान् | यक्षाय च कुवेराय वदेद्वैश्रवणाय च || १०-३०५ || धनधान्याधिपतये धनधान्यपदं वदेत् | समृद्धिं मे देहि वदेद्दापयाग्निप्रियान्तकः || १०-३०६ || पञ्चत्रिंशद्वर्णमितो विश्रवा मुनिरीरितः | प्. ९०१) छन्दस्तु बृहती त्र्यब्धीष्वष्टाष्टाङ्गैः षडङ्गकम् || १०-३०७ || ध्यानम् | गारुत्मतनिभं शान्तं मुकुटादिविभूषितम् | वरं गदां च दधतं तुन्दिलं यक्षसेवितम् || १०-३०८ || पुरश्चरणम् | लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात् तिलैः | धर्मादिपीठे प्रयजेदङ्गलोकेशहेतिभिः || १०-३०९ || शिवालये लपेन्मन्त्रमयुतं धनवृद्धये | विल्वमूलोपविष्टेन जप्तो लक्षं धनर्द्धिदः || १०-३१० || अथ मन्त्रान्तरं वक्ष्ये ओं श्री/ ओं ह्री/ समुच्चरेत् | श्री/ ह्री/ क्ली/ श्री/ क्ली/ च वित्तेश्वराय नम इत्यपि || १०-३११ || षोडशार्णोऽस्य मुन्यादि प्राग्वत् त्रिद्विद्विनेत्रकैः | पञ्चाक्षिभ्यां षडङ्गं स्याद्ध्यानपूजादि पूर्ववत् || १०-३१२ || अथ मन्त्रान्तरं तत्रैव | अथ मन्त्रान्तरं वक्ष्ये कुवेरस्य गजाक्षरम् | तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमत्र तु || १०-३१३ || स्वाहान्तैः प्रणवाद्यैस्तु पञ्चभिर्मन्त्रवर्णकैः | ध्यानमाह | धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् || १०-३१४ || हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् | धराधस्ताद्रत्नपीठोपविष्टं सस्मिताननम् || १०-३१५ || पुरश्चरणम् | वर्णलक्षं जपेद्धोमः पूजा प्राग्वन्महाधनी | सेवनादस्य भवति यक्षिण्याद्यास्तथा वशाः || १०-३१६ || अथेशानमन्त्रस्तत्रैव | प्रणवं हंसमुच्चार्य ईशानाय वदेत् ततः | प्. ९०२) विद्याधिपतये चेति स्फटिकेति वदेत् ततः || १०-३१७ || वर्णाय शूलहस्ताय ङेऽन्तश्च वृषवाहनः | नमोऽन्त एकत्रिंशद्भिर्वर्णैर्मन्त्र उदाहृतः || १०-३१८ || ओं हमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः | शक्तीनां मनवो ये च ता विद्याः परिकीर्तिताः || १०-३१९ || पुरुषाणां च ते मन्त्रा विद्यास्तु पुरुषं विना | भवन्ति नैव फलदा यथा नारी नरं विना || १०-३२० || पुसां योगो यत्र नोक्तस्तत्रेशानं प्रयोजयेत् | अस्य पुरश्चरणमष्टसहस्रजपस्तन्त्रान्तरे प्रोक्तः | अथ ब्रह्ममन्त्रो (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि ब्रह्मणो मन्त्रमुत्तमम् || १०-३२१ || तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् | रक्तवर्णायोर्ध्वलोकपालकाय वदेत् ततः || १०-३२२ || पद्महस्ताय च पदं ङेऽन्तं स्यार्द्धसवाहनः | नमोऽन्तो बाणरामार्णो मन्त्रोऽयं परिकीर्तितः || १०-३२३ || तारपाशादिकैः षड्भिः पदैरङ्गहृदन्तकैः | नास्य पूजा तु मच्छापाज्जपोऽस्य परिकीर्तितः || १०-३२४ || वर्णलक्षजपादेव निग्रहानुग्रहक्षमः | दशपत्रे यजेदेनं प्रागीशान्तर्दले सुराः || १०-३२५ || न तत्र मम शापोऽस्ति शापः केवलपूजने | अथानन्तमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि शेषस्य मनुमद्भुतम् || १०-३२६ || तारं मायामनन्ताय नागाधिपतये वदेत् | गौरवर्णायातलादिसप्तलोकेश्वराय च || १०-३२७ || प्. ९०३) चक्रहस्ताय गरुडवाहनाय नमोऽन्तकः | एवं चत्वारिंशदर्णो मन्त्रोऽनन्तस्य कीर्तितः || १०-३२८ || मन्त्रं प्रतिचतुर्दश्यां चतुर्दशशतं जपेत् | दुग्धं हुनेदिन्द्रविप्रान् भोजयेच्च चतुर्दश || १०-३२९ || कुर्याच्चतुर्दशीं भक्त्या धनधान्ययुतो भवेत् | राज्यभ्रष्टो लभेद्राज्यं विद्याकामस्तु पण्डितः || १०-३३० || भाद्रशुक्लचतुर्दश्यां विशेषात् पूजनं मतम् | इति दिक्पालप्रकरणम् | अथ गायत्रीपुरश्चरणादि | (मेरुतन्त्रे) अथ वक्ष्यामि मन्त्रेशीं गायत्रीं वेदमातरम् || १०-३३१ || यया तु सगुणं ब्रह्म गीयते प्रतिपाद्यते | निर्गुणं यां विना मुक्तिर्न कस्यापि प्रजायते || १०-३३२ || महामायास्वरूपायां महाकालः स्वयं यजेत् | यत्प्रभावादहं त्वं च जातकाल इवापरः || १०-३३३ || सगुणब्रह्मेति | सूर्यमण्डलमध्यस्थगुणत्रयात्मकतेजोरूपमित्यर्थः | तदुक्तं (बृहत्सिद्धान्तसारे) अदित्यमण्डलगतं यत् तेजस्त्रिगुणात्मकम् | तदेतत् सगुणं ब्रह्म ब्रह्मविष्णुशिवात्मकम् इति || १०-३३४ || निर्गुणमिति | गुणत्रयोपाधिरहितमित्यर्थः | यां विनेति | गुणब्रह्माभिधानद्वारा निर्गुणब्रह्मप्रतिपादिकाया अस्या एव मुक्तिहेतुत्वादिति भावः | (शारदायाम्) प्रणवाद्या व्याहृतयः सप्त स्युस्तत्पदादिकाः | चतुर्विंशत्यक्षरात्मा गायत्री शिरसाऽन्विता || १०-३३५ || सर्ववेदोद्धृतः सारो मन्त्रोऽयं समुदाहृतः | प्. ९०४) ब्रह्मा देव्यादिगायत्री परमात्मा समीरिताः || १०-३३६ || ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीर्तिताः | यमदग्निभरद्वाजभृगुगौतमकाश्यपान् || १०-३३७ || विश्वामित्रवशिष्ठाख्यौ व्याहृतीनामृषीन् विदुः | गायत्र्युष्णिगथानुष्टुब्बृहतीपङ्क्त्यः पुनः || १०-३३८ || त्रिष्टुब्जगत्यौ छन्दांसि कथितानि मनीषिभिः | सप्तार्चिरनिलं सूर्यो वाक्पतिर्वरुणो वृषः || १०-३३९ || विश्वे देवाः क्रमादासां देवताः परिकीर्तिताः | (मेरुतन्त्रे) गायत्र्या मुनिराख्यातो विश्वामित्रोऽतितापसः || १०-३४० || गायत्री छन्द इत्युक्तं देवता सविता स्मृता | तन्त्रान्तरे | अग्निर्मुखं शिरो ब्रह्मा हृद्विष्णुरलिकं शिवः || १०-३४१ || साङ्ख्यायनश्च गोत्रं स्यात् त्रैलोक्यं चरणत्रयम् | (शारदायाम्) शिरसोऽस्या मुनिर्ब्रह्मा छन्दो देव्यादिका स्मृता || १०-३४२ || गायत्री परमात्मा तु देवता कथिता बुधैः | (मेरुतन्त्रे) व्याहृतिः सप्तभूराढ्या हृन्मुखांसोरुयुग्मके || १०-३४३ || जठरे च क्रमात् न्यसेन्न्यासोऽयं प्रथमः स्मृतः | पादाङ्गुल्याद्यसन्धौ च सन्धौ स्याद्गुल्फपादयोः || १०-३४४ || गुल्फजान्वोस्तथा सन्धौ तथा जानूरुसन्धिषु | लिङ्गे नाभौ च हृदये कण्ठे वर्णान्न्यसेत् क्रमात् || १०-३४५ || कराङ्गुलीमूलसन्धौ मणिबन्धे च कूर्परे | भुजमूले मुखे नासिकायां चापि कपोलयोः || १०-३४६ || प्. ९०५) नेत्रकर्णभ्रूशिरसि चूडाधोवामकर्णके | दक्षकर्णे मुखे मस्तके च वर्णान् क्रमान् न्यसेत् || १०-३४७ || गायत्र्या अक्षरन्यासो द्वितीयः संप्रकीर्तितः | पदानि दश गायत्र्याः शिरोभ्रूमध्यदृङ्मुखे || १०-३४८ || कण्ठहृन्नाभिगुह्येषु जान्वोरङ्घ्र्योरथ न्येसेत् | शिरोदेशे तु गायत्र्याः शिरोन्यासस्तृतीयकः || १०-३४९ || हृदयं ब्रह्मणे प्रोक्तं विष्ण्वे शिर ईरितम् | शिखा रुद्राय कवचमीश्वराय समीरितम् || १०-३५० || नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् | अयं षडङ्गन्यासस्तु चतुर्थः परिकीर्तितः || १०-३५१ || पज्जानुकटिनाभौ च हृदये कण्ठभालयोः | क्रमाद्व्याहृतयो न्यस्याः परब्रह्मेति शीर्षकम् || १०-३५२ || पुनर्व्याहृतिन्यासोऽयं पञ्चमः परिकीर्तितः | तत्सवितुर्हृदयाय वरेण्यं शिरसे तथा || १०-३५३ || भर्गो देवस्य च शिखा धीमहि कवचं स्मृतम् | धियो यो नो नेत्रमुक्तमस्त्रं शेषेण कीर्तितम् || १०-३५४ || अयं न्यासस्तु षष्ठः स्यात् षडेते पापहारकाः | प्राणायामत्रयं कृत्वा ततो ध्यानं समाचरेत् || १०-३५५ || ध्यानं यथा | मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै र्युक्तामिन्दिनिबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् | गायत्रीं वरदाभयाङ्कुशकुशाञ्छुभ्रं कपालं गुणं शंखं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे || १०-३५६ || प्.९०६) ध्यानान्तरमुक्तं तन्त्रान्तरे | ब्रह्माणी चतुराननाऽक्षवलयं कुम्भं करैः स्रुक्स्रुवौ विभ्राणारुणकान्तिरिन्दुवदना ऋग्रूपिणी बालिका | हंसारोहणकेलिरम्बरमणेर्विम्बाञ्चिताभूषिता गायत्री हृदि भाविता भवतु नः सम्पत्समृद्ध्यै सदा || १०-३५७ || मध्याह्ने चान्त्यसन्ध्यायां ध्यानभेदमथ ब्रुवे | तथा | रुद्राणो नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा खट्वाङ्गत्रिशिखाक्षसूत्रवलयाभीतिर्दधानाऽम्बिका || १०-३५८ || विद्युत्पुञ्जजटाकलापविलसद्बालेन्दुमौलिः सदा सावित्री वृषवाहनासिततनुर्ध्येया यजूरूपिणी | वृद्धा नीलघनप्रभापरिलसत्पीताम्बराभूषिता दिव्यैराभरणैरथाङ्गकमले शङ्खं गदां बिभ्रती || १०-३५९ || तार्क्षस्कन्धगतासमस्तजगदाराध्या परा वैष्णवी ध्येया चैव सरस्वती भगवती सामस्वरूपा सदा | अस्या पूजायन्त्रमुक्तं (मेरुतन्त्रे) पद्ममष्टदलं लेख्यं ह्री/ कारं कर्णिकास्थितम् || १०-३६० || द्वौ द्वौ स्वरौ दिग्विदिशं प्रतिपत्रे समालिखेत् | किञ्जल्केषु तदग्रेषु गायत्र्यर्णा/ स्त्रिशस्त्रिशः || १०-३६१ || तद्बहिर्वृत्तयुगलान्तराले तु समालिखेत् | ककाराद्या/स्तथोमापोज्योतीरसोऽमृतं ब्रह्म || १०-३६२ || भूर्भुवः सुवरोमिति यन्त्रे सर्वार्थसिद्धिदम् | (शारदायाम्) प्राणायामं पुरा कृत्वा गायत्रीं सन्ध्ययोर्जपेत् || १०-३६३ || प्. ९०७) सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसाऽन्विताम् | त्रिरुच्चरन् धिया प्राणान् धारयेद्यमानसः || १०-३६४ || प्राणायामोऽयमाख्यातः समस्तदुरितापहः | व्याहृतित्रयसंयुक्तां गायत्रीं दीक्षितो जपेत् || १०-३६५ || अथास्याः पूजाविधिः (मेरुतन्त्रे) ततस्तु पूजयेद्देवीं दशावरणसंयुताम् | आदौ संपूज्य देवेशीं कोणाग्रे पूजयेत् ततः || १०-३६६ || त्रिकोणस्याग्निकोणात् तु प्रादक्षिण्येन देवताः | ब्राह्मीं माहेश्वरीं वैष्णवीमिति प्रथमावृतिः || १०-३६७ || तस्याग्रतस्त्वष्टदिक्षु क्रमादष्टौ प्रपूजयेत् | आदित्यमुखा/श्च रविं प्रज्ञां भानुं प्रभां तथा || १०-३६८ || भास्करं चापि सन्ध्यां च द्वितीयावरणं त्विदम् | ततोऽर्चयेदष्टदलकेशरेष्वङ्गषट्ककम् || १०-३६९ || गायत्र्याश्च तृतीयोक्तं दलमध्ये यजेदिमाः | प्रह्लादिनीं प्रभां नित्यां विश्वम्भरां विलासिनीम् || १०-३७० || प्रभावतीं जयां शान्तां चतुर्थावरणं त्विदम् | ततो यजेद्दलाग्रेषु कान्तिं दुर्गां सरस्वतीम् || १०-३७१ || विश्वरूपां विशालां च ईशानीं व्यापिनीं क्रमात् | विमलां च प्रोक्तमिदं पञ्चमावृत्तिपूजनम् || १०-३७२ || तदग्रिमे त्वष्टदले एताः पूज्याश्च शक्तयः | तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् || १०-३७३ || पद्मालयां परां शोभां पद्मरूपां तु षष्ठकम् | भवेदावरणं चाग्रे ब्राह्म्याद्याः सप्त मातरः || १०-३७४ || अष्टमा त्वरुणा प्रोक्ता सप्तमावरणं त्विदम् | प्. ९०८) रविः सितः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः || १०-३७५ || अष्टमावरणं चैतच्चतुरस्रे दिगष्टके | दिक्पाला नवमे प्रोक्तास्तदस्त्राणि च दिङ्मिते || १०-३७६ || एवं सपूजयेद्देवीं तस्या मुद्राः प्रदर्शयेत् | मुद्रास्तु तत्रैवोक्ताः | गायत्र्या अथ वक्ष्यन्ते चतुर्विंशतिमुद्रिकाः || १०-३७७ || जपादौ दर्शयेत् तासां देवताश्च तथा फलम् | सुमुखं संहतौ हस्तावुत्तनाकुञ्चिताङ्गुली || १०-३७८ || प्रल्हादिनी तत्र शक्तिः साधकानन्ददायिनी | संपुटौ पद्मकोशाभौ करावन्योन्यसंहतौ || १०-३७९ || तस्य शक्तिर्नित्यविश्वा विश्वस्यापि प्रियङ्करी | विततं संहतौ हस्तावुत्तानावायताङ्गुई || १०-३८० || हृदया नाम तच्छक्तिः सर्वेषां हृदयङ्ग्मा | विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलिद्वयम् || १०-३८१ || शक्तिस्तु विमला तस्याः प्रभावादनघो भवेत् | द्विमुखाख्या हस्तयोस्तु सम्मुखं सक्तयोर्द्वयोः || १०-३८२ || कनिष्ठयोरेव योगः शक्तिस्तस्याः सदा विधा | त्रिमुखारव्या हस्तयुग्मं संसक्तानामिकाद्वयम् || १०-३८३ || संयुक्तं शेषमङ्गुल्यो भिन्नाः शक्तिः प्रभाती | चतुर्मुखा हस्तयुग्मं संसक्तं मध्यमायुतिः || १०-३८४ || शेषाङ्गुल्यस्तु संभिन्ना लोला शक्तिः प्रकीर्तिता | मुद्रा पञ्चमुखी तद्वत् तर्जन्योर्यत्र संयुतिः || १०-३८५ || अपराङ्गुलयो भिन्नाः शक्तिः शान्तिश्च शान्तिकृत् | भवेत् षण्मुखमुद्रा सा संपूर्णाङ्गुलियोजनम् || १०-३८६ || प्. ९०९) कनिष्ठाद्वितयं हित्वा शक्तिर्दुर्गा प्रकीर्तिता | अधोमुखं नाम मुद्रा न्युब्जौ हस्तावधोमुखौ || १०-३८७ || आकुञ्चिताग्रौ संयुक्तौ शक्तिरस्याः सरस्वती | व्यापिकाञ्जलिकं नाम मुद्रा हस्तौ तु तादृशौ || १०-३८८ || विशेषोऽत्र तु चोत्तानौ विश्वरूपाऽत्र देवता | शकटं नाम मुद्रा सा बद्धाग्राङ्गुलिकौ करौ || १०-३८९ || अधोमुखौ बद्धमुष्टी विशाखा शक्तिरत्र तु | यमपाशं बद्धमुष्ट्योः करयोर्ग्रन्थिते यदा || १०-३९० || तर्जन्यौ तत्र तलगे वामा ज्ञेयाऽत्र देवता | ग्रन्थिताख्याऽन्योन्यसन्धिलग्नाश्चाङ्गुलयो यदि || १०-३९१ || उत्तानौ चोच्छ्रिताङ्गुष्ठा वामा शक्तिः समीरिता | सम्मुखोन्मुखमुद्रा तु सम्बद्धोर्ध्वाङ्गुली करौ || १०-३९२ || दक्षिणाधोमुखो वाम ऊर्ध्वमाप्यायनी भवेत् | विलम्बा नाम सा मुद्रा चोत्तानोन्नतकोटिकौ || १०-३९३ || यस्यां करौ तु विमला तस्याः शक्तिः प्रकीर्तिता | मुष्टिकं तु यदा मुष्टी भवतोऽन्योन्यसंयुते || १०-३९४ || उत्तानौ तु करौ तत्र शक्तिः प्रोक्ता तमोमयी | मत्स्यस्तु सम्मुखीभूतौ युक्तानामकनिष्ठिकौ || १०-३९५ || ऊर्ध्वसंयुक्तवक्राङ्ग्यः शेषाः शक्तिर्हिरण्मयी | कूर्मस्त्बधोमुखो वामस्तादृग्दक्षेण पृष्ठके || १०-३९६ || समाक्रान्तस्तस्य शक्तिः सूक्ष्मा सूक्ष्मार्थसाधिनी | वाराही दक्षिणस्योर्ध्वे वाममुत्तानकं करम् || १०-३९७ || स्थापयित्वाऽधोमुखं तन्नामयेद्विश्वयोनिका | प्. ९१०) सिंहाक्रान्तं नाम मुद्रा हस्तौ चेदायताङ्गुली || १०-३९८ || दत्तौ श्रवणयोरूर्ध्वं शक्तिरस्या जयावहा | महाक्रान्तं नाम मुद्रा प्राग्वदाकुञ्चिताग्रकौ || १०-३९९ || करौ कर्णस्थितौ शक्तिः प्रोक्ता पद्मालयाभिधा | मुद्गरं किं चिदूर्ध्वं तु गतयोर्वामतर्जनी || १०-४०० || धृता दक्षिणहस्तेन परा शोभाऽत्र देवता | पल्लवाख्या भवेन्मुद्रा त्वङ्गुल्यः पल्लवीकृताः || १०-४०१ || देव्यग्रे दर्शयेच्छक्तिर्गदारूपीति कीर्त्यते | अथ पुरश्चरणं तत्रैव | चतुर्विंशतिलक्षाणि पुरश्चरणमुच्यते || १०-४०२ || क्षीरौदनतिलान् दूर्वाः सिद्धौदनसमिद्वराः | पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये || १०-४०३ || तर्पणादि ततः कृत्वा गुरून् संतोष्य यत्नतः | प्रयोगानाचरेद्विद्वा/स्तदनुज्ञापुरःसरम् || १०-४०४ || इति गायत्रीपुरश्चरणविधिः | अथ व्याहृतीनां व्याख्या | (प्रपञ्चसारे) भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्त्तते | तत्पदं सदिति प्रोक्तं षण्मात्रत्वात् तु भूरतः || १०-४०५ || भूतत्त्वात् कारणत्वाच्च भुवःशब्दस्य सङ्गतिः | सर्वश्रीकरणात् स्वार्थतया च स्वरितीरितम् || १०-४०६ || महत्त्वाच्च महःशब्दो महस्तेन समीरितः | तदेव सर्वजननात् तस्मात् तु व्याहृतिर्जनः || १०-४०७ || तपो ज्ञानतया चैव तथा तापतया स्मृतम् | प्. ९११) सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्वयम् || १०-४०८ || व्याहृतीनां प्रणवैक्यमुक्तं तत्रैव | प्रणवस्य व्याहृतोनामन्तःसम्बन्ध उच्यते | अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः || १०-४०९ || विन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् | शान्तिः सत्यमिति प्रोक्तं सत् तत् परतरं पदम् || १०-४१० || अथ गायत्रीव्याख्या पूर्वकं प्रणवस्याहृषोणां गायत्र्यैक्यमुक्तं तत्रैव | प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते | अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते || १०-४११ || तद्द्वितीयैकवचनमनेनाखिलवस्तुनः | सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले || १०-४१२ || अभिधेयं सदानन्दं परं ब्रह्माभिधीयते | यत् तत् सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् || १०-४१३ || धातोरिति समुत्पन्नं प्राणिप्रसववाचकात् | सर्वासां प्राणिजातानामिति प्रसवितुः सदा || १०-४१४ || वरेण्यं वरणीयत्वात् सेवनीयतया तथा | भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् || १०-४१५ || पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता | पापस्य भर्जनाद्भर्गो भक्तस्निग्धतया तथा || १०-४१६ || देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः | प्रभुत्वेन प्रकाशेन दीप्यमानस्य वा तथा || १०-४१७ || ध्यै चिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः | निगमाद्येन [देवेशि इति ४ पु० पा०|] दिव्येन विद्यारूपेण चक्षुषा || १०-४१८ || प्. ९१२) दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः | हीनतारहितं तेजो यस्य स्यात् स हिरण्मयः || १०-४१९ || यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव हि | द्वितीयाष्टाक्षरस्यैव व्याहृतिर्भुव ईरिता || १०-४२० || धियो बुद्धिर्मनोरस्य च्छान्दसत्वात् समीरितम् | कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङुपग्रहात् || १०-४२१ || यत् तु तेजोनिरुपमं सर्वदेवमयात्मकम् | भजतां पापनाशस्य हेतुभूततयोच्यते || १०-४२२ || न इति प्रोक्त आदेशः षष्ठ्यसौ युष्मदस्मदोः | तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् || १०-४२३ || तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता | एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षराः स्मृताः || १०-४२४ || षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः | इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः || १०-४२५ || वरेण्यं भजतां पापविनाशनकरं परम् | भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् || १०-४२६ || उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते | आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते || १०-४२७ || तदात्मकं जगत् सर्वं रसस्तेजोद्वयं स्मृतम् | अमृतं तदनाशित्वाद्बृहत्वाद्ब्रह्म गद्यते || १०-४२८ || यदानन्दात्मकं ब्रह्म सत्यज्ञानादिलक्षणम् | तद्भूर्भुवः स्वरित्युक्तं सोऽहमित्योमुदाहृतम् || १०-४२९ || एतत् तु वेदवत् स्यात् तु वेदस्य शिर उच्यते | प् ९१३) लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः || १०-४३० || फलार्थी फलमाप्नोति मोक्षार्थी मोक्षमृच्छति | इति व्याहृतीनां व्याख्या | अथ प्रणवमन्त्रः | (प्रपञ्चसारे) अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं वरं सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् || १०-४३१ || अशेषदुरितापहं विविधकामकल्पद्रुमं विमुक्तिफलसिद्धिदं विमलमानसैः सेवितम् | आद्यः स्वरः समेतोऽमरेण सधसप्तमश्च विन्दुयुतः || १०-४३२ || प्रोक्तः स्यात् प्रणवोऽत्र त्रिमात्रिकः सर्वमन्त्रसमवायी | मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता || १०-४३३ || अक्लीवैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात् स्वरै- र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् | अथ ध्यानम् | विष्णुं भास्वत्किरीटा[भास्वत्कलापा इति० ४ पु० पा०|]ङ्गदवलयगलाकल्पहारोदराङ्घ्रि श्रोणीभूषं सुराजन्मणिमकरमहाकुण्डलामण्डिताङ्गम् || १०-४३४ || हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयवासो विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि | अस्य पुरश्चरणं कोटिजपः | तदुक्तं तत्रैव | दीक्षितो मनुमिमं शतलक्षं संजपेत् प्रतिहुनेच्च दशांशम् || १०-४३५ || पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा | प्. ९१४) सर्पिःपायसशालीतिलसमिधाज्यै हि योऽनले जुहुयात् || १०-४३६ || ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं न चिरात् | पूजाविधिमुक्त्वा इत्थं मन्त्री तारमनुर्जाप्यहुतार्चा भेदैरङ्गीकृत्य च युञ्ज्यादपि योगान् || १०-४३७ || यैः संलब्ध्वा चेह समग्रां श्रियमन्ते विष्णोर्धाम प्राप्य स योगी लभते सत् | इति प्रणवपुरश्चरणम् | अथ वैदिकमृत्युञ्जयमन्त्रः | (मेरुतन्त्रे) मृत्योर्भयं तु सर्वेषां सर्वदा सर्वकर्मसु || १०-४३८ || तस्मिन् जिते तु देवादिमोक्षान्तं साधयेज्जनः | तदर्थं संप्रवक्ष्यामि मन्त्रं मृत्युञ्जयाभिधम् || १०-४३९ || उपासना तस्य न स्याद्वंशेऽल्पायुश्च रोगभाक् | त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् || १०-४४० || उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् | वशिष्ठोऽस्य मुनिश्च्छन्दोऽनुष्टुब्देवस्त्रियम्बकः || १०-४४१ || त्रिचतुर्वसुगोपञ्चत्रिभिर्वर्णैः षडङ्गकम् | ध्यानमाह | हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो द्वाभ्यां तौ दधतं मृताक्षवलये द्वाभ्यां वहन्तं परम् || १०-४४२ || अङ्कन्यस्तकरद्वयामृतघटं कैलाशसंस्थं शिवं स्वच्छाम्भोजगतं नवेन्दुमकुटं देवं त्रिनेत्रं भजे | पुरश्चरणम् | जपेल्लक्षमिमं मन्त्रमेवं ध्यायेज्जितेन्द्रियः || १०-४४३ || प्. ९१५) जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसंप्लुतैः | दशद्रव्याणि तत्रैवोक्तानि | विल्वं पलाशं खदिरं वटं च तिलसर्षपौ || १०-४४४ || पायसं दधि दूर्वां च तथैकेन सहस्रकम् | तर्पयित्वाऽभिषिञ्च्याथ ब्राह्मणा/स्तोषयेद्गुरुम् || १०-४४५ || एवं कृते प्रयोगार्हो जायतेऽयं महामनुः | इति वैदिकमृत्युञ्जयपुरश्चरणम् | अथ रुद्राध्यायपुरश्चरणविधिः | तत्रैव | श्रीविष्णुरुवाच | देवदेव महादेव भक्तानुग्रहकारक || १०-४४६ || कालस्त्वमसि लोकानां महामाया त्वियं परा | आवयोः के तुष्टिकरा मन्त्राः सूक्तानि तद्वद || १०-४४७ || येन भुक्तिश्च मुक्तिश्च क्लेशो नैव च नैव च | श्रीशिव उवाच विष्णो गोप्यं त्वया पृष्टं न वाच्यं तान्त्रिके द्विजे || १०-४४८ || तन्त्रे मे तामसं रूपं त्वया पृष्टं तु सात्त्विके | भोगमोक्षैकनिलयं चतुर्वेदोत्तमोत्तमम् || १०-४४९ || मन्त्रं स्तोत्रेश्वरं तन्मे जानीहि शतरुद्रियम् | छन्दांस्यनुष्टुबादीनि अघोरोऽस्य मुनिर्मतः || १०-४५० || देवताऽस्य भवेद्रुद्र आदित्यः परपूरुषः | (पद्धतौ) श्रीरुद्रप्रितये शतरुद्रियजपे विनियोगः || १०-४५१ || अथ कराङ्गन्यासौ तत्रैव | ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः | प्. ९१६) ओं दर्शपौर्णमासात्मने तर्जनीभ्यां नमः | ओं चातुर्मास्यात्मने मध्यमाभ्यां नमः | ओं निरूढपशुबन्धात्मने अनामिकाभ्यां नमः | ओं ज्योतिष्टोमात्मने कनिष्ठाभ्यां नमः | ओं चत्वारिंशच्छतसहस्रात्मने करतलपृष्ठाभ्यां नमः | एवं हृदयादिन्यासः | महान्यासस्तु विस्तरभयादुपेक्षितः | अथ ध्यानम् | आपातालनभःस्थलान्तभुवनब्रह्माण्डपाविस्फुर ज्ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः | आस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन् ध्यायेदीप्सितसिद्धयेऽद्भुतपदं विप्रोऽभिषिञ्चेच्छिवम् || १०-४५२ || (मेरुतन्त्रे) पार्थिवोक्तप्रकारेण लिङ्गपूजां ततश्चरेत् | आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः || १०-४५३ || आराधयामि भक्त्या त्वां मां गृहाण महेश्वर | आत्वावहन्तु हरयः सचेतसश्चेतैरश्वैः सह केतुमद्भिः || १०-४५४ || वाताजलैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वो नमः | एत् ते रुद्रभावसं तेन परो मूजवतोऽतीहि अवततधन्वा पिनाकवसः कृत्तिवासा अहि(चित्र)सन्नः शिवोऽतीहि | चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्त्या/ आविवेश | प्रसन्नो भव देवेशे सुमुखो भव शङ्कर || १०-४५५ || शान्तो भवस्व चात्र त्वं मम चाभिमुखो भव | प्. ९१७) स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् || १०-४५६ || तावत् त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधो भव | अभिषेकं ततः कुर्यादमृतैः पञ्चभिः क्रमात् || १०-४५७ || पश्चाच्छुद्धोदकेनाथ ततः पूजनमाचरेत् | रौद्रीं धारां ततः कुर्यात् प्रच्यते तद्विधानकम् || १०-४५८ || नमस्ते रुद्राग्नाविष्णु इत्यध्यायद्वयेन च | आवर्तनमिति प्रोक्तं गङ्गास्नानफलप्रदम् || १०-४५९ || आवर्तनाभिषेकं तु यः कुर्यात् प्रत्यहं नरः | तस्य दैनन्दिनं पापं दैवजं नाशमाप्नुयात् || १०-४६० || सन्ध्यावन्दनतः क्षीणं तच्चेत् प्राग्जन्मजं हरेत् | एकः पाठो नमस्तस्य अनुवाकः परस्य च || १०-४६१ || एवं भवा नमस्ते स्युरग्नाविष्णुस्तथैककम् | इयं रुद्री समाख्याता रौद्रपापनिकृन्तनी || १०-४६२ || अनया प्रत्यहं यस्तु कुर्याल्लिङ्गेऽभिषेचनम् | जन्मजन्मकृतं पापं वर्षे वर्षे प्रणश्यति || १०-४६३ || सप्तजन्मकृते पापे नष्टे लक्ष्मीर्विवर्धते | वंशश्च स्थिरतामेति यशो याति दिगन्तरम् || १०-४६४ || सूते चास्य यथा रूपं तथा तोये प्रणश्यति | रुद्रीभिरेकादशभिर्लघुरुद्रः प्रकीर्तितः || १०-४६५ || अनेन सिक्तं यैर्लिङ्गं ते न पश्यन्ति भास्करिम् | एकादशभिरेतैस्तु महारुद्रः प्रकीर्तितः || १०-४६६ || निर्धनानां द्विजानां च महापातकनाशनः | अनेन विहितो होमः सोमयागफलं स्मृतम् || १०-४६७ || प्. ९१८) अनधिकाराद्दीक्षायां कलौ पक्षस्त्वयं मतः | एकादशमहारुद्रैरतिरुद्रः प्रकीर्तितः || १०-४६८ || तथा | शाखायां यस्य तु यथा स्वाध्यायौ पठितावुभौ | पठनीयौ तथा तेन शाखाभेदं न कारयेत् || १०-४६९ || न रुद्रो यस्य शाखायां तैत्तिरीयं पठेत् स तु | शाखा तु यजमानस्य ब्राह्मणद्वारतः कृते || १०-४७० || अथ वा तैत्तिरीया स्यान्नान्या शाखा प्रयुज्यते | शाखामिश्रं कृतं कर्म यजमानं विनाशयेत् || १०-४७१ || धनलोभात् परार्थं यो विप्रो मामभिषिञ्चति | स तु चाण्डालवज्ज्ञेयो निर्धनः सप्तजन्मसु || १०-४७२ || कुटुम्बिना तु यत्नेन धानार्थं यच्च पूजनम् | कृते चेज्जपदानाभ्यां तद्दशांशोऽस्य निष्कृतिः || १०-४७३ || तथा | रुद्रो न यस्य शाखायां परिशिष्टान्वितं स तु | पठेद्रुदं तेत्तिरीयं लुप्तशाखस्तमेव हि || १०-४७४ || मन्त्रः प्रयोगसहितो रुद्राध्यायोऽथ वक्ष्यते | असंस्कृताय नो वाच्यं तान्त्रिकाय कदाचन || १०-४७५ || तत्रादौ | ओं नमस्ते रुद्रमन्यव-इत्यारभ्य माहि(चित्र)सीः पुरुषं जगत् इत्यन्तानां पुरश्चरणप्रयोगः | दशलक्षं जपेद्विद्वानृच एता जितेन्द्रियः | लक्षमेकं प्रजुहुयात् प्रत्यृचं योऽञ्जलिप्रभम् || १०-४७६ || यवगोधूमकं क्षौद्रतिलाज्यदधिसंयुतम् | यत्किञ्चित् कार्यमुद्दिश्य तस्य सिद्धिः प्रजायते || १०-४७७ || प्. ९१९) एवमेव सहस्रं चेदेकादशदिनं हुनेत् | ग्रामगं बालमरकं नश्यते नात्र संशयः || १०-४७८ || कुमारमरकं ग्रामे द्वादशाहेन नश्यति | होमः पञ्चदशाहं तु राष्ट्रोपद्रवनाशनः || १०-४७९ || होमाद्विंशतिरात्रेण देशोपद्रवनाशनम् | पृथिव्युपद्रवो नश्येन्मासमात्रेण होमतः || १०-४८० || गवामुपद्रवे जाते गोष्ठमध्ये तदा हुनेत् | वैकङ्कतसमिद्भिर्वाऽयुतं शान्तिः प्रजायते || १०-४८१ || अयुतद्वयहोमेन महाशान्तिर्भवेद्ध्रुवम् | शिवेन वचसा इत्यादि | जपेदयुतसङ्ख्याकं शापमोक्षः प्रजायते || १०-४८२ || शिशिरे तु जले प्रातर्लक्षं जप्त्वा सुखी भवेत् | अध्यवोचत् इति | लक्षमेकं पुरश्चर्या होमः स्याच्छ्वेतसर्षपैः || १०-४८३ || व्याधिसंक्रामणीचेयं प्रयोगान्तरमुच्यते | सप्ताभिमन्त्रितान् कृत्वा सर्षपानातुरस्य तु || १०-४८४ || चतुर्दिक्षु क्षिपेद्रक्षा दशदिग्भ्यः प्रजायते | सप्ताभिमन्त्रितान् कृत्वा पथि गच्छ/स्तु सर्षपान् || १०-४८५ || दशदिक्षु क्षिपेन्नित्यं पथि क्षेमः प्रजायते | ब्रह्मराक्षसयक्षाद्यैः पिशाचप्रेतभूतकैः || १०-४८६ || आविष्टसर्षपैस्ताड्यः सप्तवाराभिमन्त्रितैः | पुनः पुनर्मन्त्रपाठपूर्वकं ते धनार्थिनः || १०-४८७ || धनं गृहीत्वा गच्छन्ति करे तं द्रुतमेव च | प्. ९२०) शिखामाक्रम्य च यजेत् ताडयेद्गौरसर्षपैः || १०-४८८ || रात्रिं समस्तां स्कन्दादिग्रहपीडा विनश्यति | अनेन मन्त्रयित्वा तु दद्याच्छास्त्रोक्तमौषधम् || १०-४८९ || तत्कालं तद्गुणाय स्यादन्यथाऽसौ यथाविधि | अभिमन्त्र्य जलं दद्यात् सर्वसत्त्वभवां रुजम् || १०-४९० || हरेत् सर्वग्रहाणां च सर्षपैस्ताडनात् तथा | सर्वभूतोद्भवां पीडां भस्मधारणतो जयेत् || १०-४९१ || दिवसे च तथा रात्रौ त्रिशूलमभिमन्त्रयेत् | सहस्रैकं सहस्रकं क्षिपेन्नागह्रदे तु तत् || १०-४९२ || त्रिशूलं बान्धवोपेता नाशं गच्छन्ति पन्नगाः | भस्माभिमन्त्रितं कृत्वा पन्नगाक्रान्तमन्दिरे || १०-४९३ || क्षिपेत् तत्तालशब्देन पन्नगोत्सादनं भवेत् | असौ यस्ताम्र इत्यादि | उदयास्तमये सूर्यमेताभ्यामुपतिष्टते || १०-४९४ || अष्टोत्तरशतं त्र्यब्दमक्षयान्नोद्भवो भवेत् | सहस्रमभिजप्तेन क्षीरेण स्नापयेच्छिवम् || १०-४९५ || अबदैकेन प्रसन्नः स्याद्घृतस्नानाच्च वर्षणम् | अतसीनां तु पुष्पाणि हुनेदयुतसङ्ख्यया || १०-४९६ || अवशो वश्यतां याति सविता वरदो भवेत् | अर्कवृक्षोद्भवैर्दुग्धैराप्लुतानां तु होमयेत् || १०-४९७ || अयुतं चार्कसमिधां सक्तुं च सजलं ददेत् | होमान्ते भगवान् सूर्यो वृष्टिं मुञ्चति नान्यथा || १०-४९८ || मन्त्रद्वयं तु भजतामिष्टां सिद्धिं प्रयच्छति | प्. ९२१) नमोस्तु नीलग्रीवाय इत्यादि | स्थण्डिलस्योपयुक्तं तु [कृशरम् इति २-३पु० पा०] कृत्वा सघृतपायसम् || १०-४९९ || कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी | प्रत्यहं स्नापयेत् तावत् सहस्रेणाभिमन्त्रितम् || १०-५०० || निवेदयेत् तद्देवाय कार्षापणसहस्रकम् | सोद्यमाज्जायते लाभः सिद्धे मन्त्रे न संशयः || १०-५०१ || असिद्धे तु तदर्धं स्यात् सूर्यकान्तदृषद्यपि | निवेदनात् पुनर्लाभो लक्षमेकं पुरस्कृतिः || १०-५०२ || होमस्तु पायसघृतैरनाख्येयः प्रयोगवान् | प्रमुञ्च धन्वस्त्वम् इत्यादि | आभिः षड्भिस्त्वायुधानि मन्त्रयेच्च सहस्रकम् || १०-५०३ || बन्धयित्वा तानि रणे गच्छेत् गछन्ति शत्रवः | जुहुयादयुतं गर्भकण्टक्या द्वेषकामुकः || १०-५०४ || गुडं मुखेन चोत्थाप्यं शत्रोर्नाम स्मरन् जपेत् | जपाख्यस्यासनेनैव शत्रुमुत्सादयेद्धटात् || १०-५०५ || संपूर्णाहं जपन्नेव नगरं ग्राममेव च | उत्सादयेच्च राजानमहोरात्रं जपन्निति || १०-५०६ || राजपुत्रं दिनार्धेन क्षत्रियं त्रिलवेन च | चतुर्भागेन वैश्यं च षड्भागेनैकजातिकम् || १०-५०७ || पलाशाश्वत्थविल्वानामपामार्गस्य च क्रमात् | विप्रादिवश्यकामस्तु दधिक्षौद्रघृतान्विताः || १०-५०८ || हुनेदयुतसङ्ख्याकाः समिधः कार्यसिद्धये | प्. ९२२) हीनवर्णान् वशीकर्त्तुं वरुणार्ककवेतसाम् || १०-५०९ || साखोटका/श्च जुहुयाद्दृष्ट्वा विप्रादिवृत्तिकान् | सौगन्धिकान्युत्पलानि कुमुदानि प्रयच्छति || १०-५१० || स्वयम्भुलिङ्गे लक्षं तु चन्दनाक्तानि भक्तितः | राज्यभ्रष्टो भवेद्राजा षड्भिर्मन्त्रैः पृथक् पृथक् || १०-५११ || धनार्थी प्राप्नुयाद्वित्तं शक्नुवन्निति पूजयेत् | लक्षमेकं तिलानां यः पृथङ्मन्त्रैः शिवोपरि || १०-५१२ || आरोपयेत् स शत्रूणां सदा मूर्धनि तिष्ठति | अयुतं राजवृक्षस्य समिधो होमयेत् तु यः || १०-५१३ || रणे राजकुले द्यूते स शत्रुं त्वरितं जयेत् | गुग्गुलं षट्सहस्रं यो दक्षिणामूर्तिसन्निधौ || १०-५१४ || यत्कार्यार्थं हुनेत् तस्य सिद्धिः शीघ्रं प्रजायते | असाध्यस्यापि सिद्धिः स्याद्धुत्वा चाष्टसहस्रकम् || १०-५१५ || यथा महानसे सिद्धमन्नं च जुहुयात् तथा | सहस्राष्टकमेतस्य द्रव्यं भवति चाक्षयम् || १०-५१६ || एका ऋक् परिशिष्टस्य एतस्याग्रे प्रचक्षते | नमस्ते अस्तु भगवन् इति | अयुतं यो जपेदेतां घृताक्तैर्विल्वपत्रकैः || १०-५१७ || प्रतिनामसहस्रं तु हुत्वा स्याल्लोकवन्दितः | नमो हिरण्यवाहवे इत्यादि | पुरश्चरणमेतस्य सहस्राष्टकमीरितम् || १०-५१८ || यः संग्रामगतस्तस्य कौशल्यार्थमिदं जपेत् | जपप्रभावाच्छस्त्राद्यैः सोऽरिभिर्नैव वाध्यते || १०-५१९ || प्. ९२३) सुतायार्हन्यासपूर्वं पशिरिष्टं निगद्यते | नमो रोहिताय स्थपतये- इति | सहस्रपञ्चकं चास्य पुरश्चरणमुच्यते || १०-५२० || एतज्जप्तुर्भयं नास्ति व्याघ्रचौरादिजं वने | नमः सहमानाय निव्याधिन इत्यादि | सहस्राष्टकमेतस्य पुरश्चरणमुच्यते || १०-५२१ || व्रणादेस्तीव्रपीडाया नाशकोऽस्य जपः स्मृतः | नम इषुमद्भ्यो इत्यादि | सहस्रनवकं तावत् पुरश्चरणमस्य तु || १०-५२२ || सेनायाश्चतुरङ्गानां शान्तये प्रजपेदिदम् | नम आव्याधिनीभ्यो इत्यादि | पुरश्चरणमेतस्य सहस्राणां तुषोडश || १०-५२३ || दुष्टग्रहवलिं दत्वा जप्त्वा च तं निरामयः | नमो भवाय च इत्यादि | पुरश्चर्यायुतं चास्य विभवार्थं प्रयोजयेत् || १०-५२४ || त्रिसन्ध्यासु पठेदेतद्भवेद्वर्षेण भाग्यवान् | नमो ग्र्याय इत्यादि | सहस्रपञ्चकं तावत् पुरश्चरणमुच्यते || १०-५२५ || गणस्याग्रत्वमाप्नोति मन्यते च परैरपि | नमो ज्येष्ठाय च इत्यादि | सहस्रदशकं तावत् पुरश्चरणमुच्यते || १०-५२६ || ज्ञातृश्रेष्टत्वमाप्नोति जप्ते तस्य न संशयः | नम आशुषेणाय इत्यादि | प्. ९२४) पुरश्चर्या तु निर्दिष्टा सहस्राणां तु पञ्चकम् || १०-५२७ || जप्त्वा नश्यति खञ्जत्वं पादुकासिद्धिमाप्नुयात् | नमो दुन्दुभ्याय इत्यादि | अयुतद्वितयं चास्य पुरश्चरणमुच्यते || १०-५२८ || संग्रामजयकृच्चायमनुवाकः प्रकीर्तितः | नमः कूप्याय च इत्यादि | षट्सहस्रं पुरश्चर्या ग्रहेणाधिष्ठितो निधिः || १०-५२९ || अभिमन्त्रितमेतेन तोयं तन्निधिमोचकम् | नमः सोमाय च इत्यादि | पुरश्चर्याऽयुतमिता जपेदष्टोत्तरं शतम् || १०-५३० || त्रिकालं भस्मतोयं च भक्षयेल्लेपयेत् तथा | मासत्रयाद्राजयक्ष्मा किलासश्वित्रमब्दतः || १०-५३१ || नश्येद्देहो भवेद्दिव्यः क्षुद्ररोगा दिनत्रयात् | नमस्तीर्थ्याय च इत्यादि | षट्सहस्रं पुरश्चर्या षण्मासं तीर्थगो जपेत् || १०-५३२ || यथोक्तं तत् तीर्थफलं भुञ्जते चेह जन्मनि | नम इरिण्याय च इत्यादि | सहस्रनवकं तावत् पुरश्चरणमुच्यते || १०-५३३ || धातुवादो राजतस्तु सिध्यते तत्प्रभावतः | अत्रास्ति परिशिष्टस्यानुवाक एक एव हि || १०-५३४ || रजस्याय च चैतस्य नमोऽन्तस्याग्रतः पठेत् | नमो नन्दिकाय च इत्यादि | सहस्राष्टकमेतस्य पुरश्चरणमुच्यते || १०-५३५ || प्. ९२५) बालग्रहा विनश्यन्ति बर्हिपिच्छौघमार्जनात् | नम ऊर्व्याय च इत्यादि | पुरश्चर्यासहस्राणां चतुष्टयमुदाहृतम् || १०-५३६ || अभिमन्त्र्य जलं देयं शोकशान्त्यै तु शोकिने | नमो वः किरिकेभ्य इत्यादि | तिलहोमेनायुतेन कार्षापणसहस्रकम् || १०-५३७ || उद्यमाद्वाऽथ भूपालात् प्राप्नुयाद्वर्षमध्यतः | अपामार्गस्य समिधाऽयुतं हुत्वा रसापतिः || १०-५३८ || सहस्रस्वर्णतुल्यस्य स्वस्य सिद्धिः सकृद्भवेत् | गुग्गुलुप्रतिमां कृत्वा क्षुरेणोत्कर्त्तयेच्च ताम् || १०-५३९ || जुहुयादष्टसाहस्रं लभेत् कन्यामलङ्कृताम् | एवं कृत्वाऽथ वा होमं धनार्थी जपपूर्वकम् || १०-५४० || सुवर्णानां तु शतकं प्राप्नुयाद्वर्षमध्यतः | हुनेद्गोसफखण्डानि चैकादशसहस्रकम् || १०-५४१ || घृत्ताक्तानि लभेन्मासाद्गाव एकादशैव हि | पुरश्चरणपूर्वं तु लक्षैकं तिलतण्डुलान् || १०-५४२ || यो हुनेत् तस्य गेहे तु राज्यलक्ष्मीः स्वयं वसेत् | एवं च तिलधान्याभ्यां होमाल्लक्ष्मीः स्थिरा भवेत् || १०-५४३ || शतपुष्यमयीं कृत्वा प्रतिमां राजरूपकाम् | सहस्रं जुहुयाद्राजा वशोऽवश्यं प्रजायते || १०-५४४ || पद्मोत्पलानां लक्षं तु हुत्वा भूयः श्रियं लभेत् | चणकप्रतिमालक्षं होमयेद्गुग्गुलैर्वटीम् || १०-५४५ || स्मृतसामन्तराज्यं स प्राप्नोत्येव न चान्यथा | प्. ९२६) हुनेद्बिल्वसमिद्भिस्तु दक्षिणामूर्तिसन्निधौ || १०-५४६ || लक्षमेकं तदा राष्ट्रं सामन्तस्य लभेद्ध्रुवम् | महाचतुष्पथे स्थाप्यं लिङ्गं वल्मीकमृद्भवम् || १०-५४७ || स्नापयेत् पञ्चगव्येन रुद्राध्यायेन मन्त्रयेत् | मानस्तोकेन मन्त्रेण चाभिषिञ्चेन्निवेद्यकम् || १०-५४८ || सघृतं पायसं दद्याद्भूतेभ्यश्च तथा वलिम् | एवं मासत्रयं कृत्वा महदैश्वर्यमाप्नुयात् || १०-५४९ || पलं वाऽर्थपलं वाऽपि दक्षिणमूर्तिसन्निधौ | श्वेताम्बरां चूर्णयित्वा स्थापयेत् ताम्रपात्रके || १०-५५० || आलोड्य कपिलाज्येन प्रदेशिन्याऽभिमन्त्रितम् | सहस्राष्टकमेतेन मन्त्रेण प्रपिबेदथ || १०-५५१ || भवेत् तस्याप्रतिहतं वाक्यं सर्वत्र निश्चितम् | उदुम्बरस्य समिधो दध्यक्ताश्चायुतं हुनेत् || १०-५५२ || स्वामी बहुगवां स स्यात् क्षीयन्ते नास्य धेनवः | विल्वानां तु घृतक्तानां हुनेदष्टसहस्रकम् || १०-५५३ || सुवर्णाष्टकमाप्नोति ह्यसिद्धो रजताष्टकम् | विल्वाभावे त्वामलकं तदभावे उदुम्बरम् || १०-५५४ || तस्याभावे हैमवती तदभावे विभीतकम् | श्रीखण्डगोघृताक्तानां पद्मानां लक्षमेककम् || १०-५५५ || हुनेद्यस्तस्य लक्ष्मीस्तु स्वयमेवोपतिष्टते | द्रापे अन्धसस्पते इत्यादि | अनेन जुहुयादाज्यमयुतान्नियुतावधि || १०-५५६ || अक्षयाण्यस वासांसि भवन्ति च तथा तथा | प्. ९२७) याते रुद्र इत्यादि | उर्णा ग्राह्या जीवदवेस्तनूस्तनूर्विहाय च || १०-५५७ || एकादशशरं कुर्यात् सूत्रमेकैकसूत्रकम् | सहस्रमभिमन्त्र्याथैकादश ग्रन्थयः स्मृताः || १०-५५८ || एवं संपूज्य तां रज्जुं धूपं दत्वा च बन्धयेत् | वामहस्ते तु गर्भिण्या बद्धं सा सुखतः सुवेत् || १०-५५९ || दक्षे बालकहस्ते तु सुखं तिष्ठति बालकः | धनिको बाहुमूले वा कण्ठे वा धारयेदिदम् || १०-५६० || कदा चिदुत्तमर्णस्य भयं तस्य न जायते | इमा(चित्र)रुद्राय इत्यादि | अष्टोत्तरसहस्रं तु प्रत्यहं जुहुयात् तिलान् || १०-५६१ || अयाचितं धनं तेन लोकेभ्य उपलभ्यते | यश्च दूर्वाप्रवालानां घृताक्तमयुतं हुनेत् || १०-५६२ || महाज्वरोप्रघातेऽपि मृतकल्पः स जीवति | माक्षिकपायसाज्याशी अयुतं जुहुयाच्छुचिः || १०-५६३ || महाग्रहज्वरादिभ्योऽभिचाराच्च प्रमुच्यते | वैकङ्कतानामयुतं समिधानां घृतैर्हुनेत् || १०-५६४ || ज्वरादिकभवा पीडा सद्य एव विनश्यति | द्रव्याद्यर्थं यदा केचिन्मृदुभिरभिभूयते || १०-५६५ || तदा तुषान् प्रजुहुयादयुतं सुखमेधते | वैकङ्कतीश्च समिध औदुम्बरीस्तिला/स्तथा || १०-५६६ || अनेन जुहुयाल्लक्षं सर्वशान्तिकरं स्मृतम् | गवां वाऽन्यपशूनां वा ह्युपघाते तु तत्स्थले || १०-५६७ || प्. ९२८) अग्निं संस्थाप्य जुहुयाद्वैकङ्कतीर्दधिप्लुताः | अयुतं तस्य शान्तिः स्यात् पालाशानां तथाऽयुतम् || १०-५६८ || घृताक्तानां प्रजुहुयान्महाज्वरमुखा ग्रहाः | राक्षसा भूतवेतालाः प्रेताश्चापि पिशाचकाः || १०-५६९ || जनं चापि गजं चाश्वं मुक्त्वा गच्छन्ति दूरतः | जनानां जननं यस्मिन् गेहे भवति भूरिशः || १०-५७० || मरणं वाऽथ हानिर्वा तत्र शान्तिरुदीर्यते | घृताक्तानां तिलानां तु जुहुयादयुतं द्विजः || १०-५७१ || यस्मिन् देशे महामारी व्याघ्रादीनां भयं च वा | देवरक्षोभयं यत्र तत्र शान्तिं वदाम्यहम् || १०-५७२ || पुरस्य मध्यभागे तु वह्निस्थापनमाचरेत् | चतुर्दिक्षु च सन्नद्धा गुप्ताश्चत्वार एव हि || १०-५७३ || नराः स्थाप्यास्ततः कर्म सावधानः समाचरेत् | अष्टोत्तरसहस्रं तु घृताक्तान् जुहुयात् तिलान् || १०-५७४ || ततोऽर्धरात्रसमये चौदनं सघृतं तिलान् | पिष्टं माषौदनं चापि कृशरं परमान्नकम् || १०-५७५ || सुप्ते जनपदे दद्यात् स्थाने स्थाने ततो वलिम् | पलाशपत्रे रुद्रेभ्यो रक्षोभ्यस्तदनन्तरम् || १०-५७६ || कुर्यादेवं पक्षमेकं सर्वोपद्रवनाशनम् | मृडानो रुद्र इत्यादि | सहस्रं प्रजपेत् तोये तीरे संपूजयेच्छिवम् || १०-५७७ || यावद्दुरे भवेदिष्टस्त्रिधाहार्वाङ्मिलिष्यति | मानो महान्तम् इत्यादि | प्. ९२९) परिजनस्य बालानामारोग्यार्थं तिलान् हुनेत् || १०-५७८ || अयुतं शीतलादिभ्य आरोग्यं जायते द्रुतम् | मानस्तोके इत्यादि | मानस्तोकं महाकल्पं सर्वतन्त्रेषु गोपितम् || १०-५७९ || कथयिष्यामि मुनये देवानां कार्यसिद्धये | अतिकृच्छ्रेण कृच्छ्रेण तथा चान्द्रायणेन च || १०-५८० || आदौ संशोध्य चात्मानं पूतकायो जपं चरेत् | जपन्नेतत् तु भुञ्जीत शाकं वा यावकं पयः || १०-५८१ || भिक्षां वा जपतस्तस्य भवेदयुतसङ्ख्यकम् | सहस्रमात्रं होमः स्यात् प्रयोगार्हो भवेन्मनुः || १०-५८२ || प्रयोगान्ते त्वहोरात्रं जपः कार्यो निरन्तरम् | तद्दशांशेन जुहुयादौदुम्बरीर्घृतान्विताः || १०-५८३ || महाव्याहृतिभिः पश्चात् तावदेवं घृतं हुनेत् | संस्रावभागं संप्राश्य प्रयोगैर्न क्षयं व्रजेत् || १०-५८४ || पुनः कर्म प्रकुर्वीत प्रायश्चित्तं पुनः पुनः | स्नायाच्च तीक्ष्णतैलेन सप्तधा मन्त्रितेन च || १०-५८५ || मारणादिप्रयोगानां भवेत् पातकमोचनम् | ब्रह्मवर्चसकामस्तु हुनेदष्टसहस्रकम् || १०-५८६ || घृताक्तानां च समिधामसाध्यः सर्वकर्मसु | पद्मानां तु घृताक्तानां दशरात्रमुपोषितः || १०-५८७ || अयुतं जुहुयाल्लक्ष्मीकामो वा शिवदर्शने | अपामार्गोद्भवानां च तण्डुलानां तथाऽयुतम् || १०-५८८ || हुनेद्दधिघृताक्तानां सर्वार्थस्य समृद्धये | प्. ९३०) गोसहस्रस्य लाभाय जुहुयाद्गोसफेन च || १०-५८९ || आज्याहुतीनां च तथा सहस्राष्टकमादरात् | उपोषितो दशाहानि हुनेद्विल्वफलानि च || १०-५९० || अयुतं च घृताक्तानि लभेदष्टसहस्रकम् | सिद्धे मन्त्रे सुवर्णानि न सिद्धे रजतानि तु || १०-५९१ || भार्याऽमुको मे भवतु एतदर्थं हुनेच्छुचिः | जातीपुष्पाणि चाज्येन मधुना संयुतानि च || १०-५९२ || कपिला तु यदाऽसूतवृषभा वा सिताऽपि गौः | आद्यं दुग्धं गृहीत्वाऽस्याः श्रपयेत् तेन वै चरुम् || १०-५९३ || अष्टोत्तरशतं हुत्वा तथा वाऽष्टसहस्रकम् | मन्त्रयित्वा चरुं तच्च सपत्नीकः प्रभक्षयेत् || १०-५९४ || आयुष्मतो दृढान् पुत्रान् जनयेन्नात्र संशयः | दूर्वाप्रवालान् जुहुयाद्दधिक्षौद्रघृतान्वितान् || १०-५९५ || आयुःकामोऽष्टसाहस्रं चिरमायुः स विन्दति | दधिक्षौद्रघृताक्तानां पुष्पाणां कुशकाशयोः || १०-५९६ || सहस्राण्यष्ट जुहुयादिच्छेत् क्षुद्रान् यदा पशून् | त्रिरात्रोपोषितो भूत्वा गच्छेन्महाचतुष्पथे || १०-५९७ || लिप्त्वा भूमिं गोमयेन तद्वदेव घृतं मुखे | पूजयित्वा हुनेद्भूमावष्टोत्तरसहस्रकम् || १०-५९८ || कर्मणाऽनेन नृपतिर्भवेद्वश्यो न संशयः | सप्ताभिमन्त्रितं तीक्ष्णतैलं तेन करद्वयम् || १०-५९९ || सम्यक् प्लुतस्तेन स्पृष्टो यो ह्यसौ वशगो भवेत् | ब्रह्मवर्चसकामस्तु दधिक्षौद्रघृतान्विताः || १०-६०० || प्. ९३१) विल्वस्य समिधो हुत्वा लक्षं तेजोनिधिर्भवेत् | औदुम्बरीश्च जुहुयाद्दधिक्षौद्रघृतान्विताः || १०-६०१ || अयुतं चान्नकामस्तु लभेदन्नं तथा बहु | अर्थकामः पलाशस्य समिधो घृतसंयुताः || १०-६०२ || लक्षं हुनेत् तस्य धनमक्षयं जायते सदा | अपामार्गस्य समिधः कटुतैलसमन्विताः || १०-६०३ || हुनेदष्टौ सहस्राणि शत्रोरुच्चाटनं भवेत् | उच्चाटनं तु देशादिभ्यः प्रवासनम् | सर्वोपद्रवनाशार्थं गृहीत्वा सप्तशर्कराः || १०-६०४ || मन्त्रयित्वा सहस्रं तु चतुर्दिक्षु क्षिपेत् ततः | ऊर्ध्वाधस्तस्य निकटे सर्वोपद्रवनाशनम् || १०-६०५ || एवं कृत्वा व्रजेन्मार्गे चौरव्याघ्रभयं हरेत् | आरात् ते गोघ्न इत्यादि | महाभये समुत्पन्ने व्याघ्रचौरभयादिषु || १०-६०६ || चतस्रर्चः स्मरेच्चित्ते तत्तद्भयविनाशकाः | विकिरि इत्यादि | जपेदयुतसङ्ख्याकं विरोधे तु महाजनैः || १०-६०७ || राज्ञा वोपशमं याति प्रीतिश्चापि प्रजायते | सहस्राणि इत्यादि | यदा तु महतां मृत्युर्नृपतेर्वा उपद्रवः || १०-६०८ || तदा होमं प्रकुर्वीत वैकङ्कतसमिद्वरैः | ओदुम्बरीभिः शाल्मल्या तिलैर्वाऽपि यवैरपि || १०-६०९ || प्रत्येकमेकादशधा चाभिमन्त्र्य ततो वलिम् | कृशरं वा पायसं वा ततो भूतानि चार्चयेत् || १०-६१० || प्. ९३२) दद्याद्विडालमांअसस्य वलिं नश्यन्त्युपद्रवाः | सहस्राणि सहस्रशो यो रुद्रा इत्यादि | जपेदेता नव ऋचः परिशिष्टसमन्विताः || १०-६११ || भवन्ति भोगदास्तेन हीना ज्ञानप्रदा मताः | नमो रुद्रेभ्य इत्यादि | मध्याह्ने चायुतं साज्यान् जुहुयात् तु सकण्टकान् || १०-६१२ || प्रत्यङ्गिराया मन्त्रस्य कर्म कुर्यादयं मनुः | मृत्युञ्जयेन मन्त्रेण नमस्तेऽस्य समापनम् || १०-६१३ || तैत्तिरीयेऽन्यशाखायां परिशिष्टानि सप्त च | सद्योजातादयः पञ्च त्र्यम्बकं च यजामहे || १०-६१४ || तथा च त्वरितो रुद्र एतन्नमकमुच्यते | अग्नाविष्णू इत्यादि | नित्यं सन्ध्यावन्दनान्ते तिष्ठन् कालत्रये जपेत् || १०-६१५ || अष्टोत्तरसहस्रं तु षण्मासं सत्यवाग्भवेत् | वाजश्च मे प्रसवश्च मे इत्यादि | एतैः सप्तानुवाकैस्तु एवमानादिपञ्चभिः || १०-६१६ || आज्याहुतिसहस्रं तु हुत्वा तोये प्रविश्य च | शतं जपेदक्षिरोगः कदा चिन्नैव जायते || १०-६१७ || जातस्य च प्रशान्तिः स्यान्नेत्रतेजोऽभिवर्धते | इध्मश्च मे बर्हिश्च म इत्यादि | एतावान्रुद्र आख्यातः सर्वकामफलप्रदः || १०-६१८ || विस्वरोऽनक्षरः पाठः कृतस्तद्दोषशान्तये | इडादेबहूः इत्यादि | परिशिष्टं जपेदेतदेष रुद्रविधिः स्मृतः || १०-६१९ || प्. ९३३) अभिषिञ्चेत् पौष्टिकार्थं शान्तिकामस्तु होमयेत् | सिद्धिकामो जपेदेवमक्षराणां तु सङ्ख्यया || १०-६२० || इहैव वज्रदेहोऽसौ शिव एव न चापरः | पद तुल्यावृत्तिजपाद्वाक्सिद्धिरुपजायते || १०-६२१ || वाक्यतुल्यावृत्तिजपात् पापं सर्वं विनश्यति | ऋचां सङ्ख्याजपात् सर्वं क्षुद्रपापं विनश्यति || १०-६२२ || अनुवाकसमं जप्त्वा दुष्टग्रहरुजं जयेत् | इति रुद्राध्यायपुरश्चरणप्रयोगः | अथ गणेशसूक्तपुरश्चरणम् | तत्रैव | अथ विष्णो प्रवक्ष्यामि सूक्तं गणपतेः परम् || १०-६२३ || यत् साधनं विना सर्वमन्त्रा विघ्नैस्तु विघ्निताः | तस्मादादौ गणेशानं प्रसाद्य पुनराचरेत् || १०-६२४ || निद्राऽलस्यं क्षुधा क्रोधो लोभो मोहो मनोभवः | गणनाथानर्चकानामेते विघ्नकराः स्मृताः || १०-६२५ || विधानपूर्वकं तस्मात् तत्सूक्तमुपदिश्यते | तज्जापकानां कार्याणि स्युरप्रतिहतानि च || १०-६२६ || द्वादशार्चस्य सूक्तस्य गणेशस्य महात्मनः | ऋषिर्गृत्समदाख्यो हि गणकः परिकीर्तितः || १०-६२७ || आद्यानां त्रि - ऋचानां तु छन्दस्त्रिष्टुप् प्रकीर्तितम् | उत्तराणां नवानां च गायत्रं छन्द उच्यते || १०-६२८ || महागणपतिश्चास्य दैवतं परिकीर्तितम् | विनियोगः कीर्त्तनीयो यथाकार्यानुसारतः || १०-६२९ || गणानां त्वा गणपति(चित्र) इत्यादि | प्. ९३४) गणानां त्वा निषुसीद त्वेषं गणं तथैव च | अनून इन्द्र विद्महि न हित्वा शूलमेव च || १०-६३० || अङ्गुष्ठाग्रात् समारभ्य करपृष्ठादिषु न्यसेत् | गणानां त्वेति षड्भिश्च हृदयादिषडङ्गकम् || १०-६३१ || एवं न्यासद्वयं कृत्वा षड्डग्भिर्व्यापकं चरेत् | न्यासान्तराणि पूजाविधानं चोक्त्वा पुरश्चरणमाह | एकविंत्सहस्रं तु सूक्तस्यैषा पुरस्क्रिया || १०-६३२ || जपाद्दशांशहोमस्तु पायसेन घृतेन तु | शर्करापञ्चखाद्यैश्च कुसुमैः करबीजैः || १०-६३३ || विल्वपत्रैरिक्षुदण्डैर्दाडिमीकदलीफलैः | मोदकैर्लड्डुकैश्चैव घृतपक्वैर्मनोहरैः || १०-६३४ || अलाभे सर्वद्रव्याणां जुहुयात् तिलसर्पिषा | होमस्य दशमांशेन गोपयोभिश्च तर्पयेत् || १०-६३५ || अथ वेक्षुरसेनैव तदभावे गुडोदकम् | तर्पणस्य दशांशेन मार्जयेच्छुद्धवारिभिः || १०-६३६ || मार्जनस्य दशांशेन ब्राह्मणान् भोजयेद्बहून् | पायसैः पञ्चखाद्यैश्च मोदकैः सिद्धलड्डुकैः || १०-६३७ || अपूपमण्डकाद्यैश्च सघृतैः शर्करान्वितैः | सहकाररसैः सार्धं तथा च कदलीफलैः || १०-६३८ || एवं सिद्धे तु सूक्ते तु यत् फलं तन्निगद्यते | महदैश्वर्यमतुलं प्रज्ञां विद्यां यशो बलम् || १०-६३९ || वाक्सिद्धिं समवाप्नोति चान्ते ब्रह्मपदं व्रजेत् | इति गणेशसूक्तपुरश्चरणविधिः | प्. ९३५) अथ पुरुषसूक्तविधिः | (मेरुतन्त्रे) वक्ष्ये पुरुषसूक्तस्य विधिं तत्रैव गोपितम् || १०-६४० || आनुष्टुबस्य सूक्तस्य त्रिष्टुबं तस्य दैवतम् | पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः || १०-६४१ || स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः | प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे || १०-६४२ || तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् | वामजानौ पञ्चमीं च षष्ठीं जानुनि दक्षिणे || १०-६४३ || सप्तमीं वामकद्यां तु अष्टमीं दक्षिणे कटौ | नवमीं नाभिदेशे तु दशमीं हृदये न्यसेत् || १०-६४४ || एकादशीं कण्ठदेशे द्वादशीं वामबाहुके | त्रयोदशीं दक्षभुजे मुखदेशे चतुर्दशीम् || १०-६४५ || अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् | एवं न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् || १०-६४६ || अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च | षट्स्वेतेषु हरेः सम्यगर्चने योग्यतोच्यते || १०-६४७ || आपो ह्यायतनं तस्य तस्मात् तासु सदा हरिः | अग्नौ क्रियावतां विर्ष्णुयोगिनां हृदये हरिः || १०-६४८ || पण्डितानां हरिः सूर्यः स्थण्डिले भावितात्मनाम् | प्रतिमास्वल्पबुद्धीनां षट्प्रकाराश्च ताः स्मृताः || १०-६४९ || अकृत्रिमाः कृत्रिमाश्च अचलाश्च चलाचलाः | निर्जीवाश्च सजीवाश्च तासां वक्ष्यामि लक्षणम् || १०-६५० || अकृत्रिमा च द्विविधा शालग्रामोऽतिपावनः | प्. ९३६) तदभावे द्वारकायाश्चक्रं तद्वच्च पावनम् || १०-६५१ || कृत्रिमा दशध प्रोक्ता श्रेष्ठास्ताः पूर्वपूर्वतः | स्याद्रत्नखचिता त्वाद्या स्वर्णजा रूप्यजाऽपि च || १०-६५२ || ताम्रजा पीत्तलोजाता स्फाटिका रक्तशीतजा | कोष्ठजा मृत्तिकाजाता चित्ररूपेति च क्रमात् || १०-६५३ || अचलाः क्षेत्ररूपास्तु हरिद्वारं यथा गया | देवताभिः कृत्वा यास्तु मूर्त्तयस्ताश्चलाचलाः || १०-६५४ || जगन्नाथो वेङ्घटेशः पाण्डुरङ्गादयस्तु ते | सजीवा ब्राह्मणा गावो निर्जीवः पिप्पलः स्मृतः || १०-६५५ || मन्त्रन्यासं पुरा कुर्यात् स्वदेहे देवतासु च | गायत्र्योङ्कारन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् || १०-६५६ || आद्ययाऽवाहयेद्देवमृचा तु पुरुषोत्तमम् | द्वितीययाऽसनं दाद्यात् पाद्यं दद्यात् तृतीयया || १०-६५७ || अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याऽचमनीयकम् | षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च || १०-६५८ || यज्ञोपवीतमष्टम्या नवम्या चानुलेपनम् | पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् || १०-६५९ || द्वादश्या दीपिकं दद्यात् त्रयोदश्या निवेदनम् | चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् || १०-६६० || स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् | दक्षिणां च यथाशक्त्या षोडश्या तु प्रदापयेत् || १०-६६१ || ततः प्रदक्षिणं कृत्वा जपं कुर्वन् समाहितः | यथाशक्तिं जपित्वा तु सूक्तं तस्मै निवेदयेत् || १०-६६२ || प्. ९३७) देवस्य दक्षिणे पार्श्वे कुण्डं स्थण्डिलमेव च | कारयेत् प्रथमेनैव द्वितीयेन तु प्रोक्षणम् || १०-६६३ || तृतीयेनाग्निमादद्याच्चतुर्थेन समिन्धनम् | पञ्चमेनाज्यश्रयणं चरोश्च श्रयणं तथा || १०-६६४ || षष्ठेनैवाग्निमध्ये तु कल्पयेत् पद्ममासनम् | चिन्तयेद्देवदेवेशं कालानलसमप्रभम् || १०-६६५ || ततो गन्धं च पुष्पं च धूपदीपनिवेदनम् | अनुज्ञाप्य ततः कुर्यात् सप्तम्यादि यथाक्रमम् || १०-६६६ || समिधस्तावतीः पूर्वं जुहुयादभिघारिताः | ततो घृतेन जुहुयाच्चरुणा च ततः पुनः || १०-६६७ || एवं हुत्वा ततश्चैनमनुज्ञाप्य यथाक्रमम् | अग्नेर्भगवतस्तस्य समीपे स्तोत्रमुच्चरेत् || १०-६६८ || नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन | नमोऽस्तु ते हृषीकेश महापुरुषपूर्वज || १०-६६९ || देवानां दानवानां च सामन्यमधिदैवतम् | सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव || १०-६७० || एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा | अव्यक्तश्चानुमन्ता च गुणमायासमावृतः || १०-६७१ || संसारसागरं घोरमनन्तक्लेशभाजनम् | त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः || १०-६७२ || न ते रूपं न चाकारो नायुधानि च नास्पदम् | तथाऽपि पुरुषाकारो भक्तानां च प्रकाशने || १०-६७३ || नैव किञ्चित् परोक्षं ते न प्रत्यक्षोऽसि कस्यचित् | प्. ९३८) न च किञ्चिदसाध्यं ते न च साध्योऽसि कस्य चित् || १०-६७४ || कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् | योगिनां परमा सिद्धिः परमं ते पदं विदुः || १०-६७५ || अहं भूतोऽस्मि देवेश संसारेऽस्मिन् महाभये | त्राहि मां पुण्डरीकाक्ष न जाने परमं पदम् || १०-६७६ || कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत | शरीरे च गतश्चासि वर्त्तते मे महद्भयम् ||| १०-६७७ || त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि | विज्ञानं यदिदं प्राप्य यदिदं स्थानमर्जितम् || १०-६७८ || जन्मान्तरेऽपि मे देव माभूदस्य परीक्षयः | दुर्गतावपि जातस्य त्वं गतो मे मनोरथः || १०-६७९ || यदि नाशं न विन्देत तावताऽस्मि कृती सदा | कामये विष्णुपादौ तु सर्वजन्मसु केवलम् || १०-६८० || पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यशस्करम् | आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || १०-६८१ || एवं स्तुत्वा हव्यवाहं ततः पश्चाद्विसर्जयेत् | अनेनैव न निष्पापो जायते मनुजो यदा || १०-६८२ || प्राग्वद्धुत्वा पावयेत प्रयोगानारभेत् ततः | शुक्लपक्षे शुभे वारे सुनक्षत्रे सुगोचरे || १०-६८३ || दम्पत्योरुपवासः स्यादेकादश्यां सुरालये | द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् || १०-६८४ || ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् | चरुं पुरुषसूक्तेन प्राशयेत् पुत्रकाम्यया || १०-६८५ || प्. ९३९) प्राप्नुयाद्वैष्णवं पुत्रमचिरात् सन्ततिक्षमम् | द्वादशीं द्वादशीं सम्यक् पयसा निर्वपेच्चरुम् || १०-६८६ || यो जुहोति सहस्रं स याति विष्णोः परं पदम् | मार्गशीर्षादिमासेषु क्रमात् पूज्यश्चतु?केशवः || १०-६८७ || नारायणो माधवश्च गोविन्दो विष्णुरेव च | मधुसूदन उक्तस्त्रिविक्रमो दामनस्तथा || १०-६८८ || श्रीधरश्च हृषीकेशः पद्मनाभो जनार्दनः | पूजयित्वा जपेत् सूक्तं शतमष्टाधिकं ततः || १०-६८९ || होमं च पूर्वत् कुर्यात् सर्वान् कामानवाप्नुयात् | अपुत्रा मृतपुत्रा या या च कन्याप्रसूर्भवेत् || १०-६९० || तस्या यथा सुपत्रः स्यात् तमुपायं ब्रवीम्यहम् | समिधोऽश्वत्थवृक्षस्य प्रत्यर्चं जुहुयाच्छतम् || १०-६९१ || अष्टाधिकं च सघृतमुपतिष्ठेद्धुताशनम् | पुनर्विष्णुं पूजयित्वा घृतहोमं समाचरेत् || १०-६९२ || अष्टोत्तरशतं कुर्यात् प्रत्यर्चं वाग्यतः शुचिः | संपाताज्यं स्थापयित्वा तन्नार्यै प्राशनाय च || १०-६९३ || दद्यात् सा च पतिं विष्णुं नमस्कृत्य प्रभक्षयेत् | तर्पयेच्च द्विजान् सम्यग्लघ्वाशी संविशेत् क्षपाम् || १०-६९४ || परं सप्तप्रवर्तेनावश्यं गर्भवती भवेत् | अथ पुरश्चरणम् | अरण्ये निवसेन्नित्यं त्रिकालं स्नानमाचरेत् || १०-६९५ || जपेदष्टोत्तरशतं सूक्तमेतत् त्रिकालकम् | मासमेकं फलाहारो मासमद्भिश्च तर्पयेत् || १०-६९६ || प्. ९४०) आदित्यमुपतिष्ठेत मूलेनानेन नित्यशः | आज्यं हुत्वा दशशतं त्रिर्भिर्वर्षैर्जपेद्दिने || १०-६९७ || तद्भक्तस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् | साक्षात् पश्यति देवं तं नारायणमनामयम् || १०-६९८ || इति पुरुषसूक्तपुरश्चरणम् | अथ श्रीसूक्तविधिः | तत्रैव | अथ सर्वोत्तमं वक्ष्ये श्रीसूक्तं सविधानकम् | कलौ दारिद्र्यनाशाय नान्यत् किञ्चिन्नृणां तथा || १०-६९९ || हिरण्यवर्णाम् इत्यादि | हिरण्यवर्णामित्यस्य ऋचो लक्ष्मीमुनिर्मतः | चतुर्दशानां शेषाणामानन्दः कर्दमस्तथा || १०-७०० || चिक्लीतलक्ष्मीतनयाश्चत्वारो मुनयो मताः | हृदयादितिसृणां च छन्दोऽनुष्टुबुदाहृतम् || १०-७०१ || कांसोऽस्मितर्चो बृहती चन्द्रावादित्यवर्णयोः | त्रिष्टुप्छन्द उपैतु मां देवाद्यष्ट - ऋचामपि || १०-७०२ || छन्दोऽनुष्टुप् समाख्यातं ताम्म आहव इत्यृचः | प्रस्तारः पङ्क्तिरुद्दिष्टो देवते श्रीविभावसू || १०-७०३ || व्यञ्जनानि तु बीजानि स्वराः शक्तय ईरिताः | विन्दवः कीलकं प्रोक्तमङ्गुष्ठादिषडङ्कम् || १०-७०४ || हिरण्या च तथा तन्द्रा तृतीया रजतप्रभा | हिरण्यस्रक् हिरण्याक्षा तथा हिरण्यवर्णिका || १०-७०५ || एताभिर्ङेनमोऽन्ताभिः प्रकुर्यादङ्गकल्पनम् | प्. ९४१) अथ ध्यानम् | अरुणनलिनसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च || १०-७०६ || मणिमुकुटविचित्रालङ्कृताकल्पजालै र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः | अथ पुरश्चरणम् | परिषिञ्चेत् त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि || १०-७०७ || आदित्याभिमुखो जप्याद्यावत् तावच्च तर्पयेत् | शुक्लाद्यां तिथिमारभ्य यावदेकादशी भवेत् || १०-७०८ || तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः | ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः || १०-७०९ || पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोऽन्धसा | श्रीसमिद्भिः सर्पिषा च प्रत्येकं त्रिशतं हुनेत् || १०-७१० || द्वादश्यां द्वादशैवाऽथ सद्विप्रा/श्चापि भोजयेत् | तेन सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा || १०-७११ || कुन्दमन्दारकुमुदमालतीपद्मकेतकम् | नन्द्यावर्त्ताह्वयं जाती कल्हारं चम्पकं तथा || १०-७१२ || रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि | त्रिवारमन्वहं मन्त्री जुहुयाच्च यथाविधि || १०-७१३ || षण्मासं यः करोत्येवं स स्याल्लक्ष्मीपतिः स्वयम् | इति श्रीसूक्तपुरश्चरणम् | अथ नवग्रहाणां वैदिकमन्त्राः | तत्रैव | तत्र भास्करमन्त्रस्य हिरण्यस्तूयको मुनिः || १०-७१४ || प्. ९४२) त्रिष्टुप् छन्दो देवता च सविता परिकीर्तितः | आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् | अङ्गुष्ठादिषडङ्गानि षड्दीर्घान्वितयोच्चरेत् || १०-७१५ || भुवनेश्याऽथ मन्त्रस्य पदन्यासं समाचरेत् | श्रीसूक्तोक्त - ऋचास्थाने ततो ध्यायेद्दिवाकरम् || १०-७१६ || ध्यानं यथा | पद्मासनं पद्मकरं पद्मगर्भसमुद्युतिम् | किरीटिनं सकेयूरं मण्डितं रक्तच्छत्रिणम् || १०-७१७ || रथारूढं तस्य सव्ये त्वधिदेवाग्न्यधिष्ठितम् | प्रत्यधिदेवेश्वरेण सव्ये युक्तं च प्राङ्मुखम् || १०-७१८ || अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः | होमतुल्यो जपः कार्यस्त्वधिप्रत्यधिदैवतः || १०-७१९ || करवीरादिकुसुमै रक्तचन्दनमिश्रितैः | दूर्वाङ्कुरैरक्षतैश्च तर्पणं स्याद्दिनेशितुः || १०-७२० || अथ चन्द्रमन्त्रः | अथ वक्ष्ये चन्द्रमन्त्रं गौतमोऽस्य मुनिर्मतः | गायत्रीछन्द इत्युक्तं सोमो देवः प्रकीर्तितः || १०-७२१ || अथायस्व समेतु विश्वतः सोमवृष्णियं भवावाजस्य सङ्गथे | षड्दीर्घं विन्दुयुक्तेन सकारेण षडङ्गकम् | ७२२ || अथ ध्याअम् | किरीटिनं श्वेतवस्त्रं दशाश्वं श्वेतभूषणम् | पाशपाणिं द्विबाहुं तमत्रिगोत्रसमुद्भवम् || १०-७२३ || प्. ९४३) जातं यवनदेशे च श्वेतगन्धानुलेपनम् | अनुष्टुप् छन्दसं चात्रेयर्षं श्वेतातपत्रकम् || १०-७२४ || श्वेतध्वजपताकाढ्यं केयूरमणिशोभितम् | स्थिरीकृतं रथारूढमधिदैवततोययुक् || १०-७२५ || उमाप्रत्यधिदेवेन वायव्याभिमुखस्थितम् | अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं सर्वश्वेतेष्वयं विधिः || १०-७२६ || अथ भौममन्त्रः | भौममन्त्रं प्रवक्ष्यामि विरूपोऽस्य मुनिर्मतः | अङ्गारको देवताऽत्र गायत्री छन्द ईरितम् || १०-७२७ || अग्निर्मूर्धादिवः कुकुत्पतिः पृथिव्या अयं | अपा(चित्र)रेता(चित्र)सिजिन्वति || १०-७२८ || अ/ बीजेन षडङ्गानि चाङ्गुलीन्यास एव च | रुद्रस्थानेषु कर्तव्यः पदन्यासो द्वितीयकः || १०-७२९ || अथ ध्यानम् | रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् | रक्तपुष्पैः पूज्यमानं चतुर्बाहुं किरीटिनम् || १०-७३० || वराभयगदाशूलहस्तं मेषोपरिस्थितम् | वशिष्ठगोत्रसम्भूतं यमदग्न्यार्षकं कुजम् || १०-७३१ || जगतीछन्दसं रक्तं रक्तध्वजपताकिनम् | अवन्तोदेशसम्भूतं ध्यात्वा देवं प्रपूजयेत् || १०-७३२ || रक्तचन्दनसंमिश्रतण्डुलैस्त्र्यस्रके कृते | अङ्गुले क्ष्माधिदेवेन युक्ते षाण्मातुरेण च || १०-७३३ || युते प्रत्यधिदेवेन तत्रावाह्य प्रपूजयेत् | प्. ९४४) अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं मधुरत्रयसंयुताः || १०-७३४ || स्वादिर्यः समिधो होमे तर्पणाद्यं च सूर्यवत् | अथ बुधमन्त्रः | बुधमन्त्रं प्रवक्ष्यामि बौद्धस्तस्य मुनिर्मतः || १०-७३५ || त्रिष्टुप्छन्दो देवताऽस्य बुधो बुद्धिप्रदो मतः | उद्बुव्यस्वाग्ने प्रतिजागृह्येन मिष्ट्यापूर्त्ते स सृजेचामयं च || १०-७३६ || पुनःकृण्व(चित्र)स्त्वा पितरं युवानमन्वा ता(चित्र)सीत्वयितन्तुमेतम् | बु/बीजेन षडङ्गानि ध्यानमस्य निरूप्यते || १०-७३७ || पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् | पीतपुष्पैः पुज्यमानं खड्गचर्मगदावरान् || १०-७३८ || हस्तैर्दधन्तं सिंहस्थं चात्रिगोत्रसमुद्भवम् | भारद्वाजार्षकं जातं मगधे च किरीटिनम् || १०-७३९ || बृहतीछन्दसं पीतच्छत्रध्वजपताकिनम् | केयूरमणिशोभाढ्यमधिदेवेन विष्णुना || १०-७४० || तेन प्रत्यधिदेवेन युक्तं ज्ञं चिन्तयाम्यहम् | अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं हुनेत् तस्य दशांशतः || १०-७४१ || अपामार्गसमिद्भिश्च तर्पणादि ततश्चरेत् | अथ बृहस्पतिमन्त्रः | मन्त्रं बृहस्पतेर्वक्ष्ये मुनिर्बृत्समदो मतः || १०-७४२ || त्रिष्टुप्छन्दो देवपतिवन्दितस्तस्य देवता | बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवस ऋतप्रजाततदस्मासु द्रविणं धेहि चित्रम् | प्. ९४५) बृ/ बीजेन षडङ्गानि न्यासमन्त्रं समाचरेत् || १०-७४३ || ध्यानमस्य प्रवक्ष्यामि वरदण्डाक्षसूत्रकम् | कमण्डलुं दधद्धस्तैः पीतवर्णं किरीटिनम् || १०-७४४ || वशिष्ठार्षं सिन्धुदेशभवं पीताम्बरावृतम् | अनुष्टुप्छन्दसं चाङ्गिरसगोत्रं किरीटिनम् || १०-७४५ || पीतध्वजपताकाढ्यं पीतच्छत्रानुलेपनम् | केयूराङ्गदशोभट्यमधिदेवेन्द्रसंयुतम् || १०-७४६ || ब्रह्मप्रत्यधिदेवेन युतं संचिन्त्य चाह्वयेत् | पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं होमस्त्रिमधुरान्वितैः || १०-७४७ || पिप्पलस्य समिद्भिः स्यात् तर्पणं पीतपञ्चभिः | अथ शुक्रमन्त्रः | शुक्रमन्त्रं प्रवक्ष्यामि भारद्वाजो मुनिर्मतः || १०-७४८ || त्रिष्टुप्छन्दो निगदितं दैत्याचार्यस्तु देवता | शुक्रं ते अन्यद्यजतं ते अन्यद्युपुरूषे अहनी द्यौरिवासि || १०-७४९ || विश्वाहि माया अवसि स्वधावो भद्रा ते पूषन्निहरातिरस्तु | शु/ बीजेन षडङ्गानि कृत्वा ध्यानं समाचरेत् || १०-७५० || ध्यानमाह | शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् | शुक्लपुष्पैः पूज्यमानं शौनकाऋषं किरीटिनम् || १०-७५१ || चतुर्भुजं दण्डधरं च साक्षसूत्रकमण्डलुम् | पङ्क्तिश्छन्दश्च वरदं तथा कीकरदेशजम् || १०-७५२ || श्वेतच्छत्रध्वजपताकिनं भार्गवगोत्रजम् | सकेयूरं रथारूढं श्वेताभरणभूषितम् || १०-७५३ || प्. ९४६) अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं हुनेत् त्रिमधुरान्वितैः | उदुम्बरसमिद्भिश्च तर्पणादि तु चन्द्रवत् || १०-७५४ || अथ शनिमन्त्रः | शनिमन्त्रं प्रवक्ष्यामि सिन्धुद्वीपो मुनिर्मतः | गायत्रीछन्द इत्युक्तं देवता तु शनैश्चरः || १०-७५५ || शन्नो देवीरभीष्टये आपो भवन्तु पोतये शन्नोरभिस्रवन्तु नः | श/ बीजेन षडङ्गानि कुर्याद्ध्यानं ततश्चरेत् | बाणाशनं शूलधरमिन्द्रनीलसमद्युतिम् || १०-७५६ || सौराष्ट्रदेशजं प्रोक्तं वरदं गृध्रवाहनम् | भृग्वर्षं काश्यपे गोत्रे जातं चापि किरीटिनम् || १०-७५७ || कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् | गायत्रीछन्दसं कृष्णवर्णाभरणभूषितम् || १०-७५८ || केयूरिणं मुकुटिनं कृष्णध्वजपताकिनम् | प्रजापत्यधिदेवेन सहितं रथमास्थितम् || १०-७५९ || पद्मप्रत्यधिदेवेन युक्तं ध्यात्वा समर्चयेत् | अथ पुरश्चरणम् | सकस्तूर्यथ तैश्चायःकालद्व्यङ्गुलमण्डले || १०-७६० || होमः समीसमिद्भिः स्यादायसार्घेन तर्पणम् | कृष्णपुष्पैश्चन्दनं तु कालीयं चागुरुर्भवेत् || १०-७६१ || अथ राहुमन्त्रः | राहोर्मन्त्रं प्रवक्ष्यामि वामदेवो मुनिर्मतः | गायत्री छन्द इत्युक्तं सैंहिकेयश्च देवता || १०-७६२ || कयानश्चित्र आभुवदुती सदा वृधः सखाकया सचिष्ठया वृता | प्.९४७) रा/ बीजेन षडङ्गानि ध्यानमस्य निरूप्यते | करालवदनं खड्गचर्मशूलधरं वहन् || १०-७६३ || कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् | कृष्णपुष्पैः पूज्यमानं केयूरमुकुटान्वितम् || १०-७६४ || पूर्वदेशे समुत्पन्नं क्रूरमाङ्गिरसार्षकम् | पाटलागोत्रसम्भूतमौष्टुप्छन्दसं ग्रहम् || १०-७६५ || कृष्णच्छत्रं रथारूढं कृष्णध्वजपताकिनम् | सर्पाधिदैवतं पैत्रकालप्रत्यधिदैवतम् || १०-७६६ || अथ पुरश्चरणम् | इत्थं संचिन्त्य नैरृत्ये सूर्पाकारे तु मण्डले | द्वादशाङ्गुलविस्तीर्णे चाह्वयेच्छ्यामलाक्षतैः || १०-७६७ || दूर्वाभिर्मधुराक्ताभिस्तस्य होमो विधीयते | तर्पणीयादिभिर्द्रव्यैः कौलिका/स्तर्पयेद्द्विजान् || १०-७६८ || अथ केतुमन्त्रः | तत्रैव | केतुमन्त्रं प्रवक्ष्यामि मधुच्छन्दो मुनिर्मतः | देवताः केतवः प्रोक्ता गायत्रं छन्द ईरितम् || १०-७६९ || केतु कृण्वन्नकेतवे पेशोमर्या अपेशसे समुषद्भिरजायथाः | क/ बीजेन षडङ्गानि ध्यानमस्य निरूप्यते | धूम्राक्षिबाहवः पाशधराश्च विकृताननाः || १०-७८० || किरोटिनो गृध्रवाहा मध्यदेशोद्भवा दृढाः | चित्राम्बराश्चित्रवर्णाश्चित्रगन्धानुलेपनाः || १०-७८१ || नानाछन्दस्कका गौतमार्षा जैमिनिगोत्रजाः | कृष्णपिङ्गध्वजपताकिनो मुकुटिनस्तथा || १०-७८२ || प्. ९४८) केयूरिणो रथारूढाः शूरा ब्रह्मादिदेवताः | चित्रगुप्तप्रत्यधिदेवताश्चात्र विचिन्तयेत् || १०-७८३ || अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं कुशा होमे प्रकीर्तिताः | मधुरत्रयसंयुक्ताश्चित्रद्रव्यैः प्रतर्पयेत् || १०-७८४ || इति नवग्रहाणां वैदिकमन्त्राः | अथाग्निदुर्गामन्त्रः | तत्रैव | सर्वार्थसाधकं वक्ष्ये संग्रामविजयप्रदम् | जलन्धरवधायाहं यत् स्मरामि शृणुष्व तत् || १०-७८५ || जातवेदसे सूनवामसोमम रातीयतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः | त्रिष्टुप् छन्दो मुनिश्चास्य मरीचिः काश्यपो मतः | देवता जातवेदोऽग्निः षडङ्गानि समाचरेत् || १०-७८६ || नवागषट्सप्तनागसप्तभिर्मन्त्रवर्णकैः | अथ ध्यानम् | विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटकलसद्धस्ताभिरासेविताम् || १०-७८७ || हस्तैश्चक्रदरासिखेटविशिखान् पाशाङ्कुशौ तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् | अथ पुरश्चरणम् | मन्त्रवर्णसहस्राणि जपेद्धोमं पृथक् पृथक् || १०-७८८ || वेदवेदाब्धिसङ्ख्याकं तिलसिद्धार्थचित्रजैः | मूलैश्च समिधाभिश्च वटोदुम्बरपिप्पलैः || १०-७८९ || अर्कप्लक्षोद्भवैश्चापि घृतेन हविषाऽन्नकैः | प्. ९४९) सर्वैर्घृताक्तैर्जुहुयात् तिलैश्चान्ते घृताहुतिः || १०-७९० || ततः संतर्प्य सतिलैः कृत्वा चात्माभिषेचनम् | समाराध्य वरान् देवा/स्तीषयेद्गुरुमात्मनः || १०-७९१ || इत्यग्निदुर्गामन्त्रपुरश्चरणम् | वैदिकमन्त्रपुरश्चरणोपयुक्तवैदिकहोमविधिस्तु विस्तरभयान्नेह लिख्यते | अथ होमद्रव्यप्रमाणानि | (शारदायाम्) अथात्र होमद्रव्याणां प्रमाणमभिधीयते | कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् || १०-७९२ || उक्तानि पञ्च द्रव्याणि तत्समानि मनीषिभिः | तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् || १०-७९३ || दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः | पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथा मताः || १०-७९४ || गुडं पलार्धमानं स्यच्छर्कराऽपि तथा मता | ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिर्मतः || १०-७९५ || एकैकं पत्रपुष्पाणि तथाऽपूपानि कल्पयेत् | कदलीफलनारङ्गफलान्येकैकशो विदुः || १०-७९६ || मातुलुङ्गं चतुःखण्डं पनसं दशधा कृतम् | अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः || १०-७९७ || त्रिधा कृत्तं फलं वैल्वं कपित्थं खण्डितं त्रिधा | फलान्यन्यान्यखण्डानि समिधः स्युर्दशाङ्गुलाः || १०-७९८ || दूर्वात्रयं समुद्दिष्टं गुडुची चतुरङ्गुला | व्रीहयो मुष्टिमानाः स्युर्मुद्गमाषयवा अपि || १०-७९९ || ताण्डुलाः स्युश्चतुर्थांशाः कोद्रवा मुष्टिसम्मिताः | प्. ९५०) गोधूमरक्तकलमा विहिता मुष्टिमानतः || १०-८०० || तिलाश्चुलुकमानाः स्युः सर्षपास्तत्प्रमाणतः | शुक्तिप्रमाणं लवणं मरीचान्यपि विंशतिः || १०-८०१ || पुरं वदरमानं स्याद्रामठं तत्समं स्मृतम् | चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च || १०-८०२ || तिन्तिडी बीजमानानि समुद्दिष्टानि देशिकैः | कर्षादिलक्षणान्युक्तानि (स्कान्दे) गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्टयम् | द्वौ शाणौ वटकः कोलो वदरं क्षुद्रवस्तथा || १०-८०३ || तौ द्वौ पाणितलं कर्षः सुवर्णः केवलं ग्रहः | पिचुर्विडालपदकं तिन्दोऽक्षश्च तद्द्वयम् || १०-८०४ || शुक्तिरष्टमिका ते द्वे पलं निष्कचतुर्थिका | मुष्टिमात्रं प्रकुञ्चोऽथ द्वे पले प्रसृतिस्तथा इति || १०-८०५ || अगस्ये?न तु | गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्तितः | भवेत् षोदशभिर्माषैः सुवर्ण कर्ष एव च || १०-८०६ || पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्तितम् इत्युक्तम् | एतन्मतेऽशीतिगुञ्जाभिरेकः कर्षः स एव सुवर्णोऽपि | पृथुकाश्चिपीटकाः | गुडुची लताविशेषः | पुरं गुग्गुलुः | रामठं हिङ्गु | सोमः शम्भुः | अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते || १०-८०७ || अनुक्ते चाञ्जतद्रव्ये घृतमेवाञ्जनं विदुः | सङ्ख्यानुक्तौ सहस्रं स्याद्रव्यानुक्तौ घृतं तथा || १०-८०८ || समिधानुक्तविषये पालाश्यः परिकीर्तिताः | तथा | लाजादिहोमो हस्तेन साङ्गुलेन विधीयते || १०-८०९ || प्. ९५१) समित्पुष्पफलादीनां होमः स्यान्मृगमुद्रया | द्रवद्रव्यैः श्रुवः प्रोक्तो मन्त्रतन्त्रविशारदैः || १०-८१० || इति होमद्रव्यप्रमाणानि | बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत स्रोतःशालिनि संनिबन्धनसरित्संभेदमभ्यर्हितम् | सन्मुक्तोपमयुक्तिभाजि दशमो रम्यस्तरङ्गोऽगमत् सर्वोर्वीपतिनेतृनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे || १०-८११ || इति श्रीमन्महाराजधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे सरस्वत्यादि मन्त्रपुरश्चरणपूर्वकगायत्र्यादिवैदिकमन्त्रपुरश्चरणनिरू-पणं नाम दशमस्तरङ्गः || १० || अथ दूर्गामन्त्रभेदास्तत्पुरश्चरणविशेषाश्च निरूप्यन्ते | तथा च (शारदातिलके) ततो दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् | माया त्रिः कर्णबीजाढ्यो भूयोऽसौ सर्गवान् भवेत् || ११-१ || पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः | तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः || ११-२ || ऋषिश्च नारदश्छन्दो गायत्रं देवता मनोः | दुर्गा समीरिता सद्भिर्दुरितापन्निवारिणी || ११-३ || नमस्कारवियुक्तेन मूलमन्त्रेण साधकः | द्रामाद्यैः सह कुर्वीत षडङ्गानि यथाविधि || ११-४ || अथ ध्यानम् | सिंहस्था शशिशेखरामरकतप्रख्यैश्चतुर्भिर्भुजैः शङ्खं चक्रधनुःशरा/श्च दधती नेत्रैस्त्रिभिः शोभिता | आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गादुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला || ११-५ || अथ पुरश्चरणम् | वसुलक्षं जपेन्मन्त्रं तिलैर्मधुरलोलितैः | पयोऽन्धसा वा जुहुयात् तत्सहस्रं जितेन्द्रियः || ११-६ || इति दुर्गामन्त्रः | अथ महिषमर्दिनीमन्त्रः | तत्रैव | भान्तं वियत्सनयनं श्वेतो मर्दिनि ठद्वयम् | प्. ९५३) अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी || ११-७ || अयं मन्त्रो मायाप्रणवाद्यन्यतमबीजाढ्यो नवाक्षरो भवति | तदुक्तं (कुलचूडामणिविश्वसारादौ) त्रैलोक्यबीजभूतान्ते सम्बोधनपदं ततः | सृष्टिसंहारकौ वर्णौ विद्यामहिषमर्दिनी || ११-८ || प्रणवाद्यां जपेद्विद्यां मायाढ्यां वा जपेत् सुधीः | बधूबीजादिकां वाऽपि कवचाढ्यां जपेत् तथा || ११-९ || (शारदायाम्) महिषहिंसिके हु/ फट् हृदयं परिकीर्तितम् | महिषशत्रो सार्षि हु/ फट् शिरोऽङ्गं समुदाहृतम् || ११-१० || महिषं द्वेषय द्वन्द्वं हु/ फडन्तः शिखामनुः | महिषं हनयुग्मान्ते देवि हु/ फट् तनुच्छदम् || ११-११ || महिषान्ते सूदिनि हुं फडन्तं शस्त्रमीरितम् | मन्त्रैरेतैर्जातियुक्तैः पञ्चाङ्गानि प्रकल्पयेत् || ११-१२ || अथ ध्यानम् | गारुडोपलसन्निभां मणिमौलिकुण्डलमण्डितां नौमि भालविलोचनां महिषोत्तमाङ्गनिषेदुषीम् | चक्रशङ्खकृपाणखेटकबाणकार्मुकशूलका/ - स्तर्जनीमपि बिभ्रतीं निजबाहुभिः शशिशेखराम् || ११-१३ || पुरश्चरणम् | अष्टलक्षं जपेन्मन्त्रं तत्सहस्रैस्तिलैः शुभैः | जुहुयादिति शेषः | इति महिषमर्दिनीमन्त्रः | अथ शूलिनीमन्त्रः | तत्रैव | ज्वलज्वलपदस्यान्ते शूलिनीति पदं वदेत् || ११-१४ || प्. ९५४) दुष्टग्रहं हुमस्त्रान्ते वह्निजायावधिर्मनुः | पञ्चभिर्दशभिः प्रोक्तो ग्रहशत्रुविनाशनः || ११-१५ || ऋषिर्दीर्घतया प्रोक्तः ककुच्छन्द उदाहृतम् | शूलिनी देवता प्रोक्ता समस्तसुरवन्दिता || ११-१६ || दुर्गे हृद्वरदे शीऋषं विन्ध्यवासिनि तच्छिखा | असुरान्ते मर्दिनी स्याद्युद्धपूर्वप्रिये पुनः || ११-१७ || त्राशयद्वितयं वर्म देवसिद्धसुपूजिते | नन्दिनी स्याद्रक्षयुगं महायोगेश्वरी क्रमात् || ११-१८ || शूलिन्याद्या हु/ फडन्ताः पञ्चाङ्गमनवः स्मृताः | अथ ध्यानम् | अध्यारूढां मृगेन्द्रं सजलजलधरश्यामलां हस्तपद्मैः शूलं बाणं कृपाणीमरिजलजगदाचापपाशान् वहन्तीम् || ११-१९ || चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकान् बिभ्रतीभिः कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि | अथ पुरश्चरणम् | मनुमेनं जपेन्मन्त्री वर्णलक्षं विचक्षणः || ११-२० || सर्पिषाऽज्येन होमस्तु तद्दशांशमितो भवेत् | इति शूलिनीमन्त्रः | अथ [प्रायः सर्वेषु पुस्तकेषु वनदुर्गेत्यत्र नवदुर्गेत्युपलभ्यते |]वनदुर्गामन्त्रः | उत्तिष्ठपदमाभाष्य पुरुषि स्यात् पदं ततः || ११-२१ || पितामहः सनेत्रे नः स्वपिषि स्याद्भयं च मे | समुपस्थितमुच्चार्य यदि शक्यमनन्तरम् || ११-२२ || अशक्यं वा पुनस्तन्मे वदेद्भगवतिं ततः | प्. ९५५) शमयाग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः || ११-२३ || ऋषिरारण्यकश्च्छन्दोऽप्यत्यनुष्टुबुदाहृतम् | देवता वनदुर्गा स्यात् सर्वदुर्गविमोचनी || ११-२४ || षड्भिश्चतुर्भिरष्टाभिरष्टाभिः षड्भिरिन्द्रियैः | मन्त्रार्णैरङ्गकॢप्तिः स्याज्जातियुक्तैर्यथाक्रमम् || ११-२५ || अथ ध्यानम् | सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनोसन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् | ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् || ११-२६ || अथ पुरश्चरणम् | एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः | जुहुयाद्धविषा मन्त्री शालिभिः सर्पिषा तिलैः || ११-२७ || इति वनदुर्गामन्त्रः | अथ नवदुर्गात्मकचामुण्डामन्त्रः | (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि चामुण्डाया महामनुम् | नवदुर्गात्मकं यस्य सेवनाद्भुक्तिमुक्तयः || ११-२८ || सुरथो यत्प्रसादेन राज्यं प्राप्याभवन्मनुः | संसारबन्धनिर्णाशि ज्ञानमाप्तं समाधिना || ११-२९ || मार्कण्डेयपुराणोक्तं चरितत्रितयं स्तवः | जपाद्यस्य फलं दद्यात् तं मनुं वच्मि साम्प्रतम् || ११-३० || वाग्लज्जाकामबीजानि चामुण्डायै पदं वदेत् | विच्चे नवार्णमन्त्रोऽयं शक्तिमन्त्रोत्तमोत्तमः || ११-३१ || ब्रह्मविष्णुमहेशास्तु मुनुयोऽस्य प्रकीर्तिताः | प्. ९५६) गायत्र्युष्णिगनुष्टुप् च छन्दस्त्रयमुदीरितम् || ११-३२ || देवताऽस्य महाकाली महालक्ष्मीः सरस्वती | नन्दा शाकम्भरी भीमा शक्तित्रयमुदाहृतम् || ११-३३ || तिस्रोऽस्य शक्तयो दुर्गा भ्रामरी रक्तदन्तिका | अग्निवायुभगास्तत्त्वं प्राग्वदृष्यादिकं न्यसेत् || ११-३४ || तथा | ततः षडङ्गं कुर्वीत विभक्तैर्मूलवर्णकैः | एकेनैकेन चैकेन चतुर्भियुग्मकेन च || ११-३५ || नमस्तेनैव मन्त्रेण कुर्यादङ्गानि षट् क्रमात् | अथ ध्यानम् | ततो देवीत्रयं ध्यायेत् कालिकाध्यानमुच्यते || ११-३६ || दशास्यां दशपादां च दशहस्तां विधिस्तुताम् | इद्रनीलद्युतिं खड्गं चक्रं शङ्खं शिरः शरान् || ११-३७ || दक्षहस्तेषु दधतीं गदां शूलं भुशुण्डिकाम् | परिघं च धनुर्वामे दधतीं ब्रह्मसंस्तुताम् || ११-३८ || मधुकैटभनाशार्थं सालङ्कारां त्रिवीक्षणाम् | तन्त्रान्तरेऽपि | खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् || ११-३९ || नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौच्छयिते हरौ कमलजो हन्तुं मधुं कैटभम् | इति चामुण्डामन्त्रः | अथ महालक्ष्मीध्यानम् | (मेरुतन्त्रे) ततो ध्यायेन्महालक्ष्मीं महिषासुरमर्दिनीम् || ११-४० || प्. ९५७) समस्तदेवतातेजोजातां पद्मासनस्थिताम् | अष्टादशभुजामक्षमालां पद्मं च शायकान् || ११-४१ || खड्गं वज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् | शङ्खं च दधतीं वामे शक्तिं च परशुं धनुः || ११-४२ || चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् | अन्यत्रापि | अक्षस्रक्परशू गदेषुकुलिशान् पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् || ११-४३ || शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे शैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् | अथ सरस्वतीध्यानम् | (मेरुतन्त्रे) सरस्वतीं ततो ध्यायेच्छरच्चन्द्रसमप्रभाम् || ११-४४ || शङ्खं च मुशलं चक्रं बाणान् दक्षेषु बिभ्रतीम् | घण्टां शूलं हलं चापं वामहस्तेषु बिभ्रतीम् || ११-४५ || गौरीदेहसमुद्भूतां नृणामानन्ददायिनीम् | आधारभूतां जगतः शुम्भादिकविमर्दिनीम् || ११-४६ || अधिष्ठात्रीं तृतीयस्य चरित्रस्य स्मरेत् सदा | तन्त्रान्तरेऽपि | घण्टाशूलहलानि शङ्खमुशले चक्रं धनुः शायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुशुक्लप्रभाम् || ११-४७ || गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् | अथ पुरश्चरणम् | सितपक्षतिमारभ्य चाष्टम्यन्तमिषस्य यः || ११-४८ || प्. ९५८) जपेल्लक्षं मनुं होमं खाद्यैस्त्रिमधुराप्लुतैः | प्रत्यहं पूजयेद्देवीं चण्डीमाद्यन्तयोः पठेत् || ११-४९ || विप्रान् गुरुन् समाराध्य वाञ्छितं लभते द्रुतम् | अथ जयदुर्गामन्त्रः | (शारदायाम्) तारो दुर्गेयुगं रक्तमन्त्यढान्तौ सलोचनौ || ११-५० || द्विठान्ता जयदुर्गेयं विद्या वेद्या दशाक्षरी | तारादिदुर्गे हृदयं दुर्गे शिर इतीरितम् || ११-५१ || दुर्गायै स्याच्छिखा वर्म भूतरक्षिणि कीर्तितम् | तारादिदुर्गेयुगलं रक्षिण्यस्त्रमुदीरितम् || ११-५२ || अथ ध्यानम् | कालाभ्रामां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् | सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः || ११-५३ || अथ पुरश्चरणम् | [वर्णलक्षमिति क्वचित् पाठः |]बाणलक्षं जपेन्मन्त्रं घृतेन जुहुयात् ततः | दशांशं संस्कृते वह्नौ ब्राह्मणानपि भोजयेत् || ११-५४ || इति दुर्गाप्रकरणम् | अथ दुर्गोत्सवविधिः प्रदर्श्यते | (बृहत्सिद्धान्तसारे) आश्विनस्य सिते पक्षे नानाविधमहोत्सवैः | प्रसादयेयुः श्रीदुर्गां चतुर्वर्गफलार्थिनः || ११-५५ || (कालिकापुराणे) दुर्गातन्त्रेण मन्त्रेण कुयुर्दुर्गामहोत्सवम् | प्. ९५९) महानवम्यां शरदि वलिदानं नृपादयः || ११-५६ || आश्विनस्य तु या शुक्ला भवेद्दुर्गाष्टमी तिथिः | मूर्तिभेदैर्महादेवी पूजां गृह्णाति भूतये || ११-५७ || कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दकाम् | अयाची त्वथ नक्ताशी एकाशी त्वथ[त्वथ वाऽन्नद इति वा० पा० |]वायवदः || ११-५८ || प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः | महानवम्यामिति | तदुक्तं (देवीपुराणे) आश्विने शुक्लपक्षे तु सप्तम्यादितिथित्रये || ११-५९ || महाशब्दः प्रयोक्तव्यो नान्यत्रेति विनिश्चयः | आरभ्येति | शुक्लां प्रतिपदमारभ्येत्यर्थः | अन्नद इति | ब्राह्मणान् भोजयित्वेत्यर्थः | वायवद इति पाठे तु वायुभक्ष इत्यर्थः | जितद्वन्द्व इति | शीतोष्णादिसहिष्णुरित्यर्थः | शिवपूजक इत्यत्र एकशेषो बोद्धव्यः | (रुद्रयामले) एकोत्तराभिवृद्ध्या तु नवमी यावदेव हि || ११-६० || चण्डीपाठं जपेच्चैव जापयेद्वा विधानतः | तथा | एवं चतुर्वेदविदो विप्रान् सर्वान् प्रसादयेत् || ११-६१ || तेषां च वरणं कार्यं वेदपारायणाय वै | तन्त्रान्तरे | वीररात्र्यादिषु श्रेष्ठा महारात्रिर्महेश्वरि || ११-६२ || उपोष्य पूजयेत् तेषां दुर्गां दुर्गार्तिनाशिनीम् | वीररात्र्यादयं प्रोक्ताः (शक्तिसङ्गमे) वीररात्रिर्महारात्रिः कालरात्रिस्तथैव च || ११-६३ || महारात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च | प्. ९६०) तथैव चाचला रात्रिस्तारारात्रिस्तथैव च || ११-६४ || शिवरात्रिर्दिव्यरात्रिर्दारुणा च यथाक्रमात् | कथ्यते परमेशानि शृणु सावहिता भव || ११-६५ || चतुर्दश्यां संक्रमे च कुलर्क्षे कुलवासरैः | अर्धरात्रे यथायोगो वीररात्रिः प्रकीर्तिता || ११-६५ || शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै | महारात्रिर्महेशानि कालरात्रिं शृणु प्रिये || ११-६६ || दीपोत्सवचतुर्दश्यां त्वमाया योग एव तु | कालरात्रिर्महेशानि ताराकालीप्रियङ्करी || ११-६७ || जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्तिता | तथा | चैत्रे मासि नवम्यां च शुक्लपक्षे तु भूसुते || ११-६८ || क्रोधरात्रिर्महेशानि तारारूपा भविष्यति | मासि मार्गशिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि || ११-६९ || महाकालस्वरूपा च घोररात्रिः प्रकीर्तिता | प्राप्ते फाल्गुनके मासे कृष्णैकादशिका तु या || ११-७० || भृगुभौमयुता चेत् स्यादचलारात्रिरीरिता | ज्यैष्ठी या दशमी शुद्धा भृगुवासरसंयुता || ११-७१ || दशयोगसमायुक्ता तारा चैकादशी यदि | सा तिथिर्दिव्यरात्रिश्च कीर्तिता परमेश्वरि || ११-७२ || ज्यैष्ठो या दशमी शुद्धा दशयोगसमन्विता | वटुकस्य तिथिः प्रोक्ता वटुकोत्पत्तिकारिणी || ११-७३ || अमा भौमसमायुक्ता संक्रमेण समन्विता | कुल - ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् || ११-७४ || प्.९६१) तारारात्रिस्तु संप्रोक्ता भाग्यादेव तु लभ्यते | फाल्गुने कृष्णपक्षे तु ह्यर्धरात्रे भृगोः शिवे || ११-७५ || शिवरात्रिस्तु संजाता सर्वसिद्धिप्रदायिनी | अमा भृगुसमायुक्ता सूर्यग्रहणयुग्यदि || ११-७६ || अपराह्णे यदा योगो मृतसंजीविनी तिथिः | स्नानदानादिहोमान्तमनन्तफलदं भवेत् || ११-७७ || अष्टमी चैत्रमासीया संक्रमेण समन्विता | सिद्धिरात्रिरिति ख्याता ताराकालीसमा कलौ || ११-७८ || तृतीया माधवे शुद्धा कुलवारर्क्षसंयुता | दारुणा कीर्तिता देवी सर्वसिद्धीश्वरी परा || ११-७९ || कुलवारादयश्च | रविश्चन्द्रो गुरुः सौरिश्चत्वारस्तेऽकुला मताः | भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः || ११-८० || द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् | विषमश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः || ११-८१ || वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् | कुलानि समधिष्ण्यानि शेषभान्यकुलानि च || ११-८२ || इति (रुद्रयामले) प्रोक्ताः तथा | अष्टमी प्रतिमासं तु कृष्णपक्षस्य पार्वति | भौमयुक्ता तथा ऋक्षयुक्ता वा केवला च वा || ११-८३ || देवीरात्रिरिति ख्याता सर्वसिद्धिप्रदायिनी | ऋक्षयुक्ता कुलर्क्षयुक्ता | तथा | बुधाष्टमी महेशानि प्रतिमासं तु या भवेत् || ११-८४ || प्. ९६२) विष्णुरात्रिरिति ख्याता भाद्रे मासि विशेषतः | तत्रैव (नवरात्रनिर्णये) नवशक्तिसमायुक्तं नवरात्रं तदुच्यते || ११-८५ || एकैव देवदेवेशि नवधा परिनिष्ठिता | शयनं बोधनाख्यं च नवरात्रं द्विधा भवेत् || ११-८६ || शयनं चैत्रमासीयमाश्विनस्थं च बोधनम् | द्वयोस्तु समुपोष्यैव सर्वसिद्धिं लभेन्नरः || ११-८७ || निराहारी फलाहारी त्वेकभक्तो जलव्रतः | नक्तभोजी हविष्याशी यथाशक्ति समाचरेत् || ११-८८ || अथ देवीपूजोपयुक्तमण्डपलक्षणं (देवीपुराणे) ऐशाने पूर्वभागे वा सिद्ध्यर्धं मनसः प्रियम् | देवीगृहं प्रकर्तव्यं सर्वलक्षणलक्षितम् || ११-८९ || दश द्वादश वाऽरभ्य यावद्धस्तशतं भवेत् | (भविष्योत्तरे) दुर्गागृहं प्रकर्तव्यं चतुरस्रं सुशोभनम् || ११-९० || रहस्यं स्वस्तिकाद्यैश्च चर्चितं वस्त्रमण्डितम् | दीपमालापरिक्षिप्तं द्वारदामोपशोभितम् || ११-९१ || गौरमृद्गोमयाभ्यां च लिप्तं शस्तं समीरितम् | तन्मध्ये वेदिका कार्या चतुर्हस्ता समा शुभा || ११-९२ || तस्यां सिंहासनं सौम्यं कम्बलाजिनसंयुतम् | तत्र दुर्गां प्रतिष्ठाप्य सर्वलक्षणसंयुताम् || ११-९३ || सर्वदेवमयीं प्रौढयौवनोन्मादशालिनीम् | भुजैश्चतुर्भी रुचिरैर्दशभिर्वा विभूषिताम् || ११-९४ || तप्तहाटकवर्णाङ्गीं त्रिनेत्रां शशिशेखराम् | प्. ९६३) पीताम्बरपरिधानां नीलकौशेयसंयुताम् || ११-९५ || ग्रैवेयहारकेयूरनूपुराभरणान्विताम् | नानारत्नविचित्रेण मुकुटेन विराजिताम् || ११-९६ || अनेककुसुमाकीर्णकपर्देन विराजिताम् | नितम्बबिम्बसन्नद्धकिङ्किणीक्वणनादिनीम् || ११-९७ || शूलचक्रदण्डशक्तिवज्रचापासिधारिणीम् | घण्टाक्षमालाकरकपानपात्रलसत्कराम् || ११-९८ || तदग्रे छिन्नशिरसं महिषं रुधिराप्लुतम् | निःसृतार्धतनुं कण्ठनालाच्चर्मासिधारिणम् || ११-९९ || देवीकरधृतग्रीवं शूलेनोरसि ताडितम् | दैत्यं करालदंष्ट्रास्यं विद्युत्कपिशमूर्धजम् || ११-१०० || नागपाशेन विक्षिप्तं हर्यक्षेणाभिविद्रुतम् | वमद्रुधिरवक्त्रेण धुन्वतोऽर्धं शटारुषा || ११-१०१ || ऊर्धलाङ्गूलदण्डेन देव्यधिष्ठानशोभिना | सर्वतो मातृचक्रेण सेव्यमानां सुरैस्तथा || ११-१०२ || पूजयेत् प्रयतो देवीं नरो नियममास्थितः | स्थापने विशेष उक्तो (देवीपुराणे) याम्यास्या शुभदा दुर्गा पूर्वास्या जयवर्धिनी | पश्चिमाभिमुखो नित्यं न स्थाप्या सौम्यदिङ्मुखी इति || ११-१०३ || (मत्स्यपुराणो-)क्तदशभुजाध्यानं यथा | कात्यायन्याः प्रवक्ष्यामि मूर्तिं दशभुजां तथा | त्रयाणामपि देवानां धर्मकामार्थकारिणीम् || ११-१०४ || जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम् | नेत्रत्रयसमायुक्तां पद्मेन्दुसदृशाननाम् || ११-१०५ || प्. ९६४) अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् | नवयौवनसम्पन्नां सर्वाभरणभूषिताम् || ११-१०६ || सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् | त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् || ११-१०७ || त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः | तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत || ११-१०८ || खेटकं पूर्णचापं च पाशमङ्कुशमूर्ध्वतः | घण्टां वा परशुं चापि वामतः सन्निवेशयेत् || ११-१०९ || अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् | शिरश्चेदोद्भवं तद्वद्दानवं खड्गपाणिनम्[खड्गपाणिकमित्यत्र खड्गपाणिनप्रिति सर्वपुस्तकेषुपलभ्यते |] || ११-११० || सपाशं वामहस्तेन धृतकेशं च दुर्गया | वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् || ११-१११ || देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् | किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि || ११-११२ || स्तूयमान्ं च तद्रूपममरैः सन्निवेशयेत् | अथ षोडशभुजाध्यानम् (कालिकापुराणे) योगनिद्रा महामाया जगद्धात्री जगन्मयी || ११-११३ || भुजैः षोडशभिर्युक्ता भद्रकालीति विश्रुता | क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् || ११-११४ || अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला | जटाजूटमखण्डेन्दुमुकुटत्रयभूषिता || ११-११५ || नागहारेण सहिता स्वर्णहारविभूषिता | प्. ९६५) शूलं खड्गं च शङ्खं च चक्रं बाणं तथैव च || ११-११६ || शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः | बिभ्रती सततं देवी विकाशिनयनोज्ज्वला || ११-११७ || खेटकं चर्म चापं च पाशं चाङ्कुशमेव च | घण्टां परशुं मुशलं बिभ्रतो वामपाणिभिः || ११-११८ || सिंहस्था नयनै रक्तवर्णैस्त्रिभिरभिज्ज्वजा | शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी || ११-११९ || वामपादेन चाक्रम्य तत्र देवी जगन्मयी | अष्टादशभुजाध्यानं प्रागेवोक्तम् | अथ चण्डिकाध्यानं तत्रैव | धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् || ११-१२० || केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा | मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता || ११-१२१ || सज्ज्योतिःकर्णपूराभ्यां कर्णावापूर्य सङ्गता | सुवर्णमणिमाणिक्यनागहारविराजिता || ११-१२२ || सदा सुगन्धिभिः पद्मैरम्लानैरतिसुन्दरी | मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी || ११-१२३ || मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः | राजन्ती कञ्जुकोपेता पीनोन्नतपयोधरा || ११-१२४ || क्षीणमध्या पीतवस्त्रा त्रिवलीमध्यभूषिता | शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च || ११-१२५ || ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभीः | सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्मणि कौशिकी || ११-१२६ || बिभ्रती रूपमतुलं ससुरासुरमोहनम् | प्. ९६६) अथ सर्वमङ्गलाध्यानं (देवीपुराणे) ब्रह्मोवाच | अवतारे समासेन कथिता सर्वमङ्गला || ११-१२७ || प्रतिमालक्षणं सम्यक् कथयामि यथा भवेत् | सिंहपद्मासना सौम्या जटामुकुटमण्डिता || ११-१२८ || शूलाक्षसूत्रवरदा कमण्डलुकरा शुभा | चतुर्भूजा समाख्याता तथा चाष्टभुजां शृणु || ११-१२९ || वरदं चाभयं खड्गमक्षसूत्रं च दक्षिणे | दर्पणं शूलचापं च चतुर्थं खेटकं भवेत् || ११-१३० || एवं चाष्टभुजा देवी मङ्गला सर्वमङ्गला | अथ देवीबोधनकालनिर्णयः | तत्रैकस्या एव महिषमर्दिन्या अष्टादशभुजादिध्यानभेदेन बोधनकाल उक्तो (महाथर्वणसंहितायाम्) अष्टादशभुजा दुर्गा उग्रचण्डेति या स्मृता || ११-१३१ || सैवेयं षोडशभुजा भद्रकालीति गीयते | दशभिर्बाहुभिर्युक्ता सैव कात्यायनी स्मृता || ११-१३२ || भिन्नध्याना कल्पभेदान्महिषासुरमर्दिनी | कालभेदे बोधनीया सा दुर्गोत्सवकर्मणि || ११-१३३ || आश्विनासितपक्षे तु दिवा सम्पूज्य भक्तितः | खड्गे नवम्यामार्द्रायामुग्रचण्डां प्रबोधयेत् || ११-१३४ || आश्विनासितपक्ष इति पौर्णमास्वन्ताश्विनकृष्णपक्ष इत्यर्थः | तथा च | आर्द्रानक्षत्रयुक्तायां पूर्णमास्यन्ताश्विनकृष्णनवम्यामुग्रचण्डां दिवा खड्गे संपूज्य प्रबोधयेदिति वाक्यार्थः | (लिङ्गपुराणे देवोपुराणेऽपि) यदा त्वष्टादशभुजां महामायां प्रपूजयेत् | कन्यायां कृष्णपक्षे तु पूजयित्वाऽर्द्रभे दिवा || ११-१३५ || प्. ९६७) नवम्यां बोधयेद्देवीं गीतवादित्रनिःस्वनैः | शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनम् || ११-१३६ || प्रातरेव तु पञ्चम्यां स्नापयेयुः शुभैर्जलैः | सप्तम्यां पत्रिकापूजा अष्टम्यां चाभ्युपोषणम् || ११-१३७ || पूजा च जागरश्चैव नवम्यां विधिवद्वलिः | संप्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः || ११-१३८ || (महाकालसंहितायामपि) येऽष्टादशभुजां देवीमुग्रचण्डाभिधां प्रिये | पिपूजयिषवो मर्त्त्यास्तदुपासकतामिताः || ११-१३९ || तथाऽश्विननवम्यां वै कृष्णायां सुसमाहिताः | करवाले बोधयेयुर्मध्याह्ने शङ्खनिः स्वनैः इति || ११-१४० || मध्याह्नस्तु पञ्चधा विभक्तदिनतृतीयाशः | अह्नस्तु प्रथमो भागः प्रातःकाल इति स्मृतः | द्वितीयः सङ्गवः प्रोक्तो मध्याह्नस्तु तृतीयकः || ११-१४१ || अपराह्णश्चतुर्थः स्यात् सायाह्नः पञ्चमः स्मृतः इति वचनात् | शङ्खनिःस्वनैरित्युपलक्षणम् | शङ्खादिनानाविधवाद्यनिःस्वनैरित्यर्थः | अत्र यस्मिन् दिने नवम्यां दिवार्द्रालाभस्तत्रैव बोधनं कार्यम् | दिनद्वये नवम्यां दिवार्द्रालाभे तु युग्मविधिवाक्यबलादष्टमीविद्धायामेव नवम्यां बोधनं कार्यम् | एवमार्द्राया अलाभेऽपि युग्मादरेणैव व्यवस्थेति वर्षक्रियाकौमुदीकृतः | वस्तुतस्तु मध्याह्ने शङ्खनिःस्वनैः इति महाकालवचनान्मध्याह्नस्य बोधनकालत्वप्रतीतेस्तद्व्याप्त्यैव निर्णयः | कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः इति बृहद्याज्ञवल्क्योक्तेः | दिनद्वये मध्याह्नव्यातो तदव्याप्तो नक्षत्रेण | नक्षत्रस्य युग्मवाक्यान्युक्तानि (निगमे) युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः | प्. ९६८) रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा || ११-१४२ || प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलम् | व्यस्तमेतन्महादोषं प्रवदन्ति मनीषिणः इति | अत्र युग्मादिरन्ध्राम्ताः शब्दा द्वितीयादिनवम्यन्ततिथिवाचकाः | रुद्र एकवशी | शेषं स्पष्टम् | यद्यपि युग्माग्नित्यादिवाक्यानि शुक्लपक्षपरतयोक्तानि (निर्णयामृतादौ) पूर्णिमाया अमाप्रतिपद्युग्मस्य च कृष्णपक्षेऽसम्भवादिति | तथाऽपि पूर्वविद्धैव नवमी पक्षयोरुभयोरपीति माधवोक्तेः | कृष्णपक्षेऽपि नवम्यष्टमीयुतैव ग्राह्या | निबन्धव्याख्याकृतस्तु | चतुर्दश्या च पूर्णिमा इत्यत्र त्रयोदश्या चतुर्दशी इति पाठस्य स्मृत्यन्तरे श्रवणादेतानि युग्मवाक्यानि पक्षद्वयपराणीयाहुः | निर्णयसिन्धुकृतोऽपि अमा प्रतिपद्युग्मात् कृष्णपक्षलिङ्गात् पक्षद्वयपरमिदं तत्तद्विशेषवाक्यैः कृष्णे तिथिविशेषेऽपीड्यत इति व्याजह्रुः | पूजयित्वाऽद्रभे दिवा इत्यार्द्रानक्षत्रयोगाभिधानं तु नक्षत्रयोगस्य प्रशस्ततया सम्भवाभिप्रायम् | तथा च मध्याह्नव्यापिन्यां नवम्यां सति सम्भवे आर्द्रानक्षत्रयुक्तानां बोधनं कुर्यादिति निष्कर्षः | तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् || ११-१४३ || योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्मणि इति निर्णयसिन्धुधृतदेवलोक्तेः | तत्तन्नक्षत्रयोगस्तु फलधिक्याय कल्पते | भानामलाभे तु पुनः प्रशस्ता केवला तिथिः इति महाकालवचनाच्च | निर्णयामृतकृतस्तु पूजयित्वेति पूजनक्रियायाः समानकर्त्तृकयोः पूर्वकाल इति क्त्वाप्रत्यस्य नवम्यां बोधयेदिति बोधनक्रियाकालान्नवमीरूपात् पूर्वकालेऽष्टमीरूपे विधानात् क्त्वाप्रत्ययसामर्थ्यादेवाष्टम्यां पूजनं नवम्यां बोधनमित्याहुः | पूजयित्वाऽष्टमीदिने इति [क्वाचित्कः पाठ इति ४ पु० पा०]निर्णयसिन्धौ स्थितम् | प्. ९६९) यत् तु आर्द्रानक्षत्रयुक्तायायामष्टम्यां पूजनं नवम्यां प्रबोध इति मतं तत् तुच्छम् | आश्विनासितपक्षस्य नवमी या शिवर्क्षयुक् || ११-१४४ || बोधयित्वेश्वरीं तस्यां शरदर्चनमारभेत् इति नवम्यामेवार्द्रानक्षत्रयोगस्य महाकालेनाभिहितत्वात् | एवमाश्विनकृष्णनवमीमारभ्याश्विनशुक्लनवमीपर्यन्तमुत्सवोऽष्टादशभुजापक्षः | अथ षोडशभुजापक्षः | (महाथर्वणसंहितायाम्) इषे शुक्लप्रतिपदि भुजैः षोडशभिर्युताम् | बोधयित्वा भद्रकालीं नवम्यन्तं प्रपूजयेत् || ११-१४५ || (महाकालसंहितायामपि) प्रतिपद्येव शुक्लायां बोधयित्वा सुरेश्वरीम् | अभ्यर्चयेन्नवाहानि तन्त्रपौराणिकक्रमैः || ११-१४६ || केवलपौराणिकक्रमेणोत्सवे कर्तव्ये तु आश्विनकृष्णचतुर्दश्यामेव षोडशभुजाया भोधनं कार्यम् | तदुक्तं (कौमुद्यां लिङ्गपुराणे च) | यदा तु षोडशभुजां महामायां प्रपूजयेत् | दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु || ११-१४७ || कन्यायां कृष्णपक्षे तु एकादश्यामुपोषितः | द्वादश्यामेकभक्तं च नक्तं कुर्यात् परेऽहनि || ११-१४८ || चतुर्दश्यां महामायां बोधयित्वा विधानतः | गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः || ११-१४९ || अयाचितं बुधः कुर्यादुपवासं परेऽहनि | एवमेव व्रतं कुर्याद्यावद्वै नवमी भवेत् इति || ११-१५० || कलशस्थापनं तु प्रतिपद्येवोक्तं (यामले) प्रतिपद्येव कर्तव्यं कलशस्थापनं तथा इति | तृतीयपक्षे तु सप्तम्यां कलशस्थापनं वक्ष्यते | अथाश्विनशुक्लप्रतिपन्निर्णीयते | सा च दुर्गोत्सवोपपासादिषु परविद्धा ग्राह्या | प्. ९७०) या चाश्वयुजि मासे स्यात् प्रतिपद्भद्रयाऽन्विता | शुक्ला ममार्चनं तस्यां शतयज्ञफलप्रदम् || ११-१५१ || इति (देवीपुराणे)परविद्धायाः प्राशस्त्यविधानात् | पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी | नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता || ११-१५२ || देशभङ्गो भवेत् तत्र दुर्भिक्षं चोपजायते | नन्दायां दर्शयुक्तायां यत्र स्यान्मम पूजनम् || ११-१५३ || इति (मार्कण्डेयदेवीपुराणयोः) पूर्वविद्धानिषेधाच्च | (रुद्रयामले) अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता | तत्र न स्थापयेत् कुम्भं दुर्भिक्षं जायते ध्रुवम् || ११-१५४ || प्रतिपत् सद्वितोया तु कुम्भारोपनकर्मणि | (कल्पतरुः) कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रतिपत्तिथिम् || ११-१५५ || राज्यनाशाय सा प्रोक्ता निन्दतं तत्र पूजनम् | (देवीपुराणे) शृणु राजन् प्रवक्ष्यामि चण्डिकापूजनक्रमम् || ११-१५६ || आश्विनस्य सिते पक्षे प्रतिपत् सुशुभे दिने इत्युपक्रम्य | शुद्धे तिथौ प्रकर्तव्यं प्रतिपच्चोर्ध्वगामिनी || ११-१५७ || आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा | अपराह्णे च कर्तव्यं शुद्धसन्ततिकाङ्क्षिभिः || ११-१५८ || अपराह्णे योगिन्याः प्राशस्त्यं तु द्वितीयदिने प्रतिपदोऽभावे बोध्यम् | तत्रैव (उड्डामरतन्त्रे) च देवीवचनम् | अमायुक्ता न कर्तव्या प्रतिपत् पूजने मम | मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता || ११-१५९ || प्. ९७१) आद्याः षोडश नाडीष्तु लब्ध्वा यः कुरुते नरः | कलशस्थापनं तत्र अरिष्टं जायते ध्रुवम् || ११-१६० || (शक्तिसङ्गमे) घटिकाः षोडश त्याज्या आद्याः प्रतिपदस्तु याः | कलशस्थापनं कुर्यात् कल्याणं जायते तदा || ११-१६१ || तथा | अमायुक्ता न कर्तव्या प्रतिपत् कालिकार्चने | (स्कान्दे) वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव || ११-१६२ || द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्वकामदा | (देवीपुराणे) देवीवचः | यो मां पूजयते भक्त्या द्वितीयादिगुणान्विताम् || ११-१६३ || शरत्प्रतिपदं ज्ञत्वा सोऽश्नुते सुखमव्ययम् | यदि कुर्यादमायुक्तप्रतिपत्स्थापनं मम || ११-१६४ || तस्य शापायुतं दत्वा वंशनाशं करोम्यहम् | आग्रहात् कुरुते यस्तु प्रथमे स्थापनं मम || ११-१६५ || तस्य सम्पद्विनाशः स्याज्ज्येष्ठपुत्रश्च नश्यति | अमायुक्ता न कर्तव्या प्रतिपच्चण्डिकार्चने || ११-१६६ || धनार्थिभिर्विशेषेण वंशहानिश्च जायते | न दर्शकलया युक्ता प्रतिपच्चण्डिकार्चने || ११-१६७ || उदये द्विमुहूर्ताऽपि ग्राह्या सोदयगामिनी | अन्यत्रापि | परविद्धा च या शुद्धा भवेत् प्रतिपदाश्विनी || ११-१६८ || तत्र दुर्गोत्सवं कुर्यादमायुक्तां विवर्जयेत् इति | नन्वेतानि वाक्यानि प्. ९७२) प्रतिपदा त्वमावस्या तिथ्योर्युग्मं महाफलम् इति || ११-१६९ || एतद्युग्मवाक्यविरुद्धानीति चेन्न | युग्मवावयस्थैतत्प्रतिपदभिन्नप्रतिपद्विषयत्वात् | [तदुक्तं नन्दिकेश्वरपुराणे इति ४ पु० पा० |] अत एवोक्तं (देवीपुराणे) शरत्काले महापूजा क्रियते या च वार्षिकी | सा कार्योदयगामिन्यां न तत्र तिथियुग्मता इति || ११-१७० || न च संपूज्य नवदुर्गां च नक्तं कुर्यात् समाहितः | नवरात्राभिधं कर्म नक्तव्रतमिदं स्मृतम् || ११-१७१ || इति (स्कान्दात् ) अस्य नवरात्रव्रतस्य नक्तव्रतत्वे सिद्धे नक्तव्रतेषु सर्वेषु रात्रियोगः प्रशस्यते | इति वचनात् पूर्वविद्धैव ग्राह्येति वाच्यम् | अमायुक्ता न कर्तव्या इत्यादिविशेषवचनैर्निषेधात् | किञ्च न केवलं नक्तव्रतमेतत् | एवं च विन्ध्यवासिन्यां नवरात्रोपवासतः || ११-१७२ || एकभक्तेन नक्तेन [स्वशक्त्यायाचितं नरः इति ४ पु० पा० |]तथैवायाचितेन च | पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे || ११-१७३ || (हेमाद्रौ भविष्ये) व्रतचतुष्टयस्योक्तत्वात्[नानाव्रताभिधानात् इति ४ पु० पा० |] | अत एवोक्तं कमलाकरभट्टैः पाक्षिकनक्तानुवादोऽयमिति [अत्रोपवासादिबहुकर्माभिधानेऽपि देवीपूजनमेव प्रधानमिति रहस्यविदः इति ४ पु० पा० |] | अत्र केचिद् (रुद्रयामलदेवीपुराणादि-)वचनेषु कलशस्थापनश्रुतेस्तदेव प्रथमदिने निषिद्धं न तूपवासादि तस्य प्रतिपदा त्वमावास्या इति युग्मवाक्यात् | शुक्लपक्षे दर्शविद्धा इति माधवोक्तेश्च पूर्वदिने प्राप्तेऽस्य बाधे प्रमाणाभावादित्याहुः | वस्तुतस्तु प्. ९७३) अत्र देवीपूजायाः प्राधान्येन पूर्वदिने तस्या निषेधात् तदङ्गोपवासादावपि परैव ग्राह्येति युक्तम् | अत एवोक्तं देवलेन | व्रतोपसनियमे घटिकैकाऽपि या भवेत् | सा तिथिस्तद्दिने पूज्या विपरीता तु पैतृके इति || ११-१७४ || अत्र घटिकाशब्दो मुहूर्त्तपर इति गौडाः | कमलाकरभट्टास्तु घटिकैकेति मुहूर्तमात्रा कर्तव्येति च द्विमुहूर्तस्तुतिः | तेनौदयिकी प्रतिपद्धिमुहूर्त्ता ग्राह्या | अन्यथा द्विमुहूर्त्तविधेर्वेयर्थ्यापत्तेः | यदा तु पूर्वदिने संपूर्णा शुद्धा भूत्वा परदिने वधते तदा संपूर्णत्वादमायोगाभाषाच्च पूर्वैव ग्राह्या | यानि च द्वितीयायोगनिषेधकानि वचनानि केचित् पठन्ति तान्यपि शुधाधिकनिषेधपराणीत्याहुः | द्विमुहूर्त्तवचसोऽपि त्रिमुहूर्तस्तावकत्वात् परदिने यदि प्रतिपन्मुहूर्तत्रयान्न्यूना तदा दर्शयुक्ताऽपि पूर्वैव ब्राह्येति समयप्रकाशकृतः | वस्तुतस्तु त्रिमुहूर्त्तविधिर्मुख्यः | द्विमुहूर्त्तविधिस्त्वनुकल्पः | द्विमुहूर्त्ताऽपि कर्तव्येति दक्षेणापि शब्दस्योक्तत्वात् [एवं प्रकृतेऽपि उदये द्विमुर्ताऽपीत्यपि शब्दोक्तेर्द्विमुर्तविधिरनुकल्पो वोध्यः इति ४ पु० पा० |] | परदिने प्रतिपदोऽभावे त्वमायक्ताऽपि सा ग्राह्या | अमायुक्ताऽपि कर्तव्या यदि न स्यात् परेऽहनि | इति निबन्धव्याख्यालिखितवचनात् [ग्रन्थान्तरोदाहृतानि दशंयुक्तप्रतिपद्विधायकानि वचनान्येतद्विषयाण्येव इति ४ पु० पा० |] | अत्र केचित् | वृद्धौ समाप्तिरष्टम्यां ह्रासेऽमाप्रतिपन्निशि || ११-१७५ || प्रारम्भो [नवरात्रस्य ४ पु० पा० |] नवचण्ड्यास्तु नवरात्रमतोऽर्थवत् | प्. ९७४) इति (निर्णयसिन्धु-) धृत (देवीपुराणोक्त-) वचनान्नवरात्रशब्दो नवाहोरत्रपरः [इति (निर्णयसिन्धु-) धृत- (देवीपुराणो-)क्तवचनात् | तिथेः क्षये तथा वृद्धौ पूर्ववेधो न दूष्यति | इति तान्त्रिकवचनाच्च इति पु० पा० |] | अमायुक्तप्रतिपन्निषेधकानि वाक्यानि तु तिथिह्रासाभावविषयाणीत्याहुः | अयं च नेपालदेशसम्प्रदायः | वस्तुतस्तु न रात्रौ स्थापनं कार्यं न च कुम्भाभिषेचनम् || ११-१७६ || इति (मत्स्य-)पुराणीयवचनीय रात्रौ कलशस्थापनादिनिषेधात् प्रारम्भो नवचण्ड्यास्त्विति पूजनादेरपूर्वकत्वाभिधानाच्च नवभिर्दिनैर्नवावृत्तिचण्डीपाठविषयमेतद्वचनम् | नवरात्रशब्दस्तु नवतिथिपर एव | प्रारम्भो नवरात्रस्य इत्यादौ तु कर्मणि लाक्षणिकः | तस्य नवाहोरात्रपरत्वे तु तिथिह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः | अत एवोक्तं (निर्णयामृते देवीपुराणे च) तिथिवृद्धौ तिथिह्रासे नवरात्रमपार्थकम् | अष्टरात्रेण दोषोऽयं नवरात्रतिथिक्षये || ११-१७७ || अष्टरात्रेण दोषो हि पूर्णां मुक्त्वा तु पूजनम् | तिथिह्रासेऽपि कर्त्तव्यं प्रतिपद्याश्विने सिते इति || ११-१७८ || प्रतिपदि चित्रावैधृतियोगानिषेध उक्तस्तत्रैव | त्वाष्ट्रवैधृतियुक्ता चेत् प्रतिपच्चण्डिकार्चने | तयोरन्तर्विधातव्यं कलशारोपणं गृहे इति || ११-१७९ || तथा | आश्विने प्रतिपत् पूर्णा शुद्धा या तु भवेन्नृप | आरभ्यं नवरात्रं स्याद्धित्वा चित्रां च वैधृतिम् || ११-१८० || यदा तु चित्रावैधृत्योः परिहारेण प्रतिपन्न लभ्यते तदा कात्यायनः | प्रतिपद्याश्विने मासि नरो वैधृतिचित्रयोः | प्. ९७५) आद्यपादौ परित्यज्य प्रारभेन्नवरात्रकम् || ११-१८१ || (रुद्रयामलेऽपि) वैधृतौ पुत्रनाशः स्याच्चित्रायां धननाशनम् | तस्मान्न स्थापयेत् कुम्भं चित्रायां वैधृतौ तथा || ११-१८२ || सम्पूर्णा प्रतिपद्देवि चित्रायुक्ता यदा भवेत् | वैधृत्या वाऽपि युक्ता स्यात् तदा मध्यन्दिने रवौ || ११-१८३ || अभिजित् तु मुहूर्तं यत् तत्र स्थापनमिष्यते | (भविष्ये) चित्रावैधृतिसंपूर्णा प्रतिपच्चेद्भवेन्नृप || ११-१८४ || त्याज्या ह्यंशास्त्रयस्त्वाद्यास्तुरीयांशे तु पूजनम् | चित्रादियुक्ताऽपि द्वितीयायुता चेन्न दुष्टेत्युक्तं (दुर्गोत्सवे) भद्रान्विता चेत् प्रतिपत् तु लभ्यते विरुद्धयोगैरपि सङ्गता सती || ११-१८५ || सा वै पराह्णे विबुधैर्विधेया श्रीपुत्रराज्यादिविवृद्धिहेतुः इति | अथ यववपनविधिः (रुद्रयामले) स्नानं माङ्गलिकं कृत्वा ततो देवीं प्रपूजयेत् || ११-१८६ || शुभाभिर्मृत्तिकाभिश्च पूर्वं कृत्वा तु वेदिकाम् | यवान् वै वापयेत् तत्र गोधूमैश्चापि संयुतान् || ११-१८७ || तन्त्रान्तरे | वालुका गृह्य यत्नेन नदीनदसमुद्भवाः | वेदीं कुर्यात् प्रयत्नेन चतुरस्रां शुभावहाम् || ११-१८८ || द्विहस्ता चोत्तमा वेदी मध्यमा सार्धहस्तका | अधमा हस्तमात्रा च न्यूनाधिक्यं न कारयेत् || ११-१८९ || भूरसीति पठेन्मन्त्रं देवीं संस्पृश्य मानवः | अपामग्निं समुच्चार्य प्रोक्षयेच्चन्दाम्भसा || ११-१९० || तन्मध्ये विलिखेन्मन्त्रं जयदुर्गाख्यमुत्तमम् | प्. ९७६) तत्रावाह्य यजेद्देवीमष्टादशभुजां पराम् || ११-१९१ || पञ्चोपचारैः संपूज्य दिक्पाला/श्चापि पूजयेत् | पश्चान्नवार्णमनुना पूजयेदस्त्रमातृकाम् || ११-१९२ || संशोध्य यवराशिं च यवोऽसीति मनुं पठन् | प्रक्षिपेद्वेदिकामध्ये वक्ष्यमाणमनुं जपन् || ११-१९३ || ओं यव त्वं यवरूपोऽसि यज्ञार्थे निर्मितो विधेः | देवानां तृप्तिकृद्यस्मात् तस्मात् त्वं वरदो भव || ११-१९४ || जयन्ती मङ्गलाकाली भद्रकाली कपालिनी | दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोष्तुते || ११-१९५ || तथा | भेरोमृदङ्गडमरूघण्टापटहनिःस्वनैः | महोत्सवं प्रकुर्वीत यवारोपणकर्मणि || ११-१९६ || प्रसृते च दशम्यां वै भद्राभद्रं विचारयेत् | विचारस्त्वन्यत्र | सम्यक् समुद्गता दीर्घा ऋजवश्चाङ्कुराः शुभाः || ११-१९७ || अनुद्गताः कुण्ठिताग्रा ह्रस्वाः शुष्काश्च भङ्गुराः | कीटाखुभुक्ताः शटिताः विषमाश्चाशुभाः स्मृताः || ११-१९८ || संग्रहान्तरलिखितविचारान्तरं तु प्रमाणाभासमूलकत्वादुपेक्षितम् | (रुद्रयामले) तत्र संस्थापयेत् कुम्भं विधिना मन्त्रपूर्वकम् | सौवर्णं राजतं वाऽपि ताम्रं मृण्मयमेव वा || ११-१९९ || (मात्स्ये) न रात्रौ स्थापयेत् कुम्भं न च कुम्भाभिषेचनम् | विष्णुः | भास्करोदयमारभ्य यावत् तु दश नाडिकाः || ११-२०० || प्. ९७७) प्रातःकाल इति प्रोक्तः स्थापनारोपणादिषु | कलशस्थापनविधिस्तु दशभुजापक्षे वक्ष्यते (वैष्णवीकल्पे) नैमित्तिकोक्तविधिना नवाहानि प्रपूजयेत् || ११-२०१ || उपोषणं तथाऽष्टम्यां प्रभूतवलिदानकम् | नवम्यामाचरेद्धीमान् दशम्यां तु विसर्जयेत् || ११-२०२ || पुत्रिणा तु महाष्टम्यामुपवासो न कार्यः | उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् | यथा तथा संयतात्मा व्रती देवीं प्रपूजयेत् || ११-२०३ || इति (कालिकापुराणात्)नवम्यां प्रभूतवलिदानमित्यनेनाष्टम्यादौ पूजाङ्गवलिदानमायाति | अष्टम्यां वलिदानेन पुत्रनाशो भवेद्ध्रुवम् | इति नामशून्यं वचनं केचित् पठन्ति | तत्र मूलं मृग्यम् | समूलत्वाभिधाने तु प्रभूतवलिदाननिषेधकमिति मन्तव्यम् | पूजावलिदानविसर्जनादिविधिस्त्वग्रे व्यक्तीभविष्यति | अथ दशभुजापक्षः (कालिकापुराणे) बोधयेद्विल्वशाखासु षष्ठ्यां देवीं फलेषु च || ११-२०४ || सप्तम्यां विल्वशाखां तामाहृत्य प्रतिपूजयेत् | पुनः पूजां तथाऽष्टम्यां विशेषेण समाचरेत् || ११-२०५ || जागरं च स्वयं कुर्याद्वलिदानं महानिशि | प्रभूतवलिदानं च नवम्यां विधिवच्चरेत् || ११-२०६ || जपहोमसमायुक्तो भोजयेद्वै कुमारिकाः | ध्यायेद्दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् || ११-२०७ || विसर्जन दशम्यां तु कुर्याद्वै शावरोत्सवैः | फलेषु इति | फलयुक्तासु शाखास्वित्यर्थः | दुर्गातन्त्रेणेति दुर्गातन्त्रसंज्ञकेन पूर्वोक्तजयदुर्गामन्त्रेणेत्यर्थः | शावरोत्सवैरिति | शवरोचितवेशभाषाधूलिकर्दमविक्षेपादिभिरित्यग्रे स्फुटीभविष्यति | षष्ठ्यां च सायाह्ने सन्ध्यायां वा बोधनं कार्यम् | सायाह्ने विल्वशाखायां षष्ठ्यां देवीं प्रबोधयेत् || ११-२०८ || प्. ९७८) इति महाकालोक्तेः | षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् | इति (भविष्यपुराणाच्च) पञ्चधा विभक्तिदिनपञ्चमांशः सायाह्नः | सन्ध्या तु दिनरात्र्योः सन्धौ मुहूर्तः | (देवीपुराणे) ज्येष्ठानक्षत्रयुक्तायां षष्ठ्यां विल्वाभिमन्त्रणम् || ११-२०८ || सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् | इति नक्षत्रयोगे फलातिशयः | मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् || ११-२०९ || इति (नन्दिकेश्वरपुराणात्) एवं च | ज्यैष्ठायामेव सम्बोध्य मूलेनैव प्रवेशयेत् | पूर्वोत्तराभ्यां सम्पूज्य श्रवणान्ते विसर्जयेत् || ११-२१० || इत्यादौ सर्वत्रापि तिथिनक्षत्रयोगे फलभूयस्त्वं वेदितव्यम् | पूर्वोत्तराभ्यामिति | पूर्वाषाढान्वितायामष्टम्यामुत्तराषाढान्वितायां नवम्यामित्यर्थः | नक्षत्रानुरोधेन पत्रिकाप्रवेशनं विसर्जनं च रात्रौ न कर्तव्यम् | ऋक्षयोगानुरोधेन रात्रौ पत्रीप्रवेशनम् | विसर्जनं चरेद्यस्तु सराष्ट्रः स विनश्यति || ११-२११ || इति (दुर्गाभक्तितरङ्गिणी-)लिखितवचनात् | तथा च | अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् | तदा देव्याः समुत्थानं दशम्यां दिनभागतः || ११-२१२ || इति वचनात् श्रवणान्ते विसर्जयेत् इत्यादिवचनानुरोधेन रात्रौ विसर्जनं न कार्यमिति तत्रैवोक्तम् | अत्र दिनत्रये तिथित्रयविहितपूजात्रयं प्रायिकं कदा चित् तिथिह्रासवशाद्द्वाभ्यां पूजात्रयं कदा चित् तिथिवृद्धिवशाद्दिनचतुष्टयेन पूजात्रयं तिथित्रयलाभे तु निर्विवादैव व्यवस्था | व्रती प्रपूजयेद्देवीं सप्तम्यादिदिनत्रये | द्वाभ्यां चतुरहोभिर्वा ह्रासवृद्धिवशात् तिथेः || ११-२१३ || इति (भविष्य-) वचनात् प्. ९७९) अस्मिन् पक्षेऽपि प्रतिपदादिदिनकृत्यान्युक्तानि (भविष्ये) केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपत्तिथौ | पट्टडोरं द्वितीयायां केशसंयमहेतवे || ११-२१४ || दर्पणं च तृतीयायां सिन्दूरालक्तकं तथा | मधुपर्कं चतुर्थ्यां तु तिलकं नेत्रमण्डनम् || ११-२१५ || पञ्चम्यामङ्गरागं च शक्त्याऽलङ्करणानि च | षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् इति || ११-२१६ || अत्रं च पत्रिकाप्रवेशात् पूर्वेद्युः सायंकाले षष्ठ्यभावे तत्पूर्वदिनेऽधिवासनं कार्यम् | षष्ठ्याः सायंकालेऽत्यन्तासत्त्वे त्वधिवासनलोपः | षष्ठ्यां सायं प्रकुर्वीत विल्ववृक्षेऽधिवासनम् | इति (कल्पतरु-) वचनादिति | एवं देवीबोधनेऽपि व्यवस्था | वस्तुतस्तु अनेकतन्त्रवोधितकर्त्तव्यताकस्य देवीबोधनस्यावश्यकतया यस्मिन् दिने सायंसमये षष्ठीलाभस्तत्रैव बोधनम् | उभयदिने सन्ध्यायां षष्ठीलाभे तु युग्मादरेण व्यवस्था | दिनद्वयं सन्ध्यायां षष्ठ्यभावे तु प्रदोषादिसमये षष्ठ्यमिति कौमुदीकृन्मतमेवादरणीयम् | गौणकालव्याप्तेः सत्त्वात् | तदुक्तम् | स्वकालादुत्तरः कालो गौणः स्यात् पूर्वकर्मणः इति | अत एव सायं श्रुतिः फलार्थातिशयार्था न तु कर्मलोपः कार्यं इत्याचार्यचूडामणिः | प्रदोषस्तु त्रिमूहूर्तः प्रदोषः स्याद्भानावस्तं गते सति || ११-२१७ || इति (मदनरत्ने) व्यासेनोक्तः | वत्सेन तु प्रदोषोऽस्तमयादूर्ध्वं घटिकाद्वयमिष्यते इत्युक्तम् | एवं च पत्रिकाप्रवेशादौ सप्तभ्युदयव्यापिन्येव ग्राह्या न तु षण्मुन्योरिति युग्मवाक्यात् पूर्वविद्धा | युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया | रवेरुदयमिच्छन्ती न तत्र तिथियुग्मता || ११-२१८ || प्. ९८०) इति (कृत्यतत्त्वार्णव -) लिखितवचनात् | भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः | तिथावुदयगामिन्यां सर्वास्ताः कारयेद्बुधः || ११-२१९ || इति (तिथितत्त्व-)लिखित-(नन्दिकेश्वरपुराणाच्च) अधिवासनं तु पत्रिकाप्रवेशाव्यवहितपूर्वदिन एव सायंकाले षष्ठ्यभावेऽपि कार्यम् | ज्येष्ठा वा यदि वा षष्ठी सायंकाले न चेद्भवेत् | सायमेव तथाऽपि स्याद्विल्ववृक्षेऽधिवासनम् || ११-२२० || पूर्वां षष्ठीं सनक्षत्रां सायं प्राप्तामपि त्यजेत् इति | तथा च ज्योतिःशास्त्रम् | पूर्वाह्णे नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा आरोग्यं धनदा करोति विजयं चण्डीप्रवेशे शुभा | मध्याह्ने न च पीडनं क्षयकरी नॄणामघोरावहा सायाह्ने वधबन्धमादिकलहं सर्वक्षतिं दास्यति || ११-२२१ || सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाद्या राज्ञः सप्ताङ्गराज्यं जनसुखसहितं हन्ति मूलानुरोधात् | तस्मात् सूर्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य देवीं भूपालो वेशयेत् तां सकलजनहितां राक्षसर्क्षं विहाय || ११-२२२ || मत्स्यसूक्तवचनात् | पत्रीप्रवेशात् पूर्वेद्युः सायाह्ने विल्ववासिनीम् | चण्डीमामन्त्रयेद्विद्वान्नात्र षष्ठीपुरस्क्रिया || ११-२२३ || इति (ब्रह्माण्डपुराणाच्च) विल्वनिमन्त्रणपत्रिकाप्रवेशादिविधिरग्रे वक्ष्यते | एकाहपक्षोऽपि (कालिकापुराणे) यस्त्वेकस्यामथाष्टम्यां नवम्यामथ साधकः | पूजयेद्वरदां देवीं महाविभवविस्तरैः इति || प्.९८१) (रुद्रयामले) मूलनक्षत्रमारभ्य पूजनीया सरस्वती || ११-२२४ || पूजयेत् प्रत्यहं देवीं यावद्वैष्णवमृक्षकम् | नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन || ११-२२५ || पुस्तके स्थापिते देवि विद्याकामो द्विजोत्तमः | (संग्रहे) आश्विनस्य सिते पक्षे मेधाकामः सरस्वतीम् || ११-२२६ || मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् | अथ महाष्टमी निर्णीयते | सा च पूजोपवासादिषु परयुता ग्राह्या | वसुरन्ध्रयोरिति युग्मवाक्यात् | शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी || ११-२२७ || पूर्वविद्धा न कर्त्तव्या कर्त्तव्याऽपरसंयुता | इति (ब्रह्मवैवर्त्ताच्च) तथा च (स्मृतिसंग्रहे) शरन्महाष्टमी पूज्या नवमीसंयुता सदा || ११-२२८ || सप्तमीसंयुता नित्यं शोकसन्तापकारिणी | जम्भेन सप्तमीयुक्ता पूजिता तु महाष्टमी || ११-२२९ || इन्द्रेण निहतो जम्भस्तस्माद्दानवपुङ्गवः | तस्मात् सर्वप्रयत्नेन सप्तमीमिश्रिताऽष्टमी || ११-२३० || वर्जनीया प्रविज्ञाय मनुजैः शुभकाङ्क्षिभिः | सप्तमीं शल्यसंयुक्तां मोहादज्ञानतोऽपि वा || ११-२३१ || महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते | सप्तमी कलया यत्र परतश्चाष्टमी भवेत् || ११-२३२ || तेन शल्यमिदं प्रोक्तं पुत्रपौत्रक्षयप्रदम् | तथा | पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम् || ११-२३३ || हन्ति जातानजाता/श्च सप्तमीसहिताऽष्टमी | (निर्णयामृते) स्मृत्यन्तरवचनम् | नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता || ११-२३४ || नवम्या सह कार्या स्यादष्टमी सर्वथा बुधैः | तत्रैव | अष्टमी नवमीयुक्ता महोत्साहो महोत्सवः || ११-२३५ || इति (देवीपुराणे) सप्तमी वेधसंयुक्ता यैः कृता तु महाष्टमी | पुत्रदारधनैर्हीना भ्रमन्तीह पिशाचवत् || ११-२३६ || (भोजराजीये) उमाया नवमी प्रोक्ता हरस्य तिथिरष्टमी | द्वयोरैक्ये महापुण्या उमामाहेश्वरी तिथिः || ११-२३७ || (मदनरत्ने स्मृतिसमुच्चये) सप्तमी शल्यसंविद्धा वर्जनीया महाष्टमी | स्तोकाऽपि सा महापुण्या यस्यां सूर्योदयो भवेत् || ११-२३८ || स्तोकाऽपीति घटिकामात्राऽपीत्यर्थः | अत एव घटिकामात्राऽप्यष्टम्यौदयिकी ग्राह्या | व्रतोपवासनियमे घटिकैकाऽपि या भवेत् | इति देवलोक्तेरिति निर्णयसिन्धुकृतः | गौडा अप्येवमेवाहुः | एवं च सप्तमीवेधः कलारूपोऽप्यष्टमीवर्जनप्रयोजको न तु त्रिमुहूर्त्तेति द्रष्टव्यम् | समयप्रकाशादिग्रन्थकारास्तु त्रिमुहूर्ताऽष्टम्येव सप्तमी वर्जनप्रयोजिका न तु ततो न्यूना | स्तोकाऽपीत्यादीनि वचनान्यवयवद्वारा त्रिमुहूर्तं स्तुवन्ति तेनाष्टमी परदिने यदि मुहूर्त्तत्रयान्न्युना तदा सप्तमीयुता पूर्वैव ग्राह्येत्याहुः | कलाकाष्ठा घटिकामुहूर्त्तद्विमूर्त्तवचांसि त्रिमुहूर्त्तप्रशंसापराणीति निबन्धव्याख्याकारोऽपि बभाण | यत् तु प्. ९८३) महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी || ११-२३९ || सप्तम्याऽपि युता कार्या मूलेन तु विशेषतः | इति वचनं तत् परदिनेऽष्टम्यभावविषयम् | तदुक्तं (निर्णयामृते देवीपुराणे) उत्तरास्तिथयो यत्र क्षयं यान्ति नराधिप || ११-२४० || तदा पूर्वाष्टमीं कुर्यादन्यथा त्वशुभं भवेत् इति || यच्च यदाऽष्टमीं तु सम्प्राप्य ह्यस्तं याति दिवाकारः | तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि || ११-२४१ || दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूज्यते | इति परदिनेऽष्टमीसत्त्वेऽपि पूर्वविद्धाविधायकं वचनं तत् परदिने नवम्यभावविषयम् | यदा सूर्योदये न स्यान्नवमी चापरेऽहनि || ११-२४२ || तदाष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप | इति (स्मृतिसंग्रहात्) यत् तु सप्तम्यामुदिते सूर्ये परतो याऽष्टमी भवेत् || ११-२४३ || तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि | इति परविद्धाष्टमीनिषेधकविश्वरूपनिबन्धवचनं तदाश्विनकृष्णपक्षनवम्यां विहिते देवीबोधने तदङ्गत्वेन कृष्णाष्टम्यां क्रियमाणदेवीपूजाविषयम् | कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी || ११-२४४ || पूर्वविद्धा तु कर्त्तव्या परविद्धा न कुत्रचित् | उपवसादिकार्येषु एष धर्मः सनातनः || ११-२४५ || इति कृष्णाष्टम्याः परविद्धाया एव प्राशस्त्यविधानादिति निबन्धव्याख्याकृतः | यानि च प्. ९८४) अहं भद्रा च भद्राऽहं नावयोरन्तर क्वचित् | सर्वसिद्धिं प्रदास्यामि भद्रायामर्चिताऽप्यहम् || ११-२४६ || तथा | महाष्टम्यां भगवती भद्रायामपि पूजिता | ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी || ११-२४७ || इत्यादीनि (देवीपुराण -) वचनानि तानि तु विष्टिकरणमध्ये पूजाविधानार्थानि | विष्टिं त्यक्त्वा महाष्टम्यां मम पूजां करोति यः | तस्य पूजाफलं न स्यात् तेनाहमवमानिता || ११-२४८ || इति देवीवाक्यात् | भद्रायां भद्रकाल्याश्च मध्ये स्यादर्चनक्रिया | तस्माद्वै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः || ११-२४९ || इति वचनं तु पूर्वदिनेऽष्टम्यभावविषयमिति सर्वसम्मतम् | महाष्टमी भौमवारान्विता चेदतिप्रशस्ता | तदुक्तं (मदनरत्ने) अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् | कुजवारो भवेत् तत्र पूजनीया प्रयत्नतः - इति || मूलयुक्तेयमतिप्रशस्तेत्युक्तं (स्कान्दे) महाष्टमी मूलयुक्ता त्रैलोक्येऽपि सुदुर्लभा इति | मूलयुक्ताऽपि सप्तमीविद्धा चेत् त्याज्यैवेत्युक्तं (दुर्गोत्सवे) मूलेनापि हि संयुक्ता सदा त्याज्याऽष्टमी बुधैः || ११-२५० || लेशमात्रेण सप्तम्या अपि स्याद्यदि दूषिता इति || यदा तु पूर्वदिने सम्पूर्णा सती परदिने वर्धते तदा संपूर्णत्वात् सप्तमी योगाभावाच्च पूर्वैव ग्राह्या न तूत्तरा | षष्टिदण्डात्मिकायाश्च तिथेर्निष्क्रमणे परे | अकर्मण्यं तिथिमलं भवेदेकादशीं विना इति स्मार्त्तवचनात् || एवं च | सप्तमी कलया युक्ता वर्जनीया महाष्टमी || ११-२५१ || प्. ९८५) इत्यादिवाक्यैः पूर्वविद्धाया निषेधात् परविद्धैव महाष्टमिति सिद्धम् | शुद्धायां तु न कश्चित् संदेहः | केचित् तु तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी | प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह || ११-२५२ || अतोऽर्थं पूजनीया सा तस्मिन्नहनि मानवैः | त्रिसन्ध्यं पूजयेद्देवीं जपस्तोत्रपरायणः || ११-२५३ || इत्यादिवाक्यविहितायां दिवातनपूजायां परविद्धाऽष्टमी ग्राह्या | आश्विनस्य सिते पक्षे या तु स्यात् तिथिरष्टमी | तस्यां रात्रौ पूजनीया महाविभवविस्तरैः || ११-२५४ || इत्यादिवचनप्राप्तायां रात्रिपूजायां त्वष्टम्यां रात्रियोग एवादरणीयः | कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः | तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् || ११-२५५ || इति वचनादित्याहुः | महाष्टमीकृत्यमग्रे वक्ष्यते | अथ महानवमी निर्णीयते | सा च पूर्वयुता ग्राह्या वसुरन्ध्रयोरिति युग्मवाक्यात् | अष्टम्या सहिता कार्या सा महानवमी तिथिः | इति (बृहत्सिद्धान्तसाराच्च) अष्टम्या सहिता रिक्ता न कदाचित् परायुता || ११-२५६ || इति * (लघुतिथिनिर्णये मत्स्यपुराणाच्च) पैठीनसिरपि | प्रतिपन्नवमी चैव कर्त्तव्या संमुखी तिथिः | संमुखी सायाह्नव्यापिनी | (ब्रह्मवैवर्त्ते) अष्टम्या नवमी विद्धा कर्त्तव्या फलकाङ्क्षिभिः || ११-२५७ || (पद्मे) अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता | प्. ९८५) (मात्स्ये) अष्टम्या सहिता रिक्ता प्रकर्त्तव्या सदा बुधैः || ११-२५८ || पूर्णायुक्तां तदा कुर्यात् का चिन्नास्त्यष्टमीयुता | (* हेमाद्रौ पाद्मे) श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी || ११-२५९ || पूर्वविद्धा च कर्त्तव्या शिवरात्री वलेर्दिनम् | (भविष्ये) अश्वयुक् शुक्लपक्षे तु याऽष्टमी मूलसंयुता || ११-२६० || सा महानवमी नाम त्रिषु लोकेषु दुर्लभा | अष्टमीमूलाभ्यां युक्तेत्यर्थः | मूलेत्युपलक्षणम् | तथा च (मदनरत्ने लैङ्गे) दुर्गापूजासु नवमी मूलाद्यृक्षत्रयान्विता || ११-२६१ || महती कीर्त्तिता तस्यां दुर्गां महिषमर्दिनीम् | पूजयेदिति शेषः | अष्टम्या नवमी विद्धा नवम्या चाष्टमी तथा || ११-२६२ || मूलादिमत्रयेणाद्या त्रैलोक्येऽपि प्रपूजिता इति || अत्र मुहूर्त्तत्रयात्मको वेधो वेदितव्यः | तदाह पैठीनसिः | पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम् | त्रिभिर्मुहूर्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः इति || यद्यपि उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ || २६३ || द्विस्त्रिर्मुहूर्त्तमह्नो यः सा तिथिर्हव्यकव्ययोः | इति (हेमाद्रौ विष्णुधर्मे ) मुहूर्त्तद्वयात्माऽपि वेध उक्तस्तथाऽपि प्रातरेव सः सायं तु त्रिमुहूर्त्त एव वेधः | प्. ९८७) तदुक्तं (स्कान्दे) यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः || ११-२६४ || सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्तैव या भवेत् इति || सूर्योदयेऽपि द्विमुहूर्त्तत्वमनुकल्प एव | द्विमुहूर्त्ताऽपि कर्त्तव्या या तिथिर्वृद्धिगामिनी | इति दक्षोणापि शब्दग्रहणात् | निर्णयसिन्धुकृतोऽपि त्रिमुहूर्त्तयोगे पूर्वा नवमी पूर्वोक्तवचनात् | न कुर्यान्नवमीं तात दशम्या तु कदाचन || ११-२६५ || इति (स्कान्दे) परानिषेधाच्च | त्रिमुहूर्त्तयोगाभावे तु निषिद्धाऽपि परव ग्राह्या | व्रतोपवासनियमे घटिकैकाऽपि या भवेत् | सा कार्योदयगामिन्याम् - || ११-२६६ || इत्यादिवचनानि नवमीभिन्नतिथिपराणि नवम्यां विशेषोक्तेरित्याहुः | यद्यप्येवं निर्णयः प्रामाणिकैः कृतस्तथाऽपि | तत्राश्वयुक्तनवमी मुहूर्त्तं वा कला यदि | सा तिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः || ११-२६७ || इति (सौरपुराणात्) अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् | प्रभाते बलिदाने तु कियन्मात्राऽपि लभ्यते || ११-२६८ || नवम्यां तत्र सम्पूज्य दुर्गां दुर्गार्त्तिनाशिनीम् | इति (सिद्धान्तसंग्रहो-) दाहृतवचनात् | सूर्योदये परं रिक्ता पूर्णा स्यात् परतो यदि || ११-२६९ || वलिदानं प्रकर्त्तव्यं तस्मिन् देशे शुभावहम् | वलिदाने कृतेऽष्टम्यां * पुत्रभङ्गो भवेन्नृप || ११-२७० || इति (देवीपुराणाच्च) वलिदाने परविद्धायाः प्राशस्त्यमेवावगन्तव्यम् | उपवासे तु पूर्वैव पूर्वोक्तवचननिचयात् | प्. ९८८) एकादशी च नवमी दिशा विद्धा भवेद्यदि | तदा वर्ज्या प्रयत्नेन गङ्गाम्भः सुरया यथा || ११-२७१ || नवमी दशमी चैव नोपोष्या परसंयुता | इति (पाद्मब्रह्मवैवर्त्तयोः) उपवासे परानिषेधाच्च | पूजाङ्गवलिदानमष्टम्यामपि कर्त्तव्यम् | अष्टम्यामधिकं देयं सप्तमीवलिदानतः || ११-२७२ || इति महाकालोक्तेः | किन्तु प्रभूतवलिदानं तत्र निषिद्धम् | प्रभूतवलिदानं तु न कुर्यान्नवमीं विना | इति भैरवोक्तेः | नवम्यामुदयव्यापिन्यां प्रभूतवलिदानमुक्तं (भविष्ये) एवं हृष्टैर्निशां नीत्वा प्रभाते अरुणोदये || ११-२७३ || घातयेन्महिषान् मेषान् रटतो नतकन्धरान् | शतमर्धशतं वाऽपि तदर्धं वा यथेच्छया इति | निशामष्टमीरात्रिम् | अरुणोदयः सूर्योदय इत्यर्थः | सूर्योदये नवम्यां तु दद्याद्बलिमतन्द्रितः || ११-२७४ || इति तन्त्रान्तरसंवादात् | अरुणो भास्करेऽपि स्यात् | इति (अमरकोषाच्च) यानि तु नन्दायां ज्वलते वह्निः पूर्णायां पशुघातनम् || ११-२७५ || भद्रायां गोकुलक्रीडा राज्यनाशाय जायते | नवम्यामपराह्णे तु वलिदानं प्रशस्यते || ११-२७६ || दशमीं वर्जयेत् तत्र नात्र कार्या विचारणा | इत्यादीनि (ब्रह्मवैवर्त्तादि-) वचनानि तानि शुद्धाधिकनिषेधपराणीति दिक् | नवमीकृत्यमग्रे वक्ष्यते | अथ विजयादशमी निर्णीयते | सा च देवीविसर्जनव्यतिरिक्तकर्मसु तारकोदयव्यापिनी ग्राह्या | प्. ९८९) ईषत्सन्ध्यामतिक्रान्तः किञ्चदुद्भिन्नतारकः || ११-२७७ || विजयो नाम कालोऽयं सर्वकार्यार्थसिद्धिदः | इति (ज्योतिर्निबन्धे) नारदवचनात् | दिनद्वये नक्षत्रोदयव्यापिन्या दशम्याः सत्त्वे पूर्वा | या पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता || ११-२७८ || क्षेमार्थं विजयार्थं च पूर्वोक्तविधिना नरैः | नवमिशेषयुक्तायां दशम्यामपराजिता || ११-२७९ || ददाति विजयं देवी पूजिता जयवर्धिनी | इति (हेमाद्रौ स्कन्दात्) निर्णयसिन्धुमते तूत्तरा | दशम्यां तु नरैः सम्यक् पूजनीयाऽपराजिता || ११-२८० || ऐशानीं दिशमाश्रित्य चापराह्णे प्रयत्नतः | इति (स्कन्दात्) अपाराह्णव्याप्तेराधिक्यात् | असत्त्वे तु एकादशमुहूर्त्तव्यापिनी ग्राह्या | आश्विने शुक्लपक्षे तु या भवेद्दशमी तिथिः || ११-२८१ || एकादशमुहूर्ता सा ग्राह्या श्रवणसंयुता इति धौम्योक्तेः || आश्विनस्य सिते पक्षे दशम्यां सर्वरात्रिषु | सायंकाले शुभा यात्रा दिवा वा विजयक्षणे || ११-२८२ || एकादशो मुहूर्तोऽपि विजयः परिकीर्त्तितः | तत्र सर्वैर्विधातव्या यात्रा विजयकाङ्क्षिभिः || ११-२८३ || इति भृगुवचनाच्च | दिनद्वये तद्व्याप्तौ पूर्वतारकोदयव्याप्तेराधिक्यात् | यदा तु परदिने स्वल्पाऽपि श्रवणयुक्ता तदा यात्रायां परैवोपादेया | उदये दशमी किंचित् संपूर्णैकादशी यदि | श्रवणर्क्षं यदा काले सा तिथिर्विजयाभिधा || ११-२८४ || श्रवणर्क्षे तु पूर्णायां काकुत्स्थः प्रस्थितो यतः | प्. ९९०) उल्लङ्घयेयुः सीमानं तद्दिनर्क्षे ततो नराः || ११-२८५ || इति (हेमाद्रौ) काश्यपोक्तेः | एवमुक्तलक्षणाया दशम्याः परदिने सत्त्वे देवीविसर्जनेऽपि परैव ग्राह्या | * प्रातरेव दशम्यां च श्रवणर्क्षे विसर्जने | विसर्जनं तु तद्दुष्टं लक्ष्मीविद्या बलक्षयम् || ११-२८६ || (तिथिनिर्णये देवीपुराणे) पूर्वानिषेधात् | अत एव नारदः | सूर्योदये यदा राजन् दृश्यते दशमी तिथिः | आश्विने मासि शुक्ले तु विजयां तां विदुर्बुधाः || ११-२८७ || इति श्रवणान्वितायां दशम्यां केवलायामेव दशम्यां वा विसर्जनं कार्यम् | तत्तन्नक्षत्रयोगे तु फलभूमा प्रजायते | नक्षत्राणामलाभे तु केवलायां तिथौ चरेत् || ११-२८८ || इति महाकालोक्तेः | तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणं तिथिरेव साधनम् | इति लल्लवचनाच्च | परदिने दशम्यसत्त्वे तु पूर्वदिन एव दशमीभागे विसर्जनं कार्यम् | सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः | इति (नन्दिकेश्वरपुराणात्) स्थापनविसर्जनयोर्लग्नमाह | क्रूरे च स्थापयेद्देवीं चरलग्ने तु चालयेत् || ११-२८९ || (महाकालसंहितायाम्) शरदर्चाविधौ देव्याः स्थापनं च विसर्जनम् | चरलग्ने चरांशें वा कुर्यात् सर्वसमृद्धये || ११-२९० || अन्यलग्नेऽन्यांशके वा विपरीतफलप्रदम् | इत्युक्तं तन्त्रान्तरे | ततो विसर्जयेद्देवीं स्तुत्वा नत्वा पुनः पुनः || ११-२९१ || श्रवणस्यान्तिमे पादे दशम्यां शावरोत्सवैः | श्रवणानुरोधेन रात्रौ विसर्जनं न कर्त्तव्यमिति प्रागेवोक्तम् | (तिथितत्त्वे देवीपुराणे) प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् || ११-२९२ || प्रातरेव च सम्पूज्य प्रातरेव विसर्जयेत् | एतद्विसर्जनं परविद्धायामिति ज्ञेयम् | तथा | वर्षे वर्षे विधातव्यं स्थापनं च विसर्जनम् || ११-२९३ || तन्त्रान्तरे | ततोऽपराह्णे सम्पूज्य श्रवणे चापराजिताम् | प्रस्थानं नृपतिः कुर्यात् सामात्यबलवाहनः || ११-२९४ || एतयोर्विधिरग्रे वक्ष्यते | प्रस्थानं च दशमीमुल्लङ्घ्य एकादशीभागे न कार्यम् | दशमीं यः समुलङ्घ्य प्रस्थानं कुरुते नृपः | तस्य तं वत्सरं राज्ये न क्वापि विजयो भवेत् || ११-२९५ || इति (निर्णयामृते स्कान्दात्) उदये दशमी किञ्चित् इत्यादिकाश्यपोक्तेस्तु दशम्याः कर्मकालव्याप्तिरपि नापेक्षितेति प्रतिभाति तेनेदं स्कान्दवचनं श्रवणशून्यदशमीविषयम् | इति दशमीनिर्णयः | अथाशौचे विशेषो (विश्वरूपनिबन्धे) आश्विनस्य सिते पक्षे प्रारब्धे नवरात्रके | शावे शौचे समुत्पन्ने क्रियाः कार्याः कथं बुधैः || ११-२९६ || सूतके वर्त्तमने च तत्रोत्पन्नं यदा भवेत् | देवीपूजा प्रकर्त्तव्या पशुयज्ञविधानतः || ११-२९७ || सूतके पूजनं प्रोक्तं दानं चैव विशेषतः | देवीमुद्दिश्य कर्त्तव्यं तत्र दोषो न विद्यते || ११-२९८ || विष्णुः | व्रते यज्ञे विवाहे च श्राद्धे होमेऽर्चने जपे प्. ९९२) प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् || ११-२९९ || तन्त्रेऽपि | सूतकेऽत्र समुत्पन्ने प्रारब्धं न त्यजेद्बुधः इति | प्रारब्ध इति आरम्भश्चात्र सङ्कल्परूपः | सङ्कल्पो व्रतसत्रयोः | इति विष्णूक्तेः | आरब्धे स्वयमेव देवीपूजादि कुर्यात् | अनारब्धे त्वग्निहोत्रादिवत् कारयितव्यमिति सर्वमतम् | रजस्वलाऽन्येन कारयेदिति विशेषवचनाभावात् | तदुक्तं (मात्स्ये) अन्तरा तु रजोयोगे पूजामन्येन कारयेत् इति | तत्र पूजादिकं प्रवृत्तिरूपं कर्म पुत्रादिद्वारा निर्वाह्यम् | उपवासादिकं स्वयमेव कर्त्तव्य निवृत्तावशौचस्याकिञ्चित्करत्वात् | तत्राहाङ्गिराः | नियमस्था यदा नारी प्रपश्येदन्तरा रजः || ११-३०० || उपोष्यैव तु ता रात्रीः स्नात्वा शेषं चरेद्व्रतम् इति || अत्र पारणाहे सूतकादिप्राप्तौ तदतिक्रम्य पारणं कुर्यादिति केचित् तदसत् | सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् | तदन्ते भोजयेद्विप्रान् दानं दद्याच्च शक्तितः || ११-३०१ || इति (रुद्रयामलो-)क्तवचनेन सूतकेऽपि पारणविधानात् | गौडाख्यसम्प्रदायमभिप्रेत्य नवम्यामित्युक्तेः | तदुक्तं (प्रकटयोगिनीमते) गौडाख्यसम्प्रदाये तु नवम्यां पारणं भवेत् | वर्जयेत् तां दिशा विद्धां काश्मीरे सैव शोभना || ११-३०२ || केरलाख्ये सम्प्रदाये दशम्यामेव पारणमिति (शक्तिसङ्गमे-)ऽप्येवम् | सैव शोभनेति काश्मीरसम्प्रदाये दशमीविद्धैव नवमी प्रशस्तेत्यर्थः | गौडसम्प्रदायिभिस्तु नवम्यां दशमीयुक्तायां पारणं न कार्यम् | यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् | पारणं च प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् इति तत्रैवोक्तम् || प्. ९९३) यजननिषेधस्तु पूर्वदिने कर्मार्हनवमीलाभे वेदितव्यः | दशम्यां पारणं कुर्यात् इति मुण्डमालावचनं तु पुरश्चरणविषयम् | सम्प्रदायप्रभेदप्रयुक्तेतिकर्त्तव्यताभेदास्तु नवमतरङ्गे स्फुटीकृताः * | निर्णयसिन्धुकृतस्तु नवम्यां पारणं विधायकान्येतदादिवचनानि निर्मूलान्येव समूलत्वाभिमाने तु लोहाभिसारिकपराणि तस्याष्टमीपर्यन्तमेवोक्तेः | नवरात्रव्रतस्य नवमीपर्यन्तकर्त्तव्यताकतया दशम्यामेव नियमपारणा कार्येत्याहुः | अथेयं शारदी पूजा नित्या | अकरणे प्रत्यवायश्रवणादिति केचित् | शरदागमनिमित्तकत्वान्नैमित्तिकीत्यन्ये | नानाविधफलश्रुतेः काम्येत्यपरे | वस्तुतस्तु नित्यकाम्यरूपेयं न तु नैमित्तिकी | अन्यथा कार्यमात्रं प्रति कालस्य हेतुतया नित्यस्यापि कर्मणो नैमित्तिकत्वापत्तेरित्युक्तं (महाकालसंहितायाम्) यथा | अधुना कथयिष्यामि सरहस्यं विशेषतः || ११-३०३ || शारदीयां च वासन्तीमर्चां नानाफलप्रदाम् | मनीषिणो विदधति विचारानत्र भूयशः || ११-३०३ || स्मृत्यध्वचारिणः सर्वे कौलिकाः सर्व एव च | त्रैविध्यमध्ये किंरूपाः भवतीयं समर्हणा || ११-३०४ || यस्याकरणतः पापं जायते नित्यमेव तत् | विधानाद्यस्य च फलं जायते काम्यमेव तत् || ११-३०४ || अननुष्ठानतो यस्य पापमुत्पद्यते परम् | विधानाच्च फलं वाऽपि तन्नैमित्तिकमुच्यते || ११-३०५ || इयं या शारदी पूजा कथ्यते सा किमात्मिका | केचित् काम्यां वदन्त्येनां के चिन्नैमित्तिकीमपि || ११-३०६ || पूर्वं फलश्रवणतः शरदागमनात् परे | प्. ९९४) नित्यामेनामेव केचिद्वदन्ति कुलमार्गगाः || ११-३०७ || तथा | त्रिपुरघ्नाय यद्वाक्यं पुरोवाच सुरेश्वरी | शारदीयामिमां पूजां न करिष्यन्ति ये नराः || ११-३०८ || ते पतिष्यन्ति निरये पापाः पूजापहारकाः | इत्यादिवाक्यान्नित्यत्वमभिधानादथ श्रुतेः || ११-३०९ || घटते काम्यता चास्यास्तत्र हेतुं वदामि ते | अत्रापि चण्डिकावक्त्राम्बुजोद्भूतसुधासमम् || ११-३१० || वचः कलय कल्याणि काम्यताप्रतिपादकम् | शरत्कालीनपूजां ये कर्त्तारो भक्तिभाविताः || ११-३११ || तेषां दारान् सुतान् भोगं वित्तमारोग्यमुन्नतिम् | तुष्टा दास्याम्यहं शम्भो स्वर्लोके वसतिं सदा || ११-३१२ || इत्थं नानाफलोल्लेखश्रवणात् काम्यताऽपि च | शरदागमनं हेतुमुपन्यस्यास्य ये बुधाः || ११-३१३ || नैमित्तिकत्वं ब्रुवते न ते पाण्डितबुद्धयः | कालो न स्यादुपादानकारणं कस्य वस्तुनः || ११-३१४ || तदागमनहेतुत्वे नित्यस्यापि न नित्यता | अकृते जायते नैनः कृते च न भवेत् फलम् || ११-३१५ || नैमित्तिकस्येदृशं हि ब्रुवाणैर्लक्षणं प्रिये | फलाद्याधायके किं नो दृश्येते वचने उभे || ११-३१६ || तस्मादत्र हि विज्ञेयं नित्यकाम्यत्वमीश्वरि | यथा च शारदीयार्चा वासन्त्यर्चा तथैव च || ११-३१७ || नानयोर्विद्यते भेदः स्वल्पोऽपि निगमादिषु | शारदोत्सवनिदानमाह | प्. ९९५) आसीत् पूर्वं महापूजा वासन्त्येव जगत्त्रये || ११-३१८ || रामरावणयोर्युद्धे जाते त्रेतायुगान्तरे | कालिकाङ्गीतकृत्वेन हन्तुं रामोऽशकन्नतम् || ११-३१९ || ततो वै चिन्तितो भूत्वा ब्रह्मा सुरगणैर्वृतः | कालिकां बोधयामास हिमालयकृतालयाम् || ११-३२० || त्वदुपासकयोर्देवि युध्यतोर्घोरमाहवे | अस्त्रशिक्षां लाघवं च समागत्यावलोकय || ११-३२१ || एवमभ्यर्थिता देवी अकाले बोधिता तथा | जगाम ब्रह्मणा सार्धं लङ्कां द्रष्टुं रणं तयोः || ११-३२२ || शुक्लप्रतिपदीषस्य प्राप्ता तं देशमीश्वरी | सप्तरात्रं निराहारं महद्युद्धमहर्निशम् || ११-३२३ || तयोर्दिव्यास्त्रप्रयोगसंहारपरयोरभूत् | रामः शशाक नो हन्तुं राक्षसं काल्युपासकम् || ११-३२४ || स चापि नाशकद्रामं स्वयं विष्णुमुपागतम् | समीक्ष्य राक्षसो बाहुबलं देवीं तुतोष ह || ११-३२५ || स्वभक्त इति कृत्वाऽस्मिन् पक्षपातं चकार च | रक्षस्यनुग्रहं दृष्ट्वा ब्रह्मा सर्वैः सुरैः सह || ११-३२६ || संतुष्टाव स्तवैर्दिव्यैर्भक्त्या प्रणतकन्धरः | काकूक्त्या प्रणिपातैश्च नमस्कारैः स्तवैरपि || ११-३२७ || तुष्टा ब्रह्माणमूचे सा हृत्स्थं वत्स वरं वृणु | वरं वव्रे ततः सार्धं त्रिदशैश्च चतुर्मुखः || ११-३२८ || त्वत्पादयोर्भक्तमपि त्यजैनं दुष्टराक्षसम् | मययनुग्रहलेशेन विष्णोर्मान्यतयाऽपि च || ११-३२९ || प्. ९९६) कृपादृष्ट्या च देवेषु धर्मसंस्थापनाय च | त्रिलोकी जायतां सुस्था देवाः सन्तु मखाशिनः || ११-३३० || तपस्तपन्तु मुनयश्चातुर्वर्ण्यं प्रवर्त्तताम् | एष वीरजिता/लोकाञ्छस्त्रपूतश्च गच्छतु || ११-३३१ || पूजां प्रवर्त्तयिष्यामि तव देव्यमरैः सह | तिथिमाद्यां समारभ्य यावद्रक्षोवधो भवेत् || ११-३३२ || दिनानि नव ते पूजा भविष्यति जगत्त्रये | नवम्यां निहते वीरे रावणे विश्वकण्टके || ११-३३३ || प्रीतिमुत्पादयिष्यामः प्रभूतवलिभिस्तव | अपरेऽह्नि दशम्यां ते नीराजनमहोत्सवम् || ११-३३४ || गीतैर्नृत्यैस्तथा वाद्यैर्जलकर्दमकेलिभिः | अश्लीलवेशवचनैः शास्त्रास्त्ररचनैरपि || ११-३३५ || रथद्विरदवाहानां सज्जनाविधिभिस्तथा | सुराः प्रवर्त्तयिष्यन्ति मनुष्याश्च महीतले || ११-३३६ || भक्तोऽयं रावणो यद्वत् पादयोस्तव कालिके | रामो भविष्यति तथा सदैव तव पूजकः || ११-३३७ || मन्त्रः कोऽपि च ते देवि रामोपासितसंज्ञया | सद्यस्तव प्रीतिकरः ख्यातिं जगति यास्यति || ११-३३८ || इत्युक्त्वा ब्रह्मणा काली बभूवास्य पराङ्मुखी | ततो जघान दिव्यास्त्रै राघवो रावणं रणे || ११-३३९ || तत आरभ्य देवेशि शारद्यर्चा प्रवर्त्तिता | अत एव द्वयो कार्या वासन्ती शारदी तथा || ११-३४० || केषां चिदपि वासन्त्यां मतभेदो न विद्यते | प्. ९९७) शारद्यां तु त्रयो भेदाः कथ्यन्ते ते मयाऽधुना || ११-३४१ || आश्विनाशितपक्षस्य नवमी या शिवर्क्षयुक् | बोधयित्वेश्वरीं तस्यां शरदर्चनमाचरेत् || ११-३४२ || यावत् स्यान्नवमी शुक्ला तावत् पूजा प्रवर्त्तते | इत्येकः पक्ष उदितो द्वितीयमवधारय || ११-३४३ || प्रतिपद्येव शुक्लायां बोधयित्वा सुरेश्वरीम् | अभ्यर्चयेन्नवाहानि तन्त्रपौराणिकक्रमैः || ११-३४४ || उदीरितो द्वितीयोऽयं तृतीयं कथयाम्यथ | सायाह्ने विल्वशाखायां षष्ठ्यां देवीं प्रबोधयेत् || ११-३४५ || प्रातः प्रवर्त्तते पूजा सप्तम्यादिदिनत्रये | त्रैविध्य ईदृश्यर्चाया विवदन्ते मिथो बुधाः || ११-३४६ || ब्रवीमि तत्र सिद्धान्तं छिन्नं येन तमो भवेत् | रम्भकल्पे पुरा देवी रम्भासुरतनूद्भवम् || ११-३४७ || अष्टादशभुजा भूत्वा महाघोरतराकृतिः | उग्रचण्डा स्वरूपेण जघान महिषासुरम् || ११-३४८ || सितेन करवालेन मृतमेनं जहौ तथा | पतितं च क्षितावस्य व्यशीर्यत कलेवरम् || ११-३४९ || नीललोहितकल्पे तु पुनरेव व्यजायत | उद्वेगकृद्देवतानां तथा यञविनाशकृत् || ११-३५० || इति कृत्वा महामाया भद्रकाली वपुर्धरा | सम्भूय षोडशभुजा विशिषेण शितेन हि || ११-३५१ || अवधीत् तं पुनश्चापि तत्याज गलितं भुवि | श्वेतवाराहकल्पादावजायत पुनः स हि || ११-३५२ || प्. ९९८) जैगोषव्यप्रसादेन पूर्वजातिस्मरोऽभवत् | वारद्वयं हतं ज्ञात्वा देव्यात्मानं पुराऽसुरः || ११-३५३ || स्त्रीवध्यतां च विज्ञाय स्वस्यामुष्यां जनावपि | कात्यायनमुनेः शापात् स्वप्नदर्शनतोऽपि च || ११-३५४ || एकान्ते भक्तिमास्थाय त्रिविधां महिषासुरः | आराधयामास कालों स्वोदर्कपरिशुद्धये || ११-३५५ || दिव्यद्वादशसाहस्रवर्षानन्तरमीश्वरी | प्रत्यक्षमागता तस्य वरं वृण्विति चाब्रवीत् || ११-३५६ || ततोऽसुरः स ऊचे तां निरीक्ष्य पुरतः स्थिताम् | वरं पश्चाद्ग्रहीष्यामि देवि त्वत्तो मनोगतम् || ११-३५७ || आदौ मे संशयं छिन्धि जागरूकं हृदि स्थितम् | वारद्वयं मामवधीः सुरारिरणमूर्धनि || ११-३५८ || धृत्वा कां कामाकृतिं त्वमघोरामथ भीषणाम् | जन्मन्यस्मिन्नपि पुनः केनाकारेण कालिके || ११-३५९ || मां हनिष्यसि दुर्वृत्तं निखिलामरकण्टकम् | निशम्येदृग्वचस्तस्य विहस्य जगदम्बिका || ११-३६० || चालयन्ती शिरः किञ्चिदुवाच मधुराक्षरम् | मदीयतादृशाकारदर्शनेन फलं तव || ११-३६१ || किं भविष्यति दैत्येन्द्र किन्तु त्रासमवाप्स्यसि | दिदृक्षसे चेदथ तां करालामाकृतिं मम || ११-३६२ || पश्येत्युक्त्वा जगद्धात्री विहाय ललितं वपुः | उग्रचण्डा तनूरूपं दर्शयामास दानवम् || ११-३६३ || ज्वालाकरालवदनमष्टादशभुजान्वितम् | प्. ९९९) दिव्यशस्त्रास्त्रकलितं मुण्डमालाभयङ्करम् || ११-३६४ || विदीर्णसृक्क्वयुगलं घोरदंष्ट्रातिभीषणम् | चलत्सौदामिनीतुल्यरसनं नाददारुणम् || ११-३६५ || तद्रूपं दितिजो वीक्ष्य न्यमीलयत लोचने | कृताञ्जलिपुटो भूत्वा प्रत्युवाच च कालिकाम् || ११-३६६ || घोरमोदृशमाकारं न शक्नोमि तवेक्षितुम् | त्रैलोक्यत्रासनं रूपं देवि संहर संहर || ११-३६७ || इत्युक्त्वाऽसुरराजेन पुनः सा प्राकृतं वपुः | कृत्वा तं दर्शयामास ततः सुस्थो बभूव सः || ११-३६८ || भद्रकाली वपुर्भूत्वा पुनः सा परमेश्वरी | निरीक्षयामास रूपं द्वितीयं जीवनापहम् || ११-३६९ || तद्रूपदर्शनेऽप्येष पुनस्त्रासमुपेयिवान् | तस्यापि परिवृत्तौ स प्राकृतः सम्बभूव ह || ११-३७० || गतमीरथ तां देवीमुवाच दितिजाधिपः | ईदृशाकारधारिण्या कथं देवि त्वया सह || ११-३७१ || समरे योद्धुमशकमहं वरमदोद्धतः | गरुत्मता सह यथा डुण्डुभस्य रणस्मृहा || ११-३७२ || दावाग्निना पतङ्गानां तिमिरस्य च भास्वता | मृगाणां हरिणा चैव द्रुमाणां वायुना तथा || ११-३७३ || भेकानामहिना चापि प्राणिनां शमनेन च | तद्वद्भवत्या समं मे कथमासीन्महान्रणः || ११-३७४ || यदतीतमतीतं तदिदानीं ते वरत्रयम् | वृणेऽहं मम तद्देहि मनोरथपदातिगम् || ११-३७५ || प्. १०००) एकं सौम्याकारधरा भूत्वाऽस्मिन् जन्मनीश्वरि | त्वं मां वधिष्यसि त्राण हेतोरध्वरभोजिनाम् || ११-३७६ || द्वितीयं ते मच्छिरसि वामपादाम्बुजं सदा | स्थास्यति प्राणयुक्तस्य पश्यतस्त्वन्मुखच्छविम् || ११-३७७ || तृतीयं देवि यज्ञस्य भागं प्राप्नोमि कंचन | इत्येवमुक्ते महिषे वचनेन सुरारिणा || ११-३७८ || उवाच सस्मितं देवी भक्तिप्रणतकन्धरम् | दैत्येन्द्र शृणु मद्वाक्यं यथार्थं मधुराक्षरम् || ११-३७९ || रम्भासुरस्ते जनकस्तपस्तप्त्वा सुदारुणम् | शङ्करं तोषयामास रम्कल्पे हिमालये || ११-३८० || वच ऊचे हरस्तुटो महाभाग वरं वृणु | हित्वा सोऽन्यवरं वव्रे भवान् पुत्रो भवत्विति || ११-३८१ || भक्त्या नियन्त्रितः कार्यगतित्वात् स महेश्वरः | वरं ददौ स आत्मानं पुत्राकृतमनुष्ठ्य हि || ११-३८२ || तस्माज्जातो हि महिषीगर्भे त्वं काममोहितात् | साक्षात् त्वं रुद्र एवासि न सामान्या हराकृतिः || ११-३८३ || तथा | शिवस्त्वं वरदानेन रम्भस्य सुततां गतः | मन्वन्तरत्रयं साग्रं भुक्तवा/श्च जगत्त्रयम् || ११-३८४ || अतः परं न वस्तव्यं त्वया दितिजदेहिना | स्वपुरं प्रति गन्तव्यं मम लोकादधः स्थितम् || ११-३८५ || कात्यायनस्य शापाच्च शिरश्छेदनहेतुकात् | युक्तकाले स्थास्यति नो भक्तिरेतादृशी तव || ११-३८६ || कपोतशापादीदृक्षादित्युक्ताः पञ्च हेतवः | प्. १००१) महिषायेदृशं दत्वा वरमुक्त्वा पुरा कथाम् || ११-३८७ || सपद्यन्तर्दधे काली वर्षासु चपला यथा | देव्यामन्तर्हितायां स सर्वं विस्मृतवान् क्षणात् || ११-३८८ || बभूव पूर्ववद्दुष्टो यज्ञदेवद्विजन्मनाम् | प्रणष्टा भक्तिरस्यापि देव्यामव्यभिचारिणी || ११-३८९ || पूर्वदत्तमतिर्भ्रष्टा ज्ञानमन्तर्हितं चरेत् | इति ते कथितो देवि वृतान्तः पूर्वसम्भवः || ११-३९० || सिद्धान्तमनयोर्बोद्धुं रीत्या शक्त्या विचक्षणात् | सिद्धान्तनिर्णयकृते कथिताऽख्यायिकाऽप्यसौ || ११-३९१ || इयं हि शारदी पूजा मूर्त्तिभेदात् त्रिधा मता | तत्तद्द्रव्यमधिष्ठाय नृणां गृह्णाति सार्चनम् || ११-३९२ || येऽष्टादशभुजां देवीमुग्रचण्डाभिधां प्रिये | पिपूजयिषवो मर्त्त्यास्तदुपासकतामिताः || ११-३९३ || तथाऽश्विननवम्यां वै कृष्णायां सुसमाहिताः | करवाले बोधयेयुर्मध्याह्ने शङ्खनिःस्वनैः || ११-३९४ || खगानजान् वा महिषानेणान् वाऽन्यवलीनपि | रीतिं संकलितां कृत्वा दद्युः षोडशवासरान् || ११-३९५ || एषाऽद्या महिषालम्भकर्त्तृपूजाविधिर्मतः | अथ माध्यमिकः पक्ष .इषस्याद्यतिथौ सिते || ११-३९६ || प्रातः पटहनिःस्वानैः सढक्कानकगोमुखैः | ईश्वरीं षोडशभुजां भद्रकालीति नामिकाम् || ११-३९७ || सम्बोध्य ये पूजयेयुर्दिनानि नव वै प्रिये | अपूपमोदकप्रायवलिसंकलितक्रमैः || ११-३९८ || प्. १००२) तृतीयः पक्ष ईदृक्ष उदितस्त्रिपुरारिणा | अश्वयुक्सितषष्ठ्यां वै शाखायां विल्वशाखिनः || ११-३९९ || सायंकाले बोधयित्वा वाद्यैरुच्चावचोद्धतैः | दुर्गादेवीमर्चयीत सप्तम्यादिदिनत्रये || ११-४०० || दशबाहुधरां देवीं महासौन्दर्यशालिनीम् | रीतिसंकलिते पात्रे विल्वपत्रस्य कीर्त्तिता || ११-४०१ || अथवा करवीरस्य शक्त्या च महिषाजयोः | स्वस्वशक्त्यनुसारेण सर्वमन्यत् प्रकीर्त्तितम् || ११-४०२ || होमो जपः कुमार्यर्चा साधकानां च भोजनम् | उपोषणमथो मौनं प्रभूतफलहेतवे || ११-४०३ || हननात् खड्गबाणाभ्यां तत्र तत्र तु बोधनम् | आविर्भावो विल्वतरोरत्र बोधनमाचरेत् || ११-४०४ || तत्तन्नक्षत्रलाभे तु फलभूमा प्रजायते | नक्षत्राणामलाभे तु केवलायां तिथौ चरेत् || ११-४०५ || सत्यां शक्तौ चतुर्थ्यां वै देव्याः केशं विमोचयेत् | तत्र पूजा विधातव्या महाविभवविस्तरैः || ११-४०६ || उद्वर्त्तनं कण्टकिकं केशबन्धनडोरकम् | नखरञ्जं शलाकां च सिन्दूरालक्तकज्जलम् || ११-४०७ || सुगन्धितैलोष्णजलपिष्टातामलकादिकम् | दद्याद्देव्यै विशेषेण भक्तिभावेन पार्वति || ११-४०८ || पूजायाः कथितं चात्र द्वैविध्यं मुनिपुङ्गवैः | पौराणिकं तान्त्रिकं च कालिकाप्रीतिसिद्धये || ११-४०९ || श्रुतध्वजाय प्राङ्नन्दिकेश्वरेण यदीरितम् | प्. १००३) तद्वै बहुलविस्तारं शारदीयार्चनं मतम् || ११-४१० || यद्देव्या स्वयमाख्यातं कपिलाय महर्षये | तन्नातिबहुलं नातिस्वल्पं मध्यममुच्यते || ११-४११ || यदौर्वेण समाख्यातं सगराय महीभृते | तद्विज्ञेयं सुरेशानि कनीयः शरदर्चनम् || ११-४१२ || तान्त्रिकं बहुतन्त्रोक्तं सर्वैः स्वस्वमतागतम् | यो येनैव क्रमेणैतां शरदर्चां वरानने || ११-४१३ || विधत्ते स समाप्नोति फलं तत्तत्क्रमेण हि | इयं हि पूजा द्विविधा पौराणी तान्त्रिकी तथा || ११-४१४ || तान्त्रिके कौलिकी रीतिः पुराणे वैदिकी मता | यद्येभ्यो रोचते देवि प्रतिनन्दति ते हि तत् || ११-४१५ || अथ पूजा प्रकर्त्तव्या केषु केषु स्थलेषु हि | तत्रोत्तरं ते वदामि शृणुष्वावहिता सती || ११-४१६ || तैजसे प्रतिमा यन्त्रेऽथ वा मोहेयदारवे | शैलेय अथवा देवि धातवे गिरिसम्भवे || ११-४१७ || विल्ववृक्षपत्रिका च घटः पूर्ववदीरितः | गोमयेनोपलिप्तं वा स्थण्डिलं जगदीश्वरि || ११-४१८ || सिन्दूराङ्के मण्डलं वा शूलखड्गशरास्तथा | पुस्तकं वा चित्रपटं सर्वतोभद्र एव वा || ११-४१९ || अनादिपीठं च तथा शिवलिङ्गं तथैव च | जलमग्निस्तथा खातनृकरोटिस्थलं शुभम् || ११-४२० || एवमादीनि चान्यानि स्थानान्यर्चनहेतवे | पत्रिकाश्च परिज्ञेयाः कदलीविल्वदाडिमाः || ११-४२१ || प्. १००४) हरिद्राशोककच्यौ च जयन्ती धान्यमालिनी | (भविष्येऽपि) रम्भा कची हरिद्रा च जयन्ती विल्वदाडिमौ || ११-४२२ || आशोको मानकश्चैव धान्यानि नव पत्रिकाः | (महाकालसंहितायाम्) एकाशीतिपदं चक्रं सर्वतोभद्रमण्डलम् || ११-४२३ || भित्तौ चित्रीकृता देवी पूजिता फलदायिनी | अष्टम्यां तु विशेषेण पूजा कार्याऽत्र पार्वति || ११-४२४ || प्रभूतवलिदानं तु नवम्यां होम एव च | अष्टमीनवमीसन्धौ विशेषात् पूजनं चरेत् || ११-४२५ || नवम्यां वलिदानानु कुमारीपूजनं तथा | दिनत्रयेऽपि च महादेव्याः स्नानं प्रकल्पयेत् || ११-४२६ || तथा | उपवासं तथा कुर्यादष्टम्यां कालिकामुदे | सिद्ध्यर्थं स्वाभिलाषाणां तथाऽन्येषां च शर्मणाम् || ११-४२७ || किन्तु पुत्री न कुर्वीत कृते पुत्रो विनश्यति | स्त्र्युपयोगीनि वस्तूनि रचनादीनि यानि हि || ११-४२८ || तानि देव्यै प्रदेयानि विभवाद्यनुरूपतः | तिथौ शुक्लप्रतिपदि कृत्वोपक्रममीश्वरि || ११-४२९ || षष्ठेऽह्नि सायंसमये कृतनित्यक्रियो दिवा | बोधयेद्विल्वशाखायां देशिकः परमेश्वरीम् || ११-४३० || सङ्कल्पं पुरतः कृत्वा स्वस्तिवाचनपूर्वकम् | सराशिमासपक्षस्य तिथेरुल्लिखनक्रमात् || ११-४३१ || सगोत्रनामोच्चरणं यजमानो विधाय हि | प्. १००५) दुर्गाबोधनकर्माहं करिष्ये इति कीर्त्तयेत् || ११-४३२ || भूतशुद्धिं ततः कृत्वा षडङ्गं सर्षि तत्परम् | आवाह्य विल्वशाखायामथ वा मूर्त्तिपीठयोः || ११-४३३ || उपचारैः षोडशभिर्मूलमन्त्रेण देशिकः | पूजयित्वा जगद्धात्रीमर्धमस्तमिते रवौ || ११-४३४ || विल्ववृक्षं च सम्पूज्य गन्धपुष्पाक्षतादिभिः | शङ्खतूर्यनिनादैश्च मुरजध्वनिगीतिभिः || ११-४३५ || बोधयेत् स्तुतिसंलापैर्वन्दीव वसुधाधिपम् | प्रोच्यमानं समुच्चार्य मन्त्रं संचालयेच्छिवाम् || ११-४३६ || तारमैधे शाकिनी च कूटं स्वप्नावतं तथा | विसन्धिभगवत्युक्त्वोत्तिष्ठ द्वयमुदीरयेत् || ११-४३७ || निद्रां जहि युगं चापि प्रतिबुद्ध्यस्व च द्वयम् | मम शत्रून् हन द्वन्द्वं पातय द्वितयं तथा || ११-४३८ || लज्जा रमा डाकिनी च फट्स्वाहा तदनन्तरम् | तारः प्रणवः | मैधं वाग्भवम् | शाकिनी फ्रे/ | स्वप्नावतीकूटम् ख्स्ह्क्ष्व्ली/ | डाकिनी ख्फ्रे/ | तत्रान्त्ररे तु श्लोकरूपा मन्त्रा उक्ताः | यथा | रावणस्य वधार्थाय रामस्यानुग्रहाय च || ११-४३९ || अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा | अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयामि वै || ११-४४० || शक्रेणापि च सम्बोध्य राज्यं प्राप्तं सुरालये | तस्मादहं त्वां प्रति बोधयामि विभूतिराज्यप्रतिपत्तिहेतोः | यथैव रामेण हतो दशास्यस्तथैव शत्रुं विनिपातयामि इति || तथा | षष्ठ्यां सायं प्रकुर्वीत विल्ववृक्षेऽधिवासनम् || ११-४४१ || प्. १००६) (महाकालसंहितायाम्) रजन्याद्ये मुहूर्त्ते तु चण्डिकामधिवासयेत् | सुगन्धितैलपाताभ्यां पञ्चभिर्गन्धजातिभिः || ११-४४२ || पुष्पजातिविशेषैश्च तावद्भिरधिवासयेत् | सर्वमाङ्गल्यवस्तूनि विधायैकत्र भाजने || ११-४४३ || प्रशस्तवदनं देव्याः कारयेत् तदनन्तरम् | समांसमीनसिद्धान्नवलिं भूतेभ्य उत्सृजेत् || ११-४४४ || गीतवाद्यैश्च नाद्यैश्च नमस्कारैश्च जागरैः | देवीं सन्तोष्य वचनैर्व्याजस्तुत्याद्यनिन्दनैः || ११-४४५ || सिद्धार्थकैर्मन्त्रपाठपूर्वं रक्षां विधाय च | पूर्ववत् सर्वमाभाष्य मासपक्षतिथिक्रमैः || ११-४४६ || शरत्कालीनपूजाङ्गं ततश्च कृत्यपत्रिकाः | अथवा प्रतिमापीठयन्त्रस्थापनकर्मणि || ११-४४७ || दुर्गादेव्या गन्धपुष्पपट्टवासस्रगादिभिः | अधिवासनकर्माहं कुर्वीयेत्यभिजल्प्य वै || ११-४४८ || पूर्ववद्भूतशुद्धिं च सर्षिं करषडङ्गकम् | प्राणायामत्रयं चापि कृत्वाऽर्घस्थापनं चरेत् || ११-४४९ || गणेशमथ दिक्पालान् मातृग्राहा/स्तथैव च | वटुकान् क्षेत्रपाला/श्च द्वाराध्यक्षा/श्च योगिनीः || ११-४५० || शक्त्योपचारैः सम्पूज्य पत्रिकापीठमूर्त्तिषु | आवाह्य देवीमिष्टां च मूलमन्त्रोपचारकैः || ११-४५१ || शताहरिद्रातैलानि एकीकृत्य समानि हि | चैतन्यकमलालज्जागन्धचारेरुडस्त्रकम् || ११-४५२ || प्. १००७) उच्चार्य दद्यादलिके शिरस्यपि च पादयोः | ततः कुङ्कुमकर्पूरकस्तूरीमलयोद्भवैः || ११-४५३ || एकीकृतैर्डाकिनीहृन्मन्त्रैस्तान्येव भूषयेत् | विल्वपत्रजवापद्मकरवीरापराजिताः || ११-४५४ || एकीकृत्यार्पयेन्मूर्ध्नि वदन्मदनमस्तके | माल्यैरापूरयेद्यन्त्रं प्रतिमां पत्रिकामपि || ११-४५५ || शङ्खोनोसवदौ क्रौडौ मृत्तिकामलयोद्भवः | गोरोचनाधान्यदूर्वादृषत्सिन्दूरकज्जलम् || ११-४५६ || हरिद्रास्वस्तिकालक्तदध्यक्षतफलाम्बुजम् | धूपदीपौ मधुघृतं कुमारीकरतन्तवः || ११-४५७ || घनसारो मृगमदं कक्कोलं कुङ्कुमं तथा | महौषधिगणाः सिद्धार्थफलं स्वर्णमणी तथा || ११-४५८ || रौप्यं व्याघ्रनखोऽम्भोजं विष्णुक्रान्ताऽपराजिता | एवमादीनि माङ्गल्यद्रव्याण्युक्तानि यानि वै || ११-४५९ || एकस्मिन् भाजने तानि एकीकृत्य पृथक् पृथक् | देव्याः शिरो वक्षसि च तारमैधत्रपाशिरः || ११-४६० || प्रोच्चरन् समनुत्तोल्य त्रिवारं स्पर्शयेच्छनैः | भूतादिभ्यो वलिं दद्यात् तत्तद्बीजं पुरः स्मरन् || ११-४६१ || तत्तन्नामाभ्यसन्तं च सन्धिनैष वलिर्नमः | दशदिक्षु क्षिपेच्चापि राजिकाश्वेतसर्षपौ || ११-४६२ || ताराद्रक्षयुगं चास्त्रं शिरः कूर्चोऽन्तिमे तथा | * वर्णैश्चतुर्भिः संवेष्ट्य ता/श्च कल्माषतन्तुभिः || ११-४६३ || प्. १००८) अस्त्राण्यस्याः पुरः कृत्वा जागृयात् सकलां निशाम् | इति षष्ठीकृत्यम् | अथ सप्तमीकृत्यं तत्रैव | अथो उषसि सप्तम्यां कृतनित्यक्रियो बुधः || ११-४६४ || पूर्ववद्विल्वशाखायां देवीमभ्यर्च्य मानवः | शितां गृहीत्वा छुरिकां मन्त्रमेनं समुच्चरेत् || ११-४६५ || फलद्वययुतां शाखां छिन्द्याद्विल्वस्य सधकः | चैतन्यं प्रणवं माया रोषरावौ च डाकिनी || ११-४६६ || इमां शाखां छिन्धि युगं छेदय द्वितयं तथा | अस्त्रयुग्मं शिरश्चापि गृहीत्वा तां करद्वये || ११-४६७ || बद्धाञ्जलिश्चतुर्मन्त्रान् पठेत् पौराणिकान् प्रिये | मेरुमण्डलकैलाशहिमवच्छिखरे गिरौ || ११-४६८ || जातः श्रीफलवृक्षस्त्वमम्बिकायाः सदा प्रियः | श्रीशैले शिखरे जातः श्रीफलः श्रीनिकेतनः || ११-४६९ || नेतव्योऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः | विल्ववृक्ष महाभाग सदा त्वं शङ्करप्रिय || ११-४७० || गृहीत्वा तव शाखां हि देवीपूजां करोम्यहम् | शाखाछेदोद्भवं दुःखं न च कार्यं त्वया तरो || ११-४७१ || देवैर्गृहीत्वा शाखां ते पूजिताऽम्बेति विश्रुतिः | पुनरन्यत् पद्यरूपं मन्त्रं ब्रूयाच्च साधकः || ११-४७२ || पुत्रायुर्धनवृद्ध्यर्थं नेष्यामि त्वामुमाप्रियाम् | विल्वशाखां समाश्रित्य राज्यं देवि प्रयच्छ मे || ११-४७३ || आगच्छ चण्डिके देवि सर्वकल्याणहेतवे | कात्यायनि गृहाणार्चां नमस्ते शङ्करप्रिये || ११-४७४ || प्. १००९) ततः पूर्वोदिताश्चान्या आहरेदष्ट पत्रिकाः | तन्त्रान्तरे | पत्रिकास्ताः समानीय गीतवाद्यपुरःसरम् || ११-४७५ || ब्रह्मघोषादिभिः सार्धं नीत्वाऽन्यस्येद्गृहाङ्गणे | (महाकालसंहितायाम्) ता एकीकृत्य लतयाऽपराजितसमाह्वया || ११-४७६ || संवेष्ट्य वसनेनापि पूजासङ्कल्पमाचरेत् | पूर्ववत् सर्वमुच्चार्य पत्रिकापीठमूर्त्तितः || ११-४७७ || ततश्च स्थापनमहं किरष्ये इति कीर्त्तयेत् | पत्रिकायां तथा मूर्तौ खड्गे वा * यन्त्रमूर्त्तयोः || ११-४७८ || देवीमावाह्य सम्पूज्य विल्वपत्राञ्जलीत्रयम् | दत्वा शक्तौ प्रकुर्वीत देव्याः स्नानं महोत्तरम् || ११-४७९ || तद्वै पौराणवैदिक्यमपि संकीर्त्तयामि ते | शक्तौ दिनत्रयं कुर्यादशक्तौ तु दिनद्वयम् || ११-४८० || सर्वाभावे नवम्यां तु स्नानमावश्यकं मतम् | कुर्यादत्रापि सङ्कल्पं काम्यमेतद्यतः प्रिये || ११-४८१ || शतजन्मकृतात् पापान्मोचने प्रथमं स्मृतम् | तथा चाष्टसहस्राब्दावच्छिन्नपदतः खलु || ११-४८२ || दुर्गालोकस्थितिरिति शतयज्ञफलाप्तियुक् | नवाऽपि पत्रिका शुद्धतोयेन स्नापयेत् ततः || ११-४८३ || प्रत्येकं तत्तदाख्याभिर्मूर्तौ नाम्ना धियाऽपि च | मन्त्राणां पद्यरूपाणामादौ तारस्त्रपा स्मरः || ११-४८४ || रमा मैधं रावरौषौ डाकिन्यष्ट च वै नव | प्. १०१०) प्रत्येकं देवि देयानि तान्त्रिकस्नापनक्रमे || ११-४८५ || कदलीतरुसंस्थाऽसि शम्भुवक्षःस्थलस्थिते | स्नापयाम्यद्य पत्रि त्वां नमस्ते हरवल्लभे || ११-४८६ || कच्चित् त्वं स्थावरीभूता सद्यः सिद्धिविधायिनी | दुर्गारूपेण सर्वत्र स्नानेन विजयं कुरु || ११-४८७ || हरिद्रे हर दुःखानि शङ्करस्य सदा प्रिये | रुद्ररूपाऽसि देवि त्वं सर्वशान्तिं प्रयच्छ मे || ११-४८८ || जयन्ती जयरूपाऽसि जगतां जयकारिणी | स्थापयामीह देवि त्वां जयं देहि गृहे मम || ११-४८९ || श्रीफल श्रीनिकतोऽसि सदा विजयवर्धन | देहि मे धर्मकामार्थान् प्रसन्नो भव सर्वदा || ११-४९० || दाडिम्यघप्रणाशाय क्षुन्नाशाय तथा नृणाम् | निर्मिताऽसि पुरा धात्रा प्रसीद त्वमुमाप्रिये || ११-४९१ || स्थिरा भव सदा लोके दुर्गेशोकविनाशिनि | मया त्वं पूजिता नियं स्थिरा भव हरप्रिये || ११-४९२ || ब्राह्मेषु मानो मानेषु माननीयः सुरासुरैः | स्नापयामि महादेवीं मानं देहि नमोऽस्तु ते || ११-४९२ || लक्ष्मीस्त्वं धान्यरूपाऽसि प्राणिनां प्राणदायिनी | स्थिराऽत्यन्तं हि नो भूत्वा गृहे कामप्रदा भव || ११-४९३ || ततो द्वित्रिनदीतोयं कृत्वा कलशगर्भगम् | चन्दनालोडितं चापि स्नापयेत् तेन चण्डिकाम् || ११-४९४ || शीता चालकनन्दा च चक्षुर्भद्रादृषद्वती | तुङ्गभद्रा कृष्णवर्णा पयोष्णी नर्मदा तथा || ११-४९५ || प्. १०११) तापी भीमरथी सिप्रा * वितस्तैरावती तथा | गोदावरी विपासा च शतद्रुः सिन्धुरेव || ११-४९६ || चर्मण्वती च कावेरो ताम्रपर्णी महानदी | करतोया बहुदा च शोणा वेत्रवती तथा || ११-४९७ || देविका भैरवः कोका गोमती चोत्पलावती | आत्रेयी भारती गङ्गा यमुना च सरस्वती || ११-४९८ || सरयूर्गण्डकी चापि श्वेतगन्धा च कौशिकी | भोगवती च पाताले स्वर्गे मन्दाकिनी तथा || ११-४९९ || एताश्चान्याश्च या नद्यो भाषिता याश्च नेरिताः | देवखातानि तीर्थानि कूपा निर्झरसंज्ञकाः || ११-५०० || सरांसि सिन्धवश्चापि सम्भेदा ये च भूतले | सर्वे त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः || ११-५०१ || वासुदेवो जगन्नाथस्तथा संकर्षणः प्रभुः | प्रद्युम्नश्चानिरुद्धश्च भवतीं स्नापयन्त्विमे || ११-५०२ || ख्याता ये द्वादशादित्या रुद्रा एकादशापि च | मरुतश्चोनपञ्चाशद्वसवोऽष्टर्त्तवश्च षट् || ११-५०३ || आखण्डलोऽग्निर्भगवान् यमो वै निर्-ऋतिस्तथा | वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः || ११-५०४ || ब्रह्मणा सहितः शेषो दिक्पालाः स्नापयन्त्वमी | कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा रतिः || ११-५०५ || बुद्धिर्लज्जा क्रिया शान्तिस्तुष्टिः कान्तिश्च मातरः | प्. १०१२) एतास्त्वामभिषिञ्चन्तु शक्तिरूपधरास्तव || ११-५०६ || आदित्यश्चन्द्रमा भौमबुधजीवसितार्कजाः | राहुः केतुश्च भवतीं स्नापयन्तु ग्रहा नव || ११-५०७ || ऋषयो मनवो गावो देवमातर एव च | देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसां गणाः || ११-५०८ || त्रिशूलच्क्रचापर्ष्टिभुशुण्डी परिघो गदा | कुन्तमुद्गरखट्वाङ्गशक्तितोमरपर्शवः || ११-५०९ || पट्टिशो मुद्गलः प्रासभिन्दिपालकटङ्ककाः | हूता शतघ्नी कुलिशपाशकर्त्तृहलानि च || ११-५१० || चत्वार ऋग्यजुःसामार्थर्वणो निगमा हि ये | अङ्गानि शिक्षा कल्पश्च छन्दो व्याकरणं तथा || ११-५११ || निरुक्तं ज्यौतिषं चापि पुराणान्यखिलानि च | मीमांसान्यायवेदान्ताक्षपत्साङ्ख्यपतञ्जलाः || ११-५१२ || स्मृतिशास्त्राणि सर्वाणि दण्डनीतिर्विधाऽपि च | गन्धर्वायुर्धनुर्वेदाश्चतुःषष्टिश्च याः कलाः || ११-५१३ || अस्त्राणि सर्वशस्त्राणि वाहनानि नृपास्तथा | औषधानि च सर्वाणि शिल्पविद्यादिकानि वा || ११-५१४ || मुक्तामाणिक्यवैदूर्यवज्रेन्द्रमणयस्तथा | गोमेदपद्मरागौ च प्रवालः श्याम एव च || ११-५१५ || रत्नानि यानि चान्यानि कालस्यावयवाश्च ये | मन्वन्तराणि सर्वाणि चत्वार्यपि युगानि हि || ११-५१६ || अब्दमासर्त्तुपक्षाहोरात्रायनकलालवाः | राशिनक्षत्रयोगाश्च कलांशाश्चापि सूक्ष्मकाः || ११-५१७ || प्. १०१३) सरितः सागराः शैलस्तीर्थानि जलदा नदाः | देवदानवगन्धर्वा यक्षराक्षसपन्नगाः || ११-५१८ || एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये | सिन्धुरैवतशोणाद्या ये ह्रदा भुवि विश्रुताः || ११-५१९ || सर्वे सुमनसो भूत्वा भृङ्गारैः स्नापयन्तु ते | तक्षकाद्याश्च ये नागाः पातालतलवासिनः || ११-५२० || स्नापयन्तु जगद्धात्रि भृङ्गारैस्त्वां सुवासितैः | अथ द्रव्यविशिषेण मन्त्रभेदान् ब्रवीमि ते || ११-५२१ || पौराणानपि तान्त्रीयान्महास्नापनकर्मणि | सर्वेषामधिपो देव ईशानो नाम नामतः || ११-५२२ || शूलपाणिर्महादेवः स त्वां संस्नापयेत् प्रहुः | स्नापयेच्छङ्खतोयेन मन्त्रमेनमुदीरयेत् || ११-५२३ || मन्दाकिन्यास्तु यद्वारि सर्वपापहरं परम् | स्वर्गस्रोतःसमुद्भूतं स्नानं भवतु तेन ते || ११-५२४ || गाङ्गेन वारिणा देवीं स्नापयेन्मनुनाऽमुना | उष्णं सुखस्पर्शकरं ज्योतिर्वह्निसमन्वितम् || ११-५२५ || मलापहारकं कल्यं तेन स्नानं समाचर | स्नापयेत् पाथसोष्णेन पठन्मन्त्रममुं प्रिये || ११-५२६ || गन्धाढ्यं शोभनं चैव शीतलं सुमनोहरम् | सर्वपापहरं तोयं तत् ते स्नानाय कल्पताम् || ११-५२७ || अमुनाऽमोदिसलिलकुम्भेन स्नापयेच्छिवाम् | पुण्यं पवित्रं स्वच्छं च शीतलं स्वादु यज्जलम् || ११-५२८ || प्. १०१४) स्नानाय कल्पतां तत् ते तथैव श्रमशान्तये | मेध्याच्छशीतलाम्भोभिः स्नापयेदमुनेश्वरीम् || ११-५२९ || गावः पवित्रा ह्यनघा गावो विश्वस्य मातरः | गावोऽध्वराणां धात्र्यश्च गोषु सर्वं प्रतिष्ठितम् || ११-५३० || तदङ्गप्रसृतैः पञ्चगव्यैस्त्वां स्नापयाम्यहम् | इति सामान्यतो मन्त्रं पठित्वा तदनु प्रिये || ११-५३१ || प्रत्येकं पञ्चगव्येन स्नापयेज्जगदम्बिकाम् | गावं मूत्रेण पुण्येन सर्वाघपरिमोषिणा || ११-५३२ || स्नापयामि जगद्धात्रीं पुत्रायुर्धनवृद्धये | एतेन स्नापयेदेवीं गोमूत्रेण शनैः शनैः || ११-५३३ || पवित्रताकरं भूमेर्विभूतेः कारणं परम् | गोमयं सर्वपापघ्नं तेन त्वां स्नापयाम्यहम् || ११-५३४ || मन्त्रमेनं पठेद्देवीं स्नपायेद्गोमयाम्भसा | यद्गवामङ्गसम्भूतं हविषः कारणं हि यत् || ११-५३५ || दधि तत् तेऽङ्गलावण्यकरणाय भवत्विदम् | दध्नाऽमुना भगवतीं स्नापयेद्देशिकोत्तमः || ११-५३६ || यज्ञक्रियाकलापोऽयम् सर्वो यस्मिन् प्रतिष्ठितः | पयसा तादृशेन त्वां स्नापयामि हरप्रियाम् || ११-५३७ || गृणन्नमुं गव्यदुग्धैः स्नापयेज्जगदम्बिकाम् | यद्धोमसाधनत्वेन प्रथितं निगमादिषु || ११-५३८ || यच्चाप्यग्निमुखेनैव भुञ्जते निखिलाः सुराः | यस्मात् पवित्रं नैवास्ति बलवीर्यकरं च यत् || ११-५३९ || तेन त्वां स्नापयाम्यद्य गव्येन हविषेश्वरीम् | प्. १०१५) कालीममूभ्यां मन्त्राभ्यां घृतेन स्नापयेद्बुधः || ११-५४० || एकीकृत्य ततः पञ्चगव्यानि सकलानि हि | तथाऽनामिकयाऽलोड्य कुशमूलेन वा प्रिये || ११-५४१ || यस्मात् परं नापरमस्ति मेध्यं देहे गतं यद्वृजिनं निहन्ति | नास्ते परं हृद्यमतस्तदेतत्स्नानाय भूयात् तव पञ्चगव्यम् || ११-५४२ || स्नापयेत् पञ्चगव्येन मन्त्रेणानेन कालिकाम् | गव्यं पयो दधि घृतं माध्वीकं सितशर्कराः || ११-५४३ || पञ्चामृतमिदं प्रोक्तममुना स्नापयेदुमाम् | सारं गृहीत्वा जगतां त्रयाणां यन्निर्मितं यज्ञकृते विधात्रा || ११-५४४ || पञ्चामृतं तन्मधुरं मनोज्ञं संस्नापकं ते जगदम्ब भूयात् | मनुनैवामुना पञ्चामृतेन स्नापयेच्छिवाम् || ११-५४५ || तथा | ओं कात्यायन्यै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् | एतेनेक्षुरसेनैव स्नापयीत सुरेश्वरीम् | तन्त्रान्तरे | महौषधीभिः सर्वाभिः सर्वकामार्थसिद्धये || ११-५४६ || या औषधीति मन्त्रेण स्नापयेज्जगदम्बिकाम् | (महौषध्य उक्ता मात्स्ये) सहदेवी तथा व्याघ्री वला चातिवला तथा || ११-५४७ || शङ्खपुष्पी च सिंही च वचा चैव सुवर्चसा | महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् || ११-५४८ || व्याघ्री कण्टकारिका | वला वाट्यलकः | सवौषधयस्तु प्रागेवोक्ताः | तथा | सहस्रधारकुम्भेन स्नापयेज्जगदम्बिकाम् | प्. १०१६) (महाकालसंहितायाम्) सागराः सरितः सर्वाः स्वर्गस्रोतो नदास्तथा || ११-५४९ || तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि पृथिवीतले | कूपाः सरः प्रस्रवणा देवखाताः सगर्तकाः || ११-५५० || कुल्याश्च निर्झरी वाप्यो यावन्तश्च जलाशयाः | लवणेक्षुसुरासर्पिर्दधिदुग्धजलात्मिकाः || ११-५५१ || समुद्राः सप्त तद्द्वीपा ये च सप्त प्रकीर्त्तिताः | जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कलाः || ११-५५२ || अभिषिञ्चन्तु सर्वे त्वां मन्त्रपाठवशीकृताः | अग्निमीलेति मन्त्रेण ऋग्वेदस्याद्यया ऋचा || ११-५५३ || त्वां स्नापयतु गव्येन पयः कुम्भेन चण्डिकाम् | इषे त्वाख्येन मन्त्रेण स्नापयत्विक्षुजद्रवैः || ११-५५४ || षडशीतिभिदा युक्तो यजुर्वेदः सुरेश्वरीम् | सहस्रशाखासंयुक्तः सामवेदो मधुद्रवैः || ११-५५५ || अग्न आयाहि मन्त्रेण त्वां स्नापयतु चण्डिकाम् | अथर्ववेदो हविषा बहुशाखासमन्वितः || ११-५५६ || शन्नो देवीति मन्त्रेण देवि त्वामभिषिञ्चतु | अष्टादश पुराणानि व्यासेनोक्तानि यानि हि || ११-५५७ || यानि चोपपुराणानि दध्ना त्वां स्नापयन्तु हि | महर्षिभिः प्रणीतानि धर्मशास्त्राणि यानि च || ११-५५८ || शतं चाशीतिरूपाणि स्नापयन्तु महेश्वरीम् | सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः || ११-५५९ || स्वर्गनद्यम्बुपूर्णेन आद्येन कलशेन तु | प्. १०१७) अमुना गाङ्गतोयेन स्नापयेत् परमेश्वरीम् || ११-५६० || मरुतश्चाभिषिञ्चन्तु भक्तिमन्तः सुरेश्वरीम् | मेघतोयाम्बुपूर्णेन द्वितीयकलशेन च || ११-५६१ || एतेन वृष्टिनीराढ्यकुम्भेन स्नापयेच्छिवाम् | सारस्वतेन तोयेन स्वच्छमेध्येन चण्डिके || ११-५६२ || विद्याधराः स्नापयन्तु तृतीयकलशेन तु | सरस्वत्यम्बुसम्पूर्णघटेनाप्लावयेच्छिवाम् || ११-५६३ || त्वां स्नापयन्तु शक्राद्या लोकपालाः समागताः | सागरोदकपूर्णेन तुर्येण कलशेन हि || ११-५६४ || अभावेनाम्बुना देवीं स्नापयेन्मनुनाऽमुना | वारिणा परिपूर्णेन पद्मरेणुसुगन्धिना || ११-५६५ || पञ्चमेनाभिषिञ्चन्तु नागास्त्वां कलशेन हि | पद्मपुष्पसमायुक्तजलकुम्भमनुस्त्वसौ || ११-५६६ || हिमवन्मेरुकैलाशा अभिषिञ्चन्तु पर्वताः | निर्झरोदकपूर्णेन षष्ठेन कलशेन हि || ११-५६७ || अमुना निर्झराम्भोभिः स्नापयेत् परमेश्वरीम् | सर्वतीर्थाम्बुपूर्णेन कलशेन सुरेश्वरीम् || ११-५६८ || सप्तमेनाभिषिञ्चन्तु ऋषयः सप्त खेचराः | मन्त्रेणैतेन तीर्थाम्बुकुम्भेन स्नापनं चरेत् || ११-५६९ || वसवस्त्वाऽभिषिञ्चन्तु कलशेनाष्टमेन तु | सारसेनैव तोयेन दुर्गे देवि नमोऽस्तु ते || ११-५७० || देवीमनेन मन्त्रेण सिञ्चेत् कासारवारिणा | प्. १०१८) धर्मो ज्ञानं च वैराग्यं तपः सत्यं क्षमा धृतिः || ११-५७१ || यशो विवेको नियमो ब्रह्मचर्यं दया दमः | शान्तिर्मौनं तथा शौचं सन्तोषो मितभाषिता || ११-५७२ || यवत्यश्चोपनिषदः कैवल्यप्रतिपादकाः | स्थावरं जङ्गमं चापि त्रैलोक्ये यत् प्रतिष्ठितम् || ११-५७३ || यद्ब्रह्मसृष्टावुत्पन्नं मूर्त्तं चामूर्त्तमेव च | अचरं यच्चरं चापि यद्वाङ्मयमवाङ्मयम् || ११-५७४ || ते सर्वे स्नापयन्तु त्वां नवमेन घटेन हि | स्नापयेच्छुद्धतोयेन चण्डिकां मनुनाऽमुना || ११-५७४ || इत्युक्तं ते महास्नानं शरदर्चाविधौ प्रिये | दिनान्तरेऽपि कुर्वीत भक्तश्चेद्भक्तिभावितः || ११-५७५ || अनेन विधिना यस्तु स्नापयेज्जगदम्बिकाम् | सप्तजन्मकृतात् पापान्मुक्तः स्यान्नात्र संशयः || ११-५७२ || दिव्याष्टाब्दसहस्राणि देवीलोके वसेत् तथा | नवम्यां तु महास्नानं धनपुत्रविवर्धनम् || ११-५७३ || सहस्रयज्ञस्य फलं लभते नात्र संशयः | राजा राज्यमवाप्नोति शत्रुनाशं तथैव च || ११-५७४ || स्वाभीष्टमाप्नुवन्त्यन्ये महास्नानेन पार्वति | महास्नानादनु ततो भूतेभ्यो वलिमुत्सृजेत् || ११-५७५ || स कौलानां मांसमद्ये माषान्नं स्मृतिवर्त्तिनाम् | गृहीत्वा तममूभ्यां वै मनुभ्यामुत्सृजेद्वलिम् || ११-५७६ || भूताः प्रेताः पिशाचाश्च ये वसन्त्यत्र भूतले | ते गृह्णन्तु मया दत्तं वलिमेनम् प्रसाधितम् || ११-५७७ || पूजिता गन्धपुष्पाद्यैर्वलिभिस्तर्पितास्तथा | प्. १०१९) देशादस्माद्विनिःसृत्य पूजां पश्यन्तु मत्कृताम् || ११-५७८ || ताररावौ कूर्चभूतौ भ्यसन्तो भूत एव च | ससन्ध्येष वलिर्हृच्च मन्त्रावेतावुदाहृतौ || ११-५७९ || रावः फ्रे/ | भूतः स्फ्रो/ | तथा | अकृते बलिदाने तु महास्नानादनन्तरम् | अफलं तद्भवेद्देवि पूजाङ्गं हीयते तथा || ११-५८० || विलुम्पन्ति सदा लुब्धा न च गृह्णन्ति देवताः | तस्माद्यत्नेन कर्त्तव्यं भूतानामपसारणम् || ११-५८१ || लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतादिकम् | गृहीत्वा ताररोषानुनिःश्रेण्यस्त्रमुदीरयेत् || ११-५८२ || अपसर्पन्तु भूतास्ते ये भूताः शारदार्चिकाः | भूतानामविरोधेन देवीपूजां करोम्यहम् || ११-५८३ || वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः | अपसर्पन्तु सर्वत्र मन्त्ररूपास्त्रताडिताः || ११-५८४ || अन्ते मनूनामे तेषां हू/ अः फडिति कीर्त्तयेत् | भूतादीनपसार्याथ द्वारपालेभ्य एव च || ११-५८५ || त्रपाहृद्विल्वशाखान्ते वासिन्यै तदनन्तरम् | दुर्गायै कूर्चमस्त्रं च मन्त्रेणानेन पार्वति || ११-५८६ || पाद्यादिभिः समभ्यर्च्य कुर्यान्नीराजनाविधिम् | नीराजनं निर्मञ्छनम् | प्. १०१२) द्वारदेशः समानीय कुर्यान्निर्मञ्छनं ततः || ११-५८७ || इति तन्त्रान्तरवचनात् तथा | धृत्वाऽसनं ततो देवीं पत्रिकां मृन्मयीमपि | संचाल्य गीतवद्यादीनिमं मन्त्रं समुच्चरेत् || ११-५८८ || स्थापयेत् सुस्थिराकारां ततः कल्पित आसने | तारत्रपारावलक्ष्मीयोगिनीकामयोषितः || ११-५८९ || डाकिनी चापि फेत्कारीं चण्डिके भगवत्यपि | चलद्वयं चालय द्विर्वर्ज्रकापालिनीत्यपि || ११-५९० || पूजालयं द्विः प्रविश हू/ फट् स्वाहा ततः परम् | आगच्छ मद्गृहे देवि सह शक्तिभिरष्टभिः || ११-५९१ || पूजां गृहाण विधिवत् सर्वकल्याणहेतवे | अनेन स्थापयेद्देवीं सर्वकल्याणदायिनीम् || ११-५९२ || दिनत्रयस्य पूजार्थं वेदिकाद्यासनादिषु | त्रपा ह्री/ | रावः फ्रे/ | योगिनी छ्री/ | कामः क्ली/ | योषित् स्त्री/ | डाकिनी ख्फ्रे/ | फेत्कारी ह्स्ख्फ्रे/ | तथा | तारचिद्रावडाकिन्यः स्था/ स्थी/ त्वमम्बिके तथा || ११-५९३ || स्थिरीभव शिरश्चति स्थिरीकुर्यात् ततः परम् | चिद्वाग्भवम् | कलशस्थापनमाह | ततः पुनर्विरचिते सर्वतोभद्रमण्डले || ११-५९४ || चित्रितं पञ्चवर्णेन दध्यक्षतफलान्वितम् | पञ्चरत्नेन हेम्ना च गर्भगेन विभूषितम् || ११-५९५ || पट्टाच्छादनसंवीतग्रीवं पल्लवशोभितम् | व्रीहीनां वा यवानां वा स्थापयित्वोपरि प्रिये || ११-५९६ || प्. १०२१) वैदिकेन विधानेन कलशस्थापनं चरेत् | भूमिं स्पृष्ट्वा जपेन्मन्त्रं भूरसीति वरानने || ११-५९७ || अथ धान्यमसीत्युक्त्वा व्रीहिने वाऽभिमन्त्रयेत् | आजिघ्रेत्युच्चरन्मन्त्रं कलशं तत्र विन्यसेत् || ११-५९८ || वरुणस्येति मन्त्रेण पाथोभिः परिपूरयेत् | काण्डात् काण्डादिति प्रोच्य पल्लवं विन्यसेत् ततः || ११-५९९ || फलं वा फलिनीत्युक्त्वा श्रीश्चेत्युक्त्वा प्रसूनकम् | गन्धद्वारेत्यथो गन्धं सहस्रेत्यक्षतं न्यसेत् || ११-६०० || स्थिरीभवेति मन्त्रेण स्थिरीकरणमाचरेत् | वल्मीककुञ्जररदनदीसङ्गमपर्वतात् || ११-६०१ || गोकुलाद्देवनृपतिद्वारादपि च मृत्तिकाः | आहृत्य हार्दमन्त्रेण प्रत्येकं निःक्षिपेद्घटे || ११-६०२ || हार्दमन्त्रेण नम इति मन्त्रेण | पूर्ववत् सर्ववस्त्वादिशोधनं विदधीत वै | प्रागुदीरितमन्त्रेण तथैवालोकनेन च || ११-६०३ || यदात्मनाऽनवज्ञातं पूजाद्रव्यादिदूषणम् | अस्पृश्यस्पर्शनं वाऽपि यदन्यायार्जितं च वा || ११-६०४ || तथा निर्माल्यसंस्पृष्टं कीटारोहणदूषितम् | नश्यन्ति तानि सर्वाणि दूषणान्यवलोकनात् || ११-६०५ || भूतापसारणं कृत्वा भूतशुद्धिं विधाय च | सम्पूज्यासनमात्मीयं गणेशगुरुदेवताः || ११-६०६ || नत्वा विदध्यात् तदनु प्राणायामत्रयं बुधः | पत्रिकायास्ततः कुर्यादृष्यादि यतमानसः || ११-६०७ || प्. १०२२) शरत्कालीनदुर्गार्चाविधेरस्य हि नारद | ऋषिश्छन्दश्च गायत्री श्रीदुर्गा देवता मता || ११-६०८ || बीजं ह्रीमिति निर्दिष्टं शक्तिः श्रीमपि पार्वति | कीलकं क्लीमीति प्रोक्तं पूजायां विनियोगता || ११-६०९ || अस्मिन्नेव ह्यवसरे सङ्कल्पं केऽपि कुर्वते | काम्यत्वान्नेतरे चास्य निन्यत्वान्नित्यकृत्यवत् || ११-६१० || क्रियते यदि सङ्कल्पस्त्र्यहस्याप्येक एव हि | एक प्रयोगसंहारात् फलैक्याच्च विसर्जनात् || ११-६११ || पीठे मूर्तौ च नित्यं तमृषिं तत्तन्मनोश्चरेत् | मृन्मूर्तिपत्रिकापक्षे मन्त्रं सर्षिं निशामय || ११-६१२ || आदौ वेदादिमालेख्य द्विवारं दुर्ग ईरयेत् | सम्बुद्धिरथ रक्षिण्याः शिरसा सह कीर्त्तयेत् || ११-६१३ || पत्रिकार्चोपचारादिप्रदानार्थं मनुस्त्वमौ | एकं द्वे द्वे त्रीणि च द्वे सकलो मन्त्र एव च || ११-६१४ || कराङ्गुलीहृदादिष्वमी न्यस्या मन्त्रवर्णकाः | तथा | नित्यपीठे पुरोदीर्णं स्वं स्वं ध्यानं समाचरेत् || ११-६१५ || माहेयपीठिकापक्षे ध्यानमाकलय प्रिये | निस्तप्तस्वर्णवर्णाभां नवतारुण्यशालिनीम् || ११-६१६ || पूर्णचन्द्राभवदनां जटामुकुटमण्डिताम् | लोलदीर्घासितत्र्यक्षां खण्डेन्द्वाबद्धशेखराम् || ११-६१७ || दाडिमीकुसुमाकारदन्तपङ्क्तिविराजिताम् | उत्तुङ्गपीनवक्षोजां वलित्रयविराजिताम् || ११-६१८ || अतिक्षामोदरीं देवीं नितम्बाभोगभासुराम् | प्. १०२३) त्रिभङ्गस्थानकतया भज्यन्मध्यामिव स्थिताम् || ११-६१८ || बाहुभिर्दशभिर्युक्तां सर्वालङ्करणान्विताम् | शूलं कृपाणं चक्रं च बाणं शक्तिं च दक्षिणे | ६१९ || धारयन्तीमथो वामे पाशचर्माङ्कुशं धनुः | कण्ठीरवोपरिन्यस्तदक्षिणाङ्घ्रीसरोरुहाम् || ११-६२० || संमुखस्थितसंछिन्नमहिषासुरमस्तकाम् | कण्ठनालोत्थदितिजसकिरीटकचोच्चयाम् || ११-६२१ || पाशं वामकरेणैव बिभ्रतीं परमेश्वरीम् | शूलेन हृदि निर्भिन्नं पश्यन्तीं दानवं रुषा || ११-६२२ || पाशाकारमहानागवेष्टितोदरबाहुकम् | भ्रूकुटीभीषणाकारं शोणितार्द्रकलेवरम् || ११-६२३ || आकृष्टासिनिगलितकफोणिं हरिणा हठात् | स्रवद्रुधिरसंदोहवदनेन महात्मना || ११-६२४ || स्तूयमानां सुरैः सर्वैर्ब्रह्माजेशमुखादिभिः | लीलया दानवं हत्वा किञ्चित् किञ्चिद्धसन्मुखीम् || ११-६२५ || उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डा चण्डवती चैव चण्डरूपा च चण्डिका || ११-६२६ || आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् | चिन्तयेदीदृशीं दुर्गां धर्मकामार्थमोक्षदाम् || ११-६२७ || ध्यात्वेत्थं मानसैरेवोपचारैः परिपूज्य च | पूर्वोक्तेनैव विधिना विदध्यादर्घसंस्थितिम् || ११-६२८ || नैमित्तिकविधानेन विस्तारो यत्र कीर्त्तितः | सत्यां शक्तौ तु पाद्यादीन् पृथक्त्वेन प्रविन्यसेत् || ११-६२९ || प्. १०२४) अर्घस्योत्तरतः कार्यं पाद्यमाचमनीयकम् | स्नानीयं मधुपर्कं च उपचारास्तथा मया || ११-६३० || अस्मिन्नेव क्षणे देवीपञ्चायतनपूजकः | गणेशार्कहरीशानां सम्भारैः कल्पितैर्यजेत् || ११-६३१ || पीठार्चनं ततः कुर्यात् सामान्यं प्रथमं बुधः | सर्वशेषे योगरत्नं शेषमन्त्रोपबृंहितम् || ११-६३२ || विधाय च पुनर्ध्यानमावाहनमथाचरेत् | मुद्राविभक्तिकलितं साधको मीलितेक्षणः || ११-६३३ || मूलमन्त्रेणाथ सावयवीकृत्य विभावनैः | मन्वक्षरैः षडङ्गानि विन्यसेत् तदुपस्पृशन् || ११-६३४ || मूलपीठप्रतिष्थायां यो मनुः प्रागुदीरितः | यन्त्रमूर्त्योस्तु तेनैव प्रतिष्ठां स्थिरयोश्चरेत् || ११-६३५ || मृन्मूर्तिपत्रिकाकुम्भशूलास्यादिष्वपि प्रिये | के चनेच्छन्ति तन्मन्त्रं नैव कापालिकादयः || ११-६३६ || अन्यान् पौरिणिकान् मन्त्रान् वैदिकानपि का/श्चन | ईरयेत् पीठिकाकुम्भमाहेयप्रतिमादिषु || ११-६३७ || ता/स्ते वदामि सुतनु नन्दिकेश्वरभाषितात् | हस्तं दत्वा पत्रिकायां तारादि तत्सदित्यपि || ११-६३८ || त्रिरुदीर्य पठेन्मन्त्रानेवैतान् स्थिरपीठयोः | आगच्छ मद्गृहे देवि अष्टाभिः शक्तिभिः सह || ११-६३९ || पूजां गृहाण विधिवत् सर्वकल्याणकारिणि | एह्येहि भगवत्यम्ब शत्रुक्षयजयप्रदे || ११-६४० || भक्तितः पूजयामि त्वां नवदुर्गे सुरार्चिते | प्. १०२५) दुर्गे देवि समागच्छ सान्निध्यं चापि कल्पय || ११-६४१ || यज्ञभागं गृहाण त्वमष्टाभिः शक्तिभिः सहः | शारदीयामिमां पूजां करोमि त्रिदशार्चिते || ११-६४२ || आज्ञापय महादेवि दैत्यदर्पनिषुदनि | दुष्पारे घोरसंसारे सागरे पतितं सदा || ११-६४३ || त्रायस्व वरदे देवि नमस्ते शङ्करप्रिये | ये देवा याश्च देव्यश्च चलितायां चलन्ति हि || ११-६४४ || आवाहयामि तान् सर्वा/श्चण्डिके परमेश्वरि | प्राणान् रक्ष यशो रक्ष रक्ष दारान् सुतं धनम् || ११-६४५ || सर्वरक्षाकरी यस्मात् त्वं हि देवि जगत्प्रिये | प्रविश्य तिष्ठ यज्ञेऽस्मिन् यावत् पूजां करोम्यहम् || ११-६४६ || मेनानन्दकरे देवि सर्वसिद्धिं च देहि मे | आगच्छ चण्डिके देवि सर्वकल्याणहेतवे || ११-६४७ || पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये | आवाहयामि देवि त्वां मृन्मये श्रीफले तथा || ११-६४८ || त्रिशूले कलशे खड्गे मण्डले चित्र एव च | कैलाशशिखराद्देवि विन्ध्याद्रेर्हिमपर्वतात् || ११-६४९ || आगत्य विल्वशाखायां चण्डिके कुरु सन्निधीम् | स्थापिताऽसि मया देवि पूजये त्वां प्रसीद मे || ११-६५० || चण्डे चण्डात्मिके चण्डि चण्डविग्रहधारिणि | विल्वशाखां समाश्रित्य तिष्ठ देवि गणैः सह || ११-६५१ || अथवा मृन्मये कुम्भे त्रिशूले खड्ग एव च | तथा चित्रपटे वाऽरिनृमुण्डे वह्निमण्डले || ११-६५२ || प्. १०२६) सर्वगा त्वं समागत्य सान्निध्यमिह कल्पय | देवि त्वं जगतां मातः सृष्टिसंहारकारिणि || ११-६५३ || मण्डलेषु समस्तेषु सान्निध्यमनुकल्पय | चतुर्विंशतिसङ्ख्येषु अधिष्ठेयेषु चण्डिके || ११-६५४ || आगत्य शारदीं पूजां हृह्ण देवि प्रसीद मे | आवाहिताऽसि देवि त्वं निखिले मण्डले तव || ११-६५५ || भूत्वाऽत्रैव स्थिरात्म त्वं मद्गेहे कामदा भव | चण्डि त्वं चण्डरूपाऽसि सुरतेजःसमुद्भवे || ११-६५६ || परिवारैः समागत्य स्थितिमत्र कुरु द्रुतम् | अष्टादशैतान् प्रजपेन्मन्त्रान् पौराणिकान् प्रिये || ११-६५७ || ततो हंसः शुचीत्येवं प्रतद्विष्णुस्तवेत्यपि | तथा विष्णुर्योनिमिति तार्त्तियकतयोदितम् || ११-६५८ || तारव्याहृतिपूर्वा च गायत्री तारपश्चिमा | त्र्यम्बकं चेति पञ्चैतान् वैदिकान् प्रजपेन्मनून् || ११-६५९ || नेमानपि स्थिरे पीठे मूर्त्तौ वा परिकल्पयेत् | अतः प्राणप्रतिष्ठां वै कुर्वीत मनुविस्तरैः || ११-६६० || आद्येन नित्यख्यातेन निमित्तोक्तेन तत्परम् | आख्यास्यमानतार्त्तीयमनुना तदनन्तरम् || ११-६६१ || तच्च शारदपूजायां नेतरस्यां कदाचन | पीठमूर्त्त्योरपि तथा मण्डले नेतरत्र च || ११-६६२ || तारमैधत्रपारावयोगिन्यो डाकिनी तथा | फेत्कारीकूर्चवनिता बीजानीमानि वै नव || ११-६६३ || एह्येहि भगवत्येवं ततो ब्रूयात् पदत्रयम् | प्. १०२७) त्रयस्त्रिंशत्कोटिपदात् तथा त्रिदशशब्दतः || ११-६६४ || तेजःकल्पितशब्दाच्च शरीरे परिकल्पयेत् | पदात् तथा च महिषासूरतो मर्दिनीत्यपि || ११-६६५ || ततो जगत्त्रयेत्युक्त्वा पालिनि प्रतिकीर्त्तयेत् | कामप्रसादपाशाश्च नृसिंहकमले ततः || ११-६६६ || आगच्छद्वितयं चापि सान्निध्यं कल्पयद्वयम् | पूजालयम् प्रविश्योक्त्वा तिष्ठयुग्ममतः परम् || ११-६६७ || ततो विसन्ध्यष्टशक्तिपदात् परिवृते वदेत् | ज्वलयुग्मं प्रज्वलयुगं स्फुर प्रस्फुर चेदृशम् || ११-६६८ || अङ्कुशप्रेतभैरव्योऽमाहारप्रलयास्ततः | विद्युन्महाक्रोधताराः शिरः शेषे ततः परम् || ११-६६९ || शतमष्टादशोपेतं वर्णानामत्र वै मनौ | मन्त्रत्रयेणामुनैव कुर्यात् प्राणप्रतिष्ठितम् || ११-६७० || मृन्मूर्तिपत्रिकाकुम्भादिषु सर्वान्तिमं मनुम् | श्रौत पठेन्मनोजूतिरिति कौलेतरो नरः || ११-६७१ || नैमित्तिकोक्तेन तथा कुर्यादावाहनं ततः | मन्त्रेण त्रिरुदीर्णेन न पत्र्यां पीठ एव हि || ११-६७२ || अथ कौलादयः कुर्युरस्मिन्नवसरे प्रिये | नैमित्तिकेन विधिना पात्रस्थापनमुत्तमम् || ११-६७३ || न्यासौघान् पुरतः कृत्वा नैमित्तिकविधीरितान् | शक्तौ तु पञ्चकान् सर्वान् षोढात्रितयमेव हि || ११-६७४ || माहेयपत्र्योर्नैतां वै प्रकुर्वीत कदाचन | पात्राणां स्थापनं चापि कुर्यात् स्वेन मतेन हि || ११-६७५ || प्. १०२८) विचाररीती एषां वै नैमित्तिक उदीरिते | सा कल्पना च ते मन्त्राः स क्रमः संस्थितिश्च सा || ११-६७६ || ते न्यासाः शोधनं तच्च वस्तु वा तर्पणं च तत् | शरदर्चापीठमूर्त्योर्नैमित्तिकसमर्हणात् || ११-६७७ || कस्यापि मत ईशानि नैवाणुरपि भिद्यते | विशिष्यातो मया तन्त्रपौराणिकविधिद्वयम् || ११-६७९ || उच्यते स मनुः प्रायो बुद्धिमद्बुद्धिगोचरः | पत्रिकादिषु पौराणं तान्त्रिकं पीठ एव हि || ११-६८० || वस्त्वर्पणस्य प्रत्येकं ये मन्त्राः पूर्वमीरिताः | नैमित्तिकार्चनविधौ ग्राह्यास्तेऽत्रापि पार्वति || ११-६८१ || प्रत्येकं मनवो ये वै पत्रिकादिषु संस्थिताः | तानिदानीं प्रवक्ष्यामि तत्तद्वस्त्वर्पणाविधौ || ११-६८२ || यथा तत्तन्मनूच्चारादनुमूलमनूदितान् | कथ्यते वस्तुदानाय तथाऽत्रापि सुरेश्वरि || ११-६८३ || पौराणिकमनुं प्रोच्य तदन्ते परिकीर्त्तयेत् | द्वात्रिंशद्वर्णकं मन्त्रमथवा भैरवोदितम् || ११-६८४ || कात्यायनोपासितं यज्जयदुर्गादशाक्षरम् | ताभ्याम् पौराणिकार्चायां वस्तुदानसमुद्धृतेः || ११-६८५ || द्वयोरशक्तावेकं वा आवश्यकतयेरयेत् | वक्ष्ये तयोरुद्धृतिं तदाद्यं नन्दीश्वरार्चितम् || ११-६८६ || तारत्रपाभ्यां ङेन्ता स्याद्दक्षयज्ञविनाशिनी | महाघोराऽपि च तथा योगिनीकोटिशब्दतः || ११-६८७ || तद्वत् परिवृता कार्या मायाबीजं ततः परम् | पूर्ववद्भद्रकाली च हृन्मन्त्रः सर्वशेषगः || ११-६८८ || प्. १०२९) अथवा तारतो दुर्गा इति वारद्वयं वदेत् | सम्बुद्ध्यन्तां रक्षणीं च तर्जनीमनुरन्त्यगः || ११-६८९ || यद्यपीमौ मनू देवि तान्त्रिकौ समुदीरितौ | तथाऽपि पौराणिकान्ते नियोज्यौ तत्तदर्हणे || ११-६९० || अथ सर्वोपचारीयान् वक्ष्ये पौराणिकान्मनून् | पूर्वमेवोदिताः सन्ति निमित्तार्चासु तान्त्रिकाः || ११-६९१ || त एवात्र नियोक्तव्याः प्रत्येकं तत्तदर्पणे | पत्रिकादिषु पौराणाः पीठमूर्त्त्योस्तु तान्त्रिकाः || ११-६९२ || आसनं पाद्यमर्घ्यं च ततोऽन्वाचमनीयकम् | मधुपर्कं स्नानजलं वस्त्रं भूषणचन्दने || ११-६९३ || पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् | अलक्तं चापि नैवेद्यं प्रदक्षिणनमस्कृती || ११-६९४ || उपचारा इमे प्रोक्ता देवीतुष्टिविधायकाः | यद्यद्वै दीयते द्रव्यमलङ्कारादिकाञ्चनम् || ११-६९५ || तेषां दैवतमुच्चार्य कृत्वा च प्रोक्षणार्चने | उत्सृज्य तत्तन्मन्त्रेण तत्तन्नाम्ना निवेदयेत् || ११-६९६ || सर्वशुद्धिं तु पौराणक्रमेण धरयाऽचरेत् | इदं त आसनं दत्तं मया सुरवरार्चिते || ११-६९७ || भवैतस्मिन्निषण्णा त्वं यावत् पूजां करोम्यहम् | दूर्वापराजितापद्मश्यामाकसहितं जलम् || ११-६९८ || पाद्याय कल्पते देवि विशेषार्चासु नान्यथा | पाद्यं गृह्ण मया दत्तं सर्वदुःखापहारकम् || ११-६९९ || प्. १०३०) त्रायस्व वरदे देवि घोरादस्माद्भवार्णवात् | स्नाते वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् || ११-७०० || तच्च स्वधापदैर्दद्यान्मधुपर्कं तथा प्रिये | अर्घं स्वाहापदेनैव सर्वमन्यन्नमः पदैः || ११-७०१ || गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपान् | विल्वपत्रक्षीरदूर्वासहितं सलिलं शुचि || ११-७०२ || शऽऽखपात्रगतं कृत्वा कालिकायै निवेदयेत् | दूर्वाक्षतसमायुक्तं विल्वपत्रसमन्वितम् || ११-७०३ || शोभनं शङ्खपात्रस्थं गृहाणार्घं हरप्रिये | नानातीर्थोद्भवं वारि सर्ववस्तूपकल्पितम् || ११-७०४ || गृहाणार्घमिमं देवि जगद्धात्रि नमोऽस्तु ते | चन्द्रजातीलवङ्गैलाकक्कोलसहितं जलम् || ११-७०५ || विशेषाचमनीयं वै दद्याद्देव्यै फलेच्छया | आमोदवस्तुसुरभीकृतमेतदनूत्तमम् || ११-७०६ || गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् | इमा आपो मया भक्त्या तव पादतलेऽर्पिताः || ११-७०७ || आचामय महादेवि प्रीता शान्तिं प्रयच्छ मे | सुराभावे घृतदधि मधु कांस्ये निवेदयेत् || ११-७०८ || मधुपर्कं तदुद्दिष्टं प्रार्थनीयं दिवौकसाम् | मधुपर्कं महेशानि ब्रह्मणा परिकल्पितम् || ११-७०९ || मया निवेदितं तुभ्यं गृहाण जगदीश्वरि | मधुपर्कप्रदानान्ते पुनराचमनीयकम् || ११-७१० || दातव्यं प्राशनान्तेऽस्य यत उच्छिष्टता भवेत् | प्. १०३१) वारीदं हि ममामोदि प्रसन्नं मेध्यमेव च || ११-७११ || मया निवेदितं भक्त्या स्नाह्यनेन सुरेश्वरि | नानावर्णसमायुक्तपट्टसूत्रादिनिर्मितम् || ११-७१२ || वासःशुक्लं तथा रक्तं गृहाण त्रिदशेश्वरि | देहशोभाकरं पूतं रञ्जितं नागवस्तुभिः || ११-७१३ || परिधत्स्व जगद्धात्रि वासो भक्त्या निवेदितम् | वाससः परिधानान्ते पुनराचमनीयकम् || ११-७१४ || दातव्यं भक्तिभावेन स्मृत्युक्तत्वान्मनुष्यवत् | दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः || ११-७१५ || अलङ्कारास्तवाङ्गानि शोभयन्तु सुरेश्वरि | अनुलेपनमेतत् ते महासुरभि शीतलम् || ११-७१६ || मया निवेदितं देवि गृहीत्वा लेपयाङ्गकम् | इदं कुसुममामोदि ग्रामारण्यसमुद्भवम् || ११-७१७ || प्राणसन्तर्पणं हृद्यं मयां दत्तं प्रगृह्यताम् | कर्पूरागुरुसंमिश्रो वनस्पतिरसोद्भवः || ११-७१८ || मया निवेदितो धूपो देवदेवि प्रगृह्यताम् | अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च || ११-७१९ || ज्योतिषामुत्तमं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् | त्वं चन्द्रसूर्यज्योतींषि विद्युदग्न्योस्तथैव च || ११-७२० || त्वमेव जगतां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् | स्निग्धमुष्णं हृद्यतमं दृशां शोभाकरं तव || ११-७२१ || गृहीत्वा कज्जलं सद्यो नेत्राण्यञ्जय पार्वति | त्वत्पादाम्भोजनखरद्युतिकारि मनोरमम् || ११-७२२ || प्. १०३२) अलक्तकमिदं देवि मया दत्तं प्रगृह्यताम् | नानाविधानि रम्याणि स्वादूनि रसवन्ति च || ११-७२३ || मया दत्तानि गृह्यन्तां नैवेद्यानि सुरार्चिते | फलपूलानि सर्वाणि ग्रामकाननजानि च || ११-७२४ || नानाकारसुगन्धीनि गृहाण परमेश्वरि | चतुर्विधमिदं भोज्यं देवि षड्भी रसैर्युतम् || ११-७२५ || सदा तृप्तिकरं रम्यमिदमन्नं प्रगृह्यताम् | गव्यसर्पिःपयोयुक्तं नानामधुरमिश्रितम् || ११-७२६ || निवेदितं देवि मया परमान्नं प्रगृह्यताम् | अमृतै रचितं दिव्यं घृतखण्डविनिर्मितम् || ११-७२७ || पिष्टकं विविधं स्वादु गृहाण हरवल्लभे | मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितम् || ११-७२८ || मिश्रं नानाविधैर्द्रव्यैः प्रतिगृह्याशु भुज्यताम् | ताम्रपात्रे स्थितं सीधुं पयो गव्यमथात्र वा || ११-७२९ || नारिकेलोदकं कांस्ये गृहाण शङ्करप्रिये | पानीयं शीतलं स्वच्छं प्रसन्नं घनसारयुक् || ११-७३० || भोजने तृप्तिकृद्देवि कृपया प्रतिगृह्यताम् | भोजनान्ते प्रदातव्यं पुनराचमनीयकम् || ११-७३१ || पूर्वोक्तेनैव मन्त्रेण सर्वत्रैव शुचिस्मिते | फलपत्रकसंयुक्तं कर्पूरादिसुवासितम् || ११-७३२ || मुखकान्तिकरं हृद्यं ताम्बूलं प्रतिगृह्यताम् | दूर्वाङ्कुरं ततो देव्यै दद्यात् साधकसत्तमः || ११-७३३ || प्. १०३३) नमस्ते सर्वगे देवि नमस्ते भुक्तिमुक्तिदे | दूर्वां गृहाण देवि त्वं मां निस्तारय सङ्कटात् || ११-७३४ || विल्वपत्रं ततो देव्यै पृथक्त्वेन निवेदयेत् | अमृतोद्भवं श्रीयुक्तं महादेव प्रियं सदा || ११-७३५ || पवित्रं ते प्रयच्छामि पत्रं मालूरशाखिनः | नानापुष्पेण रचितां स्तनबद्धां सुगन्धिनीम् || ११-७३६ || प्रभ्रष्टां लम्बनां चापि तव देवि निवेदये | सर्वशेषे प्रदातव्यं सिन्दूरं पत्रिकार्चने || ११-७३७ || अनुलेपनकाले तु पीठमूर्त्त्योर्भिदेयती | अलिकादिकशोभायाः कारकं रागसम्भवम् || ११-७३८ || अतिरागि समुत्पिञ्जसिन्द्रूरं प्रतिगृह्यताम् | चमरीपुच्छजं श्वेतं हेमदण्डि सुलोम च || ११-७३९ || मयाऽर्पितं राजचिह्नं चामरं प्रतिगृह्यताम् | वर्हिवर्हकृताकारं मध्यदण्डसमन्वितम् || ११-७४० || गृह्यतां व्यजनं देवि देहस्वेदापनत्तये | येन भीषयसे दैत्यान् येन पूरयसेऽम्बरम् || ११-७४१ || तां घण्टां ते प्रयच्छामि महिषघ्नि प्रगृह्यताम् | दीपैरनेकैर्विहितमारात्रिकमिदं शुभम् || ११-७४२ || निवेदयामि ते देवि संहराज्ञानजं तमः | सर्वशेषे प्रदातव्यं पुष्पाणामञ्जलित्रयम् || ११-७४३ || तन्मनुस्तु वरारोहे दुर्गागायत्र्युदीरिता | प्. १०३४)ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो गौरी प्रचोदयात् | अनेन विधिना यस्तु मन्त्रैरेभिश्च पार्वति || ११-७४४ || महिषघ्नीं महामायां पत्रिकासु प्रपूजयेत् | अश्वमेधफलं प्राप्य स गच्छेच्चण्डिकालयम् || ११-७४५ || इहापि च भवेत् सद्यः कल्याणानां स भाजनम् | पूजारीतिर्वरारोहे पीठमूर्त्त्योरपीदृशी || ११-७४६ || मन्त्रभेदः परो ज्ञेयः पात्राणां स्थापनं तथा | प्रत्येकं तु ततः कुर्यात् पत्रिकाणां तु पूजनम् || ११-७४७ || यावच्छक्योपचारेण मन्त्रेणापि पृथक् पृथक् | एका तत्तदधिष्ठात्री देवता परिकीर्त्तिता || ११-७४८ || तत्तन्नाम्ना चतुर्थ्यन्तां समावाह्यार्चयेत् प्रिये | आदौ तु रम्भाधिष्ठात्री ब्रह्माणी परिकीर्त्तिता || ११-७४९ || कालिका कच्च्यधिष्ठात्री त्रिपुरघ्नेन भाषिता | दुर्गा हरिद्राधिष्ठात्री जयन्त्यां कार्त्तिकी तथा || ११-७५० || शिवा च विल्वाधिष्ठात्री दाडिमाधिष्ठिता तत्था | शत्रुसङ्घक्षयकरी विज्ञेया रक्तदन्तिका || ११-७५१ || मुनिभिः शोकरहिताऽशोकाधिष्ठात्र्युदीरिता | तथैव मानाधिष्ठात्री चामुण्डा परिकीर्त्तिता || ११-७५२ || लक्ष्मीश्च धान्याधिष्ठात्री नन्दीशेनोपपादिता | नवपत्रिकाधिष्ठात्री कात्यायन्यप्युदीरिता || ११-७५३ || याथाऽसां क्रमतो देवि नामान्युक्तानि ते मया | तथैव मन्त्रमेकैकं क्रमेन प्रब्रुवेऽधुना || ११-७५४ || प्. १०३५) ब्रह्माणि त्वं ससागच्छ सान्निध्यमिह कल्पय | रम्भारूपेण सर्वत्र शान्तिं कुरु नमोऽस्तु ते || ११-७५५ || महिषासुरयुद्धेषु कच्चीभूताऽसि कालिके | मनुष्यानुग्रहार्थाय लोकमेनमुपागता || ११-७५६ || हरिद्रे वरदे देवि दुर्गारूपाऽसि शोभने | मम विघ्नविनाशाय पूजां गृह्ण प्रसीद मे || ११-७५७ || निशुम्भशुम्भमथने सेन्द्रैर्देवगणैः पुरा | जयन्ती पूजिताऽसि त्वमस्माकं वरदा भव || ११-७५८ || महादेवप्रियकरो वासुदेवप्रियः सदा | सदा कालीप्रीतिकरो विल्ववृक्ष नमोऽस्तु ते || ११-७५९ || दाडिमि त्वं पुरा युद्धे रक्तबीजस्य संमुखे | चामुण्डाप्रीतिमकरोत् तस्मात् त्वां पूजयाम्यहम् || ११-७६० || हरप्रीतिकरो वृक्षो ह्यशोकः शोकनाशनः | दुर्गाप्रीतिकरत्वेन मामशोकं सदा कुरु || ११-७६१ || यस्य पत्रे वसेद्देवी मानवृक्ष शचीप्रिय | ममैवानुग्रहार्थाय पूजां गृह्ण सुरेश्वरि || ११-७६२ || जगतः प्राणरक्षार्थं ब्रह्मणा निर्मितं पुरा | उमाप्रीतीकरं धान्यं तस्मात् त्वं रक्ष मां सदा || ११-७६१ || पत्रिके नवदुर्गे त्वं महादेवमनोहरे | पूजां समास्तां संगृह्य रक्ष मां त्रिदशेश्वरि || ११-७६२ || प्रत्येकमित्थं संपूज्य मन्त्रैरेतैरुदीरितैः | नामाभ्यामपि ङेन्ताभ्यामुक्ताभ्यां पूर्वमेव ते || ११-७६३ || सामान्यपीठन्यासोक्तनामभिर्ङेन्तबृंहितैः | प्. १०३६) दिक्पालानपि नित्योक्तवाहनायुधसंयुतान् || ११-७६४ || वस्तुभिः पीठमूर्त्त्योस्तु नित्यनैमित्तिकोदितैः | प्रावृत्यार्चनविस्तारैर्यजेत् परमेश्वरीम् || ११-७६५ || यावती कथिता नित्य इति कर्त्तव्यता मया | यथा नैमित्तिके चापि द्वयीमपि नियोजयेत् || ११-७६६ || संप्रयोगममन्त्राणामवदन्नैत्यके विधौ | तं केवलं विधायेशि सर्वमन्यमुपाचरेत् || ११-७६७ || नैमित्तिकीयः संग्राह्योऽन्यः सर्व उभयात्मकः | प्रयोगो यादृशीयस्तु तादृशीयं हि तर्पणम् || ११-७६८ || शक्तौ तु पत्रिकार्चायां दशास्त्राणि प्रपूजयेत् | ङेन्तैस्तारहृदो मध्येऽधिष्ठितैस्तत्तदक्षरैः || ११-७६९ || ततोऽनु सर्वपूजान्ते पूजयेन्महिषासुरम् | वलिं दद्यात् स्वशक्त्या च पशूनपि खगानपि || ११-७७० || नैमित्तिके तद्विधानं प्रागेव तव कीर्त्तितम् | इति सप्तमीकृत्यम् | अथाष्टमीकृत्यम् | तत्रैव | एतावत् सप्तमीकृत्यमथाष्टम्यर्चनं शृणु || ११-७७१ || सप्तम्युक्तविधानं हि पूर्वमेवानुवर्त्तते | अधिकं यत् तदाख्यास्ये सर्वमन्यत् पुरोक्तवत् || ११-७७२ || शोधनं द्रव्यजातानामासनादेस्तथैव च | प्राणायामो भूतशुद्धिर्मातृकान्यास एव च || ११-७७३ || तथा पीठषडङ्गाख्यन्यासौ न्यासान्तराण्यपि | विधाय पूर्वोक्तरीत्या च महास्नानं तथैव च || ११-७७४ || प्. १०३७) दर्पणे प्रतिबिम्बं च कारयित्वा पुरोक्तवत् | दन्तकाष्ठं निवेद्याथ संकल्पं विरचयय च || ११-७७५ || अर्घसंस्थापनादीनि विधाय च पुरोक्तवत् | समाप्यात्मार्चनं चापि घटे गणपतिं यजेत् || ११-७७६ || सूर्यादीनपि पञ्चायतनान् संपूज्य यत्नतः | ध्यात्वाऽथ मानसैरेवोपचारैः परिपूज्य च || ११-७७७ || उपचारैः षोडशभिर्महामायां समर्चयेत् | तैस्तैर्मन्त्रैस्तदनुक्रमतश्चापि पार्वति || ११-७७८ || मुद्राप्रदर्शनैस्तैरुपचारनिवेदनैः | पीठमूर्त्त्योस्तान्त्रिकोक्तरीत्या पूजनमाचरेत् || ११-७७९ || पत्रिकासु च पौराणक्रमतो जगदीश्वरि | कृत्वाऽवरणपूजां हि पीठे द्वाभ्यां समाचरेत् || ११-७८० || नित्यनैमित्तिकोक्ताभ्यां महाष्टम्यर्चनक्रमे | विशेषं कं चिदाख्यास्ये पत्रिकायाः प्रपूजने || ११-७८१ || पूर्वादिवसुकोणेषु दशोपचरणैर्यजेत् | देव्याः शक्तीः क्रमेणैवोग्रचण्डाद्या विशेषतः || ११-७८२ || मन्त्रमालामयीसंस्थैर्मन्त्रैरासां तु कौलिकः | नन्दिकेशपुराणोक्तैर्मनुभिः पद्यरूपिभिः || ११-७८३ || श्रुत्यध्वन्याः पूजयेयुरुग्रचण्डादिकाः प्रिये | मनू/स्तदीयानधुना ब्रवीमि तव सुन्दरि || ११-७८४ || तारह्नीकमला आदौ मध्ये ङेन्ताभिधा तथा | अन्ते हृन्मनुरेवं हि परिपाटी प्रकीर्त्तिता || ११-७८५ || उग्रचण्डा तु भयदा मध्याह्नार्कसमप्रभा | प्. १०३८) सा मे सदाऽस्तु वरदा तस्यै नित्यं नमो नमः || ११-७८६ || प्रचण्डे पुत्रदे नित्यं प्रचण्डगणसंवृते | जगदानन्ददे देवि प्रसन्ना भव सर्वदा || ११-७८७ || चण्डोग्रे भूतरूपाऽसि सर्वभूतभयप्रदा | सौम्या भूता मयि सदा वरदा भव शोभने || ११-७८८ || या सिद्धिरिति नाम्ना तु देवेशेन प्रकाशिता | शासि त्वं साऽसि देवेशि नमस्ते चण्डनायिके || ११-७८९ || देवि चाण्डात्मिके चण्डे चण्डारिविजयप्रदे | धर्ममोक्षप्रदाऽसि त्वं नित्यं मे वरदा भव || ११-७९० || या सृष्टिस्थितिसंहारगुणत्रयसमन्विता | यस्याः परा न चान्याऽस्ति चण्डवत्यै नमो नमः || ११-७९१ || चण्डरूपा महाचण्डा चण्डनायकचण्डिका | सर्वसिद्धिप्रदा देवि तस्यै नित्यं नमो नमः || ११-७९२ || बालार्कारुणनेत्रा या सर्वदा भक्तवत्सला | चण्डासुरस्य मथनी वरदा साऽस्तु चण्डिका || ११-७९३ || ततोऽष्टदलपद्मस्य अष्टावृत्या दलेषु च | यजेच्चतुःषष्टिमिता योगिनीगणरूपिणीः || ११-७९४ || तारत्रयं पुरो दत्वा शेषे नम इदं पदम् | ङेन्तं ततो नाम तासां मध्ये कृत्वा नियोजयेत् || ११-७९५ || उपचारैः पञ्चभिर्वा पुष्पैर्वा केवलाक्षतैः | ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च || ११-७९६ || कौमारी भैरवी दुर्गा नारसिंही च कालिका | प्. १०३९) चामुण्डा शिवदूती च वाराही कौशिकी तथा || ११-७९७ || माहेश्वरी शङ्करी च जयन्ती सर्वमङ्गला | करालिनी मुक्तकेशी शिवा शाकम्भरी तथा || ११-७९८ || भीमा शान्ता भ्रामरी च रुद्राणी चण्डरूपिणी | क्षमा धात्री स्वधा स्वाहा अपर्णा च महोदरी || ११-७९९ || घोररूपा महाकाली विद्युज्जिह्वा कपालिनी | क्षेमङ्करी महामाया मेघमाला बलाकिनी || ११-८०० || शुष्कोदरी चण्डघण्टा महाप्रेता प्रियङ्करी | खरतुण्डी ऋक्षकर्णी बलप्रमथनी तथा || ११-८०१ || मनोमथन्यपि तथा सर्वभूतदमन्यपि | उमा तारा महानिद्रा विजया च जया तथा || ११-८०२ || शैलपुत्री महोल्का च त्रिशूलिन्यञ्जनप्रभा | कूष्माण्डी विश्वसंत्रासा तथा कात्यायनी परा || ११-८०३ || कालरात्रिर्महागौरी चतुःषष्टिरिमा मताः | पूजयेन्मण्डलस्यान्ते सर्वकामार्थसिद्धये || ११-८०४ || पुनश्च कोटियोगिन्यः पूज्याः एकाख्यया प्रिये | पद्मपत्राग्रहाग्रेषु पूर्ववन्मन्त्रकल्पनैः || ११-८०५ || ततो देवीसन्निधाने सम्यग्दुर्गा फलप्रदा | ऐशान्यादिक्रमे द्वे द्वे मध्ये वा नव पूजयेत् || ११-८०६ || आसामप्युग्रचण्डादिवन्मन्त्रः परिकीर्त्तितः | पाद्यादिभिः पूर्ववच्च तत्तन्मन्त्रैः प्रपूजयेत् || ११-८०७ || प्. १०४०) मृत्युञ्जयप्राणसंस्थैरथ पौराणिकैरपि | पूर्वपक्षः कौलिकानामुत्तरः श्रुतिशालिनाम् || ११-८०८ || तन्मन्त्रामधुना वक्ष्ये सावधाना निशामय | चतुर्मुखीं जगद्धात्रीं हंसारूढां वरप्रदाम् || ११-८०९ || सृष्टिकर्त्रीं महाभागां ब्रह्मणीं तां नमाम्यहम् | वृषारूढां शिवां भद्रां त्रिनेत्रां वरदां शिवाम् || ११-८१० || माहेश्वरीं नमस्यामि जगत्संहारकारिणीम् | कौमारीं पीतवसनां मयूरवरवाहिनीम् || ११-८११ || शक्तिहस्तां शोणदेहां नमामि वरदां सदा | शङ्खचक्रगदापद्मधारिणीं कृष्णविग्रहाम् || ११-८१२ || स्थितिरूपां खगेन्द्रस्थां वैष्णवीं प्रणमाम्यहम् | वराहरूपिणीं देवीं दंष्ट्रोद्धृतवसुन्धराम् || ११-८१३ || शुभदां नीलवसनां वाराहीं तां नमाम्यहम् | नृसिंहरूपिणीं भीमां दैत्यदानवघातिनीम् || ११-८१४ || विकरालनखां शुभ्रां नारसिंहीं नमाम्यहम् | इन्द्राणीं गजकुम्भस्थां सहस्रनयनां शुभाम् || ११-८१५ || नमामि वरदां देवीं सर्वदेवनमस्कृताम् | चामुण्डां मुण्डमथनीं मुण्डमालोपशोभिताम् || ११-८१६ || अट्टाट्टहासमुदितां नमाम्यात्मविभूतये | कात्यायनीं दशभुजां महिषासुरमर्दिनीम् || ११-८१७ || प्रसन्नवदनां देवीं वरदां प्रणमाम्यहम् | चण्डिके नवदुर्गे त्वं महादेवप्रिये सदा || ११-८१८ || पूजां समस्तां संगृह्य रक्ष मां त्रिदशेश्वरि | प्. १०४१) कात्यायन्याश्च दुर्गाया मन्त्रद्वयमिदं मतम् || ११-८१९ || इमे तेनैव मन्त्रेण पूजयेत् सुरवन्दिते | पुनः पूर्वोक्तविधिना देवीरेकादशर्चयेत् || ११-८२० || जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् | दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत् || ११-८२१ || ततोऽस्त्रपूजां कुर्वीत सप्तम्यर्चनतोऽधिकाम् | प्रणवाद्यैर्नमोऽन्तैश्च मन्त्रैरेव सुरेश्वरि || ११-८२२ || आदौ तु दक्षिणे भागे ततो वामे प्रपूजयेत् | पाद्यादिभिस्त्रिशूलादीन् केवलैरक्षतैरथ || ११-८२३ || सर्वायुधानां प्रथमो निर्मितस्त्वं पिनाकिना | शूलसारं समाकृष्य कृत्वा मुष्टिग्रहं शुभम् || ११-८२४ || असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः | श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते || ११-८२५ || चक्रं त्वं विष्णुरूपोऽसि विष्णुपाणौ सदा स्थितः | देवीहस्तगतश्चासि चक्रराज नमोऽस्तु ते || ११-८२६ || सर्वायुधानां श्रेष्ठस्त्वं दैत्यसेनानिषूदन | भयेभ्यः सर्वदा रक्ष तीक्ष्णबाण नमोऽस्तु ते || ११-८२७ || शक्ते त्वं सर्वदेवानां गुहस्य च विशेषतः | शक्ति रूपेण सर्वत्र रक्षां कुरु नमोऽस्तु ते || ११-८२८ || रक्षारूपेण खेट त्वमरिसंहारकारकः | सदा देवीकरगत मां रक्ष बहुसङ्कटात् || ११-८२९ || सर्वायुधमहामात्र सर्वासुरनिषूदन | चाप मां सर्वतो रक्ष साकं सायकसत्तमैः || ११-८३० || प्. १०४२) पाश त्वं नागरूपोऽसि विषपूर्णो विषोदरः | शत्रूणां दुःसहो नित्यं नागपाश नमोऽस्तु ते || ११-८३१ || अङ्कुशोऽसि नमस्तुभ्यं गजानां त्वं नियामकः | देवानामपि रक्षार्थं पार्वत्याऽसि धृतः करे || ११-८३२ || यस्या निनादमाकर्ण्य शकृन्मूत्रे प्रसुस्रुवः | दैत्यसङ्घाः पाहि सा त्वं घण्टे नानाविधाद्भयात् || ११-८३३ || परशो त्वमतिक्ष्णोऽसि सर्ववैरिविमर्दन | देवीहस्तगतश्चासि सदा तुभ्यं नमो नमः || ११-८३४ || यानि यानीह मुख्यानि प्रसिद्धान्यायुधानि च | क्षयकारीणि शत्रूणां विख्यातानि जगत्त्रये || ११-८३५ || यानि यान्यम्बिका धत्ते करेषु स्वेषु सर्वदा | भुशुण्डीपाशपरिघभिन्दिपालास्तु लागुडाः || ११-८३६ || ऋष्टितोमरकुन्ताश्च पट्टिशो मुशलस्तथा | गदाशतघ्नीकुणपच्छुरिकाकर्त्तरीमुखाः || ११-८३७ || सर्वा/स्तान् पूजयाम्यद्य महाष्टम्यां विशेषतः | सर्वे रक्षन्तु मां नित्यम् सर्वसिद्धिं ददत्वपि || ११-८३८ || तारात् कूर्चाच्च दुर्गायै सर्वायुधपदान्यपि | धारिण्यै नम उच्चार्य दद्यात् पुष्पाञ्जलित्रयम् || ११-८३९ || ततो देव्याः किरीटादीनलङ्कारान् प्रपूजयेत् | ताराद्येन नमोऽन्तेन नाम्ना ङेन्तेन तस्य च || ११-८४० || ततः प्रपूजयेद्देव्याः सिंहासनमनुत्तमम् | ताराद्वज्रनखदंष्ट्रायुधाय परिकीर्त्त्य हि || महासिंहाय हु/ हृच्च सिंहमेतेन पूजयेत् | प्. १०४३) यथोपकल्पितैरेवोपचारैः कुसुमाक्षतैः || ११-८४१ || तदन्ते मनुनैतेन देव्याः सिंहासनं यजेत् | आसनं चासि देव्यास्त्वं घोरदंष्ट्रोत्कटान्वितः | | ८४२ || हिमाद्रिशिखराकार सिंहराज नमोऽस्तु ते | देव्या दत्तवरत्वेन विशेषान्महिषासुरम् || ११-८४३ || अष्टम्यां च नवम्यां च पूजयेद्बहुविस्तरैः | यावच्छक्योपचारैस्तु पाद्यादिभिरनेकधा || ११-८४४ || नमोऽन्तः प्रणवादिश्च ङेन्तोऽन्तर्महिषासुरः | एतेन मनुना सर्वोपचारानस्य चार्पयेत् || ११-८४५ || न सामान्यासुरधिया साक्षाद्रुद्रधियैव हि | पूजान्ते कीर्त्तयेन्मन्त्रानमून् बद्धाञ्जलिः प्रिये || ११-८४६ || रुद्रोऽस्यसुरराज त्वं देवानां दर्पनाशकः | पितुर्वरप्रार्थनया महिषीगर्भसम्भवः || ११-८४७ || कात्यायन्या समं योद्धुं सामर्थ्यं कस्य विद्यते | केनासुरेण विधृतः समरे मधुसूदनः || ११-८४८ || केनान्येन विजित्याजौ त्रिदशाः सेवकीकृताः | मन्वन्तरत्रयं केन भुक्तं राज्यमकण्टकम् || ११-८४९ || बभूव कस्य वा सेना परार्धशतसंमिता | रुद्ररूपधरायातो महिषासुर ते नमः || ११-८५० || ततः संपूजयेद्देवि चतुरो वटुकानपि | सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम् || ११-८५१ || शेषे समयपुत्रं च मन्त्रमेषां निशामय | वेदादिकमलाबीजे पुरतोऽन्ते नमोऽपि च || ११-८५२ || प्. १०४४) तत्तन्नाम्ना सह तथा वटुको विग्रहीकृतः | स ङेन्त इति मन्त्राः स्युरेतेषां जगदीश्वरि || ११-८५३ || समस्तैरुपचारैस्तु यथाविभवकल्पितैः | पूजयेद्वटुकानेताञ्छृण्वन्यावृत्तिपूजनम् || ११-८५४ || पूजयेत् क्षेत्रपाला/श्च मध्ये किञ्जल्कपक्षयोः | हेतुकं त्रिपुरघ्नं च अग्निजिह्वं तथैव च || ११-८५५ || अग्निवेतालसंज्ञं च कालं चाथ करालकम् | एकपादं भीमनाथमुत्तरादिक्रमेण तु || ११-८५६ || अधुना मन्त्रमेतेषां ब्रवीमि शृणु पार्वति | तारकूर्चक्षेत्रपालबीजत्रयमिदं पुरः || ११-८५७ || एतन्नाम्ना सह पुनः क्षेत्रपालः सविग्रहः | ङेन्तो महाभीषणश्च तद्वदेव प्रकीर्त्तितः || ११-८५८ || क्रोधो हृच्छिरसी चापि मन्त्र एषां वरानने | मण्डलस्य चतुर्दिक्षु द्वौ द्वौ मध्ये च पूजयेत् || ११-८५९ || भैरवान् नव देवेशि शरदर्चनकर्मणि | असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च || ११-८६० || आनन्दश्च कपाली च भीषणस्तदनन्तरम् | संहारी सर्वशेषे स्यात् कीर्त्तिता नव भैरवाः || ११-८६१ || तारत्रपारोषबीजं तत्तन्नाम ततः परम् | भैरवान्तं विग्रहि च ङेन्तं हृन्मन्त्रसंयुतम् || ११-८६२ || दिक्ष्वष्टसु बहिः पद्माद्दिगीशानष्ट पूजयेत् | इन्द्रोऽग्निश्च यमश्चैव नैर्-ऋतो वरुणस्तथा || ११-८६३ || वायुः सोमश्च ईशान एतन्नाम्ना परिस्थिता | प्. १०४५) वज्रं शक्तिश्च दण्डश्च खड्गः पाशोऽङ्कुशस्तथा || ११-८६४ || ध्वजशूले अमीषां तु शस्त्राणि कथितानि ते | नैर्-ऋतो वरुणश्चापि मध्येऽनन्तः प्रकीर्त्तितः || ११-८६५ || तदस्त्रं चक्रमुदितं यथेन्द्रेशानमध्यतः | ब्रह्मा सपद्म इत्येते दिगीशा दश ईरिताः || ११-८६६ || मन्त्ररीती इदानीं त्वं समाकल्पय भामिनि | प्रणवं पुरतो दत्वा तत्तन्नाम ततः परम् || ११-८६७ || ततः परं तत्तदस्त्रं सशब्दपरिबृ/हितम् | सवाहनपरीवारं सायुधं तदनन्तरम् || ११-८६८ || शब्दाश्चत्वार इत्येते ङेन्ताः कार्या नमस्ततः | ततो दद्याद्वलिं देव्यै पूर्वोदितविधानतः || ११-८६९ || अष्टम्यामधिकं दद्यात् सप्तमीवलिदानतः | तन्त्रान्तरे | ततो यथाशक्ति जपं कृत्वा स्तोत्रमुदीरयेत् || ११-८७० || वलिदानविधिः स्तोत्रं चाग्रे वक्ष्यते | तथा | साष्टाङ्गं प्रणमेद्भूमौ देवीं भक्तिपरायणः | (निर्णयामृते) पुराणान्तरे | ततः खड्गं नमस्कृत्य शत्रूणां वधसिद्धये || ११-८७१ || इच्छेत विजयं राज्ये सुभिक्षं चात्मनो नृपः | पुनः पुनः प्रणम्यार्यां संस्मरेद्धृदये शिवाम् || ११-८७२ || सर्वं कृत्वेति कौरव्य अष्टम्यां जागरं निशि | नटनाटकघोषैश्च कारयेच्च महोत्सवम् || ११-८७३ || अथाष्टमीनवम्योः सन्धौ चामुण्डापूजा | प्. १०४६) (महाकालसंहितायाम्) अष्टमीनवमीसन्धौ कुर्वते के चिदर्चनम् | तत्सन्धिपूजनमिति पुराणादिषु कीर्त्तितम् || ११-८७४ || नवम्यामर्धरात्रे वा तत्परेणापि पूजनम् | तान्त्रिकाः के चिदिच्छन्ति सिद्धिं तूभयथाऽर्चने || ११-८७५ || चामुण्डारूपधारिण्यास्तत्र देव्यास्तु पूजनम् | विहितं नान्यरूपिण्याः कृत इत्येष निर्णयः || ११-८७६ || तन्मन्त्रं ध्यानमस्यास्तु समाकल्पय साम्प्रतम् | चामुण्डाया मन्त्रध्याने तन्त्रान्तरोक्ताष्टमातृकाप्रकरणे वक्ष्यामः | तथा | एवं ध्यात्वा च सम्पूज्य विविधोपायनादिभिः || ११-८७७ || शक्तौ तु मार्त्तिकीः स्थालीः पूरयेदन्नतेमनैः | पक्वान्नैराममांसैश्च रुधिरैर्देयपक्षिणाम् || ११-८७८ || ताश्च संपूजयेद्गन्धै रक्तपुष्पाक्षतरपि | उपरिष्टाद्धूपदीपैररिबलैर्मनुभिश्च यः || ११-८७९ || वलिं समुत्सृजेत् तेन महतीं श्रियमश्नुते | शक्तियामे ततः पश्चात् केचित् कुर्वन्ति कौलिकाः || ११-८८० || तद्विधानं पुरैवोक्तं तेनैवैतां समापयेत् | अथ नवमीकृत्यम् | (भविष्यपुराणे) नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता || ११-८८१ || जघान महिषं दुष्टमवध्यं देवताभिः | लब्ध्वाऽभिषेकं वरदा शुक्ले चाश्वयुजस्य च || ११-८८२ || प्. १०४७) तस्मात् सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः | महत्त्वं हि यतः प्राप्ता तत्र देवी सरस्वती || ११-८८३ || तदर्थं महती प्रोक्ता नवमीयं सदा बुधैः | पूजयित्वा महादेवीं नवम्यां मन्त्रचण्डिकाम् || ११-८८४ || महत्त्वं प्राप्तवान् वीर ब्रह्मा विष्णुस्तथाऽमराः | तस्मादियं महापुण्या नवमी पापनाशिनी || ११-८८५ || उपोष्या तु प्रयत्नेन सततं सर्वपार्थिवैः | पूर्वोत्तरेण ऋक्षेण संयुक्ता विधिवन्नृप || ११-८८६ || विशेषतो नृपाद्यैश्च बालैर्वृद्धैः सयौवनैः | ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च सेवकैः || ११-८८७ || इत्यादि (दुर्गोत्सवपद्धतौ) तन्त्रान्तरे | ततो महानवम्यां च पूजयेज्जगदम्बिकाम् | अष्टम्यां यावती प्रोक्ता विस्तरेण समर्हणा || ११-८८८ || नवम्यामपि कर्त्तव्या तावत्येव वरानने | विशेषस्तत्र कर्त्तव्यं प्रभूतवलिदानकम् || ११-८८९ || (महाकालसंहितायाम्) नैमित्तिकक्रमेणैव पीठमूर्त्त्यर्चनं चरेत् | शक्तौ नित्योदितावृत्यर्चनं कुर्वीत साधकः || ११-८९० || नान्यां पूजां वरारोहे व्यवस्थेयं शिवोदिता | पीठमूर्ती पत्रिकामृन्मूर्त्ती यो भक्तिभावितः || ११-८९१ || कुरुते तस्य विहितं पूजनद्वितयं तदा | पत्रिकायाः पुरः पूजा पीठमूर्त्त्योस्ततः परम् || ११-८९२ || सर्वाऽपि तान्त्रिकी रीतिः पीठमूर्त्त्योरुदीरिता | प्. १०४८) पत्रिकादिषु पौराणी रीतिरुक्ता पुरारिणा || ११-८९३ || असंसृष्टं पृथक्कृत्य द्वयमेतन्मयोदितम् | ततः परं सुरेशानि पाठयेदथ वा पठेत् || ११-८९४ || मार्कण्डेयपुराणान्तर्गतां भगवतीस्तुतिम् | समग्रां वा पठेदाहो वधं शुम्भनिशुम्भयोः || ११-८९५ || महिषासुरस्याप्यथ वा मधुकैटभयोरपि | कुर्यादुभयमेवात्र विधिं संकल्पपूर्वकम् || ११-८९६ || ब्राह्मणान् वरयित्वैव वस्त्रालङ्करणासनैः | विदध्यात् कामनोल्लेखं पूजां शक्त्या च पुस्तके || ११-८९७ || शनैः पठेत् पाठकोऽपि वर्णौच्चारणपूर्वकम् | सुव्यक्तं नातिविश्लिष्टं न शिरश्चालगीतवत् || ११-८९८ || तनु मान्दोलयन् नापि न हसन् न रुदन् व्रजन् | नाश्नन्नान्यैरालप/श्च न मध्ये च्छिन्नवत् तथा || ११-८९९ || आचान्तः कृतशौचश्च पदोरुद्गमनीयवान् | एतेन विधिनाऽधीते तुष्यते जगदम्बिका || ११-९०० || यथोक्तफलदात्री च भवति प्राणवल्लभे | यथैतत्पाठतो देवी प्रीता स्याद्द्रुतमीश्वरी || ११-९०१ || न तथा धूपदीपस्रग्वलिनैवेद्यविस्तरैः | पठनं पाठनं वाऽपि तस्मादेतस्य यत्नतः || ११-९०२ || कार्यं शारदपूजायां कालिकातुष्टिमिच्छता | देवीशारदपूजायां यथैतस्य हि नित्यता || ११-९०३ || होमस्यापि तथा ज्ञेया मुख्ये अङ्गे इमे मते | हस्तमात्रं विधायादौ स्थण्डिलं श्रद्धया मृदा || ११-९०४ || प्. १०४९) तत्राग्निस्थापनं कृत्वा वैदिकैर्मनुभिः प्रिये | घृताहुतिं वा जुहुयात् तिलमिश्रामथापि वा || ११-९०५ || विल्वपत्रं यवां पद्मं पायसं वा मधूक्षितम् | मन्त्रस्तत्र तु विज्ञेया भारती षोडशाक्षरी || ११-९०६ || अथवा जयदुर्गाया मन्त्रो यः परिनिष्ठितः | भारती षोडशाक्षरीति प्रकृताभिप्रायेण | जयदुर्गामन्त्रस्तु सकलसाधारण इति बोध्यम् | तथा | सप्तशत्यास्तथा देवी एकैकश्लोक एव वा || ११-९०७ || मन्त्रे सहस्रसंख्या स्याच्छक्तावयुतमेव वा | उभयत्रापि दातव्याः कर्मान्ते दक्षिणाः शुभाः || ११-९०८ || इदं कर्मद्वयं देवि मूर्तेः पुरत आचरेत् | नाप्यदो द्वितयं कार्यं क्षपायां वासरादृते || ११-९०९ || तस्यां कृतं तु विफलं जायते वेदशासनात् | देवी सप्तशतीपाठं गृह्णाति विधिवत् कृतम् || ११-९१० || विधिना वाऽप्यविधिना पुनर्होमं प्रयच्छति | तस्माद्यत्नेन कर्त्तव्यो होमः शारदपूजने || ११-९११ || होमः सप्तशतीपाठो वलिर्वादित्रवादनम् | चतुष्टयमिदं शस्तं मासीषे कालिकार्चने || ११-९१२ || प्रभूतवलिदानं च कार्यं भूत्यनुसारतः | अथ वलिदानविधिस्तत्रैव | ततो दद्याज्जीववलिं यथालाभं यथाविधि || ११-९१३ || विधिस्तु द्विविधः प्रोक्तः श्रौत आगमिकस्तथा | श्रौतः श्रुत्युक्तमन्त्रेणागमस्तन्त्रोक्तमन्त्रकैः || ११-९१४ || प्. १०५०) श्रौतोऽपि स्वस्वगृह्योक्तविधिना संप्रदीयते | पशुजातिविशेषेण तत्राप्यस्ति भिदाऽधिका || ११-९१६ || (मेरुतन्त्रे) वलिस्तु त्रिविधो ज्ञेयस्तान्त्रिकः स्मार्त्त एव च | वैदिकश्चेति तत्रादौ तान्त्रिकोऽष्टविधः स्मृतः || ११-९१७ || नरश्च महिषः कोलश्छागोऽविः सारसस्तथा | कपोतः कुक्कुटश्चेति सामान्याः पूर्वपूर्वतः || ११-९१८ || तथा | कूष्माण्डं नारिकेलं वा श्रीफलं चेक्षुमेव च | वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिभिः || ११-९१९ || एवं स्मार्त्तो वलिः प्रोक्तो धर्मशास्त्रानुगामिनाम् | तथा | वदिकं तु वलिं दद्यादोदनं स्विन्नमाषवत् || ११-९२० || सरोचनमतिक्रूरदैवते वटकान्वितम् | इत्युक्तं (महाकालसंहितायाम्) श्रौतः श्रुतिषु सन्धेयो योऽध्वरेषु निरूपितः || ११-९२१ || वक्ष्याम्यागमिकं सर्वं यागस्थानक्रमागतम् | न स देवो न सा देवी देवयोनिभिदा न सा || ११-९२२ || न स कालो न तद्भूतं यो नेच्छति वलिं प्रिये | अमूर्त्ता ये च कालाशा माससंवत्सरर्त्तवः || ११-९२३ || पक्षायनाहोरजनीतिथिप्रहरसंक्रमाः | एतेऽपि वलिमिच्छन्ति किं पुनर्देवयोनयः || ११-९२४ || वनस्पत्योषधिलतातरुगुल्मनगादयः | स्थावरा जङ्गमाश्चापि वल्याकाङ्क्षां प्रकुर्वते || ११-९२५ || यस्य यस्य हि देवस्य यो यो वलिरुदीरितः | प्. १०५१) एतत्प्रसङ्गेन शिवे स स कश्चन कथ्यते || ११-९२६ || स्वयम्भुवो बलिः सिंहो विष्णोर्वार्ध्रीणसः स्मृतः | अश्व इन्द्रस्य कथितो गण्डकः परमेष्ठिनः || ११-९२७ || विष्ण्वादिनुद्दिश्य वार्घ्रीणसादेरुत्सर्गमात्रं न तु हिंसेति विधानमुक्तावलीकृतः | वार्घ्रीणसलक्षणं त्वग्रे वक्ष्यते | तथा | शूकरो भैरवस्यापि प्रमथानां च जम्बुकः | प्रियो द्वीपी वेधसश्च चित्रको बलिरिष्यते || ११-९२८ || गणाध्यक्षस्य भल्लूको यक्षाणां लोहितो मृगः | स्कन्दस्य गोधा विश्वेषां देवानां चमरोऽपि च || ११-९२९ || विनायकानां च बलिः कृष्णसार उदीरितः | वेतालानां च महिषो गुह्यकानां च सम्बरः || ११-९३० || शच्याः शल्यो रोहिषस्तु तुषितानां प्रकीर्त्तितः | कृकलाशो दानवानां दैत्यानां श्येन उच्यते || ११-९३१ || हिरण्यगर्भस्य बलिरष्टापद उदीर्यते | ईशानस्य पदस्वर्चा रुरू रुद्रस्य कीर्त्यते || ११-९३२ || बलिर्ममापि गोकर्णः साध्यानां गवयस्तथा | सृमरो भासुराणां च वसूनामृक्ष इष्यते || ११-९३३ || बृहस्पतेस्तु गवयो हस्ती चैव प्रजापतेः | कुरङ्गो गणसाध्यानां तक्ष्ण उष्ट्रो निगद्यते || ११-९३४ || श्राद्धीयविश्वदेवानां वृषभः परिकीर्त्तितः | अग्नेस्तु कुटरुः पक्षी चक्रवाकः प्रचेतसः || ११-९३५ || पारुष्णो गार्हपत्यस्य दक्षिणाग्नेस्तु चीनकः | चमूरुराहवनीयस्य शशोऽर्यम्ण उदीरितः || ११-९३६ || प्. १०५२) वायोर्वलाका सोमस्य हंसश्चन्द्रस्य वै लवः | वरुणस्य तथा नक्रो मित्रस्य च कुलीयकः || ११-९३७ || चाषोऽग्नीषोमयोर्ज्ञेय इन्द्राग्न्योः क्रौञ्च एव च | मित्रमित्रस्य मद्गुः स्यात् कुलीकस्त्वष्टुरेव हि || ११-९३८ || आदित्यानां तथा न्यङ्कुः कृष्णोऽपि हि यमस्य च स्यात् प्राजापत्यवायवोश्च गोमृगौ बलिरीश्वरि || ११-९३९ || नासत्ययोर्मयूरोऽपि पूष्णो जम्बुक उच्यते | गर्दभो निर्-ऋतेर्मित्रावरुणस्यकपोतकः || ११-९४० || गोधादि देवपत्नीनां मालिकः सवितुस्तथा | कुलीको देवयोनीनां राजज्ञोऽप्सरसामपि || ११-९४१ || अन्तरिक्षस्य योक्त्रस्तु भूमेराखुर्दिवः कशा | दिशां बलिस्तु नकुलो विदिशां बभ्रुरेव च || ११-९४२ || अपां मत्स्यस्तेजसस्तु होमीयाख्यो भुजङ्गमः | जलः सामान्यकालस्य तथा कालस्य चिल्लिका || ११-९४३ || सुपर्णश्चापि दात्यूहो बलिर्वत्सरमासयोः | कपिञ्जलो वसन्तर्तोर्ग्रीष्मस्य कलविङ्ककः || ११-९४४ || वर्षाणां तित्तिरिर्ज्ञेयः शरदो वर्त्तिका तथा | क्रकरश्चापि हैमन्तः शैशिरो वैककर्यपि || ११-९४५ || पक्षस्य खञ्जरीटः स्यादयनस्य तु सारसः | पारावतो दिनस्यापि रात्रेः सीरायुरुच्यते || ११-९४६ || प्रोक्ता जलौका सन्ध्याया यैज्ञराजस्तिथेरपि | यामस्य सुखिलीकस्तु संक्रान्तेरन्यपायकः || ११-९४७ || किरीकको ग्रहाणां च नक्षत्रानां शरव्यकः | प्. १०५३) राशीनामपि साकल्यो लग्नानामपि चुञ्चुटः || ११-९४८ || शिशुमारः समुद्रस्य नदीनां च तिमिङ्गिलः | आवर्त्तानां च मकरो विचीनां शङ्कलोऽपि च || ११-९४९ || उष्ट्रः पातालदेवस्य शङ्कुर्वै ताण्डवस्य च | पर्जन्यानां च मण्डूको वृष्टेरपि महीलताः || ११-९५० || विद्युतामपि सम्बूको भारद्वाजोऽशनेऽरपि | सिनीवालीकुहूराकानुमतीनाम् क्रमेण हि || ११-९५१ || शरादिकङ्कहारीतजीवञ्जीवाः प्रकीर्त्तिताः | बलिः कलञ्जः प्रेतानां पिशाचानां वकोऽपि च || ११-९५२ || भूतानां कुररश्चापि कुक्कुटो ब्रह्मरक्षसाम् | गन्धर्वाणां कोकिलोऽपि घोणकानां च वायसः || ११-९५३ || वर्त्तकः क्षेत्रपालानां वटुकानां च कुक्कुटः | यावत्यो जातिहारिण्यस्तासां भारुण्ड उच्यते || ११-९५४ || छुच्छुन्दरीर्ह्यश्मनः स्याज्जलस्य शरभो बलिः | चिल्लो बलिर्डाकिनीनां किन्नराणां च तक्षकः || ११-९५५ || भूलिङ्गो योगिनीनां स्यान्निधीनां टिट्टिभो बलिः | इन्द्रियाणामथो वच्मि चक्षुषोर्मशको बलिः || ११-९५६ || श्रोत्रयोर्भ्रमरश्चापि घ्राणस्य सरघास्तथा | रसनाया बलिश्चिक्का मक्षिका च त्वचो बलिः || ११-९५७ || पतङ्गो मनसश्चापि प्लुषिर्वाचो बलिर्मतः | झिल्लीकीटो बलिः पाण्योः खद्योतः पदयोरपि || ११-९५८ || पायोर्यूका समुद्दिष्टा उपस्थस्य सिनीपतिः | वनस्पतीनां मधुको लतानां तैलपायिका || ११-९५९ || प्. १०५४) मत्कुणा औषधीनां स्युस्तरुणां च पिपीलिका | गुल्मानां गन्धकीटोऽपि शैलानां वुद्गतास्तथा || ११-९६० || शवो बलिः पूतनाया राक्षसीनामहिर्बलिः | जातमात्रशिशुः षष्ठ्याः शङ्खो बालग्रहस्य च || ११-९६१ || चकोरो गरुडस्यापि मातॄणां तैलपायिका | विद्याधराणां च कोलो यज्ञानां शुक एव च || ११-९६२ || गृध्रोऽरुणस्य च बलिर्नरकस्य करेटुकः | राज्ञो बलिर्मर्कटोऽपि कान्तारस्य प्लवः खगः || ११-९६३ || सर्वेषामेव देवानां च विशेषतः | बलित्वेन विनिर्दिष्टा महिषच्छागलादयः || ११-९६४ || जलजाः स्थलजाश्चापि ग्रामजारण्यजास्तथा | पशवः पक्षिणः कीटास्तिर्यग्योनय एव च || ११-९६५ || इमे विधात्रा विहिता बलित्वेन दिवौकसाम् | नान्यैर्नैवेद्यसम्भारैस्तथा तुष्यन्ति देवताः || ११-९६६ || यथा पशूनां बलिभिर्विहङ्गानां तथैव च | अत एव हि देवेशि मीमांसावेदयोरपि || ११-९६७ || देवानां प्रियशब्दस्तु पशुपर्याय उच्यते | एवं विज्ञाय सिद्धान्तं देव्याः सन्तोषहेतवे || ११-९६८ || पशून् दद्याद्बलित्वेन मेध्यानपि विहङ्गमान् | क्रिमिकीटादयः सर्वे ये तिर्यञ्चः प्रकीर्त्तिताः || ११-९६९ || न ते देवीबलित्वेन विधात्रा विहिताः प्रिये | आलभेत वृषं श्वेतं यज्ञे गोमेधनामनि || ११-९७० || नरमेधे नरं चापि गजक्रान्ते गजं तथा | प् १०५५) अश्वमेधे तथैवाश्वं शङ्खचुडे च हस्तिनम् || ११-९७१ || ब्रवीति यत्र वेदोऽपि तत्र कैव विचारणा | तस्मान्नैमित्तिकार्चायां बलिरावश्यकः प्रिये || ११-९७२ || विशेषेण प्रदात्तव्यो देवीसन्तोषहेतवे | बलिं विना नैव देवी पूजामङ्गीकरोति हि || ११-९७३ || तत्राप्युभौ प्रशस्येते महिषश्छाग एव च | अन्यदेवोचितबलिर्विचारैः किं प्रयोजनम् || ११-९७४ || येन सन्तुष्यते काली तं विचारं ब्रुवेऽधुना | याः काश्चिद्गुह्यकाल्यास्तु विहिताः पशुजातयः || ११-९७५ || आरण्या अथ वा ग्राम्या जलजानां च जातयः | खगानां जातयश्चापि ता एवादौ ब्रवीमि ते || ११-९७६ || मत्स्या मृगा बराहाश्च कच्छपा महिषास्तथा | गण्डका गोधिका ग्राहाः शार्दुला हरयोऽपि च || ११-९७७ || नकुलाः शरभश्चापि गवयाश्छागलास्तथा | मनुष्याः पक्षिणश्चापि तेषां कोशा अपि प्रिये || ११-९७८ || भगवत्या बलित्वेन विधात्रा बलिकल्पिताः | एतेषां बलिदानेन सर्वकार्याणि साधयेत् || ११-९७९ || बलिदानफलान्याह | बलिभिर्वर्धते ह्यायुर्बलिभिः शाम्यते रुजा | जयत्यरातीन् बलिभिः प्राप्यते बलिभिर्धनम् || ११-९८० || सिद्धिमाप्नोति बलिभिर्बलिभिस्त्रिदिवं व्रजेत् | निष्कामाणां बलौ दत्ते प्राप्यो मोक्षोऽपि यज्ञवत् || ११-९८१ || मत्स्यादीनां जातिभेदानाह | जातिभेदानथो वक्ष्ये समासादवधारय | प्. १०५६) अष्टादशभिधा मत्स्याश्चतुर्विंशतिधा मृगाः || ११-९८२ || वराहाः पञ्चधा प्रोक्तास्त्रिभेदाः कच्छपा अपि | द्विभेदा महिषास्तद्वद्गण्डकाश्च चतुर्विधाः || ११-९८३ || गोधिका च त्रिभेदा स्याद्द्विभेदो ग्राह एव च | त्रिविधौ व्याघ्रसिंहौ च नकुलो द्विविधोऽपि च || ११-९८४ || शरभश्चैकजातिः स्यान्नास्य भेदो वरानने | गवयस्त्रिविधः प्रोक्तश्छागः पञ्चविधो मतः || ११-९८५ || चतुर्विधा मनुष्याश्च षट्त्रिंशज्जातयः खगाः | क्रमेण नामान्येतेषां व्याहरामि तव प्रिये || ११-९८६ || शङ्कुलो रोहितः शालः पाठिनो राघवोऽपि च | प्रोष्ठी नालशिशुद्ध्यङ्गमेरेटाङ्गुलिचाम्बटाः || ११-९८७ || तिमिमाकूटराजीवगडकाः शस्तजातयः | गोकर्णकृष्णसारैणरुरुर्न्यङ्कुचमूरवः || ११-९८८ || प्रियवातप्रमीचीनसमूहसृमरक्रषाः | रङ्कुशम्बरकन्दल्यः सुखरो रोहिषो वटः || ११-९८९ || कदल्येन विसालाक्षपतङ्गोल्लाटरोहिताः | वराहास्तब्धक्रोडकुशाक्षीणजलस्वनाः || ११-९९० || कूर्मश्चित्री चित्रकटो वामनश्चेति वै त्रिधा | अकेरः क्षीरिलश्चापि महिषो द्विविधो मतः || ११-९९१ || कौञ्जरो वारिलश्चार्मी वैशः खड्गाश्चतुर्विधाः | हिरण्या किलिका मीना गोधिका त्रिविधा मता || ११-९९२ || दीर्घग्रीवश्चर्मपूरो ग्राहो द्विविध एव च | तरक्षुस्तरुगश्चित्रो व्याघ्रस्त्रिविध उच्यते || ११-९९३ || प्. १०५७) शरलः कृकयुर्मेदी सिंहोऽपि त्रिविधो मतः | स्थूलः कलिङ्गश्च तथा नकुलोऽपि द्विधेरितः || ११-९९४ || एकजातिं विना नैव शरभोऽन्यः प्रजायते | लाटिको विट्चरः सास्नि गवयोऽपि त्रिधोच्यते || ११-९९५ || त्रिपिवः पालितः क्षौरी वर्करो मारिषस्तथा | पञ्चभेदो भवेच्छागोऽविरपि त्रिविधो मतः || ११-९९६ || उर्मिकः पारिशो भेटो मनुष्यानपि मे शृणु | न मनुष्यत्वसामान्ये चातुर्विध्यं हि वर्त्तते || ११-९९७ || प्रकारभेदतस्तस्या भिन्नता परिकल्पते | चण्डिकानुगृहीतस्य वितृष्णस्य भवाम्बुधौ || ११-९९८ || तत्तल्लोकावाप्तिफलश्रवणोत्कण्ठितस्य च | स्वतः प्रवृत्तिर्देव्यास्तु बलिरूपो भवाम्यहम् || ११-९९९ || आगत्य च स्वयं ब्रूते मां बलित्वेन योजय | प्रत्यक्षमेव सर्वेषां नृपस्य च विशेषतः || ११-१००० || स एक उदितो देवि द्वितीयमवधारय | बहुवित्तस्य रत्नादेस्तेनो लोकधृतश्च यः || ११-१००१ || निर्णीय परिषन्मध्ये प्राग्विपाकेन कीर्त्तितः | शीर्षच्छेद्यतया देवि द्वितीयः स निगद्यते || ११-१००२ || युद्धे जितो धृतः शत्रुः कूटयोधी भटाकृतिः | स तृतीयो विनिर्दिष्टश्चतुर्थमवधारय || ११-१००३ || य आततायी पान्थानां कान्तारेऽप्यथ वा गृहे | विदितश्चापि निर्णीतः साक्षिभिः सत्यवादिभिः || ११-१००४ || स हि तुर्यः समाख्यातः पञ्चमो नोपपद्यते | प्. १०५८) वक्ष्ये विहङ्गान् ये देव्यै बलित्वेन निरूपिताः || ११-१००५ || पारावतास्ताम्रचूडा हंसा वार्ध्रीणसास्तथा | उलूका लोहपृष्ठाश्च सर्वाघाटाश्च सारसाः || ११-१००६ || कलविङ्काश्चकोराश्च चक्रवाकाः शुका अपि | शतपत्रा भरद्वाजा भूलिङ्गाश्चटकास्तथा || ११-१००७ || कारण्डवाश्चक्रवाकाः पारुश्नाश्च कुलीयकाः | प्ल्वाः कुटरवश्चापि वर्त्तकाः कुक्कुभा अपि || ११-१००८ || तित्तिर्युरुकक्रौञ्चाश्च नवचाषशिखण्डिनः | योक्त्रदात्यूहसाकल्यपैङ्गराजन्यवायकाः || ११-१००९ || जिहीका सुखिलीकाश्च मुद्गुहारीतवर्त्तकाः | जिहीञ्जीवाश्च हारीताः कोयष्ट्यश्मटटिट्टिभाः || ११-१०१० || वककोकिलगृध्राश्च करेटुश्चोनखञ्जनाः | चिरीकाश्चैव जहिकाः सीचापुञ्जन्तमेकलाः || ११-१०११ || कशाः सुपर्णा भारुण्डा हामायाश्चापि पार्वति | इति ते कथिताः सर्वे षष्टिभेदा विहायसाम् || ११-१०१२ || देव्यै योग्यबलित्वेन नान्य उक्ता विहङ्गमाः | एतेषां जातिभेदास्तु वर्त्तन्ते डामरादिषु || ११-१०१३ || बहुत्वात् ते न कथ्यन्ते ग्रन्थगौरवभीतितः | कपोतभ्रामका बङ्कमनित्थतुरुकादयः || ११-१०१४ || पारावतास्तु दशधा हंसाः पञ्चविधास्तथा | राजहंसा मल्लिकाख्या धार्त्तराष्ट्रा परिस्फुटाः || ११-१०१५ || माहेया एवमन्येऽपि ज्ञेया विगहजातयः | तथा | अधुना संप्रवक्ष्यामि बलिना येन येन हि || ११-१०१६ || प्. १०५९) यं यं कालमभिव्याप्य तुष्टा भवति कालिका | अष्टादशविधैर्मत्स्यैः कच्छपैरपि चण्डिका || ११-१०१७ || तृप्यते मासमात्रं हि बलित्वेन नियोजितैः | ताम्रचूडस्य बलिना हंससारसयोरपि || ११-१०१८ || तृप्ता भवति मासौ द्वौ त्रीन् मासान् द्विपिनक्रयोः | कलविङ्कैरुलूकैः स्यात् तृप्ता मासचतुष्टयम् || ११-१०१९ || पञ्च मासान् भवेत् तृप्ता शुकैः पारावतैरपि | दार्वाघाटैश्चकोरैश्च षण्मासा/स्तृप्तिमाप्नुयात् || ११-१०२० || तृप्यते सप्त मासान् सा जिहीकैश्च कुलीयकैः | चतुर्विंशतिभेदैश्च कुरङ्गैर्गवयैरपि || ११-१०२१ || मासानष्टौ भवेत् तृप्ता नव मासान् पिकैरपि | हारीतबलिना देवी दश मासा/श्च तृप्यते || ११-१०२२ || तथा दात्यूहदानेन गजराजैर्वरानने | मासानेकादश शिवा तृप्तिमायाति सिद्धिदा || ११-१०२३ || गोधिकाबलिदानेन तृप्ताऽब्दं व्याप्य जायते | अविना नकुलेनापि त्र्यब्दं तृप्ता भवेदपि || ११-१०२४ || आजेन बलिना वाऽपि तुष्टा स्यात् पञ्चवत्सरम् | जीवञ्जीवेन पाङ्क्तेन तुष्यतेऽष्टौ च हायनान् || ११-१०२५ || पार्षतैणैन बलिना वराहबलिनाऽपि च | द्वादशाब्दमभिव्याप्य तुष्टा भवति कालिका || ११-१०२६ || हामायनामा यः पक्षी सिंहाकृतिधरोऽरुणः | तद्दानात् तुष्यते देवी पञ्चविंशतिवत्सरम् || ११-१०२७ || प्. १०६०) त्रिविधैरपि शार्दूलैर्महिषैर्द्विविधैरपि | चतुर्विधैस्तथा खड्गैर्बलित्वेन समर्पितैः || ११-१०२८ || शतं संवत्सरं यावच्चण्डिका प्रीतिमश्नुते | एको वार्ध्रीणसोऽजश्च विशेषः परिकीर्त्त्यते || ११-१०२९ || अपरः पक्षिजातीयो हिमवच्चरणस्थितः | वृद्धः श्मश्रुधरः श्वेतः पादस्फोटीन्द्रियोज्झितः || ११-१०३० || त्रिविधो रक्तरसनो निःशृङ्गः स्वरभङ्ग्यजः | पीतचञ्चू रक्तशिराः सितपक्षोऽसिताङ्घ्रिकः || ११-१०३१ || नीलग्रीवः पाटलाभगलो वार्ध्रीणसः खगः | (कालिकापुराणेऽपि) त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजं परम् || ११-१०३२ || वार्ध्रीणसं विजानीयाद्धव्यकव्येषु संस्कृतम् | नीलग्रीवो रक्तशिराः कृष्णपादः सितच्छदः || ११-१०३३ || वार्ध्रीणसः स पक्षी स्यान्मम विष्णोरपि प्रियः | (महाकालसंहितायाम्) अजवार्ध्रीणसैस्तुष्टा भवेत् त्रिंशतिवत्सरम् || ११-१०३४ || निरङ्कसामान्यशशैर्बलित्वेन निरूपितैः | जायते गुह्यकाली सा तुष्टा पञ्चशतं समाः || ११-१०३५ || शरभैरथ सिंहैश्च शोणितैश्च स्वदेहजैः | दत्ते सन्तुष्यते काली सहस्रं परिवत्सरान् || ११-१०३६ || वार्ध्रीणसविहङ्गेन दत्तेन विधिना प्रिये | अब्दं द्वादशसाहस्रं तुष्यते जगदम्बिका || ११-१०३७ || चौराततायिरूपेण नारेण बलिना तथा | त्रीणि लक्षाणि वर्षाणां प्रीतये गुह्यकालिका || ११-१०३८ || प्. १०६१) एते ते कथिता देवि बलयस्तृप्तिहेतवः | अथ निषिद्धबलयस्तत्रैव | अदेयानधुना वक्ष्ये पशूनपि विहङ्गमान् || ११-१०३९ || भल्लूकान् मर्कटान् फेरून् सर्पानोतून् शुनस्तथा | क्रमेलका/श्च बालेयान् शल्यान् विट्चरशूकरान् || ११-१०४० || जलजेष्वपि मण्डूकान् रासभान् शिशुमारकान् | कुलीरान् दीर्घपृष्ठादीन् मीनानपि च भूरिशः || ११-१०४१ || खगेषु वायसा/श्चिल्लान् दुर्विदान् कुलिकानपि | एवमन्येऽपि विज्ञेया नानाशास्त्रागमादिषु || ११-१०४२ || तथा | का/श्चिन्निषिद्धान् वक्ष्यामि विहितेषु बलिष्वपि | ग्राम्याणामथ वन्यानां पशूनां पक्षिणां तथा || ११-१०४३ || स्त्रियं नैव प्रयुञ्जित बलिकर्मणि साधकः | ज्ञानपूर्वं बलिं दत्वा नरकं प्रतिपद्यते || ११-१०४४ || अज्ञानेन वितीर्यापि किञ्चित् पापं समश्नुते | अत्रिमाससमुत्पन्नं पशुं न विनिवेदयेत् || ११-१०४५ || न्यूनं तदर्धान्न खगं जातु देव्यै समर्पयेत् | भग्नशृङ्गं भग्नदन्तं छिन्नलाङ्गूलमेव च || ११-१०४६ || काणं व्यङ्गं रोगिणं च शृङ्गाहतनरं तथा | दुष्टं गलितरोमाणं क्षीरपं च गलद्विशम् || ११-१०४७ || पशुं न दद्यादीदृक्षं तथा चैव विहायसम् | छिन्नत्रोटिं छिन्नपक्षं रुग्णमाहारवर्जितम् || ११-१०४८ || अनुड्डीनं तथाऽकाशे मातुरङ्के परिस्थितम् | विहितावपि विज्ञातौ न दद्यात् पशुपक्षिणौ || ११-१०४९ || प्. १०६२) तन्त्रान्तरे | कृष्णवर्णो बलिर्यस्तु श्वेतपुच्छो यदा भवेत् | छागलं तादृशं विद्वान् दूरतः परिवर्जयेत् || ११-१०५० || एवं सितं कृष्णपुच्छं वर्जयेत् मतिमान् सदा | (महाकालसंहितायाम्) यस्य यस्य निषिद्धो यः स इदानीं निरूप्यते || ११-१०५१ || नरं केशरिणं व्याघ्रं चाषं खञ्जनमेव च | स्वकीयरुधिरं मद्यं न दद्याद्ब्राह्मणः क्वचित् || ११-१०५२ || तौ द्वौ खगौ तथा सिंहं द्वीपिनं मानुषं तथा | दत्वा रोगी च हीनायुर्भूत्वा नरकमश्नुते || ११-१०५३ || आत्महत्यामवाप्नोति दत्वा स्वरुधिरं द्विजः | दत्वा देव्यै द्विजो मद्यं ब्राह्मणाद्विच्युतो भवेत् || ११-१०५४ || चाप्डालत्वमवाप्नोति सर्वकर्मविवर्जितः | न कृष्णसारं वितरेद्वर्हिणं च नराधिपः || ११-१०५५ || कृष्णसारं ददद्देव्यै द्वितीयो वर्ण ईश्वरि | ब्रह्मघ्नत्वमवाप्नोति सर्वकर्मविवर्जितः || ११-१०५६ || न वैश्याः शूकरं दद्युर्न वर्त्तककुलीयकौ | ददतां तत्क्षणादेव महापातकता भवेत् || ११-१०५७ || वर्णोऽपरो नो वितरेद्गोधिकाशुकखड्गिनः | मूषं मार्जारकं चाषं शूद्रो दत्वा पतत्यधः || ११-१०५८ || मोहाद्धठाद्वा ददतां सद्यो ब्रह्मघ्नता भवेत् | वानप्रस्थो ब्रह्मचारी गृहस्थो वा दयापरः || ११-१०५९ || सात्त्विको ब्रह्मनिष्ठश्च यश्च हिंसाविवर्जितः | तेन न दद्युः पशुबलिमनुकल्पं चरन्त्यपि || ११-१०६० || प्. १०६३) अनुकल्पेऽपि मुख्येऽधिकारिण एवाधिकार इति प्रागुक्तम् | अनुकल्पविधिस्तु तत्रैवोक्तो यथा | सात्त्विको जीवहत्यां हि कदाचिदपि नो चरेत् | इक्षुदण्डं च कूष्माण्डं तथा वन्यफलादिकम् || ११-१०६१ || क्षीरपिण्डैः शालिचूर्णैः पशुं कृत्वा चरेद्वलिम् | तत्तत्फलविशेषेण तत्तत्पशुमुपानयेत् || ११-१०६२ || तथा | महिषत्वेन कुष्माण्डं छागत्वेनैव कर्कटीम् | वृन्ताकं कुक्कुटत्वेन मेषत्वेन च तुम्बिकाम् || ११-१०६३ || रम्भापुष्पं बीजपूरं पिण्डं जीवं कलौ भवेत् | मानुषत्वेन पनसं मत्स्यत्वेनेक्षुदण्डकम् || ११-१०६४ || शूरणं शम्बरत्वेन तथा कोशातकं मृगे | पायसं तु गजत्वेन मार्जारत्वे कुलित्थकम् || ११-१०६५ || पटोलं शूकरत्वेन शर्करावालुकं तथा | खड्गत्वेन महेशानि मत्स्यत्वे कदलीफलम् || ११-१०६६ || मूषत्वे मूलकं चैव सारङ्गत्वे कलिञ्जकम् | करित्वे नारिकेलं च कल्पयेत् परमेश्वरि || ११-१०६७ || माषाः सर्वबलित्वेन सर्वेषां कृशरान्नतः | तथा | तत्तत्पशुप्रदातॄणां फलावाप्त्यै वरानने | घृतगोधूमैक्षवाद्यैः फाणितैरन्नजैस्तथा || ११-१०६८ || कृत्वा तं तं पशुं दद्युस्तत्तत्फलमवाप्नुयुः इति | अथ प्रशस्तपशुलक्षणं (रत्नावल्याम्) ऊर्ध्वशृङ्गो लम्बकर्ण एकवर्णोऽतिपीवरः | नीरोगः पुष्टकायश्च सदर्पश्च बलोर्जितः || ११-१०६९ || प्. १०६४) नाधिकाङ्गो न हीनाङ्ग एकद्वित्र्यादिहायनः | प्रशस्तपशुरीदृक्षो देवीप्रीतिकरः शुभः || ११-१०७० || तन्त्रान्तरे | कृष्णवर्णश्छागलस्तु पृष्ठवंशे सितो यदि | प्रशस्तं तं विजानीयाद्विपरीतं विवर्जयेत् || ११-१०७१ || विपरीतमिति श्वेतवर्णम् | पृष्ठावच्छेदेन नीलमित्यर्थः | (त्रैपुरपद्धत्याम्) बल्यन्ते छागलबलिं तथा मेषं सुरेश्वरि | प्रदद्यात् सर्वकालेषु सर्वकामार्थसिद्धये || ११-१०७२ || नित्ये नैमित्तिके काम्ये माहिषं बलिमाहरेत् | जयाय सर्वकामाय देवीलोकाप्तसिद्धये || ११-१०७३ || (महाकालसंहितायाम्) पशूनां यत्र बाहुल्यं भवेद्वित्तानुसारतः | तत्रैकं प्रथमं देवि सर्वलक्षणलक्षितम् || ११-१०७४ || ऊर्जस्विनं सुन्दरं च बलिनं पशुमुत्सृजेत् | तथा | पशूनामिह सर्वेषां प्रोक्षणं चैवमेव हि || ११-१०७५ || कश्चिद्विशेष उत्सर्गे फलं दैवाद्युदीरणे | (त्रैपुरपद्धत्याम्) सर्वलक्षणसंयुक्तं पशुं संस्नाप्य मन्त्रतः || ११-१०७६ || देव्यग्रे स्थापयित्वाऽर्घोदकैः संप्रोक्षयेत् ततः | अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च || ११-१०७७ || मूलमन्त्रं समुच्चार्य धेनुमुद्रामृतीकृतम् | गन्धपुष्पाक्षतैः सम्यक् परिपूज्योपचारकैः || ११-१०७८ || कर्णे तस्य पठेन्मन्त्रं पशुपाशविमोचनम् | प्. १०६५) ओं पशुपाशाय विघ्नहे विप्रकर्णाय धीमहि तन्नो जीवः प्रचोदयात् | गायत्रीयं समाख्याता पशुपाशविमोचिनी || ११-१०७९ || इमां पठेद्दक्षकर्णे तस्य मुक्तिप्रसिद्धये | संप्रोक्षयेदिति प्रोक्षणं मूलमन्त्रेणैव | अर्घपात्रोदकैः शुद्धैर्मूलेन प्रोक्षयेत् त्रिशः || ११-१०८० || इति महाकालोक्तेः | गात्र्यन्तरमुक्तं तत्रैव | योगिनीबीजतो ङेन्तं बलिरूपं तु विद्महे | देवीप्रियं पूर्ववच्च धीमहीति ततः परम् || ११-१०८९ || तन्नः पशुरिति प्रोच्य वदेच्चाथ प्रचोदयात् इति || योगिनीबीजं छ्रीमिति (त्रैपुरपद्धत्याम्) ततः खड्गं यजेन्मन्त्री मन्त्रेणानेन दक्षतः | तारं च भुवनेशानीं कालीयुग्मं समालिखेत् || ११-१०९० || वज्रेश्वरीपदं पश्चाल्लोहदंष्ट्रां ततः परम् | ङेन्तां हृद्वसुयुग्मैकसङ्ख्यवर्णो मनुर्मतः || ११-१०९१ || अनेन गन्धपुष्पाद्यैः ख्ड्गमभ्यर्चयेद्बुधः | ततस्तस्य मुष्टिदेशे मध्ये चाग्रे यथाक्रमम् || ११-१०९२ || गन्धपुष्पाक्षतैर्मन्त्री मिथुनत्रितयं जयेत् | वागीशीसहितो ब्रह्मा लक्ष्मीनारायणौ तथा || ११-१०९३ || उमामहेश्वरौ चेति संप्रोक्तं मिथुनत्रयम् | ततश्चानेन मन्त्रेण तं खड्गमभिमन्त्रयेत् || ११-१०९४ || खड्गायासुरनाशाय शक्तिकार्याय तत्पर | पशुश्छेद्यस्त्वया शीघ्रं खड्गनाथ नमोऽस्तु ते || ११-१०९५ || प्. १०६६) ततस्तु ताम्रपात्रस्थकुशाक्षतजलादिकम् | गृहीत्वा मूलमुच्चार्य संकल्प्य पशुमुत्सृजेत् || ११-१०९६ || गृहीत्वाऽक्षततोयादि पशोः शिरसि संत्यजेत् | ततस्तेनैव खड्गेन मूलमन्त्रेण साधकः || ११-१०९७ || पशुच्छेदं प्रकुर्वीत स्वयं देवीमनुस्मरन् | (मेरुतन्त्रसिद्धान्तसारयोः ) यदा संचालयेद्गात्रं गृहीतस्तु यथेच्छया || ११-१०९८ || यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते | उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा || ११-१०९९ || निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् | पशुस्त्वं बलिरूपेण मम भाग्यादुपस्थितः || ११-११०० || प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् | चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् || ११-११०१ || चामुण्डाबलिरूपाय बले तुभ्यं नमो नमः | यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा || ११-११०२ || अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः | इमं देहें परित्यज्य भूत्वा देववपुर्धरः || ११-११०३ || मोदस्व प्रथमैः सार्धं यावदिन्द्राश्चतुर्दश | ऐ/ ह्री/ श्रीमिति मन्त्रेण त्वं बलिं मत्स्वरूपिणम् || ११-११०४ || चिन्तयित्वा न्यसेत् पुष्पं कुम्भकेनास्य मस्तके | (महाकालसंहितायाम्) ध्यायेत् कुसुममादाय खड्गमादौ वरानने || ११-११०५ || कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् | उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् || ११-११०६ || रक्ताम्बरधरं चैव पाशहस्तं कुटुम्बिनम् | प्. १०६७) पिवमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् || ११-११०७ || क्षोभयन्तं जगत् सर्वं कम्पनादिप्रचारणैः | वेष्टितं मृत्युकालाभ्यां वामदक्षिणभागतः || ११-११०८ || तन्त्रान्तरे | ततः खड्गं यजेन्मन्त्री पाद्याद्यैरुपचारकैः | गन्धपुष्पाक्षताद्यैश्च मन्त्रेणानेन मन्त्रवित् || ११-११०९ || मन्त्रस्तु पूर्वोक्त एव | (महाकालसंहितायाम्) ततो बद्धाञ्जलिर्मन्त्रं पठेत् खड्गं निरीक्ष्य वै | रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः || ११-१११० || भुङ्क्ष्वैतस्य पशो रक्तं क्रव्यसंहतिमेव च | छिन्धीममिव मे शत्रुं मङ्गलानि प्रयच्छ मे || ११-११११ || दैत्यदानवरक्षोऽसृङ्भेदोन्मत्त नमोऽस्तु ते | एतेन खड्गमामन्त्र्य तन्नामाष्टकमुच्चरन् || ११-१११२ || गृह्णीयान्निशितं खड्गं येन सद्यो भवेद्वधः | असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः || ११-१११३ || श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते | (मेरुतन्त्रे) आ/ हू/ फडिति मन्त्रं जपन् संछेदयेद्बलिम् | एकेनैव प्रहारेण च्छिन्नो दैवततुष्टये || ११-१११४ || (महाकालसंहितायामपि) चन्द्रहासेन खड्गेन छिन्द्यादेकप्रहारतः | उत्थाय हननं कुर्यान्नोपविश्य कदाचन || ११-१११५ || प्. १०६८) (कालिकापुराणे) चन्द्रहासेन कर्त्त्र्या वा छेदनं मुख्यमुच्यते | दात्रासिधेनुक्रकचशङ्कुलाभिस्तु मध्यमम् || ११-१११६ || असिधेनुः स्वल्पखड्गः शङ्कुला चक्रकर्त्तरी | क्षुरक्षुरप्रभल्लैश्च मध्यमं परिकीर्त्तितम् || ११-१११७ || एभ्योऽन्यैः शक्तिबाणाद्यैर्बलिश्छेद्यः कदाऽपि न | नात्ति देवी बलिं तं तु दाता मृत्युमवाप्नुयात् || ११-१११८ || हस्तेन छेदयेद्यस्तु प्रोक्षणं साधकः पशुम् | पक्षिणं वा ब्रह्महत्यां स प्राप्नोति दुरुत्सहाम् || ११-१११९ || नामन्त्र्य खड्गं तु बलिं नियुञ्जीत विचक्षणः | तत्रान्तरे | सर्वेषामुत्तमः खड्गश्चन्द्रहासः सुखावहः || ११-११२० || पञ्चाशदङ्गुलः कार्यः किं वा तालत्रयेण तु | करवीरदलाकारः किं वा पद्मदलाकृतिः || ११-११२१ || अथवा कुब्जखड्गेन दण्डखड्गेन भेदयेत् | (महाकालसंहितायाम्) सहस्रायुतलक्षाणां बलीनां सम्भवे सति || ११-११२२ || द्वौ त्रीन् पञ्च तथाष्टौ वा दश वा द्वादशापि वा | एभ्योऽधिकान् नैव कुर्याद्देवी भावतया स्थितान् || ११-११२३ || प्राच्याशाभिमुखान् कृत्वा युगपन्मन्त्रमीरयेत् | तन्त्रेणैव बलीन् सर्वान् प्रोक्षयेद्देशिकोत्तमः || ११-११२४ || छेदका अपि भूयांसः कर्त्तव्याः कमलानने | हरिद्वीप्यजकोरभ्रलुलायाकाशगामिनः || ११-११२५ || प्. १०६९) दद्यादेतान् वामभागे पानकानि च यानि च | उरभ्रो मेषः | तथा | मत्स्यान् ग्राहान् शशान् खड्गान् कमठान् कोलगोधिकाः || ११-११२६ || यावतो मृगभेदा/श्च दद्यात् संमुख एव हि | (श्रीक्रमसंहितायाम्) यत्नतस्तं बलिं दद्यान्न हन्यादात्मना पुनः || ११-११२७ || यदि हन्यात् प्रमादेन रौरवं नरकं व्रजेत् || महाकालोऽपि | स्वहस्तेन पशुं हत्वा पशुयोनिमवाप्नुयात् || ११-११२८ || तन्त्रान्तरे | स्वयं वा भ्रातृपुत्रो वा भ्राता वा सुहृदेव वा | सपिण्डश्छेदयेद्वाऽपि शुद्धान्तःकरणो यदि ||| ११-११२९ || न रिपुं नाङ्गहीनं वा न काणं नापि कुब्जकम् | न योजयेच्छत्रुपक्षं बलिच्छेदनकर्मणि इत्युक्तम् || महिषबलिदाने विशेष उक्तो (महाकालसंहितायाम्) विशेषः कश्चिदधिको महिषे तं ब्रुवेऽधुना || ११-११३० || तदङ्गे देवताः सर्वाः पूजयेत् कुसुमाक्षतैः | प्रणवादिनमोऽन्तैश्च मध्ये ङेन्तैः पदैस्तथा || ११-११३१ || स्थानानि देवताश्चापि क्रमेण कथयामि ते | ब्रह्मरन्ध्रे च नासायां कर्णयो रसने तथा || ११-११३२ || नेत्रयोर्वदने चैव ललाटे तदनन्तरम् | दक्षगण्डे वामगण्डे ग्रीवायां केश एव च || ११-११३३ || दक्षभ्रुवि तथा वामभ्रुवि चैवं वरानने | ओष्ठेऽधरे च स्कन्धे च हृदये पृष्ठ एव च || ११-११३४ || प्. १०७०) जठरे चरणे पुच्छे सर्वस्मिन् देह एव च | ब्रह्मा मेदिन्यथाकाशः सर्वतो मुख एव च || ११-११३५ || ज्योतींषि विष्णुश्चन्द्रश्च शक्रो वह्निर्महेश्वरः | निर्-ऋतिर्मित्रवरुणौ तथा लक्ष्मीः सरस्वती || ११-११३६ || धनेश्वरः सर्पराज आदित्यः साध्य एव च | गन्धर्वेन्द्रस्तथा सिद्धा चामुण्डा सर्वशेषगा || ११-११३७ || अनेनैव प्रकारेण नरस्यापि प्रपूजयेत् | क्रमसिद्धं पूर्वगतमदोऽधिकमिहार्हणम् || ११-११३८ || अथोभयोः शेषगतान् मन्त्रानाकलय प्रिये | यमस्य वाहनत्वेन ख्यातस्त्वमपि कासरः || ११-११३९ || वसतः शृङ्गयोरग्रे मृत्युकालौ सदा तव | भवानेव परिद्वेष्टि जवना/स्तुरगानपि || ११-११४० || तव रूपं समास्थाय रम्भासुरसुतः पुरा | भगवत्या समं युद्धं कृतवान् दर्पमोहितः || ११-११४१ || देव्या त्वं निहतश्चासि तथा क्रान्तं शिरस्तव | वहस्यतश्चण्डिकां त्वं शिरसा भृङ्गुरेण वा || ११-११४२ || त्वत्तो नान्यो बलिः कश्चिद्देव्याः प्रीतिप्रदायकः | अतो ददामि काल्यै त्वां भक्तियुक्तेन चेतसा || ११-११४३ || मयि कल्याणमाधाय गच्छ कासर सद्गतिम् | नरबलौ विशेषमाह | मनुष्यबलिदाने तु विशेषः कश्चिदीरितः || ११-११४४ || पूर्वेद्युरकृताहारं संपरित्यक्तमैथुनम् | स्नातं रक्ताम्बरधरं नरं मुण्डितमस्तकम् || ११-११४५ || प्. १०७१) रक्तचन्दनदिग्धाङ्गं कृत्तश्मश्रुनखं तथा | अजाताश्रुकमुद्रिक्तं न दीनं नाप्यधोमुखम् || ११-११४५ || न बाडवं न चाण्डालं न क्लीबं पतितं न च | चतुर्विधेभ्योऽपि शिवे स्वयमागतमुत्तमम् || ११-११४६ || प्रोक्षयेत् पशुसामान्यरूपेण प्रथमं ततः | महिषोक्तप्रकारेण पश्चादेतान् मनून् जपेत् || ११-११४७ || सर्वेषु प्राणिषु श्रेष्ठस्त्वं मनुष्य इति स्थितः | बलिश्रेष्ठ महाभाग देवगर्भश्रिया वृतः || ११-११४८ || रक्ष मां सर्वभीतिभ्यः सिद्धिं देहि तथोत्तमाम् | राज्यं देहि यशो देहि देहि चानुत्तमां गतिम् || ११-११४९ || आरोग्यं दीर्घमायुश्च प्रजावृद्धिं रणे जयम् | कल्याणं विपुलान् भोगान् दारानपि हृदीप्सितान् || ११-११५० || कात्यायन्यां दृढां भक्तिं लक्ष्मीमप्यधिकां स्थिराम् | दत्वा राज्यं परित्यज्य शरीरं पाञ्चभौतिकम् || ११-११५१ || देवीलोकं व्रज क्षिप्रं सज्ञातिसुतबान्धवम् | महादानैर्महायज्ञैस्तपोभिरतिदुष्करम् || ११-११५२ || यत् स्थानं नाप्यते लोकैस्तत् त्वं गच्छ नरर्षभ | अङ्गीकृतो महाकाल्या मांसशोणितलिप्सया || ११-११५३ || देवीलोकं सुदुष्प्राप्यं प्राप्नुहि त्वं द्रुतं गतः | तत्र गत्वा शिवं ध्याहि मामकीनं जगत्पते || ११-११५४ || देवीलोकगतिः काम्या मत्प्रसादात् तवेदृशः | त्वत्प्रसादादहं शत्रून् जयेयं रणमूर्धनि || ११-११५५ || श्लोकानष्टाविमान् देवि पठेन्नरबलिक्षणे | प्. १०७२) गण्डकेऽपि विशेष उक्तस्तत्रैव | खड्गमन्त्रं समाख्यास्ये गण्डको येन दीयते || ११-११५६ || द्विपदेहाकृते खड्ग शस्त्राभेद्यकलेवर | तृप्ता भवेयुः पितरस्त्वन्मांसेन सुरा अपि || ११-११५७ || न च त्वत्तोऽधिकः कश्चित् पवित्रः पृथिवीतले | त्वत्करोटिजपात्राणि शस्तानि श्राद्धकर्मणि || ११-११५८ || मया देव्या बलित्वेन त्वमद्य विनिवेदितः | मम विघ्नान् समुत्सार्य सद्यो देवीगणे भव इति | (यामले) एवं हत्वा पशून् सद्यस्तदीयरुधिरं तथा || ११-११५९ || स्वर्णादिरचिते पात्रे गृह्णीयादुष्णफेनिलम् | (कालिकापुराणे) ओं ह्री/ ऐ/ ह्री/ श्री/ कौशिकी रुधिरेणाप्यायताम् इति | पात्रे नियोजयेद्रक्तं शिरस्येव प्रदीपकम् || ११-११६० || (महाकालसंहितायाम्) अथ पात्राणि वक्ष्येऽहं स्थाप्यते यत्र शोणितम् | हैमे वा राजते ताम्रे ग्राह्यं रक्तं महीभृता || ११-११६१ || सामन्तैर्माण्डिलकैश्च ताम्रे वा कांस्यरैत्ययोः | दरिद्रगृहिभिश्चापि मार्त्तिके वाऽथ दारवे || ११-११६२ || अथवा पत्रपुटके नैव लोहे कदाचन | न रङ्गे सीसके चापि नारिकेलफलत्वचि || ११-११६३ || कौलानां सर्वपात्रेभ्यः कपालं श्रेष्ठमिष्यते | एषां पशूनां पललैर्यावती तृप्तिरीरिता || ११-११६३ || भगवत्याः प्रिये तृप्ती रुधिरैरपि तावती | नित्ये नैमित्तिके वाऽपि कात्यायन्याः प्रपूजने || ११-११६४ || प्. १०७३) विना बलिं नैव दद्यादामे पललशोणिते | पशोर्वा पक्षिणो वाऽपि नरस्यापि विशेषतः || ११-११६५ || अथ मस्तकपतनफलं तत्रैव | एवं दत्वा बलिं देव्यै बलिदानविधिर्यथा | शुभाशुभं विजानीयाद्राज्यस्य च नृपस्य च || ११-११६६ || यदि वायव्यदिग्भागे नैर्-ऋत्ये दक्षिणेऽपि वा | मस्तके पतिते चैव हानिरत्र विनिर्दिशेत् || ११-११६७ || शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणु | पूर्वे चोत्तरदिग्भागे पतते यदि मस्तकम् || ११-११६८ || सर्वसम्पत्करं विद्याद्राजा राज्यं विनिर्दिशेत् | भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः || ११-११६९ || तदा सिद्धिश्च मासान्ते वामकर्णे विपद्भवेत् | राजामग्रे भवेद्धानिर्गृहस्थानां भवेच्छुभम् || ११-११७० || ऐशान्यां मध्ययोश्चैव पतते यदि मस्तकम् | छिन्नं शिरो निपतितं सहास्यं यदि दृश्यते || ११-११७१ || विभूतिं तस्य जानीयाद्राजा राज्यं विनिर्दिशेत् | तदा स्वल्पेन कालेन सर्वसिद्धिर्भवेद्ध्रुवम् || ११-११७२ || एकवारे भवेत् सिद्धिर्द्विवारे हानिरुच्यते | गृहस्थानां विजानीयाद्राज्ञां तु विपरीतकम् || ११-११७३ || यदाऽश्रु दृश्यते नेत्रे तदा हानिं विनिर्दिशेत् | यदा कटकटाशब्दो दन्तानां श्रूयते क्वचित् || ११-११७४ || तदा तु मरणं विद्याधानिं सर्वत्र निर्दिशेत् | (त्रैपुरपद्धत्याम्) दक्षिणे पतिते सिद्धिर्वामभागे च निन्दितम् || ११-११७५ || प्. १०७४) सव्ये तु पतिते छेदे देवीमन्त्रं स्मरेद्बुधः | ततः कुण्डादिके हुत्वा हुतिभिर्दशपञ्चभिः || ११-११७६ || शमयेद्धूङ्कृतेर्दोषं बलिलक्षणलक्षितम् | (महाकालसंहितायाम्) दद्याद्राक्षसदिग्भागे मन्त्री बलिशिरः स्वयम् || ११-११७७ || तद्दक्षिणे रक्तपात्रं विपरीतं न संददेत् | देवस्य संमुखं कृत्वा छिन्नं भागं प्रकल्पयेत् || ११-११७८ || तदेव शस्तं जानीयान्मध्यमं तदुदीरितम् | बलीनामिति संज्ञानं शिरश्च पुरतो ददेत् || ११-११७९ || तथा | न भूमौ स्थापयेच्छीर्षं चैव विपरीतकम् | शिरः सलोहितं दद्यात् पुर एव न चान्यतः || ११-११८० || रुधिरादानकाले तु पात्रे स्वविभवाहृते | सैन्धवं स्थापयेत् किञ्चित् फलानामेकमेव हि || ११-११८१ || तद्रक्तं हविरेव स्यात् पुरोडाशं च तच्छिरः | नासाग्रीवागण्डुपुच्छपललानि निकृत्त्य हि || ११-११८२ || पशूनां वदने क्षिप्त्वा ततः संस्थापयेत् पुरः | तथा पक्षत्रिपत्रं च वीनां त्रोटौ विनिःक्षिपेत् || ११-११८३ || पशुवच्चरणस्यापि शीर्षे कमललोचने | बलीनां मस्तके दद्यात् प्रदीपं धूपवर्त्तिकाम् || ११-११८४ || दहनाल्लोमकेशानां यो गन्ध उपतिष्ठते | घ्राति तं चण्डिका देवी सन्तुष्टा तु प्रजायते || ११-११८५ || तस्मिन्नेव ह्यवसरे आधिक्यं धूपदीपयोः | प्. १०७५) यथा विभतो देवि कर्त्तव्यं भक्तितत्परः || ११-११८६ || बल्याधिक्ये च शीर्षार्णां विधेयाः पङ्क्तयस्तथा | सधूपदीपाः कुसुमाक्षतपुञ्जान्वितास्तथा || ११-११८७ || तथा | शिरश्च संमुखे स्थाप्यं सदीपं पात्रवर्जितम् | स चापि हविरक्तः स्यादथ वा तिलजोक्षितः || ११-११८८ || सार्षपं न प्रदातव्यं न चान्यफलसम्भवम् | मूर्धाभिषिक्तो हविषा तैलेन बहुसिद्धिभाक् || ११-११८९ || अन्यबीजोद्भवै रोगं शोकं मृत्युं च विन्दति | यथा लोमानि दह्यन्ते यत्नात् कार्यं तथा नरैः || ११-११९० || तन्त्रान्तरे | सूत्रवर्त्तिं प्रदद्याच्च वस्त्रवर्तिः प्रशस्यते | अङ्गुष्ठस्य प्रमाणं च दीर्घं चैव षडङ्गुलम् || ११-११९१ || कार्पाससूत्रकैर्दद्यादेकविंशतिसूत्रकैः | सुगन्धिद्रव्यैस्तत् कुर्यात् कर्पूरागुरुचन्दनैः || ११-११९२ || ग्राहाणां कच्छपानां च गोधायाश्च विशेषतः | मत्स्यानामपि पक्षिणां न दीपं दापयेच्छिवे || ११-११९३ || शीर्षोपरि ज्वलद्दीपं यावत्कालं प्रवर्त्तते | तावत्कालं वसेत् स्वर्गे तस्माद्यत्नेन दापयेत् || ११-११९४ || लोमदाहोद्भवं गन्धं घ्रात्वा देवी प्रसीदति | तस्मात् संवर्धयेद्दीपं तस्मात् पात्रं विवर्जयेत् || ११-११९६ || निर्वाणे मृत्युमाप्नोति दीयमाने प्रदीपके | (महाकालसंहितायाम्) ततः पात्रं पुरः कृत्वा देव्याः सपशु शोणितम् || ११-११९७ || शर्करायुतदूर्वाणां प्रदद्यात् त्रिर्महाघृतम् | प्. १०७६) सैन्धवं शृङ्गवेरं च कदलीफलमेव च || ११-११९८ || पातयेन्मधुराणां च काममुद्दिश्य साधकः | अष्टधा विभजेद्दिग्वन्मध्ये चैकं कुशादिभिः || ११-११९९ || दत्वा किञ्चिद्घृतं तत्र कुर्यात् तर्पणमुद्रया | तर्पणं भागभाजां वै देवीनां द्विर्द्विरेव च || ११-१२०० || आद्यन्तिमौ तारहार्दी मध्ये आदिमनोरपि | तत्तन्नाम्ना मन्त्रमपि तर्पयामीति संयुतम् || ११-१२०१ || द्वितीयरूपं ङेन्तं च तद्द्वितीयपदोदितम् | मध्ये नित्योदितश्र्याख्यपात्रवत् पीठगा क्रिया || ११-१२०२ || पूर्वस्यां दिशि चामुण्डा दक्षिणस्यां तु योगिनी | डाकिन्युक्ता पश्चिमायामुत्तरस्यां तु भैरवी || ११-१२०३ || विदारिकाऽग्नेयकोणे नैर्-ऋत्यां पापराक्षसी | पूतना चापि वायव्ये ईशाने कालिका तथा || ११-१२०४ || ततः स्तुतिं प्रकुर्वीत बद्धाञ्जलिपुटोऽग्रतः | जय देवि जगन्मातर्जय पापौघहारिणि || ११-१२०५ || जय जन्मजराव्याधितृणदावानलाकृते | जय सर्वविपत्तिघ्ने जय त्रिदशवन्दिते || ११-१२०६ || जय नित्यानन्दरूपे जय कल्याणदायिनि | जय शत्रुक्षयकरे जय रोगप्रणाशिनि || ११-१२०७ || जय भीमे जयाघोरे जय सङ्कटतारिणि | जयामृतरसास्वादतुन्दिलामन्दव्र्ग्रहे || ११-१२०८ || त्रिनेत्रे विकरालास्ये मुण्डमालाबिभूषिते | सर्वासुरक्षयकरि खड्गखट्वाङ्गधारिणि || ११-१२०९ || प्. १०७७) महाघोरे महारावे दैत्यदर्पनिषूदिनि | इमं पशुबलिं देवि गृहीत्वा कालरात्रिके || ११-१२१० || प्रीता भव महाचण्डे रक्ष मां शरणागतम् | आयुर्देहि धनं देहि भाग्यं र्कीर्तिं च देहि मे || ११-१२११ || स्त्रियं देहि सुतान् देहि सर्वान् कामा/श्च देहि मे | उग्रचण्डे प्रचण्डाऽसि प्रचण्डकरवालिनि || ११-१२१२ || महाचण्डोग्रदोर्दण्डे विश्वेश्वरि नमोऽस्तु ते | रक्ष मां शरणापन्नं त्वत्पादार्पितमानसम् || ११-१२१३ || हर पापं हर क्लेशं हर शोकं हरासुखम् | हर रोगं हर क्षोभं हर दैन्यं हरप्रिये || ११-१२१४ || स्तुतिमेतां पठित्वैवं दण्डवत् प्रणमेद्भुवि | गुह्यकालि जगद्धात्रि सर्वान्तर्यामिनीश्वरि || ११-१२१५ || गृहीत्वेमं पशुबलिं यथोक्तफलदा भव | कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम || ११-१२१६ || अन्तश्चरसि भूतानां द्रष्ट्री त्वं परमेश्वरि | (यामले) कात्यायनि महामाये दुर्गे दुर्गतितारिणि || ११-१२१७ || नमस्तुभ्यं जगद्धात्रि कालरात्रिस्वरूपिणि | एवं स्तुत्वा महादेव्यै दत्वा च सुमनोऽञ्जलीन् || ११-१२१८ || साष्टाङ्ग्ं प्रणमेद्भूमौ भक्तियुक्तेन चेतसा | सुमनोऽञ्जलीनिति बहुवचनं कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्यवस्यति | तथा च पुष्पाञ्जलित्रयं दत्वा प्रणमेदित्यर्थः | इति बलिदानविधिः | अथ पशुपक्षिणां वस्त्वन्तराणां च दैवतानि | (महाकालसंहितायाम्) पशूनां च विहङ्गानामन्येषामपि वस्तूनाम् || ११-१२१९ || प्. १०७८) ब्रवीमि देवताः सर्वाः क्रमेणोत्सर्गकर्मणि | प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः || ११-१२२० || तथा चैकशफाः सर्वे कथिता यमदैवताः | महिषश्च तथा याम्य उष्ट्रो वै नैर्-ऋतो मतः || ११-१२२० || गोवृषौ रुद्रदैवत्यौ छाग आग्नेय उच्यते | मेषस्तु वारुणो ज्ञेयो वराहो वैणवो मतः || ११-१२२१ || गोरीदेव्यौ व्याघ्रसिंहौ गण्डको ब्रह्मदैवतः | यावन्तो मृगभेदाः स्युः कथिता वायुदेवताः || ११-१२२२ || यावन्तः पक्षिणः सर्वे वायव्याः परिकीर्तिताः | प्राजापत्यास्तथा मत्स्याः कच्छपाः साध्यदैवताः || ११-१२२३ || गोधा वरुणदैवत्या ग्राहा अपि च तादृशाः | तथा च बभ्रूशलभावादित्येशानदैवतौ || ११-१२२४ || कन्या दासस्तथा दासी प्राजापत्या नरास्तथा | अभयं शिवदैवत्यं धरित्री विष्णुदैवता || ११-१२२५ || तथा समुद्रदैवत्यं रत्नमुक्ताफलादिकम् | जलाशयास्तथा सर्वे वारिधानी कमण्डलुः || ११-१२२६ || प्रपा कुम्भश्च करकं ज्ञेयं वरुणदैवतम् | सुवर्णमग्निदैवत्यं लौहं भैरवदैवतम् || ११-१२२७ || कांस्ये पूषाऽश्विनौ चापि देवता परिकीर्तिताः | रङ्गं नासत्यदैवत्यं सीसकं वायुदैवतम् || ११-१२२८ || ताम्रं च सूर्यदैवत्यं पित्तलं कुजदैवतम् | रजतं चन्द्रदैवत्यं खर्परं पितृदैवतम् || ११-१२२९ || प्. १०७९) गुडं कुवेरदैवत्यं शर्करा मित्रदैवता | अन्यत्र तु | आपो गुडे देवताः स्युः - इत्युक्तम् | तथा | जाङ्गलं वह्नि दैवत्यं मधु स्याद्यदैवतम् || ११-१२३० || ताम्बूलदेवता ज्ञेया शक्रो विद्याधरोऽथ वा | तन्त्रान्तरे | ताम्बूले देवताः शक्रविद्याधरविनायकाः || ११-१२३१ || महाकालः | तथा मृत्यु~जयो देवी घृतेषु परिनिष्ठितः | तैलं तु राहुदैवत्यं कार्पासं केतुदैवतम् || ११-१२३२ || क्षीरं च तारादैवत्यं दधि चौषधिदैवतम् | अन्यत्र तु | क्षीरे नारायणः प्रोक्तो दधिसर्पाः प्रकिर्त्तिताः इत्युक्तम् | तथा पिष्टं शचीदैवतं च सिन्दूरमपि पार्वति || ११-१२३३ || तन्त्रान्तरे | अन्येषु देवताः सर्वे देवः पिष्टे प्रजापतिः | महाकालः | लवणं चाब्धिदैवत्यं जलं वरुणदैवतम् || ११-१२३४ || देवः स्मरश्च गन्धर्वो मधुपर्के च चन्दने | पुष्पं च लक्ष्मीदैवत्यं धूपे देवो वनस्पतिः || ११-१२३५ || अप्सरोदैवतं ज्ञेयं सर्वं मृगमदादिकम् | दीपोऽपि वह्निदैवत्यो नैवेद्यं विष्णुदैवतम् || ११-१२३६ || प्. १०८०) पादुका सोमदैवत्या छत्रं स्यादिन्द्रदैवतम् | देवता कामधेनुः स्याच्चामरे त्रिदशेश्वरि || ११-१२३७ || व्यजनं वायुदैवत्यमिन्द्रः सिंहासनस्य च | माला च रतिदैवत्या डाकिनी देवता सुरा || ११-१२३८ || मांसं निर्-ऋतिदैवत्यं वितानं चन्द्रदैवतम् | प्राजापत्यानि शस्यानि पक्वान्नानि च सर्वशः || ११-१२३९ || वाचस्पत्यानि वासांसि पाण्डुराण्यसितानि च | मयुदैवानि रक्तानि दुर्गादैवं तु पट्टकम् || ११-१२४० || विद्या ब्राह्मी विनिर्दिष्टा विद्याप्रकरणानि च | सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पार्वति || ११-१२४१ || पात्राणामपि सर्वेषां विश्वकर्माऽधिदैवतम् | (यामले) वाद्यं चतुर्विधं ज्ञेयं रुद्रगन्धर्वदैवतम् || ११-१२४२ || महाकालः | द्रुमाणां च लतानां तु शाकानां हरितैः सह | फलानामपि सर्वेषां देवो ज्ञेयो वनस्पतिः || ११-१२४३ || अजिनानि तथा शयया रथ आसनमेव च | उपानहौ तथा दोला यच्चान्यत् प्राणिवर्जितम् || ११-१२४४ || उत्तानाङ्गिरदैवत्यं प्रवदन्ति मनीषिणः | ध्वजो वै धर्मदैवत्यः सीरं पर्यन्यदैवतम् || ११-१२४५ || पाषाणादि तथा रत्नं कथितं शक्रदैवतम् | गृहं तु सर्वदैवत्यमनुक्तं यन्मया प्रिये || ११-१२४६ || तत् सर्वं रुद्रदैवत्यं ज्ञेयमुत्सर्गकर्मणि | इति दैवतानि | अथ कुमारीपूजाविधिः | प्. १०८१) (महाथर्वणसंहितायाम्) ततः कुमारीयजनं कुर्यात् साधकसत्तमः || ११-१२४७ || यस्मिन् कृते तु विधिवत् कर्मणः साङ्गता भवेत् | अकृते चाङ्गहानिः स्याद्विशेषाच्छरदर्चने || ११-१२४८ || (महाकालसंहितायाम्) समाप्य पूजामासायं प्रदोषे पर्युपस्थिते | कुमारीपूजनं कुर्याद्विधिना पञ्चमं हितम् || ११-१२४९ || तथा | भक्तभद्राभद्रमुभे तदनक्ति सुरेश्वरि | स्वयं तद्रूपमास्थाय मूढभावमुपेयुषी || ११-१२५० || दिदृक्षुरायाति शिवा भक्तिपूजनसम्भृतिः | तस्मात् तत्रादरः कार्यो भक्तिभावं च जानता || ११-१२५१ || देवतास्त्रिविधोत्पातैर्यथादेशे हिताहितम् | सूचयन्ति तथैवैषां वार्षिकं सुरवन्दिते || ११-१२५२ || तद्विज्ञानार्थमप्येषा पूजितव्या प्रयत्नतः | चतुर्णामपि कौलानां स्मर्त्तानामानुकल्पिनाम् || ११-१२५३ || नैवात्र मतभेदोऽस्ति नैवार्चनभिदाऽपि वा | न च पूर्वोत्तरौ पक्षौ न च संदेहकल्पना || ११-१२५४ || भवेच्च फलबाहुल्यं तुष्टिर्देव्यास्तथैव च | विशिष्य ज्ञायतेऽनेन तथा भावि शुभाशुभम् || ११-१२५५ || ज्ञाते शुभे भवेत् तोषोऽन्यस्म/श्चोपायचिन्तनम् | तथा | न तथा तुष्यति शिवा बलिहोमस्तुतीरणैः || ११-१२५६ || कुमारीपूजनेनात्र यथा सद्यः प्रसीदति | प्. १०८२) न केवलं पूजयेत् तां भोजयेच्चापि यत्नतः || ११-१२५७ || तथा | व्यङ्गता चाप्यकरणात् पूजायाः परिकीर्त्तिता | कूमारीपूजनेनात्र यथा सद्यः प्रसीदति || ११-१२५८ || करणात् साङ्गताऽपि स्यादन्यस्मिन्नकृतेऽपि हि | तथा | कौलानां निशि पूजोक्ता स्मार्तानामपराह्णिको || ११-१२५९ || नित्या तु शारद्यर्चायां काम्या नैमित्तिकीतरा | कुमारीलक्षणमाह | सुस्नातां रक्तपीतादिनानारागोज्ज्वलांशुकाम् || ११-१२६० || सर्वालङ्कारचित्राङ्गीमज्ञातानङ्गचेष्टिताम् | अजातपुम्मनःसङ्गां सप्ताष्टनववार्षिकीम् || ११-१२६१ || अनीचजातिं गौराङ्गीं पितृमातृमतीमपि | अदन्तुरामवाग्दन्तामधिकोनाङ्गवर्जिताम् || ११-१२६२ || अदीर्घकेशीमुद्दीप्तां सुस्मितास्यामलोभनाम् | निषिद्धालक्षणमुक्तं तत्रैव | श्यामां दीर्घदतीमोतुनयनां पिङ्गमूर्धजाम् || ११-१२६३ || तनुमूनगतिं क्रुद्धां कुब्जां खञ्जां च खर्विकाम् | भ्रूकेशाल्पत्वसहितां तथा चैव गलद्व्रणाम् || ११-१२६४ || जातस्तनरजोऽनङ्गां प्रयत्नेन विवर्जयेत् | तन्त्रान्तरे | अधिकाङ्गीं च हीनाङ्गीं रोगिणीं च व्रणाङ्किताम् || ११-१२६५ || अन्धां काणां केकरां च कुरूपां लोमशां त्यजेत् | (महाकालसंहितायाम्) एतद्भिन्ना कुमारी तु वरणीयाऽर्चनक्रमे || ११-१२६६ || प्. १०८३) (मेरुतन्त्रे) विप्रां सर्वेष्टसंसिद्ध्यै यशसे क्षत्रियोद्भवाम् | वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् || ११-१२६७ || (स्कान्दे) दारुणे चान्त्यजां कन्यां पूजयेद्विधिना नरः | (यामले) यः कुमारीं यजेन्मन्त्री सर्वपर्वसु सर्वदा || ११-१२६८ || तेनार्चिता महादेवी सत्यं सत्यं न संशयः | सन्ध्यैकवर्षा संप्रोक्ता द्विवर्षा च सरस्वती || ११-१२६९ || त्रिधामूर्त्तिस्त्रिवर्षा च चतुरब्दा चा कालिका | सुभगा पञ्चवर्षेयमुमा सड्वार्षिकी भवेत् || ११-१२७० || मालिनी सप्तवर्षा च अष्टमी कुब्जिका मता | नवाब्दा कालसंकर्षा दशवर्षाऽपराजिता || ११-१२७१ || एकादशाब्दा रुद्राणी द्वादशाब्दा च भैरवी | तत्परा स्यान्महालक्ष्मीस्तत्परा कुलनायिका || ११-१२७२ || क्षेत्रज्ञा तत्परा प्रोक्ता षोडशाब्दा च चण्डिका | एवं क्रमेण विज्ञेया विना पुष्पं कुमारिका || ११-१२७३ || (हेमाद्रौ स्कान्दे) एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च | द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं तु वा || ११-१२७४ || तथा | नवभिर्भजते भूमिमैश्वर्यं द्विगुणेन तु | एकवृद्ध्या लभेत् क्षेममेकैकेन श्रियं लभेत् || ११-१२७५ || एकवर्षा तु या कन्या पूजार्थे तां विवर्जयेत् | गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते || ११-१२७६ || प्. १०८४) (वाडवानलीये) उत्तमा सा परिज्ञेया सप्ताष्टनवहायना | मध्यमा पञ्चवर्षा च षडब्दा दशहायना || ११-१२७७ || एकद्वित्रिचतुर्वर्षा रुद्राब्दाद्याऽवरा स्मृता | (महाकालसंहितायाम्) गीतवादित्रनिर्घोषैरानन्दादरपूर्वकम् || ११-१२७८ || नीत्वा पूजागृहद्वारि कुमारीस्ता अयुग्मिकाः | पञ्च वा सप्त वा चापि नवैकादश वा पुनः || ११-१२७९ || मुख्यैका तासु कर्त्तव्या या स्यात् सर्वाङ्गसुन्दरी | वह्नीनामप्यभावे हि भवेदेका कुमारिका || ११-१२८० || काम्ये नैमित्तिके चैका बह्वयः शारदपूजने | श्रेणीभूता उत्थिताश्च नम्रीभूतानना अपि || ११-१२८१ || स्थापयित्वा क्रमेणैता मुख्यामादौ नियोज्य च | देवीबुद्धिं विधायास्यां साधको विगतत्वरः || ११-१२८२ || गृहीतमदिरामत्तः कल्पितार्चनसम्भृतिः | प्राणायामं विधायादौ ततो भूतापसारणम् || ११-१२८३ || गुरुं गणपतिं नत्वा वामदक्षिणयोस्ततः | मध्ये कुमारीं च तथा मूलदेवीस्वरूपिणीम् || ११-१२८४ || छोटिकाभिस्तथा तालत्रितयैर्बन्धनं दिशाम् | तथा | कुमर्या मूलभूतायाः पादौ प्रक्षालयेत् ततः || ११-१२८५ || तथा | तज्जलं मस्तके दद्याद्देवीपादोदप्रज्ञया | स्वोत्तरीयांशुकेनैव पादाम्बूपनयेत् ततः || ११-१२८६ || प्. १०८५) पुनरक्षतमादाय विघ्नानुत्सारयेत् प्रिये | उदीर्यमाणमन्त्रेण तालत्रयपुरःसरम् || ११-१२८७ || तारपाशकलाकूर्चास्त्राणि प्रथमतो वदेत् | भूतान्यपसारय च विघ्नात् नाशय चेत्यपि || ११-१२८८ || हृच्छिर्षे चरमे दद्यादेकविंशाक्षरो मनुः | कुमार्या सहिताः सर्वे तया देवीस्वरूपया || ११-१२८९ || दर्शनार्थं समायान्ति यावन्तो देवयोनयः | प्रेता भूताः पिशाचाश्च गन्धर्वा गुह्यका अपि || ११-१२९० || राक्षसा दानवा यक्षा ये चान्ये क्रूरकर्मिणः | सह प्रविश्य कौमार्या मण्डपं शारदार्चनम् || ११-१२९१ || लुम्पन्ति च कुमार्यर्चां पूजां विध्वंसयन्ति च | अतो वारद्वयं कार्यं विघ्नस्योत्सारणं प्रिये || ११-१२९२ || ततः स्ववामहस्तेन कुमार्या दक्षिणं करम् | गृहीत्वा दक्षचरणविनिःक्षेपपुरसःरम् || ११-१२९३ || पङ्क्तीभूताः कुमारीस्ताः श्लोकरूपं मनुं पठन् | पूजागृहान्तः शनकैर्नमन्मौलीः प्रवेशयेत् || ११-१२९४ || समस्तजगतामाद्ये जगदाधाररूपिणि | कुमारीरूपमास्थाय प्रविशेदं गृहं मम || ११-१२९५ || भवत्याः कीदृशं रूपं जाने मातरहं न हि | कुमारीरूपमेवेदं पश्यामि नरचक्षुषा || ११-१२९६ || भक्तिं मदीयां विज्ञाय त्वत्पादाम्बुजयोः शिवे | त्वया प्रकटितं रूपमीदृशं सर्वसिद्धये || ११-१२९७ || दृष्टिः कार्या न मे पापे सञ्चारेणासतः पथः | प्. १०८६) दृढायां केवलं भक्तौ दातव्या सुरवन्दिते || ११-१२९८ || शिवाद्यास्तव रूपं हि कीदृशं नेति जानते | ज्ञास्यामि को वराकोऽहं पाञ्चभौतिकविग्रहः || ११-१२९९ || इति पञ्च पठन् श्लोकान् स्वपृष्ठेनैव तारयेत् | अनीक्षमाण एवेशि गीतवाद्यपुरःसरम् || ११-१३०० || (यामले) स्नापिता गन्धतैलेन नानाभरणभूषिता | आनीय देवतापार्श्वे स्थापनीया सुधीम्ता || ११-१३०१ || (महाकालसंहितायामपि) मुख्यं तत्पूजनं प्रोक्तं मुख्याया एव तन्मनुम् | तत्पूजयैव ताः सर्वाः पूजिताः स्युर्न संशयः || ११-१३०२ || तथा | बलिं दत्वा ततो देवयोनिभ्यः परमेश्वरि | आरभेत् निरालस्यः कुमारीन्यासमूत्तमम् || ११-१३०२ || नामान्यादौ खलु महाचण्डयोगेश्वरी मता | ततः सिद्धिकराली च पुनः सिद्धिविकराल्यपि || ११-१३०३ || महान्ता मार्यथ ज्ञेया वज्रकापालिनी ततः | मुण्डमालिन्यट्टहासिन्येते द्वे परिकीर्त्तिते || ११-१३०४ || चण्डकापालिनी कालचक्रेश्वर्यप्यनन्तरम् | गुह्यकाली ततः कात्यायनी कामाख्यया सह || ११-१३०५ || चामुण्डा सिद्धिलक्ष्मीश्च कुब्जिका तदनन्तरम् | मातङ्गी तदनु ज्ञेया चण्डेश्वर्यथ कीर्त्त्यते || ११-१३०६ || सर्वशेषेऽथ कौमारी एता अष्टादशेरिताः | एतानि गुह्येशीविषयाणि | अन्यत्र तु | प्. १०८७) नामान्यादौ व्याहरामि दुर्गा नारायणी शिवा || ११-१३०७ || महामाया योगनिद्रा कालरात्री कपर्दिनी | उग्रचण्डा भद्रकाली अजिता चापराजिता || ११-१३०८ || कात्यायनी महाकाली कामाख्या कुलनायिका | भैरवी भुवनेशी च कौमार्यष्टादश स्मृताः || ११-१३०९ || इति नामान्तरप्युक्तानि | तथा | अङ्गान्यतो वच्मि शिरो मुखं तदनु चक्षुषी | कर्णौ नासापुटे चापि कपोलौ तत्पुरौ पुनः || ११-१३१० || अधरोष्ठौ दन्तपङ्क्ती स्कन्धौ हृदयमेव च | बाहू च जठरं पृष्ठमूरुजानू तथैव च || ११-१३११ || जङ्घे पादौ च सर्वाङ्गं तावन्त्येव स्थलानि च | (त्रिशक्तिरत्ने) कलादि च कलान्तं ताः पूजयेद्विधिना बुधः || ११-१३१२ || उपवेश्यासने दिव्ये कुमारीं साधकोत्तमः | वक्ष्यमाणेन विधिना देहेऽस्या न्यासमाचरेत् || ११-१३१३ || कुमारिका स्यात् प्रथमा द्वितीया नायिका मता | तृतीया भैरवी ख्याता तुर्या वागीश्वरी भवेत् || ११-१३१४ || पालिका पञ्चमी प्रोक्तो सम्बुद्ध्यन्ताः कुलादिकाः | न्यस्याः पञ्चाङ्गयोगेन कुमारीणां कलेवरे || ११-१३१५ || वामावर्त्तक्रमादास्यचतुष्कं पूजयेत् क्रमात् | ततः सिद्धा जया पूर्वा जयाऽन्या कुब्जिका परा || ११-१३१६ || कालिका पञ्चमी प्रोक्ता विज्ञेया बोधिता इमाः | प्. १०८८) पूर्वादिवक्त्रसंयुक्ता चतुर्थ्यन्ता नमोऽन्तकाः || ११-१३१७ || तत्तत्स्थानेषु विन्यस्याः स्वधिया क्रमपूर्वकम् | पञ्चप्रणवयोगेन चैतन्यमनुना सह || ११-१३१८ || न्यासजालं हि पूर्वोक्तं कुर्यात् साधकसत्तमः | (महाकालसंहितायाम्) ततोऽर्घस्थापनं कुर्यान्नित्यके यदुदाहृतम् || ११-१३१९ || पूजोपकरणस्यापि शुद्धिरुक्ता पुरोक्तवत् | तथा | ततो ध्यानं प्रकुर्वीत कुमार्या वक्ष्यमाणकम् || ११-१३२० || तन्त्रान्तरे | प्रसन्नवदनाम्भोजां प्रोद्यद्बालार्कसप्रभाम् | रक्ताम्बरां रक्तमाल्यां नानालङ्कारभूषिताम् || ११-१३२१ || सस्मितां दिव्यकन्याभिः क्रीडारसपरायणाम् | ध्यायेत् कुमारिकां बालां स्वभक्ताभीष्टसिद्धिदाम् || ११-१३२२ || तथा | उपचारा/स्ततः सर्वान् पाद्यादीन् स्तुतिपश्चिमान् | समर्पयेदिति शेषः | (यामले) यष्टव्या पूर्वमार्गेण वक्ष्यमाणेन वा पुनः || ११-१३२३ || स्वनामभिश्चतुर्थ्यन्तैस्त्रिताराद्यैर्नमोऽन्तकैः | देवतापश्चिमे मन्त्री यजेदेताः सलक्षणाः || ११-१३२४ || आद्या शुद्धा कालिकाऽन्या तृतीया ललिता स्मृता | चतुर्थी मालिनी ख्याता पञ्चमी स्याद्वसुन्धरा || ११-१३२५ || सरस्वती रमा गौरी दुर्गा तु नवमी भवेत् | प्. १०८९) पञ्चाब्दं नववर्षं च यजेद्बालं विचक्षणः || ११-१३२६ || पञ्चाब्दो वटुकः प्रोक्तो नववर्षो गणेश्वरः | तथा | प्रदद्यादासनं वाचा ह्रीया पाद्यं समर्पयेत् || ११-१३२७ || रमयाऽर्घं निवेद्याथ स्त्रिया चन्दनमर्पयेत् | कुमार्यै शक्तिबीजेन प्रदद्यात् कुसुमोच्चयम् || ११-१३२८ || चैतन्यमनुना मन्त्री धूपदीपादिकं न्यसेत् | तारा एते समाख्याता भृगुर्भवसमन्वितः || ११-१३२९ || विन्दुनादसमाक्रान्तश्चैतन्यमनुरीरितः | क्वचिद् भैरवबीजं तु पञ्चमः प्रणवो मतः || ११-१३३० || एकस्या एव पूजने त्रिताराद्यमन्त्रेणैव समस्तोपचारसमर्पणं बोध्यम् | त्रिताराद्येन मन्त्रेण सर्वं तस्यै निवेदयेत् इति वचनात् | (महाकालसंहितायाम्) भूषणानि दूकूलानि सिन्दूरालक्तकावपि | कज्जलादर्शविख्याततालवृन्तानि पेटिका || ११-१३३१ || परिकर्माधारचोलमञ्चिकापीठदोलिका | पाञ्चालिका च मञ्जूषा पादुके कुथपट्टके || ११-१३३२ || चन्द्रातपोपसङ्ख्यान तथोद्वर्त्तनभाजनम् | शययोपधानपर्यङ्काः समुद्गं च प्रसाधनी || ११-१३३३ || प्रतिग्राहश्च हिन्दोला तथा सीमन्तवर्त्तिका | गोरोचनामृगमदौ कर्पूरं कुङ्कुमं तथा || ११-१३३४ || एवमादीनि चान्यानि यावच्छक्यानि सुन्दरि | प्रदातव्यानि वस्तूनि कुमारी तुष्यते यथा || ११-१३३५ || तथा | प्. १०९०) ततो यत् स्थापितं पात्रं कुमार्यै प्रतिपादयेत् | स्वीकुर्यात् सा च तत्रैव तथा यत्नं समाचरेत् || ११-१३३६ || अगृहीते तु तत्पात्रे महान् दोषोऽभिजायते | अतो यत्नस्तथा कार्यः स्वीक्रियेत यथा तया || ११-१३३७ || ततो गृहीत्वा कुसुमाक्षतं तस्याः कलेवरे | पञ्चाशत्सङ्ख्यकाः शक्तीः क्रमतः परिपूजयेत् || ११-१३३८ || ता इदानीं प्रवक्ष्यामि सावधाना निशामय | आद्या जया च विजया ऋद्धिदा माययाऽन्विता || ११-१३३९ || कला च सिद्धिदा सूक्ष्मा प्रभा स्यात् सुप्रभा ततः | विद्युता च विशुद्धिश्च नन्दिनी च विशुद्धियुक् || ११-१३४० || अपराजिता च ललिता लक्ष्मीर्गौरी तथैव च | अथ मेधा च गायत्री सावित्री च स्वधा पुनः || ११-१३४१ || स्वाहेच्छे च क्रिया विद्या प्रज्ञा दीप्ता च चेतना | भद्रा ज्येष्ठा तथोमा च शिवा च मुदिता क्षमा || ११-१३४२ || श्रद्धाऽथ विमला कौमुद्यपि वै विशदा ततः | अशोका ज्ञानदा चैव बलदा राज्यदाऽपि च || ११-१३४३ || मैत्री तदनु रुद्राणी भवानी च मृडान्यपि | सर्वज्ञा चण्डिका चापि कुमारी सर्वशेषगा || ११-१३४४ || पञ्चाशत्सङ्ख्यका एताः कुमार्याः शक्तयः स्मृताः | भैरवानष्ट तदनु पूजयेदक्षतादिभिः || ११-१३४५ || भैरवीभ्यस्ततो विघ्नविनायकेभ्य एव च | वटुकक्षेत्रपालाभ्यां योगिनिभ्यस्तथैव च || ११-१३४६ || भतेभ्यः प्रेतयक्षेभ्यो डाकिनीभ्यस्तथैव च | प्. १०९१) एतत्पूजां प्रकुर्वीत सदूर्वा क्षतचन्दनैः || ११-१३४७ || पुनरष्टौ सर्वशेषे ङेन्ता देवीर्यजेत् प्रिये | महामाया कालरात्री ततो वै सर्वमङ्गला || ११-१३४८ || पूज्या डमरुका पश्चाद्राजराजेश्वरी तथा | सम्पत्प्रदा भगवती कुमारी तदनन्तरम् || ११-१३४९ || (यामले) कुलान्तः पूजयेदेनां कुलकोणेष्विमान् यजेत् | कामेश्वरी च वज्रेशी तृतीया भगमालिनी || ११-१३५० || उपरिष्टात् कुलद्वन्द्वकोणेष्वेतः समर्चयेत् | अनङ्गकुसुमाऽनङ्गमन्मथाऽनङ्गपूर्विका || ११-१३५१ || मदनानन्दशब्दाद्या चतुर्थी कुसुमोत्तरा | पञ्चम्यमङ्गमदनाऽतुराऽनङ्गपदादिका || ११-१३५२ || शिशिरा कथिता ह्येताः शक्तयो रससङ्ख्यकाः | अनेन विधिना पूज्या कुमारी साधकोत्तमैः || ११-१३५३ || (महाकालसंहितायाम्) समाप्येत्थं कुमर्यर्चां तत्पुरो भुवि वारिणा | वर्त्तुलं मण्डलं कृत्वा तन्मध्ये कुलकामिनीम् || ११-१३५४ || विलिख्य जलकुसुमाक्षतचन्दननागजैः | पूजयेन्मण्डलं तच्च शुभदायै नमो वदेत् || ११-१३५५ || स्थालीगतं च तत्सर्वमन्नं तत्र निवेश्य हि | नानाविधां च सामग्रीं लेह्यचोष्यादिघट्टिताम् || ११-१३५६ || मांसमीनसुरापूर्णां भक्ष्यचर्व्यादिपूरिताम् | कुमारीदक्षहस्तं च स्थापयित्वाऽन्नमूर्धनि || ११-१३५७ || प्. १०९२) उत्तानं वक्ष्यमाणेन मनुनाऽन्नं समुत्सृजेत् | अन्नोत्सर्गमन्त्रस्तु | ऐ/ ह्री/ श्री/ स्त्री/ सौ/ः सर्वशक्तिस्वरूपायै सर्वसिद्धिदायै भगवत्यै कुमार्ये भक्ष्यभोज्यनानाविधान्नकल्पितषड्रसोपेतमिदं महाभोगनैवेद्यं तुभ्यमहं निवेदयामि गृहाण २ भुङ्क्ष्व २ प्रसीद २ सर्वसिद्धिं मे प्रयछ २ ऐ/ ह्री/ श्री/ नमः स्वाहा | इति पद्धतिकृतोक्तः | तथा | इतरासां कुमरीणां प्रत्येकं पूजनं चरेत् || ११-१३५८ || गन्धपुष्पैर्धूपदीपैर्नेवेद्यैरन्नसङ्कुलैः || तथा | अन्नानि यादृशान्यस्यै मुख्यायै कल्पितानि हि || ११-१३५९ || अन्याभ्यस्तादृशान्येव दातव्यान्येष निश्चयः | फलाफलं तु मुख्याया ज्ञेयमत्र विपश्चिता || ११-१३६० || भुञ्जानासु कुमारिषु न तूर्यध्वनिमाचरेत् | नान्यत्र च मनो दद्यात् संवाधं नैव कल्पयेत् || ११-१३६१ || कोलाहलं निषेधेत अमङ्गल्यानि यानि च | रुदितापानवायुं च प्रयत्नेन विवर्जयेत् || ११-१३६२ || सावधानो भवेदत्र किमादौ भक्षयन्ति ताः | मिथः किं वा प्रजल्पन्ति कुत्र वा वस्तुविग्रहः || ११-१३६३ || कुत्र दृष्टिं प्रक्षिपन्ति भीताः किं वा वदन्त्यमूः | इत्यादि नानाजातीयाश्चेष्टा आसां प्रयत्नतः || ११-१३६४ || सावधानतया ज्ञेया भद्राभद्रस्य सूचकाः | प्. १०९३) भक्षयन्तीषु तास्वेवं पठेत् तत्स्तोत्रमत्वरम् || ११-१३६५ || कृताञ्जलिर्नम्रशिरा आसामन्ने क्षिपन् दृशौ | जय कालि महाभीमे भीमरावे भयापहे || ११-१३६६ || संसारदावाग्निशिखे वृजिनार्णवतारिणि | ब्रह्मेन्द्रोपेन्द्रभूतेशप्रभृत्यमरवन्दिते || ११-१३६७ || सर्गपालनसंहारकारण्यहितमारिणि | गुह्यकालि परानन्दरसपूरितविग्रहे || ११-१३६८ || परब्रह्मरसास्वादकैवल्यानन्ददायिनि | गुणातीतेऽपि सगुणे महाकल्पान्तनर्त्तकि || ११-१३६९ || कुमारीरूपमास्थाय विज्ञाप्रज्ञास्वरूपिणि | आगताऽसि ममागारं शारद्यर्चासमाप्तये || ११-१३७० || सांवत्सरिककल्याणसूचनाय तथैव च | धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम || ११-१३७१ || यस्मात् त्वमीदृशं कृत्वा कौमारं रूपमुत्तमम् | गुह्यकालि समायाताऽब्दिकपूजाजिघृक्षया || ११-१३७२ || त्वमेवैतेन रूपेण देवेभ्यः प्रार्थिता पुरा | दत्तवत्यसि साम्राज्यं वरानपि समीहितान् || ११-१३७३ || मह्यमप्यद्य देवेशि वरं देहि सुपूजिता | ब्रह्मणे सृष्टिसामर्थ्यं त्वं पुरा दत्तवत्यसि || ११-१३७४ || विष्णवे च त्वमेवादास्तथा पालनशक्तिताम् | महारुद्राय संहारकर्त्तृत्वमददः शिवे || ११-१३७५ || देवेभ्यश्चापि दैत्यानां नाशने दक्षतामपि | अन्तर्यामिन्यसीशानि त्रिलोकीवासिनामपि || ११-१३७६ || प्. १०९४) निवेदयामि किं तेऽहं सर्वकर्मैकसाक्षिणि | शत्रुनाश राज्यलाभं शरीरारोग्यमेव च || ११-१३७७ || त्वत्पादाम्बुजयोर्भक्तिं याचेऽहं चतुरो वरान् | नमस्ते भगवत्यम्ब नमस्ते भक्तिवत्सले || ११-१३७८ || नमस्ते जगदाधाररूपिणि ग्राहि मां सदा | मातरं वेद्मि रूपं ते न शरीरं न वा गुणम् || ११-१३७९ || भक्त्या हृत्स्थितया पूजां तव जानाम्यनन्यधीः | त्वं माता त्वं पिता बन्धुस्त्वमेव जगदीश्वरि || ११-१३८० || त्वं गतिः शरणं त्वं च स्वर्गस्त्वं मोक्ष एव च | विहाय त्वां जगन्मातर्नान्यां जानामि देवताम् || ११-१३८१ || नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः | एभिः श्लोकैः स्तुतिं कृत्वा कुमारीणां वरानने || ११-१३८२ || दद्यादाचमनीयं हि भोजनान्ते गतत्वरः | ततः प्रदद्यात् ताम्बूलं मृगचन्द्राभिवासितम् || ११-१३८३ || सह वाद्यादिभिस्तावदनुव्रज्य विसर्जयेत् | शुभाशुभफलं वच्मि साम्प्रतं तव पार्वति || ११-१३८४ || तत्राप्यादौ शुभं वक्ष्ये विपरीतं ततोऽस्य च | तदुच्छिष्टं ततो दद्याज्जम्बुकेभ्योऽथ भूतले || ११-१३८५ || निखनेदप्सु वा देवि समालोड्य विसर्जयेत् | आदौ भक्ते करे दत्ते सुभिक्षं विषये भवेत् || ११-१३८६ || पायसे यजमानस्य पशुवृद्धिः प्रजायते | घृते स्यादायुरारोग्यं पूजामैश्वर्यवृद्धये || ११-१३८७ || तथा मोदकशष्कुल्योः सन्ततिर्भूयसी भवेत् | प्. १०९५) मत्स्यजातिष्वर्थलाभः कृशरे यानसम्पदः || ११-१३८८ || मांसे तु पुत्रलाभः स्यात् तेमने कामिनी भवेत् | फलं मांसविशेषस्य भिन्नं मिश्रं ब्रुवे हि तत् || ११-१३८९ || अर्थलाभस्तु वाराहे खाङ्गे तु विजयो रणे | माहिषेण तु मांसेन राज्यप्राप्तिर्भवेद्ध्रुवम् || ११-१३९० || आरोग्यं हारिणेनाशु कार्ष्णसारेण वाग्मिता | शाशे मेधावितां गच्छेदाजेष्वजरतामपि || ११-१३९१ || आवेये पलले देवि सर्वकल्याणमाप्नुयात् | कामठे मेदिनीलाभो वह्वन्नत्वं च राङ्कुरे || ११-१३९२ || वार्ध्रीणसे शत्रुनाशो हांसे मनुजवश्यता | तैत्तिरेऽभीष्टसिद्धिश्च वर्त्तके पापसंक्षयः || ११-१३९३ || मनस्तोषो बलाकायां फलेक्षोर्विश्ववश्यता | कीर्त्तिस्तु महती दध्नि दुग्धे सम्पदनुत्तमा || ११-१३९४ || पिष्टके तनयावाप्तिः शाके च रिपुसंक्षयः | हालायां पुण्यवृद्धिः स्याच्चोष्ये संपत् सुवाग्मिता || ११-१३९५ || धनागमः फाणिते तु कूर्चिकायां बलोन्नतिः | तुम्बीवृन्ताककूष्माण्डकारवेल्लपटोलकैः || ११-१३९६ || घोषशूरणदीर्घाङ्घ्रिमूलकैस्तेमने कृते | विद्यालाभो भवेद्देवि तक्रे वाक्पटुताऽपि च || ११-१३९७ || गोधूमचूर्णघटिते वस्तुनि प्रतिभा रणे | वेद्यां दृष्टौ भवेन्मोक्षो मण्डपेऽप्युन्नतिर्भवेत् || ११-१३९८ || चामरच्छत्रयोस्तालवृन्तपर्यङ्कयोरपि | घण्टादर्पणयोश्चापि दृग्दाने भूतिरुत्तमा || ११-१३९९ || प्. १०९६) आकल्पालङ्करणयोः स्पर्शचालनदृष्टिषु | नानाविधानि द्रव्याणि भवन्ति महितुः प्रिये || ११-१४०० || एवं विधानि भूयांसि चेष्टितान्यशनानि च | शुभादेशीनि जायन्ते विपरीतान्यतः शृणु || ११-१४०१ || मुख्यभूता कुमारी चेद्वमति द्वित्रिवारकम् | दिर्भिक्षं जायतेऽवश्यं प्रजाः स्युः पीडिता अपि || ११-१४०२ || राजा विनाशमायाति कुमार्या रोदने कृते | उच्चारे तु महामारी पुरीषे पुरदाहनम् || ११-१४०३ || अभोजने शत्रुभयमापदो बहुभोजने | अभाषणे त्वामयाः स्युर्विपदो बहुभाषणे || ११-१४०४ || उपसर्गा बहुविधाश्चेष्टया करपादयोः | अतिलज्जा विनाशाय तथा निर्लज्जता शुभा || ११-१४०५ || नानोत्पातास्तु मौने स्युः स्वापे बाहोर्विनाशनम् | सर्वनाशस्तु भीतायां क्रुद्धायां मृत्युरेव च || ११-१४०६ || आवेशे तत्क्षणाद्राजा म्रियते नात्र संशयः | शङ्कितायां शत्रुशङ्का शान्तायामीतितो भयम् || ११-१४०७ || चिन्तितायां तु विज्ञेयं तद्राष्ट्रस्यैव पातनम् | मोहे वित्तविनाशः स्याज्जाड्ये पूजा च निष्फला || ११-१४०८ || चाञ्चल्ये चञ्चला लक्ष्मीः पूजकस्यैव जायते | विषादवत्यथ यदि कुमारी तत्र जायते || ११-१४०९ || सरुजं सप्रजं राष्ट्रं तदा सीदति पार्वति | रोगेण म्रियते राजा यदि रुग्णा प्रजायते || ११-१४१० || प्. १०९७) दुर्भिक्षमरकातङ्का यद्यश्रूणि विमुञ्चति | सर्वनाशो भवेत् तर्हि धुनोति यदि मस्तकम् || ११-१४११ || त्रस्तायां रिपुजस्त्रासस्तस्य राज्ञः प्रदिश्यते | कम्पे सति स्याद्विमुखी कालिका परमेश्वरी || ११-१४१२ || नीचैः शिरश्चेत् कुरुते असन्तुष्टा तदेश्वरी | हीतायुः स्यात् तदा पृथ्वीपतिश्चेद्गद्गदस्वरा || ११-१४१३ || पूजकस्य भवेद्दैन्यं व्याकुला यदि जायते | मोहने व्याकुलायां तु सर्वं नगरमाकुलम् || ११-१४१४ || व्रीडितायां भवेद्रोगः स्वेदे दारधमक्षयः | अधोवायुं पतति चेत् कुमारीदैवयोगतः || ११-१४१५ || पीडितं परचक्रेण तदा भवति पत्तनम् | गीतं गायति चेत् तत्र कुमारी रहितक्रिया || ११-१४१६ || संप्रजाराष्ट्रतनयदारस्य नृपतेर्मृतिः | सहागताभिः कदा चिन्मुख्या विवदते यदि || ११-१४१७ || तदा समायात्यकस्मात् परचक्रं सुदारुणम् | यया कयाचित् सार्धं वा येन केन चिदेव वा || ११-१४१८ || कुमारी भाषते वीतभयं मन्दाक्षसाध्वसा | प्रजायन्ते तदा तस्य विषयेषु षडीतयः || ११-१४१९ || व्यत्यासं यदि भक्ष्यस्य कुर्वते करचालनैः | ग्रस्तं समस्तं भवति मनसो वाञ्छितं प्रिये || ११-१४२० || उपायनीकृतं यद्यद्द्रव्यं देव्यै तु मण्डपे | तच्चेत् कराभ्यां स्पृशति कान्दिशीको भवेन्नृपः || ११-१४२१ || निर्वापयति चेद्दीपं कुमारी मुखमारुतैः | प्. १०९८) बुद्धिभ्रंशो भवेत् तर्हि ज्ञानदीपश्च नश्यति || ११-१४२२ || दैवयोगाच्च नृत्यन्ति कुमार्यश्चेत् सुराकुलाः | सराजकः सविषयः श्मशानमिव जायते || ११-१४२३ || वासांस्यु सृज्य नग्नाः स्युर्यदि तत्र कुमारिकाः | शत्रुभिर्धृयते तर्हि राजा समरमूर्धनि || ११-१४२४ || यदि फूत्कृत्य कूर्दन्ते करौ धृत्वा भ्रमन्ति च | भूतावेशः क्षितीशस्य जायते नात्र संशयः || ११-१४२५ || उच्चरिष्यामि हास्ये वा वदन्तीत्थं कुमारिकाः | भोजनावसरे तर्हि महामारीभयं भवेत् || ११-१४२६ || वामे वा दक्षिणे वाऽपि चलत्तारकया दृशा | रक्तोग्रया घूर्णयते शिरः स्वस्य कुमारिका || ११-१४२७ || कुरुते वाऽट्टहासं सा येन त्रस्यन्ति मानवाः | भूतावेशो भवेत् तर्हि प्रेता नृत्यन्ति वा पुरे || ११-१४२८ || दन्तैर्दन्तान् पीडयित्वा कुर्यात् कटकटारवम् | प्रयाति सदनं मृत्योः सदारसुतबान्धवः || ११-१४२९ || दृशावनिमिषे कृत्वा सन्दश्यौष्ठं रदेन हि | संतर्जयति शीर्षं चेत् कम्पयन्ती कुमारिका || ११-१४३० || तदेव फलमुद्दिष्टं यत् स्यात् कटकटारवे | आद्यन्तिकं भजेन्मौनं करेणान्नं स्पृशेन्न च || ११-१४३१ || शिरोऽत्यर्थं च नमयेदङ्गुष्ठेन लिखेद्भुवम् | विदध्याद्भूतले रेखां करजैर्निष्प्रयोजनम् || ११-१४३२ || संहताभ्यां कराभ्यां च कण्डूयेदथ वा शिरः | तृणान्यकारणाच्छिन्द्यादङ्गुलीस्फोटमाचरेत् || ११-१४३३ || प्. १०९९) पाणिभ्यां मुद्रयेन्नेत्रे द्वौ कर्णौ पिदधाति वा | कुर्वीत वा बाहुरिकां पार्ष्णिघृष्टिं करोति वा || ११-१४३४ || महान्तं ग्रासमादत्ते मुखं व्यादाय तिष्ठति | अन्नोपरि क्षुतं धत्ते जृम्भणं वा मुहुर्मुहुः || ११-१४३५ || गृहीत्वा पाणिना वाऽन्नं चतुर्दिक्षु क्षिपत्यपि | उत्थाय वा प्रचलति त्यक्त्वाऽन्नं पूजनं तथा || ११-१४३६ || आयाति वमनं वाऽस्याः स्यातां रोमाञ्चवेपथू | निर्गच्छतो वा तद्गात्रात् पूयास्रे हेतुमन्तरा || ११-१४३७ || अकस्मादेव कुरुते काकुंचेत् कारणं विना | अश्लीलं वल्गति तथा स्ववर्ग्यार्थे प्ररोदिति || ११-१४३८ || आमुक्तालङ्कृतीर्मुञ्चेद्गृहं यास्यामि वा वदेत् | यस्य कस्यापि वा कुर्याद्भ्र्त्सनं तत्स्थले स्थिता || ११-१४३९ || उपालभेत वा कांचित् सहैवास्या उपेयुषी | भिनत्ति वा निदानं वा स्वहस्तबलयानि वा || ११-१४४० || कृते मृतस्य कस्यापि बन्धोः शोचति तत्र सा | यत्किञ्चिद्वा प्रलपति निर्निमित्तं कुमारिका || ११-१४४१ || सर्वमेतदमङ्गल्यं विज्ञेयं त्रिदशार्चिते | दुर्भिक्ष्ऽम् धननाशं च रोगो मारीभयं तथा || ११-१४४२ || पदे पदे च विपदः शोको व्याधी रिपून्नतिः | परचक्रागमोऽकस्मादग्निदाह पुरे गृहे || ११-१४४३ || मृत्युत्रासश्च दारिद्र्यं विच्छेदो बन्धुभिः सह | भूतप्रेतपिशाचाभिनिवेशोऽपि गृहे गृहे || ११-१४४४ || अष्टाभिष्तु महारोगैः प्रजानां निधनं भवेत् | प्. ११००) कुमारीचेष्टितद्वारा ज्ञायते हि शुभाशुभम् || ११-१४४५ || वार्षिकं च फलं राज्ञो जयो वाऽथ पराजयः | मृत्युर्दुःखं धनं सौख्यं शत्रुभीतिर्बलोन्नतिः || ११-१४४६ || राज्यवृद्धिः प्रजापीडा व्यङ्गताऽनीकसंक्षयः | कुमारीपूजनात् सर्वं ज्ञायते भोजनादपि || ११-१४४७ || परीक्षा यत्नतस्तस्माद्राज्ञा स्वस्य शुभाशुभम् | अर्चातोऽपि विशेषेण भोजनेन सुरेश्वरि || ११-१४४८ || जाते शुभे समीचीनं वृत्ते तदितरत्र हि | काम्यार्चा बहुसम्भारैर्दोषं तज्जं निवारयेत् || ११-१४४९ || निवृत्य स्वगृहं रुग्णा याता यदि कुमारिका | तस्मिन्नेवाहनि भवेत् तथाऽपि न शुभं फलम् || ११-१४५० || इत्यादि फलबाहुल्यं शुभस्याप्यशुभस्य च | मया विविच्य कथितं ध्रियस्व हृदि यत्नतः || ११-१४५१ || ततो निशीथसमये विधिवत् पूजनं ततः | (वाडवानलीये) पूजिता शरदर्चायां या कुमार्युक्तलक्षणा || ११-१४५२ || सर्वपर्वसु सा पूज्या यावत् पुष्पं न दृश्यते | पुष्पमित्युपलक्षणम् | महाकालः | पीठमूर्त्त्योः प्रकुर्वीत धूपदीपानुलेपनैः || ११-१४५३ || नैवेद्यैरुपहारैश्च गीतवाद्यादिभिस्तथा | (यामले) कुमारीपूजिता हन्ति कलुषं पूर्वसञ्चितम् || ११-१४५४ || कुमारिकां विजानीयात् साक्षात् प्रकृतिरूपिणीम् | प्. ११०१) पत्रं पुष्पं फलं तोयं यत्किञ्चिद्वस्तु शोभनम् || ११-१४५५ || अनन्तफलदं प्रोक्तं कुमार्यै चेत् समर्पयेत् | भोजिता चेत् कुमारी स्याद्भोजितं भुवनत्रयम् || ११-१४५६ || ब्राह्मणाय सुशीलाय कुमारीं यः समर्पयेत् | पृथिवीदानजं पुण्यं सोऽश्नुते नात्र संशयः || ११-१४५७ || स सर्वसिद्धिमाप्नोति यः कुमारीं समर्चयेत् | वसन्ति सततं देहे कुमार्या योगिनीगणाः || ११-१४५८ || अतः पूज्या नमस्या सा लालनीया तदिच्छया | अशक्त्या पूजयेदेकां कुमारीं साधकोत्तमः || ११-१४५९ || विना कुमरिकापूजां न पर्वं परिहापयेत् | यो नित्यमर्चयेदेतां तस्य स्यात् सिद्धिरुत्तमा || ११-१४६० || नवरात्रे समायाते नवम्यन्तं निशातधीः | नानोपहारैरभ्यर्च्य कुमारीं वृद्धिपूर्वकम् || ११-१४६१ || वृद्धिक्रमेण प्रयजेद्वाञ्छितां सिद्धिमाप्नुयात् | अथवा पूजयेन्मन्त्री युवतीर्नव संख्यकाः || ११-१४६२ || हृल्लेखा गगना रक्ता महासूक्ष्मा करालिका | इच्छा ज्ञाना क्रिया दुर्गा नवनामभिरीताः || ११-१४६३ || पूर्ववत् पूजयेन्मन्त्री जपेत् साग्रं सहस्रकम् | यदि सा क्षोभमायाति स्वयमेव विलासिनी || ११-१४६४ || तया सह नयेद्रात्रिं वासरं वा निशातधिः | कुमारीं न स्पृशेदेव भावयुक्तेन चेतसा || ११-१४६५ || अन्यथा मृत्युमाप्नोति नो चेद्देवी पराङ्मुखी | (महाकालसंहितायाम्) एवं दोषगुणौ ज्ञात्वा कुर्वीत विधिपूर्वकम् || ११-१४६६ || प्. ११०२) कुमारीपूजनं भक्त्या शरत्पूजनकर्मणि | बलिहोमादयश्चास्य कलां नार्हन्ति षोडशीम् || ११-१४६७ || इति कुमारीपूजाविधिः | अथ शिवाबलिः | (कुलचूडामणौ) विल्वमूले प्रान्तरे वा श्मशाने वाऽपि साधकः | मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् || ११-१४६८ || (महाकालसंहितायाम्) पुराद्बहिर्निशाकाले महारण्यसमीपतः | गृहीत्वा भक्ष्यवस्तूनि पूजासम्भृतिमप्युत || ११-१४६९ || आप्तैरनुगतो द्वित्रैः प्रदद्यात् फेरवीबलिम् | आमानि पक्वान्यपि च मांसानि विधिनाऽर्पयेत् || ११-१४७० || तत्रोदीचीदिग्वदनो वीतभीः शुचिरूर्जितः | प्राणायामं षडङ्गं च विधायार्घं प्रपूज्य वै || ११-१४७१ || उत्थाय मुक्तचिकुरः शिवा आकारयेच्छनैः | (कुलचूडामणौ) कालि कालीति वक्तव्यं तत्र सा शिवरूपिणी || ११-१४७२ || पशुरूपा समायाति परिवारगणैः सह | भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुखरम् || ११-१४७३ || तदैव मङ्गलं तस्य नान्यथा कुलभूषण | अवश्यमन्नदानेन तोषयेन्नियतं शिवाम् || ११-१४७४ || नित्यश्राद्धं यथासन्ध्यावन्दनं पितृतर्पणम् | तथेयं कुलदेवीनां नित्यता कुलपूजने || ११-१४७५ || पशुरूपां शिवां देवीं यो नार्चयति निर्जने | शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् || ११-१४७६ || प्. ११०३) जपपूजाविधानानि यत्किञ्चित्सुकृतानि च | गृहीत्वा शापमासाद्य शिवा रोदिति निर्जने || ११-१४७७ || एकया त्वश्यते यत्र शिवया देव भैरव | तत्रैव सर्वशक्तीनां प्रीतिः परमदुर्लभा || ११-१४७८ || पशुशक्तिर्नरे शक्तिः पक्षिशक्तिश्च भैरव | पूजिता विगुणं कर्म सगुणं कारयेद्यतः || ११-१४७९ || तेन सर्वप्रयत्नेन कर्त्तव्यं पूजनं महत् | राजादिभयमापन्नं देशान्तरभयादिकम् || ११-१४८० || शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् | गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि || ११-१४८१ || शुभाशुभफलं व्यक्तिं ब्रूहि गृह्ण बलिं तव | एवमुच्चार्य दातव्यो बलिः कुलजनप्रिये || ११-१४८२ || (महाकालसंहितायाम्) स्थानादस्मादपसरेत् किञ्चिद्दूरतरं प्रिये | शिवा यथा वीतभया आगच्छन्त्यन्नसन्निधौ || ११-१४८३ || तत्र स्थित्वा निरीक्षेत किं किं ता भक्षयन्ति हि | सर्वा आगत्य चेत् सर्वं प्रदत्तं भक्षयन्ति हि || ११-१४८४ || विनिर्दिशेत् सर्वसिद्धिं राज्यलाभं धनागमम् | यद्यत् ता भक्षयन्त्यन्नं तत्तत् फलमवाप्नुयात् || ११-१४८५ || यद्यच्च नैव खादन्ति तत्तन्नैव फलं लभेत् | कुमारीपूजनादौ तु विशेषोऽस्योपवर्णितः || ११-१४८६ || तेन नात्र ब्रुवे देवि ग्रन्थाधिक्यभयादपि | कुमारीरूपमास्थाय यथाऽयाति महेश्वरी || ११-१४८७ || प्. ११०४) शिवारूपं तथा कृत्वा स्वयमायाति कालिका | ततो भक्तिः प्रकर्तव्या तासु यत्नेन साधकैः || ११-१४८८ || शिवासु भक्षयन्तीषु सर्वेभ्यो बलिमाहरेत् | संहारभैरवायादौ वटुकेभ्यस्ततः परम् || ११-१४८९ || विनायकेभ्यो मातृभ्यः क्षेत्रपालेभ्य एव च | योगिनीभ्यो डाकिनीभ्यः शिवदूतीभ्य एव च || ११-१४९० || पुरोक्तो मन्त्र आसिद्धिं तेन तेन बलिं हरेत् | महदैश्वर्यमाप्नोति निःशेषं भक्षयन्ति चेत् || ११-१४९१ || अर्धे तु मध्यमा सिद्धिरभक्षे तु विपद्भवेत् | (कुलचूडामणौ) यदि नो गृह्यते वत्स तदा नैव शुभं भवेत् || ११-१४९२ || शुभं यदि भवेत् तत्र भक्ष्यते तदशेषतः | (महाकालसंहितायाम्) खादितोत्थया तिष्ठत्सु शिवावृन्देषु तत्र हि || ११-१४९३ || दण्डवत् प्रणमेत् सर्वाः स्वेष्टदेवीधिया स्वयम् | पुष्पाञ्जलिं समादाय गन्धचन्दनचर्चितम् || ११-१४९४ || उत्थाय मुक्तचिकुरो मीलिताक्षो दिगम्बरः | भक्तिशाली वीतभयः किञ्चित्प्रणतकन्धरः || ११-१४९५ || स्तुतिं कुर्यात् स्तवैरेतैर्वरप्रार्थनपूर्वकम् | शिवारूपधरे देवि गुह्यकालि नमोऽस्तु ते || ११-१४९६ || उल्कामुखि ललज्जिह्वे घोररावे शृगालिनि | श्मशानवाशिनि प्रेते शवमांसप्रियेऽनघे || ११-१४९७ || अरण्यचारिण्यनघे शिवे जम्बुकरूपिणि | नमोऽस्तु ते महामाये जगत्तारिणि कालिके || ११-१४९८ || प्. ११०५) मातङ्गि कुक्कुटे रौद्रि महाकालि नमोऽस्तु ते | सर्वसिद्धिप्रदे भीमे भयङ्करि भयापहे || ११-१४९९ || प्रसन्ना भव देवेशि मम भक्तस्य चण्डिके | संसारसागरतरे जय सर्वशुभङ्करि || ११-१५०० || विस्रस्तचिकुरे चण्डि चामुण्डे मुण्डमालिनि | संहारकारिणि क्रुद्धे सर्वसिद्धिं प्रयच्छ मे || ११-१५०१ || दुर्गे किराति शवरि प्रेतासनगतेऽभये | अनुग्रहं कुरु सदा कृपया मां विलोकय || ११-१५०२ || राज्यं प्रयच्छ विकटे वित्तमायुः सुतान् स्त्रियम् | शिवाबलिप्रदानेन त्वं प्रसन्ना भवेश्वरि || ११-१५०३ || नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमोऽस्तु ते | इत्येतैरष्टभिः श्लोकैः शिवास्तोत्रमुदीरयेत् || ११-१५०४ || ततस्तच्छेषमन्नं यद्भाजनं चान्यदेव वा | सर्वं हि निखनेद्भूमौ प्रयत्नेनैव पार्वति || ११-१५०५ || यदि काकाः खराः श्वानो ये चान्ये पापजातयः | भक्षयन्ति तदुच्छिष्टं तदा विघ्नः प्रजायते || ११-१५०६ || रात्रावेव समागच्छेन्निर्भयो विपिनान्तरात् | इति शिवाबलिविधिः | अथ कृत्यशेषमाह | आगत्य गन्धपुष्पाद्यैः पुनर्देवीं प्रपूजयेत् || ११-१५०७ || तथा | ततः प्रदक्षिणीकृत्य पतित्वा दण्डवद्भुवि | भक्तिनम्रः स्तुतिं जल्पेत् काकुगद्गदया गिरा || ११-१५०८ || अलिका नासिका बाहू वक्षो जठरमेव च | प्. ११०६) पादौ क्ष्मां स्पर्शतो दण्डप्रणामः स हि गद्यते || ११-१५०९ || आयुर्देहि यशो देहि भगं भगवति देहि भे | पुत्रान् देहि धनं देहि कामान् सर्वा/श्च देहि मे || ११-१५१० || प्रचण्डे पुत्रदे नित्यं सुप्रीते सुरनायिके | कुलोद्योतकरे चोग्रे जयं देहि नमोऽस्तु ते || ११-१५११ || उग्रचण्डे प्रचण्डासि प्रचण्डबलनाशिनि | नमस्ते सर्वदा देवि विश्वेश्वरि नमोऽस्तु ते || ११-१५१२ || दुर्गोत्तारिणी दुर्गे त्वं सर्वाशुभनिषूदनि | धर्मार्थमोक्षदे देवि नित्यं मे वरदा भव || ११-१५१३ || दुर्गे देवि महाभागे त्राहि मां शरणागतम् | महिषासृङ्मदोन्मत्ते प्रणतोऽस्मि प्रसीद मे || ११-१५१४ || हर पापं हर क्लेशं हर शोकं हराशुभम् | हर रोगं हर क्षोभं हर मानं हर प्रिये || ११-१५१५ || कालि कालि महाकालि कालिके पापहारिणि | धर्मकामप्रदे देवि नारायणि नमोऽस्तु ते || ११-१५१६ || संग्रामे विजयं देहि धनं देहि सदा गृहे | धर्मकामर्थसम्पत्तीर्देहि देवि नमोऽस्तु ते || ११-१५१७ || महिषघ्नि महामाये चामुण्डे मुण्डमालिनि | आयुरारोग्यविजयं देहि देवि नमोऽस्तु ते || ११-१५१८ || आयुर्ददातु मे काली पुत्रानपि सदाशिवा | अर्थकामौ महामाया विभवं सर्वमङ्गला || ११-१५१९ || शिरो मे चण्डिका पातु कण्ठं पातु सुरेश्वरी | हृदयं पातु चामुण्डा सर्वतः पातु कालिका || ११-१५२० || प्. ११०७) ब्रह्माणी चैव कौमारी वाराही वैष्णवी तथा | माहेश्वरी नारसिंही इन्द्राणी शिवदूत्यपि || ११-१५२१ || महाकाली च चामुण्डा भैरवी कौशिकी तथा | उग्रचण्डा च प्रचण्डा च चण्डोग्रा चण्डनायिका || ११-१५२२ || चण्डा चण्डवती चैव अतिचण्डा च चण्डिका | एताश्चान्याश्च रुद्राणि यास्ते तिष्ठन्ति शक्तयः || ११-१५२३ || ताभिः सहैव मां रक्ष संग्रामे संकटे तथा | नानापुराणवाक्येन नानादेवर्षिभाषितैः || ११-१५२४ || सदाशिवाज्ञया चापि त्वमेव शरणं मम | त्वां विहायेतरां नैव संश्रये देवतां शिवे || ११-१५२५ || अतः परं यदुचितं तत् कर्त्तुं मातरर्हसि | आध्याकुलं च दारिद्र्यं रोगं शोकं च दारुणम् || ११-१५२६ || बन्धुस्वजनवैराग्यं दुर्गे त्वं हर दुर्गतिम् | राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा || ११-१५२७ || प्रभुत्वं तस्य सामर्थ्यं यस्य त्वं मस्तकोपरि | धन्योऽहं कृतकृत्योऽहं सफलं जीवितं मम || ११-१५२८ || अगताऽसि यतो दुर्गे माहेश्वरि ममालयम् | अर्घ्यं पुष्पं च नैवेद्यं धूपं दीपं बलिं तथा || ११-१५२९ || गृहाण वरदे देवि कल्याणं कुरु सर्वदा | कृत्वैवं विधिना दण्डप्रणामस्तुतिपूर्वकम् || ११-१५३० || पूजां समर्पयेद्देव्यै गृहीत्वा पाणिना जलम् | मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि || ११-१५३१ || यदर्चितं मया देवि परिपूर्णं तदस्तु मे | प्. ११०८) गृहीतुं शारदीं पूजां मर्त्त्यमण्डलमागताम् || ११-१५३२ || चण्डिके त्वां नमाम्यद्य पूजेयं प्रतिगृह्यताम् | कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम || ११-१५३३ || अन्तश्चरसि भूतानां ज्ञात्री त्वं सर्वसाक्षिणी | एतावत् कृत्यमुदितं शारदीयार्चनक्रमे || ११-१५३४ || प्रातरारभ्य देवेशि रात्रेर्यामत्रयावधि | शिवाबलिं कुमार्यार्चां प्रभूतं बलिमेव वा || ११-१५३५ || हित्वाऽदस्त्रयमष्टम्यामयमेव विधिः प्रिये | ततः प्रसादं देव्या यदवशिष्ठं भवेदनु || ११-१५३६ || गन्धं पुष्पं च नैवेद्यं सिद्धं वाऽसिद्धमेव वा | बन्धुभिः सह भुञ्जीत हास्यकौतुकपूर्वकम् || ११-१५३७ || गीतनृत्यादिकं पश्चाद्देव्यग्रे विनियोजयेत् | क्रीडां च ज्ञातिभिः सार्धं विदधीत विचक्षणः || ११-१५३८ || एतावदशक्ता संक्षिप्तपूजोक्ता (कालिकापुराणे) सम्यक् कल्पोदिता पूजा यदि कर्त्तुं न शक्यते | गन्धं पुष्पं च धूपं दीपं नैवेद्यमेव वा || ११-१५३९ || अभावे तोयपुष्पाभ्यां तदभावे च भक्तितः | संक्षेपपूजा कथिता इति || इति नवमीकृत्यम् | अथ द्वितीयादिनवमीपर्यन्तं रेवन्तादिपूजाविधिः | तदुक्तं (स्कन्दपुराणे) शान्तये वृद्धयेऽश्वानामात्मनो विजया च || ११-१५४० || द्वितीयादिनवम्यन्तं रेवन्तं पूजयेन्नृपः | प्. ११०९) ग्रन्थान्तरे | आश्विनस्य सिते पक्षे नवमीं यावदेव हि || ११-१५४१ || द्वितीयां तिथिमारभ्य पूजयेद्विविधार्हणैः | रेवन्तमुच्चैःश्रवसं तुरङ्गानभिरक्षितान् || ११-१५४२ || वर्द्धन्ते वाजिनस्तेन सर्वोपद्रववर्जिताः | अभिरक्षितानिति रक्षणहेतुस्तद्विधिश्चोक्तः | (शालिहोत्रे) अश्वयुजि शुक्लपक्षे द्वितीयादि सप्तरात्रं तु || ११-१५४३ || वडवारूपेणैका स्वातिः सौरं रथं वहति | सा भारेणाक्रान्ता क्रुद्धाऽन्यान्यान्निरीक्षते वाहान् || ११-१५४४ || तेषां तेजः सत्त्वं बलं च कृत्स्नं निगृह्णाति | सञ्जायन्ते रोगा महोपसर्गैः समन्विताः कष्टाः || ११-१५४५ || तस्मात् स्वात्युपतापे वाजिषु पीडा भवेन्महती | एवं च सप्तरात्रं स्वातेः सम्पात एव निर्दिष्टः || ११-१५४६ || तत्र दीवाकरकिरणैरस्पृष्टा वाजिनो रक्ष्याः | शालां ततोपलिप्तां मनोरमां वर्जितां च रविकिरणैः || ११-१५४७ || नानाकारैः पुष्पैरलङ्कृतां धूपितां कुर्यात् | तस्यां स्नातास्तुरगाः सुधूपिता अर्चिता द्वितीयायाम् || ११-१५४८ || पुरुषैश्च शस्त्रहस्तैः सप्ताहं रक्षितव्यास्तु | तथा | शुभेऽह्नि मुहूर्ते च क्ष्मापतिः सपुरोहितः || ११-१५४९ || कृतमङ्गलसंस्कारान् वाहान् शालां प्रपूजयेत् | ज्योतिःशास्त्रेऽपि | स्वाती नाम रवेः पत्नी वरदा रूपिणी रथम् || ११-१५५० || वहन्ती साऽश्विने मासि सूर्यरश्मिसमाश्रिता | प्. १११०) सप्ताऽहं पीडयेदश्वा/स्ततः स्नानार्चितान् गृहे || ११-१५५१ || रेवन्तं पूजयित्वाऽथ बद्ध्वा पोटलिकां गले | तथा | शुक्लपक्षे द्वितीयायां शालां संवेष्ट्य रक्षयेत् || ११-१५५२ || आदित्यरश्मितो वाहान् कटैर्वस्त्रादिकैस्तथा | अस्तं गते दिनकरे कटादीनपकर्षयेत् || ११-१५५३ || प्रवातार्थं पुनर्दद्याद्यावत् सन्ध्या न जायते | शालाप्रवेशविहितां रक्षां कण्ठे प्रदापयेत् || ११-१५५४ || लोहकं निम्बपत्राणि गुग्गुलं सर्षपान् घृतम् | चैलबद्धां वचां हिङ्गु बध्नीयाद्वाजिनां गले || ११-१५५५ || घर्षणं भ्रामणं चैव तथा चैवापवर्त्तनम् | निशाशेषे प्रकर्त्तव्यं यावद्दूरे दिवाकरः || ११-१५५६ || एतत्प्रतिदिनं कुर्यात् सप्तरात्रमतन्द्रितः | कारयेद्ब्राह्मणा/श्चैव शान्तिस्वस्त्ययनानि च || ११-१५५७ || (ब्रह्मपुराणेऽपि) शान्तिस्वस्त्ययने कार्ये तदा तेषां दिने दिने | धान्यं भल्लातकं कुष्ठं वचां सिद्धार्थका/स्तथा || ११-१५५८ || पञ्चरङ्गेन सूत्रेण कण्ठे तेषां तु बन्धयेत् | वायव्यैर्वारुणैः सौरैः शाक्तैर्मन्त्रैः सवैष्णवैः || ११-१५५९ || वैश्वदेवैस्तथाऽग्नेयैर्होमः कार्यो दिने दिने | तुरगा रक्षणीयाश्च पुरुषैः शस्त्रपाणिभिः || ११-१५६० || न च ताड्याः क्वचित् तत्र न च वाह्याः कदाचन | (शालिहोत्रे) शिरसि स्थापयेद्देवीं रेवन्तं पूजयेत् सदा || ११-१५६१ || प्. ११११) तथा | नानाखाद्यनिवेद्यानि रेवन्ताय निवेदयेत् || तथा | वेदीं च कल्पयित्वा धुरि च विधानेन पावकं जुहुयात् || ११-१५६२ || धुरि शालाशिरोभागे | सायं प्रातश्च शुचिः पुरोहितो ब्रह्मचारी स्यात् | शालिहोत्रगदितेन मन्त्रेणानेन होमयेत् || ११-१५६३ || रोहिताश्व महाभाग हव्यवाडमरोत्तम | धूमध्वज क्रतुद्वार स्वर्गस्य प्रथितः पथि || ११-१५६४ || उत्तिष्ठ होमं हृह्णेमं शान्तिरस्य हयेषु च | स्वाहेति तत्र मन्त्रेण प्रापयेत् प्रथमाहुतिम् || ११-१५६५ || ततः प्रजापतीन्द्राय सोमाय वरुणाय च | विवस्वते कुवेराय सुषेणायाहिशालिने || ११-१५६६ || आदित्येभ्यस्तथाऽश्विम्यां रुद्रेभ्यो वसुभिः सह | विष्णोश्च विश्वदेवानां साध्यानां मरुद्भिः सहः || ११-१५६७ || वासुकिप्रमुखानां च नागानां गरुडस्य च | सर्वासां पौर्णमासीनां तिथीनां चैव सर्वशः || ११-१५६८ || देवीनां नदीनां सागराणां वनस्पतीनाम् | स्वाहाकारेण जुहुयात् तृतीयं च हुताशने || ११-१५६९ || देवानामेव सर्वेषां स्वाहाकारेण होमयेत् | दुर्बलानीह रक्षांसि प्रत्यूषे ब्रह्मतेजसा || ११-१५७० || भवन्ति तस्मात् प्रत्यूषे स्वापयेत् पोषयेद्धयान् | पुरोहितस्तु द्विः कालं तर्पयित्वा द्विजोत्तमम् || ११-१५७१ || पुण्याहं कारयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् | प्. १११२) नटनर्तकगन्धर्वाः सूतचारणमागधाः || ११-१५७२ || तुरगानुपतिष्ठेयुः सप्ताहं शान्तिकारणात् | मनोज्ञान् मधुरान् शब्दान् श्रुत्वा गच्छन्ति व ग्रहाः || ११-१५७३ || वादित्रं वाहनागारे तस्मान्नित्यं प्रयोजयेत् | अतिक्रम्य च सप्ताहमष्टम्यां स्नापयेद्ध्यान् || ११-१५७४ || वरुणाय बलिं दत्वा पश्चात् तोयेऽवगाहयेत् | अष्टम्यामिति द्वितीयामारभ्याष्टमीतिथावित्यर्थः | ग्रन्थान्तरे | तानश्वान् समलङ्कृत्य वाजिशालां प्रवेश्य च || ११-१५७५ || प्रतिमायां चित्रपटे स्थण्डिले मण्डलेऽथ वा | नानोपचारसम्भारैः रेवन्तं देवमर्चयेत् || ११-१५७६ || नमो देवाधिदेवाय तुरङ्गबलचारिणे | सूर्यपुत्राय देवाय तुरङ्गानां हिताय च || ११-१५७७ || तुरङ्गपरिषद्यस्य नृगजोपरि धावति | साश्वमश्वाधिपं रक्ष शरणं त्वां व्रजाम्यहम् || ११-१५७८ || इति पुष्पाञ्जलीं दत्वा रेवन्ताय बलिं हरेत् | तथा | सूर्यपुत्र महावाहो छायाहृदयनन्दन || ११-१५७९ || शान्तिं कुरु तुरङ्गानां रेवन्ताय नमोऽस्तु ते | एवं स्तुत्वाऽथ विधिवदुच्चैःश्रवसमर्चयेत् || ११-१५८० || (ब्रह्मपुराणे) अश्वयुक्शुक्लपक्षे तु स्वातीयोगे सुशोभने | पूर्वमुच्चैःश्रवा नाम प्रथमं सूर्यमावहत् || ११-१५८१ || तस्मात् साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा | प्. १११३) पूजनीयाश्च तुरगा नवमीं यावदेव हि || ११-१५८२ || ग्रन्थान्तरे | उच्चैःश्रवो नमस्तुभ्यं नमः क्षीराब्धिनन्दन | वाहान् वर्धय वाहेन्द्र सर्वोत्पातं विनाशय || ११-१५८३ || एवं स्तुत्वोच्चैःश्रवसं तुरगान् पूजयेत् ततः | नानोपचारैस्तेषां तु कर्णजापमिदं पठेत् || ११-१५८४ || गन्धर्वकुलजातोऽसि मा भूयाः कुलदूषकः | ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च || ११-१५८५ || तेजसा चैव सूर्यस्य मुनीनां तपसा तथा | रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च || ११-१५८६ || प्राभावाच्च हुताशस्य वर्त्तस्व त्वं तुरङ्गम | स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर || ११-१५८७ || सुरासुरैर्मथ्यमानात् क्षीरोदादमृतादिभिः | जात उच्चैःश्रवा पूर्वं तेन जातोऽसि तत् स्मर || ११-१५८८ || यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा | भूम्यर्थे नृतवादी च रणे यस्तु पराङ्मुखः || ११-१५८९ || सूर्याचन्द्रमसौ वायुर्यावत् पश्यन्ति दुष्कृतम् | व्रज त्वं तां गतिं क्षीप्रं तच्च पापं भवेत् ततः || ११-१५९० || विकृतिं यदि गच्छेथा युद्धेऽध्वनि तुरङ्गम | रिपून् विजित्य समरे भर्त्त्रा सह सुखी भव || ११-१५९१ || तुरङ्गम चिरं जीव परशस्त्रैरलक्षितः | सदा मां समरे रक्ष स्वामिकार्यं सदा कुरु || ११-१५९२ || ज्योतिःशास्त्रे | नार्चयेज्जलजैः पुष्पैर्वाहनार्घविधिं प्रति | प्. १११४) सौगन्धिकं विशेषेण तेषां दद्यान्न सर्वदा || ११-१५९३ || ग्रहहोमस्तु कर्त्तव्यो ग्रहाणामर्चनं तथा | अनेन विधिना यस्तु करोति तुरगोत्सवम् || ११-१५९४ || तस्य तुरङ्गनाथस्य न कदा चिद्भयं भवेत् | गजपूजाऽप्युक्ता (ब्रह्मपुराणे) ज्येष्ठायोगे पुरा तत्र गजाश्चाष्टौ महाबलाः || ११-१५९५ || पृथिवीमवहन् पूर्वं सशैलवनकाननाम् | कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः || ११-१५९६ || सुप्रतीकोऽञ्जनो नीलस्तस्मात् ता/स्तत्र पूजयेत् | शाक्रादृक्षात् समारभ्य नवम्यन्तं च पूर्ववत् || ११-१५९७ || गजपुजामन्त्रस्तु | पान्तु वो बसवो रुद्रा आदित्याः समरुद्गणाः | भर्त्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् || ११-१५९८ || अवाप्नुहि जयं युद्धे समये स्वस्ति नो व्रज | श्रीस्तु सोमाद्बलं कृष्णात् तेजः सूर्याज्जवोऽनिलात् || ११-१५९९ || स्थैर्यं मेरोर्जयो रुद्राद्यशो देवात् पुरन्दरात् | युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः || ११-१६०० || अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा | इति ज्योतिःशास्त्रे प्रोक्तः | इति रेवन्तादिपूजाविधिः | अथ शक्तिसङ्गमोक्ताः काम्यविशेषा लिख्यन्ते | नवरात्रव्रतासक्तो नवनाथो भवेद्ध्रुवम् || ११-१६०१ || गौडकाश्मीरद्रविडमार्गेण त्रिविधो भवेत् | अष्टम्यन्तं जपः कार्यस्ततोऽष्टम्यां तु होमयेत् || ११-१६०२ || अर्धरात्रे समायाता पूर्वविद्धाऽपि पार्वति | प्. १११५) साऽष्टमी सर्वकार्याणां कर्त्त्री भवति निश्चितम् || ११-१६०३ || होमपूजादिकं तत्र कुर्याद्यत्नेन पार्वति | द्वितीयदिवसे चेत् सा तदैवोपोषणं चरेत् || ११-१६०४ || तथा | घटिकाः षोडश त्याज्या आद्याः प्रतिपदस्तु याः | कलशस्थापनं कुर्यात् कल्याणं जायते तदा || ११-१६०५ || नवम्यां पारणं कुर्याद्दशम्यां तु विसर्जनम् | काश्मीराख्यं क्रमं देवि शृणु यत्नेन पार्वति || ११-१६०६ || नवरात्रं निराहारो होमोऽष्टम्यां तथा भवेत् | नवम्यां विप्रभोज्यं स्याद्दिग्वेधे पारणं चरेत् || ११-१६०७ || नवरात्रं निराहारो निर्विकल्पं जितेन्द्रियः | अष्टमीनवमीसन्धौ होमकर्म समाचरेत् || ११-१६०८ || नवम्यां विप्रभोज्यं स्याद्दशम्यां पारणं चरेत् | केरलाख्यं क्रमः प्रोक्तो निर्णयं शृणु पार्वति || ११-१६०९ || तिथिक्षये तथा वृद्धौ यथोक्तेन तु वर्त्मना | अष्टमीनवमीप्राप्तौ पूर्ववेधो न दूष्यति || ११-१६१० || अष्टम्यामर्धरात्रे तु यत्किंचित् कुरुते नरः | तत्तदक्षयमायाति नवदुर्गाप्रयोगतः || ११-१६११ || एकोत्तरप्रविद्ध्या वा स्तोत्रं जापादिकं चरेत् | प्रथमेऽह्नि जपो यावत् तावत् कुर्याच्च वा सुधीः || ११-१६१२ || उदयास्तमयं जप्त्वा त्रैलोक्यविजयी भवेत् | नवरात्रव्रते स्त्रीणां मृत्युयोगो भवेद्यदा || ११-१६१३ || सैव देवी न संदेहस्तां पूज्य विजयी कलौ | प्. १११६) ताम्बूलागुरुकस्तूरीदिव्याम्बरविभूषणैः || ११-१६१४ || सूर्योदयं समारभ्य पुनः सुर्योदयान्तरम् | तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् || ११-१६१५ || एकासनगतो भूत्वा नवरात्रं तु शाम्भवीम् | मुद्रामालम्बयेद्देवि नवनाथाधिपो भवेत् || ११-१६१६ || गुहायां मठिकायां वा निर्जने पर्वतेऽपि वा | अधोमुखो वा देवेशि नवरात्रं निरम्बुभुक् || ११-१६१७ || स्वमाच्छाद्य मृदा देवि तत्र संस्थापयेद्घटम् | युवाङ्कुरान् समारोप्य शाम्भवीं मुद्रिकां चरेत् || ११-१६१८ || दृढासनी वाऽशयनी यथोद्दिष्टं समाचरेत् | कापालिकावधूतानां व्रतमेतन्मयेरितम् || ११-१६१९ || शाम्भवी मुद्रा तु (त्रिपुरासारसमुच्चये) अथ पार्ष्णिनिरुद्धकम्बुनिर्ना ध्वजमूलस्थितसव्यपादपार्ष्णिः | ऋजुकायशिरोधरो यतात्मा विषयेभ्यो विनिवर्तितेन्द्रियश्च || ११-१६२० || काकीचञ्च्वग्रकृष्टैर्मुहूरुदरदरीं पूरयित्वा समीरै रङ्गुष्ठाभ्यामुभाभ्यां नररिपुविवरे तर्जनीभ्यां च नेत्रे | नासारन्धं निरुध्य स्थिरविमलमतिर्मध्यमाभ्यामथास्यं त्वन्याभिर्नातिगाढं कमलजनिलये स्थापयेन्मानसंस्वम् इति || ११-१६२१ || तथा (शक्तिसङ्गमे) आज्ञा भवति देवेशि तदैवोपोषणं चरेत् | आज्ञा यदि न जायेत तदा ग्रामाधिपस्य च || ११-१६२२ || देशाधिपस्य विप्रस्य पूजकस्य स्त्रियस्तथा | आज्ञां गृहीत्वा देवेशि वरं प्रार्थ्य सुखी भवेत् || ११-१६२३ || भक्तप्रीता च सा दुर्गा स्वयमाज्ञां प्रयच्छति | प्. १११७) वीरशाक्तविधानेन चण्डदर्पव्रतं चरेत् || ११-१६२४ || जिह्वां संत्रोट्य यत्नेन द्विवेदेषुरसाङ्गुलाम् | जिह्वा सा पुनरायाति तेन सिद्धीश्वरो भवेत् || ११-१६२५ || नवरात्रं समासाद्य महाष्टम्यां निशामुखे | देवीं यत्नेन संपूज्य सङ्कल्पं कामनान्वितम् || ११-१६२६ || शिरःपुष्पं कर्त्तयित्वा पूर्णं मध्यकनिष्ठतः | यन्त्रे देवे निवेद्याथ शिवतुल्यो भवेद्ध्रुवम् || ११-१६२७ || पुनः शिरः समायाति महाचीनवरः स तु | अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ११-१६२८ || नवरात्रं निराहारः श्रद्धाभक्तिसमन्वितः | महाष्टम्यामर्धरात्रे अङ्गुष्ठान्मस्तकावधि || ११-१६२९ || मासं संकर्त्त्य यत्नेन यथोक्तं कुण्डमाचरेत् | होमयेत् तत्र देवेशि देवीप्रत्यक्षतामियात् || ११-१६३० || देवीदेहं भवेत् तद्धि नात्र कार्या विचारणा | अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ११-१६३१ || नवरात्रे निराहारो गुरुभक्तो महाव्रती | कुण्डं पुरुषमात्रं तु कृत्वा तत्र विशङ्कितः || ११-१६३२ || पञ्चपल्लवकाष्ठानां वह्निं तत्र समाचरेत् | अङ्गुष्ठान्मस्तकं यावत् स्वदेहं होमयेद्व्रती || ११-१६३३ || अग्निशययां च वा कृत्वा देवीं पश्यति निश्चितम् | अर्चापरः क्रमेणैव लतागेहप्रवेशनात् || ११-१६३४ || भवेत् कल्पलतातुल्यः साधको नात्र संशयः | अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ११-१६३५ || प्. १११८) नवरात्रं निर्विकल्पो निराहारो दृढव्रतः | यमुद्दिश्य क्रियां कुर्यात् तमेव वशमानयेत् || ११-१६३६ || कामबीजं साध्यनाम वशीकुर्विति चोच्चरेत् | स्वाहामुच्चार्य देवेशि प्रदीप्ते जठरानले || ११-१६३७ || होमयेद्यत्नतो देवि तद्गृहं वशमानयेत् | अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु || ११-१६३८ || नवरात्रं निराहारः सत्यवादी जितेन्द्रियः | सहदेवीरसं गृह्य नवम्यां परमेश्वरि || ११-१६३९ || पूर्वोक्तमनुना देवि पत्राण्यापिण्डमाहरेत् | आजन्मान्तं वशीकुर्यात् तमेव सकुटुम्बकम् || ११-१६४० || अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं मौनयुक्तो वृक्षासनसमन्वितम् || ११-१६४१ || पारणादिवसे प्राप्ते गोमुखं कारयेत् प्रिये | पूर्वोक्तमनुना देवि होमयेज्जठरानले || ११-१६४२ || स्वगेहे तत्त्वरात्रेण तद्गेहे दिवसत्रयात् | आजन्मान्तं वसं कुर्यान्महादेवाधिकं नरम् || ११-१६४३ || अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | नवरात्रं निराहारो गुरुभक्तो महाव्रती || ११-१६४४ || वामाङ्गुष्ठोपरि स्थित्वा वेदरात्रं महेश्वरि | दक्षाङ्गुष्ठोपरि तथा वेदरात्रं महेश्वरि || ११-१६४५ || नवम्यां पारणं कुर्याद्विल्वे पिण्डं प्रदापयेत् | जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा || ११-१६४६ || अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | प्. १११९) नवरात्रं पर्यटन् वैरोचनासनसंयुतः || ११-१६४७ || होमं कुर्यान्महाष्टम्यां नवम्यां पारणं चरेत् | सर्वस्वदानं कृत्वा तु त्रैलोक्यविजयी भवेत् || ११-१६४८ || अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु | गोमूत्राशी महेशानि नवरात्रं महेश्वरि || ११-१६४९ || यं कं चिद्वै जपेन्मन्त्रं नवम्यां होममाचरेत् | नवम्यां पारणं कुर्याद्गोमुखेन महेश्वरि || ११-१६५० || देवतादर्शनं भूयाद्रात्रौ स्वप्ने महेश्वरि | अथवाऽन्यप्रकारेण प्रयोगं शृणु पार्वति || ११-१६५१ || नवरात्रं जितग्रासो मौनव्रतधरः शुचिः | निर्द्वन्द्वो निरहङ्कारः सत्यवादी महामतिः || ११-१६५२ || राजाकर्षणकामश्चेद्राज्ञः सदनदिङ्मुखः | पारणामिच्छया कुर्याद्रात्रिजापी सदा भवेत् || ११-१६५३ || त्रैलोक्यं वशमायाति नात्र कार्या विचारण | अथ दशमीकृत्यम् | तत्रैव | ततो दशम्यां निर्वाह्य स्नातो नित्यक्रियां निजाम् || ११-१६५४ || यावच्छक्त्युपचारैस्तु पूजयेन्न्यासमुज्जहन् | कृताञ्जलिः पठेत् पश्चाद्विसर्जनमनूनिमान् || ११-१६५५ || विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् | पूर्णं भवतु तत्सर्वं त्वत्प्रसादान्महेश्वरि || ११-१६५६ || शक्नुवन्ति न ते पूजां कर्त्तुं ब्रह्मादयः सुराः | अहं किं वा करिष्यामि मृत्युधर्मा नरोऽल्पधीः || ११-१६५७ || न जानेऽहं तेऽम्ब रूपं न शरीरं न वा गुणान् | प्. ११२०) एकामेव हि जानामि भक्तिं त्वच्चरणाब्जयोः || ११-१६५८ || तां भक्तिं हृदि सम्भाव्य शारद्यर्चां प्रगृह्य च | गच्छ देवि निजस्थानं मह्यं दत्वा वरान् बहून् || ११-१६५९ || एतान्मन्त्रान् समुच्चार्य चरलग्ने चरांशके | प्रतिमां पत्रिकां वाऽपि चालयेत् पूजकः शनैः || ११-१६६० || निर्माल्येन ततो देव्याः पूजयेत् कलशोपरि | निर्माल्यवासिनीं देवीं ङेन्तां नमः पदेन हि || ११-१६६१ || प्रदर्श्य योनिमुद्रां च ऐशान्यां दिशि निःक्षिपेत् | निर्माल्यं भगवत्यास्तच्चण्डेश्वर्ये नमो वदन् || ११-१६६२ || मृन्मूर्त्तिं पत्रिकां वाऽपि जलेऽगाधे विनिःक्षिपेत् | स्रोतस्यथो मज्जयित्वा नदीवेगेन हारयेत् || ११-१६६३ || पीठमूर्ती स्वके स्थाने चालयित्वा निवेशयएत् | चालने यन्मनुद्वन्द्वं तदिदानीं निशामय || ११-१६६३ || उत्तिष्ठ देवि चामुण्डे शुभां पूजां प्रगृह्य मे | कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह || ११-१६६४ || गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके | यत् पूजितं मया देवि परिपूर्णं तदस्तु ते || ११-१६६५ || गम्यतामर्थलाभाय क्षेमाय विजयाय च | शत्रोर्दर्पविनाशाय पुनरागमनाय च || ११-१६६६ || व्रजत्वं स्रोतसि जले मद्गेहे तिष्ठ भूतये | आगामिवत्सरे च त्वं पुनरायास्यसि ध्रुवम् || ११-१६६७ || इति देवीं चालयित्वा मनुना कथयिष्यता | महावाद्यरवं कुर्यान्नभोदिक्पूरि सर्वतः || ११-१६६८ || प्. ११२१) तारत्रपारुषश्चैव शाकिनी डाकिनी तथा | चामुण्डे चल युग्मं च चालय द्वितयं तथा || ११-१६६९ || कूर्चास्रानलकान्ताभिर्मनुश्चालनकर्मणि | शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा || ११-१६७० || ढक्काभेरीझर्झरैश्च पणवानकगोमुखैः | तालवादित्रवीणाभिरातोद्यैर्डिण्डिमैरपि || ११-१६७१ || मुरजैर्वेणुभिर्हिड्कैस्तालमानलयान्वितैः | धूलीकर्दमविक्षपैः क्रीडाकौतुकमङ्गलैः || ११-१६७२ || वेशयुग्वेशनिचयैर्विविधैः शावरोत्सवैः | भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः || ११-१६७३ || भगलिङ्गक्रियाशब्दैर्वेशचेष्टाभिरुक्तिभिः | विसर्जनस्यावसरे क्रीडितव्यं निजेच्छया || ११-१६७४ || कार्यं जरद्भिरप्येतद्देवीसन्तोषहेतवे | परैर्वा क्षिप्यते यस्तु यः परान् नाक्षिपत्यपि || ११-१६७५ || तस्य क्रुद्धा भगवती शापं दद्यात् सुदारुणम् | एतत्प्रासङ्गिकीं देव्या उक्तिं समवधारय || ११-१६७६ || ममानन्दे सदानन्दः सदानन्दो भविष्यति | ममानन्दे निरानदो निरानन्दो भविष्यति || ११-१६७७ || यथा यथा ममानन्दे भवत्युन्मत्तवज्जनः | तथा तथाऽहं तुष्यामि तत्कृतार्चासु वल्लभ || ११-१६७८ || ख्यातं मम भगं चिह्नं लिङ्गं चिह्नं तव प्रभो | लिङ्गाङ्कत्वाद्भगाङ्कत्वादियं माहेश्वरी प्रजा || ११-१६७९ || त्वां मां विहाय नैवान्यत् किञ्चित् त्रिभुवनोदरे | प्. ११२२) तस्मान्मत्पूजनस्यान्ते त्वन्मच्चिह्नोक्तिभिर्जनः || ११-१६८० || यः क्रीडति महाभाग स मे मनसि तिष्ठति | अकुर्वाणोऽपि सुरतं भगं भगमिति ब्रुवन् || ११-१६८१ || लिङ्गं लिङ्गमिति प्रोच्य मां तोषयति तत्क्षणात् | रेतःसिक्तं भवेद्यादृक् तादृश्यत्र प्रजायते || ११-१६८२ || भगं त्रिजगतां स्रष्ट्ट को वा निन्दितुमर्हति | इत्यादिवचनैर्देव्या यथेष्टं विहिरेज्जनः || ११-१६८३ || उपस्थयोनिभजनशब्दैस्तत्तत्क्रियान्वितैः | ततो नित्योदकाभ्यासं स्वयमम्भः प्रविश्य च || ११-१६८४ || पत्रिकां मृन्मयीं मूर्तिं तदन्तः स्थापयेच्छनैः | निमज्ज्याम्भसि सम्पूज्य पत्रिकां वर्जितां जले || ११-१६८५ || मया देवि वरान् दत्वा ततो गच्छेन्निजालयम् | इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले || ११-१६८६ || पीठमूर्त्योरिदं कर्म न कार्यं त्रिदशेश्वरि | ततः सर्वैर्जनैः सार्धं जलक्रीडां समाचरेत् || ११-१६८७ || निमज्जनोन्मज्जनैश्च तथा पिञ्जलताम्बुभिः | अन्यैर्जलविहारैश्च क्षणं कौतुकमाचरेत् || ११-१६८८ || प्रदद्याद्दक्षिणां पूजां कारयित्वा स्वभक्तितः | हिरण्यं रजतं धेनुं भूमिं वासांसि मन्दिरम् || ११-१६८९ || यावच्छक्यं च यच्छक्यं दातव्यं दक्षिणां ततः | यानि देव्यै प्रदत्तानि महोपकरणान्यपि || ११-१६९० || विभज्य तानि सर्वेभ्यो दातव्यानीति निश्चयः | पूजाफलान्याह | एवमुक्तप्रकारेण कृत्वा शारदपूजनम् || ११-१६९१ || प्. ११२३) यदाप्नोति फलं देवि तदिदानीं निशामय | सप्तलोकोपरि शिवे वैकुण्ठो लोक उच्यते || ११-१६९२ || तदूर्ध्वं शिवलोको हि गोलोकस्तदनन्तरम् | तस्योपरि प्रियतमे देवीलोको विराजते || ११-१६९३ || योजनानां कोटिशतं विस्तीर्णं तावदायतम् | विभवा वा गुणा यस्य मम वाचामगोचराः || ११-१६९४ || कल्पकोटिशतं साग्रं तत्रायं वसति प्रिये | अव्याहतगतिर्भूत्वा षडानन इवापरः || ११-१६९५ || त्रिलोकीं विचरत्येष द्वितीयो द्विरदाननः | यदीहावतरत्येष कदाचित् कालपर्ययात् || ११-१६९६ || शतसंवत्सरायुः स्यात् समस्तपृथिवीपतिः | तेजसा सूर्यसदृशः कान्त्या चन्द्रमसा समः || ११-१६९७ || कुवेरसन्निभो वित्ते क्षमया क्षमया समः | स्थैर्ये सुमेरुणा तुल्यो गाम्भीर्ये सागरोपमः || ११-१६९८ || विद्यया वाक्पतिसमः सौन्दर्ये मन्मथोपमः | प्रियंवदो विनीतश्च दाताऽमितपराक्रमः || ११-१६९९ || किं बहूक्तेन देवेशि यावन्तो हि गुणाः स्मृताः | तमेकं संश्रयन्ते हि समुद्रं सरितो यथा || ११-१७०० || प्रत्येकमस्या बाहुल्यं वर्त्तते फलसम्भवे | न विस्तरभयाद्वच्मि डामरेषु तदीरितम् || ११-१७०१ || न तादृशं फलं किंञ्चिद्यन्न स्याच्छारदार्चनात् | ततोऽपराजितां संपूज्य यात्रां कुर्यात् | तदुक्तं (निर्णयामृते) पुराणान्तरे | दशम्यां पूजयित्वा तु मृन्मयीं वाऽपराजिताम् || ११-१७०२ || प्. ११२४) कलशं तोयसंपूर्णं जयन्तीपल्लवाननम् | चतुर्वर्णैस्तदा यात्रा कर्त्तव्या साधनेन च || ११-१७०३ || दशम्यां च बली राजा पूजयित्वाऽपराजिताम् | दशदिक्षु मनोयोगाद्यात्रां कृत्वाऽथ वा नृपः || ११-१७०४ || नीराजनं स्वस्य कृत्वा ततो नीराजयेद्बलम् | नीराजनमन्त्रस्तत्रैव | चतुरङ्गबलं मह्यं सुस्थिरत्वं व्रजत्विह || ११-१७०५ || विजयो मम सर्वत्र अस्तु मेऽग्निप्रसादतः- इति || सर्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि इति (कृत्यरत्ने) अपराजितापूजने संक्षिप्तप्रकारस्तु अपराह्णे ईशानोदिशमाश्रित्य सीमानमुल्लङ्घ्य अद्याश्विनशुक्लदशम्यां क्षेमसिद्ध्यर्थमपराजितापूजां करिष्ये इति सङ्कल्प्य कलशेऽष्टदलपद्मयन्त्रमध्ये अपराजितायै नमः इत्यपराजिताम् | तद्दक्षिणे क्रियाशक्त्यै नमः इति जयाम् | वामे उमायै नमः इति विजयां चावाह्य | ओं अपराजितायै नमः | ओं जयायै नमः | ओं विजयायै नमः | इति मन्त्रैः सम्पूज्य प्रणम्य | इमां पूजां मया देवि यथाशक्ति निवेदितम् | रक्षार्थं तु समादाय व्रज स्वस्थानमुत्तमम् इति विसर्जयेत् || (महाकालसंहितायाम्) अथ नीराजनं राजाऽपराह्णे विदधीत वै || ११-१७०६ || विचित्रवेशवसनः सह स्वजनबान्धवैः | चूडामणि परिस्फूर्यत्कीरीटकुण्डलोज्ज्वलः || ११-१७०७ || लसत्प्रालम्बिको मुक्तामाली कटकमण्डितः | प्. ११२५) केयूरी शृङ्खली तद्वदङ्गुलीयकभूषितः || ११-१७०८ || उष्णषी बद्धनिस्त्रिंशश्चर्चितो मलयद्रवैः | चन्द्रकुङ्कुमकस्तूरीविलेपनसुवासितः || ११-१७०९ || नानाविषयजानश्वान् भूषाभिः परिबृंहयेत् | गान्धरजानुत्तरजान् पारसीकोद्भवानपि || ११-१७१० || काम्बोजवानायुभवान् वाल्हीकमणिमन्थजान् | युक्ता/स्तदीयभूषाभिः कुथाभिरुपशोभितान् || ११-१७११ || एवमेव गजेन्द्रा/श्च कुथघण्टाङ्कुशोज्ज्वलान् | कलिङ्गजङ्गलभवा/श्चेदितैलङ्गसम्भवान् || ११-१७१२ || एवं रथानपि व्यूहे तदुपस्करसंयुतान् | पदाती/श्च भटा/श्चापि नानाप्रहरणान्वितान् || ११-१७१३ || कोदण्डशरनिस्त्रिंशशूलपट्टीशतोमरान् | गदापरिघचक्रर्ष्टिभुशुण्डीपाशकौरजान् || ११-१७१४ || भिन्दिपालहुताशक्तिपर्शुकुन्ताहिमुद्गरान् | खट्वाङ्गवज्रमुशलपाशायोगुडकर्त्तरीः || ११-१७१५ || शतघ्नोशल्यकुद्दालक्रकचच्छुरिकास्तथा | एतान्यन्यानि चास्त्राणि दधतः स्फुरितौजसः || ११-१७१६ || चतुरङ्गबलं चेत्थं कृत्वाऽग्रेसरमीश्वरि | नानाविधैर्वाहनैश्च पौरजानपदानपि || ११-१७१७ || वादित्राणि च सर्वाणि वादयित्वा विशेषतः | महाकोलाहलं कृत्वा समराभिप्रयाणवत् || ११-१७१८ || जय जीवेति निनदैः स्तूयमानो महीपतिः | विनिर्गच्छेत् पुरात् स्वीयादनुकूलां दिशं प्रति || ११-१७१९ || प्. ११२६) ब्राह्मणानग्रतः कृत्वा ताम्बूलं चर्वयन्मुहुः | नटान् मल्लान् वन्दिनश्च शिल्पिनो गणिकास्तथा || ११-१७२० || दैवज्ञान् वणिजो दूतानन्यान् वै देशिकानपि | विलोकयन् हृष्टमना एतेभ्यः पारितोषिकम् || ११-१७२१ || ददन्नुत्साहसंयुक्तो विजिगीषुरिव व्रजेत् | एतन्नीराजनं नाम घटनाया बलास्त्रयोः || ११-१७२२ || अथ खञ्जनादिदर्शनविधिस्तत्रैव | एतत् कृत्व महीपालो भूषितस्तेन चान्वितः | खञ्जनं सारसं चाषं प्रयत्नेन विलोकयेत् || ११-१७२३ || अनूपकच्छगोष्ठानगोविडम्बुरुहादिषु | स्थितो रुवन् विधुन्वानः पक्षती खञ्जनः शुभः || ११-१७२४ || मङ्गल्यं खञ्जनं दृष्ट्वा मध्यस्थाने मनोरमे | शुभं स्यादशुभं ज्ञेयं विपरीतेन संशयः || ११-१७२५ || वृक्षेषु गोषु गजवाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु | भस्मास्थिकाष्ठतुषलोमतृणेषु दृष्टो ऽरिष्टं ददाति बहुशः खलु खञ्जरीटः || ११-१७२६ || तस्मिन् निधिर्भवति मैथुनमेति यस्मिन् यस्मिन् पुनर्वसति तत्र दिशन्ति काचम् | अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य तत् कौतुकाय च शुभाय च खञ्जरीटः || ११-१७२७ || दृष्ट्वा तु खञ्जनं राजा प्रणमेद्विहिताञ्जलिः | इमं मन्त्रं समुच्चार्य श्लोकरूपं वरानने || ११-१७२८ || खञ्जनः खञ्जरीटश्च शङ्खमौलिः शुभप्रदः | प्. ११२७) महापद्मो नीलगलश्चपलाङ्गो हरिद्विजः || ११-१७२९ || यः खञ्जरीटं प्रणमेदेभिर्नामभिरष्टभिः | जायते मङ्गलं तस्य सतो गेहे यतः पथि || ११-१७३० || नारायणशरीरोत्थ संवत्सरशुभप्रद | शालग्रामशिलाकण्ठ खञ्जरीट नमोऽस्तु ते || ११-१७३१ || वासुदेवस्वरूपेण सर्वकामफलप्रद | पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते || ११-१७३२ || त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि हिमोद्गमेन | त्वं दृश्यसे प्रावृषि निर्गतायां त्वं खञ्जनाश्चर्यमयो नमस्ते || ११-१७३३ || अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् | शान्तिं कुर्वीत कुर्याच्च स्नानं सर्वौषधीजलैः || ११-१७३४ || अयं खगस्तु विज्ञेयो विष्णुरूपी सुरेश्वरि | संसूचयति वर्षोत्थं मङ्गलामङ्गलद्वयम् || ११-१७३५ || देवीरूपस्तु विज्ञेयः सारसः पक्षिराडपि | तं दृष्ट्वा तोयतर्वद्रिसदूर्वोर्वीतलेषु हि || ११-१७३६ || प्रणमेच्छुभदं केशगमस्थिगमभद्रदम् | तथा कुर्वाण आहारं चञ्च्वा कण्डुं तनावपि || ११-१७३७ || तिष्ठन् कुलाये शावाय ददद्वा भोजनं शुभम् | सारसः सरसीवासः पुष्करः पुष्करालयः || ११-१७३८ || विघ्नापहर्त्ता पक्षीन्द्रो देवीरूपो महाबलः | विघ्नं नाशय पक्षीन्द्र शुभं देहि महाबल || ११-१७३९ || पुष्कराब्दफलं ब्रूहि जहि शत्रून् महाबल | पठित्वेदं पद्ययुगं प्रणमेत् सारसं बुधः || ११-१७४० || प्. ११२८) विपरीते तथैतस्य पूर्ववच्छान्तिकं चरेत् | अथ चाषं निरीक्ष्यापि महारुद्रस्वरूपिणम् || ११-१७४१ || पूर्वोदितेषु स्थानेषु प्रणमेन्मङ्गलप्रदम् | अन्यत्राशुभदातारं विहगं शिवरूपिणम् || ११-१७४२ || अशोकश्च विशोकश्च नन्दीशः पुष्टिवर्धनः | ताम्रचूडो मणिग्रीवः स्वस्तिकश्चापराजितः || ११-१७४४ || अष्टावेतानि नामानि चाषं दृष्ट्वा तु यः पठेत् | अग्रतो धनलाभाय पार्श्वतो विजयाय च || ११-१७४५ || पृष्ठतः क्षेमवित्ताभ्यां दिव्य चाष नमोऽस्तु ते | अशोकाय नमस्तुभ्यं सर्वाभीष्टप्रदाय च || ११-१७४६ || नीलकण्ठाय भद्राय भद्ररूपाय ते नमः | भद्रत्वं देहि मे भद्रमाशां पूरय पूरक || ११-१७४७ || स्वस्तिकोऽसि कुरु स्वस्ति त्वं मां नन्दीश नन्दय | अशोक कुर्वशोकं मां पुष्पत्वं पुष्टिवर्धन || ११-१७४८ || एवं चाषं नमस्कृत्य प्रणमेच्च शमीतरुम् | अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च || ११-१७४९ || दुःस्वप्नशमनीं धन्यां प्रपद्येऽहं शमीं शुभाम् | शमी शमयते पापं शमी लोहितकण्टका || ११-१७५० || धारिण्यर्जुनबाणानां रामस्य प्रियवादिनि | करिष्यमाणयात्राया यथाकालं सुखं मया || ११-१७५१ || तत्र निर्विघ्नकर्त्त्री त्वं भव श्रीरामपूजिते | इति संप्रार्थ्य मूलस्थां गृहीत्वा पीतमृत्तिकाम् || ११-१७५२ || प्. ११२९) प्रदक्षिणीकृत्य तथा समीवृक्षं महीपतिः | नियुद्धं प्रेक्ष्य मल्लानां भटानां शस्त्रलाघवम् || ११-१७५३ || भरतानां प्रेषणं च धावनं गजवाजिनाम् | अस्तं गते दिनमणौ दीपिकाशतसंवृतः || ११-१७५४ || प्रविशेन्नगरं राजा कोलाहलपुरःसरम् | अनेन विधिना यस्तु कुरुते शारदं महम् || ११-१७५५ || तस्य देवी सदा तुष्टा सदा नैव विमुञ्चति | फलं यच्छारदार्चाया वक्तुं तत् केन शक्यते || ११-१७५६ || ईदृशेव च वासन्ती पूजा कार्या मधौ सिते || ११-१७५६एf || इति दुर्गोत्सवविधिः | बिभ्रत्यद्भुतभूतिभूतपवचोवैवित्र्यचित्रामृत स्रोतःशालिनि सन्निबन्धसरितसंभेदमभ्यर्हितम् | सन्मुक्तोपमयुक्तिशालिनि तरङ्गः प्रारदेकादशो विज्ञश्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे || ११-१७५७ || इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्याणवे दुर्गामन्त्रपुरश्चरणदुर्गोत्सवविधिर्नामैकादशस्तरङ्गः || ११ || अथ ब्रह्माण्यादिमन्त्रास्तत्पुरश्चरणविशेषाश्च निरूप्यन्ते | (मेरुतन्त्रे) मुनय ऊचुः | देवदेव महादेव भक्तानुग्रहकारक | ब्राह्म्याद्यष्टौ भास्करस्य रथे तिष्ठन्ति शक्तयः || १२-१ || रणे मृतानां योगेन मृतानां सहगामिनाम् | स्वर्गं याश्च प्रयच्छन्ति तन्मनून् ब्रूहि शङ्कर || १२-२ || शिव उवाच ब्रह्मशक्तिस्तु शक्तीनां नायिका परिकीर्तिता | योगिनां मुक्तिदत्री सा भोगिनां भोगदा मता || १२-३ || ब्रामित्येकाक्षरं बीजं मुनिर्वास्पतिर्मतः | गायत्री छन्द उद्दिष्टं बः शक्तिः कीलकं वचः || १२-४ || अथ ध्यानम् ध्यायेद्ब्राह्मीं पलास्थां हंसारूढां चतुर्भुजाम् | अक्षमालावराभीतिकमण्डलुकरारुणाम् || १२-५ || बीजेनैव षडङ्गानि इति | अस्य पुरश्चरणं तत्रैव | लक्षमेकं जपेन्मन्त्रं पलाशसमिधैर्हुनेत् | तत्पुष्पयुक्तसलिलैस्तर्पयेन्मार्जयेत् कुशैः || १२-६ || अथ माहेश्वरीमन्त्रः | अथातः संप्रवक्ष्यामि सम्यङ्माहेश्वरीविधिम् | प्. ११३१) ओं ह्री/ नमो भगवति माहेश्वर्यै हि संवदेत् || १२-७ || परमे पदमुच्चार्येश्वर्यै स्वाहान्तको मनुः | तारादिरेकविंशार्णोऽश्वारुढा तत्परं मतम् || १२-८ || ध्यानम् | वृषारूढां भालचन्द्रां त्रिनेत्रां शशिसन्निभाम् | दधतीं शूलडमरुमहाहिवलयां भजे || १२-९ || अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं विल्वपत्रैर्घृतप्लुतैः | जुहुयात् तद्दशांशेन महदैश्वर्यवान् भवेत् || १२-१० || अथ कौमारीमन्त्रः | अथातः संप्रवक्ष्यामि कौमार्या विधिमुत्तमम् | क्रौ/ कौमार्यै नम इति षडर्णो मन्त्र ईरितः || १२-११ || मुनिर्ब्रह्मा च गायत्री छन्दः कौमारिका भवेत् | देवता कौमिदं बीजं कौमार्यै शक्तिरुच्यते || १२-१२ || मन्त्रवर्णैः षडङ्गानि हृदि ध्यायेच्च देवताम् | ध्यानं यथा | शक्त्यक्षस्रग्वराभीतिकरां बन्धूकसन्निभाम् || १२-१३ || मयूरध्वजिनीं रक्तवस्त्रामौदुम्बरस्थिताम् | हरित्कञ्चुकिकां रम्यां नानालङ्कारभूषिताम् || १२-१४ || अथ पुरश्चरणम् | लक्षषट्कं जपः प्रोक्तः पञ्चखाद्यैस्तथा हुनेत् | मधुरत्रयसंयुक्तः सिद्धमन्त्रस्तदा भवेत् || १२-१५ || तर्पणं मार्जनं कृत्वा कुमारीणां च भोजनम् | अथ वैष्णवीमन्त्रः | अथातः संप्रवक्ष्यामि वैष्णवीमन्त्रमद्भुतम् || १२-१६ || प्. ११३२) अकचटतपयशा वैष्णव्या मन्त्र ईरितः | अष्टाक्षरो मनुश्चास्य नारदोऽनुष्टुवुच्यते || १२-१७ || छन्दस्तु वैष्णवी देवी न्यासः प्रणवपूर्वकः | मूलमन्त्राक्षरैः कुर्यात् त्रिभिस्त्रिभिरनुक्रमात् || १२-१८ || एकैकं च जपेत् पश्चादङ्गानि षडनुक्रमात् | अथ ध्यानम् | शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीम् || १२-१९ || लसत्काञ्चनसम्भूतकुण्डलोज्ज्वलशालिनीम् | स्वर्णरत्नसमुन्नद्धकिरीटसूत्रधारिणीम् || १२-२० || कृष्णशुक्लारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् | बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् || १२-२१ || कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् | चतुर्भुजां सुवसनां पीनोन्नतपयोधराम् || १२-२२ || दक्षिणाभ्यां कराभ्यां तु खड्गं च जपमालिकाम् | बिभ्रतीं वामहस्तभ्यामभयं च वरं तथा || १२-२३ || अनल्पनागनासोरुं गुप्तगुल्फां सुपार्ष्णिकाम् | गात्रेण रत्नस्तम्भं च सम्यगालम्ब्य संस्थिताम् || १२-२४ || किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः | पञ्चाननं पुरः संस्थं निरीक्षन्तीं स्ववाहनम् || १२-२५ || ईदृशीं चण्डिकां ध्यायेदिति शेषः | अथ पुरश्चरणम् | लक्षद्वयं जपेदस्य पुरश्चरणकर्मसु | दशांशं होममाज्येन कर्त्तव्यं तर्पणादिकम् || १२-२६ || अथ मन्त्रान्तरं तत्रैव | ओं नमोऽन्ते च वैष्णव्यै मन्त्रः प्रोक्तः षडक्षरः | प्. ११३३) मन्त्रार्णैरत्र चाङ्गानि शेषं पूर्ववदाचरेत् || १२-२७ || अथापराजितावैष्णवीमन्त्रस्तत्रैव | अथातः संप्रवक्ष्यामि वैष्णवीमपराजिताम् | तारमाकर्षिणिपदमावेशिनि ततो वदेत् || १२-२८ || ज्वालामालिनि रमणि रामणि धरणीति च | धरणि तपनीत्युक्त्वा तापिनि मनोन्मादिनि || १२-२९ || शोषिणीति पदं प्रोच्य ततः संमोहिनीति च | तथा नीलपताके च महानीले महाप्रिये || १२-३० || महाग्नेयि महाचण्डे महारौद्रि महेति च | वज्रिणीति तथाऽदित्यरश्मिजाह्नवि संवदेत् || १२-३१ || यमघण्टे किलिकिलिचिन्तामणिपदं वदेत् | सुरभिसुरोत्पन्ने च सरस्वतिपदं ततः || १२-३२ || सर्वकामदुघे प्रोच्य यथा मम मनीषितम् | कार्यं तन्मे सिध्यत्विति स्वाहान्तोऽयं मनुर्मतः || १२-३३ || षड्द्वादशार्णो मुन्यादिः प्राग्वत् सौख्यप्रदो मनुः | जपेद्वर्णशतं होमादिकं पूर्ववदाचरेत् || १२-३४ || अथ वाराहीमन्त्रः | अथ वार्त्तालिकां वक्ष्ये वाराहीं शत्रुघातिनीम् | ऐ/ लौ/ ठ/ ठ/ ठमिति हु/ स्वाहान्तोऽष्टाक्षरो मनुः || १२-३५ || छन्दोऽनुष्टुप् च कपिलो मुनिर्वार्त्तालिका सुरी | वाराह्यत्र षडङ्गानि क्रमाद्द्विभ्विन्दुभूभूभिः || १२-३६ || द्वाभ्यां ध्यायेत् ततो देवीं विद्युद्भासां कराम्बुजैः | दधानामङ्कुशं पाशं मुद्गरं शक्तिमेव च || १२-३७ || विद्युद्भासां त्रिनेत्रां च नाशयन्तीं तथा रिपून् | प्. ११३४) अथ पुरश्चरणम् | वसुलक्षं जपित्वाऽन्ते विल्वपत्रैर्हयारिजैः || १२-३८ || धात्रीफलैर्भृङ्गराजैः कुशैश्चापि दशांशतः | होमः कार्यस्तर्पणादि कुर्याद्ब्राह्मणभोजनम् || १२-३९ || एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति | अथ श्यामलामन्त्रः | अथातः संप्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् || १२-४० || ओं ऐ/ ग्लौ/ ऐ/ नमः प्रोच्य ततो भगवतीति च | वार्तालिवाराहियुगं वाराहमुखिवाभवम् || १२-४१ || ग्लौ/ अन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि | नमो भञ्जे भञ्जिनीति नमो मोहेति मोहिनि || १२-४२ || नमस्तम्भे स्तम्भिनीति नम ऐ/ ग्लौ/ च वाग्भवम् | सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् || १२-४३ || चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरुद्वयम् | शीघ्रं वश्यं कुरु कुरु ऐ/ ग्लौ/ ऐ/ ठचतुष्टयम् || १२-४४ || हू/ फट् स्वाहेति मन्त्रोऽयं वेदरुद्राक्षरः स्मृतः | मुनिः शिवोऽस्य जगती छन्दो वार्तालिका सुरी || १२-४५ || वाराह्यस्य षडङ्गानि वार्त्ताली हृदयं स्मृतम् | वाराह्यस्य शिरः प्रोक्तं शिखा वाराहमुख्यपि || १२-४६ || अन्धे अन्धिनि वर्मोक्तं रुन्धे रुन्धिनि नेत्रकम् | भञ्जे भञ्जिनि चास्त्रं स्यात् ततो ध्यायेच्च चण्डिकाम् || १२-४७ || अथ ध्यानम् | रक्ताब्जकर्णिकायां तु शवासनसमास्थिताम् | मुण्डमालालसत्कण्ठां नीलाभां दधतीं करैः || १२-४८ || प्. ११३५) अभयं मुशलं चापि हलं चापि वरं तथा | वाराहास्यां तुङ्गकुचां त्रिनेत्रामरुणाम्बराम् || १२-४९ || अथ पुरश्चरणम् | जपेन्मन्त्रं सहस्राणि बन्धूककुसुमैस्तिलैः | जुहुयात् ----------------------------------------- इति || अथ स्वप्नवाराहीमन्त्रः | अथातः संप्रवक्ष्यामि वाराहीं स्वप्नसंज्ञिकाम् || १२-५० || ओं ह्री/ नमश्च वाराहीघोरे स्वप्नं विसर्गयुक् | ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः || १२-५१ || ईश्वरोऽस्य मुनिः प्रोक्तो जगती छन्द ईरितम् | देवता स्वप्नवाराही बीजं तारः प्रकीर्त्तितः || १२-५२ || हृल्लेखा शक्तिरुद्दिष्टा ठद्वयं कीलकं मतम् | अथ ध्यानम् | ततो ध्यायेद्घनश्यामां त्रिनेत्रामुन्नतस्तनीम् || १२-५३ || कोलास्यां चन्द्रभालां च दंष्ट्रोद्धृतवसुन्धराम् | खड्गाङ्कुशौ दक्षिणयोर्वामयोश्चर्मपाशकौ || १२-५४ || अश्वारूढां च कोलास्यां नानालङ्कारभूषिताम् | अथ पुरश्चरणम् | लक्षं जपेद्दशांशेन नीलपद्मैस्तिलैर्हुनेत् || १२-५५ || अथेन्द्राणीमन्त्रः | अथातः संप्रवक्ष्यामि इन्द्राणीं नष्टराज्यदाम् | इन्द्राणीं नम इति मन्त्रः प्रोक्तः षडक्षरः || १२-५६ || गुरुर्मुनिश्च गायत्री छन्दो देवीन्द्रवल्लभा | इ/ बीजं शक्तिरिन्द्रणीं नमः कीलकमुच्यते || १२-५७ || अथ ध्यानम् | वज्रपाशवराभीतिहस्ता श्यामाम्बरावृता | प्. ११३६) चतुर्दन्तगजाकल्पच्छायासंस्था हिरण्यभा || १२-५८ || अथ पुरश्चरणम् | लक्षषट्कं जपेन्मन्त्रं मालतीकुसुमैर्हुनेत् | त्रिमध्वक्तैस्तावदेव राज्यार्थं राजवृक्षकैः || १२-५९ || अथ चामुण्डामन्त्रस्तन्त्रान्तरे | मायाबीजं समुच्चार्य चामुण्डा ङेयुता पुनः | नमोऽन्तो नगवर्णोऽयं मन्त्रः सर्वार्थसाधकः || १२-६० || शिवो मुनिश्च गायत्री छन्दोऽमुष्य च देवता | चामुण्डा मन्त्रवर्णैश्च द्विरावृत्त्या षडङ्गकम् || १२-६१ || अथ ध्यानम् | नीलोत्पलदलश्यामचतुर्बाहुसमन्विता | खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे || १२-६२ || वामे चर्म व पाशं च ऊर्ध्वतो भावतः पुनः | दधती मुण्डमालां च व्याघ्रचर्माम्बराधरा || १२-६३ || कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घाऽतिभीषणा | लोलजिह्वा निम्नरक्तनयनाकारभीषणा || १२-६४ || कबन्धवाहनासीना विस्तारिश्रवणानना | अथ पुरश्चरणम् | वर्णलक्षं जपेन्मन्त्रं दशांशं मधुरप्लुतैः || १२-६५ || पायसैर्जुहुयान्मन्त्री ततः सिद्धो भवेन्मनुः | अथ महालक्ष्मीमन्त्रस्तत्रैव | मायाबीजं समुद्धृत्य स्वबीजं च समुद्धरेत् || १२-६६ || ततो ङेन्ता महालक्ष्मीर्नमोऽन्तोऽष्टाक्षरो मनुः | मुनिरस्य शिवः प्रोक्तो गायत्री छन्द ईरितम् || १२-६७ || देवता तु महालक्ष्मीर्मन्त्रवर्णैः षडङ्गकम् | प्. ११३७) अथ ध्यानम् | सुवर्णवर्णदीप्ताङ्गी त्रिनेत्रा सिंहवाहिनी || १२-६८ || ईषत्प्रहसिता देवी नीलोत्पलदलेक्षणा | भुजषोडशसम्पन्ना सर्वालङ्कारभूषिता || १२-६९ || खड्गं घण्टां शरं सूत्रमङ्कुशं शूलपद्मकम् | दधाना दक्षिणैर्हस्तैरनाथेभ्यो वरप्रदा || १२-७० || तथा वामैर्हस्तपद्मैः खेटकं डिण्डिमं धनुः | कमण्डलुं नागपाशं कपालं पुस्तकाभयम् || १२-७१ || जाज्वल्यमाना तेजोभिरतीवाह्लादकारिणी | अथ पुरश्चरणम् | लक्षमेकं जपेन्मन्त्रं दशांशं मधुरप्लुतैः || १२-७२ || विदध्यात् पायसैर्होममेवं सिद्धो भवेन्मनुः | इत्यष्टमातृकाप्रकरणम् | अथ गोरक्षनाथमन्त्रः | (कल्पद्रुमतन्त्रे) गर्ग उवाच | अथ मन्त्रं प्रवक्ष्यामि शृणु त्वं यदुनन्दन || १२-७३ || जपन्ति साधका वीरास्तन्मन्त्रान् श्रद्धयाऽन्विताः | शीघ्रं भवति सिद्धिर्वै साधकानां शिवाज्ञया || १२-७४ || तथा | गोरक्षस्य मनुं जप्त्वा योगीन्द्रो भविता नरः | विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते || १२-७५ || गोरक्षस्य प्रसादेन सर्वकार्याणि साधयेत् | मन्त्रा यथा | ओं ह्री/ श्री/ हु/ फट् स्वाहा | प्. ११३८) ओं ह्री/ श्री/ गो/ गोरक्ष हु/ फट् स्वाहा | ओं ह्री/ श्री/ गो/ गोरक्ष हु/ हु/ निरञ्जनात्मने हू/ फट् स्वाहा | ओं श्री/ गो/ ह्री/ ह/ हा/ गोरक्षनाथाय निरञ्जनात्मने ह/ स/ फट् हसः | इति चत्वारो मन्त्राः | अथ गायत्री | ओं ह्री/ श्री/ गो/ गोबीजाय विद्महे गोरक्षाय धीमहि तन्नो निरञ्जनः प्रचोदयात् | अथ ऋष्यादिनासः | गोरक्षनाथमन्त्रस्य बृहदारण्यको मुनिः || १२-७६ || छन्दोऽनुष्टुब्देवता च नाथो गोरक्षसंज्ञकः | कराङ्गन्यासस्तु | ओं ह्री/ श्री/ गो/ गोरक्षनाथाय अङ्गष्ठाभ्यां नमः- इत्यादि | अथ ध्यानम् | शुद्धस्फटिकसंकाशो जटाजूटी त्रिलोचनः || १२-७७ || निरञ्जनो निराकारो निर्विकल्पो निरामयः | अथ पुरश्चरणम् | लक्षं शताधिकं जप्त्वा साधकः शुद्धमानसः || १२-७८ || साधयेत् सर्वकार्याणि नात्र कार्या विचारणा | धारयेद्यो नरो नित्यं मन्त्रमेनं विशेषतः || १२-७९ || स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः | अथ शीतलामन्त्रो (मेरुतन्त्रे) अथ वक्ष्ये महेशस्य वस्त्रप्रक्षालिका तु या || १२-८० || शीतलेति च विख्याता मसूर्या चिपिटेश्वरी | प्. ११३९) तारो माया रमा शीतलायै हृच्च नवाक्षरः || १२-८१ || (यामले तु) | माया श्रीशीतला ङेन्ता हृदन्तोऽष्टाक्षरो मनुः - इत्युक्तम् | (मेरौ) उपमन्युर्मुनिश्छन्दो बृहती शीतला सुरी | षड्दीर्घयुक्त्रपालक्ष्मीबीजाभ्यां स्यात् षडङ्गकम् || १२-८२ || अथ ध्यानं (यामलादौ) नमामि शीतलां देवीं रासभस्थां दिगम्बराम् | मार्जनीकलशोपतां सूर्पालङ्कृतमस्तकाम् || १२-८३ || (मेरौ) ध्यायेच्च शीतलां देवीं रासभस्थां दिगम्बराम् | मार्जनीसूर्पहस्तां च रक्तपुष्पहिमार्चिताम् || १२-८४ || तैलादिमलसंयुक्तवस्त्रपोटलिशीर्षकाम् | त्रिकोणान्तर्यजेद्देवीं कोद्रवां च मसूरिकाम् || १२-८५ || शराविकां च कोणेषु भूपुरे त्वष्टभैरवान् | अथ पुरश्चरणम् | अयुतं प्रजपेन्मन्त्रं पायसेन दशांशतः || १२-८६ || हुत्वा कृत्वा तर्पणादि मन्त्रसिद्धिः प्रजायते | नाभिमात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् || १२-८७ || तेन संमार्जितास्तीव्राः स्फोटा नश्यन्ति तत्क्षणात् | साधितो येन मन्त्रोऽयं तस्य वंशे न शीतला || १२-८८ || तेनाभिमन्त्रितं भस्म यद्गेहे तत्र सा न हि | एतत्पुरुषस्यापि मन्त्रस्तत्रैवोक्तः | अथातः संप्रवक्ष्यामि भर्त्तुरस्याः परं मनुम् || १२-८९ || प्. ११४०) तारः प्रासादबीजं य/ व/ व्योमव्यापिने द्विठः | एकादशार्णमन्त्रोऽयं न्यासध्यानार्चनादिकम् || १२-९० || प्रासादमन्त्रवज्ज्ञेयमर्धलक्षं पुरस्कृतिः | दशांशं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् || १२-९१ || इति शीतलाप्रकरणम् | अथोक्तदेवतानां पूजायन्त्राणि प्रदर्श्यन्ते | तत्रादौ विघ्नराजयन्त्रं (मेरुतन्त्रे) श्रीपर्ण्यादिकृते पीठे रचयेत् कुङ्कुमादिना | चतुर्द्वारयुतं कुर्याच्चतुरस्रत्रयं शुभम् || १२-९२ || तन्मध्येऽष्टदलं कार्यं पूजापीठं गणेशितुः | अथ लक्ष्मीगणेशयन्त्रं तत्रैव | अष्टपत्राम्बुजद्वन्द्वं कर्णिकाकेशरोज्ज्वलम् || १२-९३ || चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् | शक्तिगणेशक्षिप्रसादहरेम्बहरिद्रा गणेशयन्त्रं विघ्नराजयन्त्रवत् | अथ महागणपतियन्त्रं तत्रैव | धर्मादिकॢप्ते पूर्वोक्ते तीव्रादिनवशक्तिके || १२-९४ || पूजायन्त्रं गणेशस्य मातृकापद्म उच्यते | चतुर्द्वारसमायुक्तं चतुरस्रत्रायवृतम् || १२-९५ || तत्कर्णिकायां षट्कोणं तदन्तश्च त्रिकोणकम् | विरञ्चिगणनायकयन्त्रं विघ्नराजयन्त्रवत् | वक्रतुण्डयन्त्रं लक्ष्मीगणेशयन्त्रवत् | एवमग्रिमयोरपि विघ्नराजसमानम् | अथ सूर्ययन्त्रं (सौरपद्धतौ) लिखेदष्टदलं पद्मं तद्बाह्येऽष्टदलं लिखेत् || १२-९६ || चतुरस्रं ततो बाह्ये सूर्ययन्त्रमिदं स्मृतम् | प्. ११४१) (महाक्रमार्चनपद्धतौ तु) मध्येऽष्टदलपद्मं च अष्टशृङ्गं ततः परम् || १२-९७ || द्वादशारं च कमलं वेदास्रद्वारमेव हि- इत्युक्तम् | क्वचित् तु चतुरस्रावृतमष्टदलमात्रमुक्तम् | अन्यत्र तु द्वादशदलपद्ममुक्तम् | अथ विष्णुयन्त्रं तत्रैव | अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरोज्ज्वलम् | चतुरस्रावृतं बाह्ये पूजापीठं मधुद्विषः || १२-९८ || अथ मत्स्ययन्त्रम् | षट्पत्रं विलिखेत् पद्मं तद्बाह्ये च चतुर्दलम् | सप्तपत्रं तु तद्बाह्ये तद्बाह्येऽष्टदलं लिखेत् || १२-९९ || ततश्चतुर्दशदलं तद्बहिः षोडशच्छदम् | वसुच्छदं तु तद्बाह्ये चतुरस्रं ततो बहिः || १२-१०० || कूर्मयन्त्रं तु भूपुरावृतमष्टदलपद्ममेव | अथ वराहयन्त्रं (प्रपञ्चसारे) अष्टपत्रमथ पद्ममुल्लसत्कर्णिकं विधिवदारचयय च | मण्डलं रविसहस्रसन्निभं शूकरं यजत तत्र सिद्धये || १२-१०१ || अथ नृसिंहयन्त्रम् (विष्वक्सेनसंहितायाम्) अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरान्वितम् | तद्बाह्येऽष्टदलं लेख्यं तद्बाह्येऽपि वसुच्छदम् || १२-१०२ || चतुरस्रं ततो बाह्ये यन्त्रं श्रीनारसिंहकम् | अन्यत्र तु पूर्वोक्तविष्णुयन्त्रमेव श्रीनृसिंहयन्त्रमुक्तम् | अथ वामनयन्त्रम् | षड्दलं पद्ममालिख्य तद्बाह्ये षोडशच्छदम् || १२-१०३ || तद्बहिर्वसुपत्रं च तद्बाह्ये द्वादशच्छदम् | अष्टपत्रं ततो बाह्ये तद्बहिर्भूपुरत्रयम् || १२-१०४ || प्. ११४२) अथ परशुरामयन्त्रम् | आदौ चतुर्दलं पद्मं तद्बाह्येऽष्टदलं लिखेत् | अष्टपत्रं ततो बाह्ये तद्बहिर्दशपत्रकम् || १२-१०५ || तद्बहिर्द्वादशारं च षोडशारं च तद्बहिः | तद्बहिर्भूपुरद्वन्द्वं चतुर्द्वारोपशोभितम् || १२-१०६ || अथ रघुनाथयन्त्रम् | अष्टपत्रं लिखेत् पद्मं षट्कोणोज्ज्वलकर्णिकम् | पुनरष्टदलं बाह्ये लिखेद्वृत्तत्रयाद्बहिः || १२-१०७ || तद्बहिर्द्वादशदलं तद्बाह्ये षोडशच्छदम् | दन्तपत्रं च तद्बाह्ये भूपुरत्रितयावृतम् || १२-१०८ || अत्र केचित् | देहात्मनोर्यथा भेदो मन्त्रदैवतयोस्तथा | तस्मात् पीठे महामन्त्रं लिखित्वा तत्र पूजयेत्- इति || वशिष्ठवचनादस्मिन् सपर्यायन्त्रेऽपि साधारणयन्त्रोक्तमन्त्रवर्णान् यथास्थानं लिखित्वा श्रीरामः पूज्य इति वदन्ति | धारणयत्रे मन्त्रलिखिनप्रकारस्तु (रामतापिन्या-) मुक्तः | यथा | त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् || १२-१०९ || तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् | द्वितीयान्तं च तस्योर्ध्वे षष्ठ्यन्तं साधकं तथा || १२-११० || कुरुद्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् | तत्सर्वं प्रणवाभ्यां च वेष्टयेद्बुद्धिः- ऋद्धिमान् || १२-१११ || दीर्घभाजि षडस्रेषु लिखेद्बीजं हृदादिभिः | कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् || १२-११२ || क्रोधं कोणाग्रान्तरेषु लिखेन्मन्त्र्यभितो गिरम् | प्. ११४३) वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत् स्वरान् || १२-११३ || केशरे चाष्टपत्रे च वगस्तिकमथो लिखेत् | तेषु मालामनोर्वर्णान् विलिखेर्दूर्मि-(४५)संख्यया || १२-११४ || अन्ते पञ्चाक्षरानेवं पुनरष्टदलं लिखेत् | तेषु नारायणाष्टार्णं लिखेत् तत्केशरे रमाम् || १२-११५ || तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् | तथोन्नमो भगवते वासुदेवायेत्यव्ययम् || १२-११६ || आदिक्षान्तान् केशरेषु वृत्ताकारेण संलिखेत् | तद्बहिः षोडशदलं लिखेत् तत्केशरे ह्रियम् || १२-११७ || वर्मास्त्ररतिसंयुक्तं दलेषु द्वादशाक्षरम् | तत्सन्धिश्रीरजादीनां मन्त्रान् मन्त्री समालिखेत् || १२-११८ || हृ/ सृ/ भृ/ वृ/ ऌ/ षृ/ जृ/ च लिखेत् सम्यगतो बहिः | द्वादशारे महापद्मं नादविन्दुसमायुतम् || १२-११९ || विलिखेन्मन्त्रराजार्णं तेषु पत्रेषु यत्नतः | ध्यायेदष्ट वसूनेकादश रुद्रा/स्तथैव च || १२-१२० || द्वादशेना/श्च धातारं वषट्कारं ततो बहिः | भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् || १२-१२१ || द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् | एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च || १२-१२२ || नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा | कूटरेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः || १२-१२३ || यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि | प्. ११४४) अन्त्यार्घीशवियद्विन्दुनादैर्बीजं च शौकरम् || १२-१२४ || हू/कारं चात्र रामस्य मालामन्त्रोऽधुनेरितः | तारो नतिश्च निद्रायाः स्मृतिर्वेदश्च कामिका || १२-१२५ || रुद्रेण सहिता वह्निमेधामरविभूषिताः | दीर्घा क्रूरयुताह्लादिन्यथो दीर्घा समानदा || १२-१२६ || क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया | युक्ता दीर्घा ज्वालिनी च ससूक्ष्मा मृत्युरूपिणी || १२-१२७ || सप्रतिष्ठाऽह्लादिनी त्वक् क्ष्वेडं प्रीतिश्च सामरा | ज्योतिस्तीक्ष्णाऽग्निसंयुक्ता श्वेताऽनुस्वारसंयुता || १२-१२८ || कामिका पञ्चमोलान्ता स्तान्तान्तो धान्त इत्यथ | ससानन्तो दीर्घयुक्तो वायुः सूक्ष्मयुतो विषा || १२-१२९ || कामिका कामिका रुद्रयुक्ताऽथोपिस्थिराससे | तापिनी दीर्घयुक्ता भूरनीलोऽनन्तगोऽनलः || १२-१३० || नारायणात्मकः कालः प्राणोऽम्भो विद्यया युतम् | पीता रतिस्तथा लान्तो युक्तो योन्या तथा नतिः || १२-१३१ || सप्तचत्वारिंशदर्णो गुणान्तस्त्वगुणः स्वयम् | अयं राज्याभिषिक्तस्य रामस्योक्तक्रमाल्लिखेत् || १२-१३२ || इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् | सेवकानां मोक्षकरमायुरारोग्यवर्धनम् || १२-१३३ || अपुत्राणां पुत्रदं च बहुना किमनेन वै | प्राप्नुवन्ति क्षणात् सम्यगत्र धर्मादिकानपि || १२-१३४ || इदं रहस्यं परममीश्वरेणापि दुर्गमम् | इदं यन्त्रं समाख्यातं न देयं प्रकृते जने || १२-१३५ || प्. ११४५) श्रीकृष्णबलरामयोर्यन्त्रं तु पूर्वाक्तविष्णुयन्त्रमेव | बुद्धयन्त्रं तु भूपुरावृतद्वात्रिंशद्दलं पद्मम् | एवं ध्यात्वा यजेत् पद्मे द्वात्रिंशत्पत्रसंमिते | इति (मेरुतन्त्र-) वचनात् | विष्णुयन्त्रमेव कल्कियन्त्रम् | हयग्रीवादियन्त्रमपि विष्णुयन्त्रमेव | गोपालसुन्दरीयन्त्रं श्रीचक्रं तच्चाग्रे वक्ष्यते | अथ शिवयन्त्रं (प्रपञ्चसारे) अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् || १२-१३६ || मण्डलं प्रतिविधाय शूलिनः पीठमन्त्रनवशक्तिभिर्यजेत् | क्वचित् तु भूपुरत्रयावृताष्टदलपद्मत्रयात्मकं शैवयन्त्रमुक्तम् | कर्णिकाकेशरभ्राजद्वसुपत्रत्रयं लिखेत् || १२-१३७ || चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् - इति || (सिद्धान्तसंग्रहे) भूपुरत्रयमध्ये तु लिखेदष्टदलत्रयम् | केशरानाद्यपत्रेषु मध्ये विन्दुं प्रकल्पयेत् || १२-१३८ || अथ दक्षिणामूर्तियन्त्रं (मेरुतन्त्रे) पद्मत्रयसमोपेते भूगृहत्रितयान्विते | चतुर्द्वारयुते----------------------------इति || अथ पाशुपतास्त्रमन्त्रयन्त्रं तत्रैव | पद्ममष्टदलं कृत्वा कर्णिकाकेशरान्वितम् || १२-१३९ || चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् | अथ वटुकयन्त्रं तत्रैव | शैवे पीठे यजेद्देवमन्तर्व्योमाष्टपत्रकम् || १२-१४० || ऊर्ध्वत्रिकोणषट्कोणमष्टपत्रं गृहावृतम् | प्. ११४६) अथ क्षेत्रपालयन्त्रं तत्रैव | शैवे पीठे यजेदष्टपत्रे दिक्स्वरभूषिते || १२-१४१ || अथ भवानीयन्त्रं तन्त्रान्तरे | आदौ त्रिकोणमालिख्य तद्बाह्येऽष्टदलाम्बुजम् | भूपुरं चापि तद्बाह्ये भवानीमन्त्र पूजयेत् || १२-१४२ || एतदेव त्रिकोण शून्यं यन्त्रान्तरम् | गरुडयन्त्रं तु वक्ष्यमाणमातृकायन्त्रमेव | पूजयेन्मातृकापद्मे गरुडं वेदविग्रहम् - इति (मेरुतन्त्र-) वचनात् | कार्त्तवीर्ययन्त्रं तु पूर्वोक्तविष्णुयन्त्रमेव | काम्यपूजायां तु विशेष उक्तो (मेरुतन्त्रे) अथातो दक्षिणे मार्गे वक्ष्यते काम्यपूजनम् | शुद्धभूमावष्टगन्धैर्लिखेद्यन्त्रं तदुच्यते || १२-१४३ || लिखेद्दशदलं पद्मे कर्णिकायां समालिखेत् | प्लौ/ क्लीमोमैश्च पत्रेषु प्रणवाद्यानि संलिखेत् || १२-१४४ || मन्त्रस्य नवबीजानि ततो यन्त्रान्तरेषु च | फडादिदशवर्णा/श्च मन्त्रस्यैव समालिखेत् || १२-१४५ || शषसहान् स्वरा/श्चापि केशरेषु द्विशो लिखेत् | वेष्टयेत् कादिभिर्वर्णैः शषसहविवर्जितैः || १२-१४६ || तद्बाह्ये चतुरस्रं तु वेष्टयेद्भूतवर्णिकैः | कामनाभेदतस्तानि वायवग्निक्ष्मा जलं नभः || १२-१४७ || पञ्च ह्रस्वाः पञ्च दीर्घा एकाराद्याश्च पञ्च च | पञ्चवर्णा पञ्च याद्याः षक्षराश्च सहौ क्रमात् || १२-१४८ || स्तम्भने पार्थिवैराप्यैः शान्तौ वश्ये च तैजसैः | उच्चाटने वायवीयैर्विद्वेर्षे चापि नाभसैः || १२-१४९ || प्. ११४७) मारणे तैजसैः शान्तौ चाप्यैः पुष्टौ च पार्थिवैः | अस्मिन् यन्त्रे तोयपूर्णघटे भूपं प्रपूजयेत् || १२-१५० || कुम्भं स्पृष्ट्वा जपेन्मन्त्रं सहस्रं तेन सेचयेत् | सम्यक् साध्यं तदा स स्यात् पुत्रवान् रोगवर्जितः || १२-१५१ || यशस्वी दीर्घजीवी च सत्कलत्रोऽनुरञ्जकः | वाक्सिद्धश्चापि तेजस्वी प्रतापी विजितेन्द्रियः || १२-१५३ || शत्रूपद्रवमापन्नो ग्रामे वा मण्डपे पुरे | संस्थापयेदिदं यन्त्रमरिभीतिनिवृत्तये || १२-१५४ || अथ वक्ष्ये वामगानां यन्त्रभेदं शृणुष्व तत् | लिखेदष्टदलं पद्मं ससाध्यं फ्रो/ च मध्यतः || १२-१५५ || यौ/ यैमाद्यन्तयोस्तस्य लिखेत् पत्रेषु च क्रमात् | मन्त्रबीजाष्टकं चान्ते दले लेख्यं पुनश्च फट् || १२-१५६ || पत्रान्तरे शेषवर्णानन्ते वर्णद्वयं लिखेत् | द्विशः स्वरान् केशरेषु द्विधोष्मार्णसमन्वितान् || १२-१५७ || वृत्तद्वयं च तद्बाह्ये तयोर्वीथ्यां च कादिकान् | उष्मोना/श्चतुरस्रं तु वज्राष्टकसमन्वितम् || १२-१५८ || तद्बाह्ये विलिखेत् तत्र पूर्ववद्भूतवर्णिकान् | स्नानार्थं घटमानीयमन्यत् पूर्ववदीरितम् || १२-१५९ || अथ हनुमद्यन्त्रं तन्त्रान्तरे | अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरोज्ज्वलम् | भूपुरं च ततो बाह्ये लिखित्वा तत्र पूजयेत् || १२-१६० || अथ स्मरयन्त्रं तत्रैव | यन्त्रं लिखेत् ततो विद्वान् वसुपत्राम्बुजं शुभम् | तद्बहिः षोडशदलं चतुरस्रेण संयुतम् || १२-१६१ || प्. ११४८) अथ मातृकायन्त्रं (शारदायाम्) व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्कशरं यन्त्रान्तर्गतपञ्चवर्गयशलार्णादित्रिवर्गं क्रमात् | आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं पद्मं कल्पितमत्र पूजयत तां वर्णात्मिकां देवताम् || १२-१६२ || व्योम हकरः | इन्दुः सकारः | औ इति स्वरूपम् | रसनार्णो विसर्गः | तेन ह्सौरिति | आशास्वित्यादि | आशासु दिक्षु | अस्रिषु कोणेषु | लान्तो वकारः | लाङ्गली ठकारः | तथा चतुर्दिक्षु वकारयुक्तेषु कोणेषु ठकार युक्तेनेत्यर्थः | शेषं स्पष्टम् | भूतलिपियन्त्रं तु अष्टदलोपरि षोडशदलं तदुपरि चतुर्द्वारयुक्तं चतुरस्रमिति (शारदा-)टीकायामुक्तम् | अथ श्यामासपर्यायन्त्रं (कालीतन्त्रे) आदौ त्रिकोणं विन्यस्य त्रिकोणं च बहिर्न्यसेत् | ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् || १२-१६३ || ततो वृत्तं समालिख्य लिखेदष्टदलं ततः | वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् || १२-१६४ || यन्त्रान्तरमुक्तं (कुमारीकल्पे) आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् | बहिस्त्रिकोणमालिख्य षट्कोणं च बहिर्न्यसेत् || १२-१६५ || मध्ये तु वैन्दवं चक्रं बीजेनापि विभूषितम् | षट्कोणात् तु बहिः पद्मं भूपुरैकेण संयुतम् || १२-१६६ || ज्ञात्वैवं मुक्तिमाप्नोति यन्त्रमेतन्न संशयः | पद्ममष्टदलं | भूपुरं च चतुर्द्वारयुक्तम् | तदुक्तं (भैरवतन्त्रे) शक्त्यग्निभ्यां च षट्कोणं तत्र शक्तित्रयं लिखेत् | पद्ममष्टदलं भूमिपूश्चतुर्द्वारसंयुतम् || १२-१६७ || प्. ११४९) शक्त्यग्निभ्यामिति | शक्तिरधोमुखत्रिकोणम् | अग्निरूर्ध्वमुखं त्रिकोम् | ताभ्यां षट्कोणे सिद्धे तन्मध्ये वाऽधोमुखत्रिकोणत्रयं लिखेदित्यर्थः | तथा | स्वर्णादिरचिते पात्रे रक्तचन्दनचर्चिते | स्वयम्भुकुसुमाक्ते वा रक्ताक्ते चान्यथा शुचि || १२-१६८ || रक्तचन्दनलेखन्याऽथ वा स्वर्णशलाकया | रक्तचन्दनचर्चिते पशुना स्वयम्भुकुसुमाद्यक्ते वीरेण यन्त्रं लेखनीयमित्यर्थः | (कुमारीकल्पे) एतत् तु विलिखेत् ताम्रे कुण्डगोलविलेपिते || १२-१६९ || स्वयम्भुकुसुमैर्युक्ते कुङ्कुमारुणसेविते | (स्वतन्त्रतन्त्रे) स्वयम्भुकुसुमं कुण्डगोलोत्थं रोचनाऽगुरुः || १२-१७० || काश्मीरमृगनाभी च मद्यं मलयजोद्भवम् | एष गन्धः समाख्यातः सर्वदा चण्डिकाप्रियः || १२-१७१ || एतेन गन्धयोगेन योनिचक्रक्रमं लिखेत् | (मुण्डमालायाम्) ताम्रपात्रे कपाले वा श्मशाने काष्ठनिर्मिते || १२-१७२ || शनिभौमदिने वाऽपि वीरमृतकसम्भवे | स्वर्णे रौप्ये तथा लौहे चक्रमर्च्यं विधानतः || १२-१७३ || अत्रापि कपालादिविधेवीरेपरत्वं वेदितव्यम् | अथ गुह्यकालीयन्त्रं (महाकालसंहितायाम्) सविन्दुत्र्यारपञ्चारविभिन्ननवकोणयुक् | वृत्तयोरन्तरेऽष्टारयुतं तदनु भाविनि || १२-१७४ || वस्वर्कभूपच्छदनाम्भोजवृत्तान्वितं ततः | अष्टाशनिसमायुक्तमन्तर्बहिरथापि च || १२-१७५ || अष्टशूलाष्टमुण्डाढ्यं वह्निज्वालायुतेन हि | प्. ११५०) श्मशानेनावृतं शेषे शोणितोदेन वेष्टितम् || १२-१७६ || यन्त्रराजमिदं देवि पूजनाय प्रकल्पितम् | भरतश्च्यवनश्चापि हारीतश्च जवालकः || १२-१७७ || दक्षश्चैते जनाः पञ्च पूजयन्त्यमुनाऽम्बिकाम् | विन्दुः पञ्चारषट्कोणत्रिकोणनवकोणगः || १२-१७८ || अष्टारवृत्तसहितषोडशच्छदपद्मयुक् | पुनर्वृत्तान्वितः शेषे पूर्ववत् सकलं प्रिये || १२-१७९ || पूज्योऽयं रामयक्षेशनाहुषाणां वरानने | अथ कामकलायन्त्रं तत्रैव | यन्त्रमस्याः प्रवक्ष्यामि तत्र धेहि मनः प्रिये || १२-१८० || भूपुरे वसुपत्राढ्ये पद्ममष्टदलान्वितम् | केशराणि प्रकल्प्यानि तदन्तश्चापि कर्णिकाम् || १२-१८१ || कर्णिकान्तस्त्रिकोणस्य त्रितयं पृथगेव हि | बहिस्त्रिकोणकोणेषु लिखेद्बीजत्रयं शुभम् || १२-१८२ || मायाबीजं तु वामे स्यात् क्रोधबीजं तु दक्षिणे | अधः पाशं विनिर्दिश्य कन्दर्पार्णं तु मध्यतः || १२-१८३ || तदन्तःस्थायिनी देवी तत्र सर्वं प्रतिष्ठितम् | एतद्यन्त्रं महादेवि सर्वकामफलप्रदम् || १२-१८४ || एतस्य सर्वयन्त्राणि कलां नार्हन्ति षोडशीम् | अथ श्मशानकालीयन्त्रं (स्वतन्त्रतन्त्रे) पद्मं चाष्टदलं वृत्तं तद्बाह्येऽष्टकवर्गकम् || १२-१८५ || धरण्यां विलिखेदाद्यं चतुष्कं च चतुष्ककम् | पर्वादि उतरान्तं च मध्ये देवीं प्रपूजयेत् || १२-१८० || प्. ११५१) अथ सिद्धिलक्ष्मीयन्त्रं कालानलतन्त्रे | यन्त्रोद्धारमहं वक्ष्ये सिद्धिलक्ष्म्या द्विज शृणु | चतुरस्रं चतुर्द्वारं वृत्तत्रयेण वेष्टितम् || १२-१८१ || अष्टारं च रविदलं पुनरष्टदलं लिखेत् | षट्कोणमध्ये कोणं च तत्र विन्दुं विचिन्तयेत् || १२-१८२ || अथ तारायन्त्रं (फेरवीये) अष्टपत्रं लिखेत् पद्मं त्रिकोणोज्ज्वलकर्णिकम् | मायां पूर्वदले न्यस्य याम्ये बीजं द्वितीयकम् || १२-१८३ || तथोत्तरे पश्चिमे च फट्कारं विलिखेत् ततः | मध्ये बीजं लिखित्वा इति || (फेत्कारिणीतन्त्रे) सयोनि गोमयेनाष्टपत्रमब्जं सुशोभनम् || १२-१८४ || भूपुरं वसुवज्राढ्यं यन्त्रमेकजटात्मकम् | (मेरुतन्त्रे) ततस्तां पूजयेत् पीठे पद्मे षट्कोणकर्णिके || १२-१८५ || धरागृहावृते पीठमादावर्च्यं सशक्तिकम् || १२-१८५एf || एतयोर्भूपुरमधिकमुक्तम् | तथा त्रिकोणषट्कोणयोर्विकल्पः (नीलतन्त्रे) व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केशरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् | ताराधीश्वरवारिवर्णविलसद्दिक्कोणसंशोभितं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || १२-१८६ || इदं च नीलसरस्वतीयन्त्रं नीलतनोरित्यभिधानात् | (फेत्कारिणीतन्त्रो-)क्तयन्त्रमेकजटायाः | (फेरवीयमेरुतन्त्रोक्तं) च ताराया इति सम्प्रदायविदः | प्. ११५२) केचित् तु व्योमेन्दावित्यादिना धारणयन्त्रमुक्तम् | पूर्वोक्तानि यन्त्राणि तारैकजटानीलसरस्वतीसाधारणानीति वदन्ति | (मत्स्यसूक्ते) अनुक्तकल्पे यन्त्रं तु लिखेत् पद्मं दलाष्टकम् | षट्कोणकर्णिकं वृत्तं वेदद्वारोपशोभितम् || १२-१८७ || अथ श्रीयन्त्रं (यामले) विन्दुत्रिकोणवसुकोणदशारयुग्मं मन्वस्रनागदलसंयुतषोडशारम् | वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रराजमुदितं परदेवतायाः || १२-१८८ || अस्मिन् यन्त्रे केशरा न कर्त्तव्याः | योऽस्मिन् यन्त्रे महेशानि केशराणि प्रकल्पयेत् | योगिनीसहितास्तस्य हिंसां कुर्वन्ति भैरवाः || १२-१८९ || इति (भूतभैरवोक्तेः) एतद्दर्शनफलमुक्तं (यामले) सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् | तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् || १२-१९० || महाषोडशदानादि कृत्वा यल्लभते फलम् | तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् || १२-१९१ || सार्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते | लभते तत् फलं भक्त्या कृत्वा श्रीचक्रदर्शनम् || १२-१९२ || अथ पूजाफलम् | कोटिलिङ्गप्रतिष्ठायां यत् फलं समुदाहृतम् | तत्फलं लभते नूनं श्रीचक्रस्य च पूजनात् || १२-१९३ || अथ दानफलम् | श्रीचक्रं कारयित्वा तु यो दद्यात् साधकाय च | प्. ११५३) भूचक्रं तेन दत्तं हि सशैलवनसागरम् || १२-१९४ || अथैतत्पादोदकमाहात्म्यम् | गङ्गापुष्करनर्मदासयमुनागोदावरीगोमती गङ्गाद्वारगयाप्रयागवदरीवाराणसीसिन्धुषु | रेवासेतुसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरे तीर्थस्नानसहस्रकोटिगुणितं श्रीचक्रपादोदकम् || १२-१९५ || अथैतच्चक्रोद्धारप्रकारस्तन्त्रान्तरोक्तः प्रदर्श्यते | वृत्तं कृत्वेष्टमानेन मध्ये सूत्रं तु पातयेत् | पूर्वपश्चिमलग्नाग्रं द्विचत्वरिंशवद्भवेत् || १२-१९६ || पूर्वदिग्भागतः कार्या रेखा दोषापनुपत्तये | त्यक्त्वा षड्भागमाद्या स्याद्रेखा याम्योत्तराश्रिता || १२-१९७ || पञ्चभागा/स्ततस्त्यक्त्वा द्वितीयाऽपि तथा भवेत् | ततो भागचतुष्कोण दूरतस्त्रितया भवेत् || १२-१९८ || ततो भागत्रयं त्यक्त्वा रेखा स्यात् तु चतुर्थिका | भागद्वयं ततस्त्यक्त्वा रेखा कार्याऽथ पञ्चमी || १२-१९९ || ततो भागचतुष्केण षष्ठी रेखा तथा भवेत् | सप्तमी स्यात् त्रिभिर्भागैश्चतुर्भागैस्तथाऽष्टमी || १२-२०० || नवमी पञ्चभिर्भागैरेवं रेखा विधाय तु | अन्तरं वृत्ततः षद्भिरंशैराद्यन्तरेखयोः || १२-२०१ || सूर्यादिग्रहनामानि नवानां धारयेत् क्रमात् | पार्श्वद्वयेऽपि कर्त्तव्यं रेखाग्राणां विमार्जनम् || १२-२०२ || अग्रयोरुभयोर्लुप्येत् सूर्ये भागत्रयं त्रयम् | पञ्चभागान् प्रलुप्येत द्वितीया पार्श्वयोर्द्वयोः || १२-२०३ || मार्जनं च भवेदेवमग्रयोः शनिभौमयोः | प्. ११५४) बुधरेखाग्रयोर्लुप्याद्भागान् षोडश यत्नतः || १२-२०४ || अष्टादश विलुप्येत भागान् गुर्वग्रयोर्द्वयोः | षोडशोभयतो लुप्येद्भागान् भृग्वग्रयोस्तथा || १२-२०५ || राहुकेत्वोः क्रमेण स्यादष्टषड्भागमार्जनम् | सूर्याग्रे चुम्बतः शुक्रे मध्यं सोमाग्रके पुनः || १२-२०६ || चुम्बतः केतुमध्यं तु भौमाग्रे वृत्तचुम्बके | बुधाग्रे राहुमध्यं तु चुम्बतस्तद्वदेव हि || १२-२०७ || चुम्बतः शनिमध्यं तु अग्रभागौ बृहस्पतेः | पूर्वस्यां वृत्तमध्यं चुम्बतोऽग्रे शनेरपि || १२-२०८ || राह्वग्रे सूर्यमध्यं तु चुम्बतस्तद्वदेव हि | केत्वग्रे चुम्बतो भौमं भृग्वग्रे सोमचुम्बके || १२-२०९ || एवं चक्रं लिखित्वा तु भवेदतिमनोरमम् इति | बालायन्त्रं तु वक्ष्यमाणत्रिपुरभैरवीयन्त्रवत् | (त्रिपुरासारसमुच्चये) यन्त्रान्तरमुक्तम् | त्रिकोणं विलिख्यानु वृत्तं दलानां ततः पञ्चकं तद्बहिश्चापि वृत्तम् | पुनः षड्दलं बाह्यतश्चापि वृत्तं लिखेदष्टपत्राणि तद्बाह्यतोऽपि || १२-२१० || अथ भुवनेश्वरीयन्त्रम् (शारदायाम्) पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्दलैः | विलिखेत् कर्णिकामध्ये षट्कोणमतिसुन्दरम् || १२-२११ || चतुरस्रं चतुर्द्वारमेव मण्डलमालिखेत् | अथ त्रिपुरभैरवीयन्त्रं (शारदायाम्) पद्ममष्टदलोपेतं नवयोन्याढ्यकर्णिकम् || १२-२१२ || प्. ११५५) चतुर्द्वारसमायुक्तं भूगृहं विलिखेत् ततः | अथ चैतन्यभैरवीयन्त्रं (ज्ञानार्णवे) त्रिकोणं चैव षट्कोणं वसुपत्रं वरानने || १२-२१३ || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् | भुवनेश्वरीभैरवीकमलेश्वरभैरव्योरपि तदेव यन्त्रम् | सम्पत्प्रदाभैरवीयन्त्रं त्रिपुरभैरवीयन्त्रवत् | कामेश्वरभैरवीयन्त्रं चैतन्यभरवीयन्त्रवत् | अथ षट्कूटाभैरवीयन्त्रं (ज्ञानार्णवे) यन्त्रमस्या वरारोहे त्रिकोणं संपुटं लिखेत् || १२-२१४ || बहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् | चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || १२-२१५ || अथ रुद्रभरवीयन्त्रं तत्रैव | त्रिकोणं चैव वृत्तं च वृत्ताष्टदलपङ्कजम् | वृत्तं भूमण्डलं च इति || अथ छिन्नमस्तायन्त्रं (यामले) त्रिकोणं विन्यसेदादौ तन्मध्ये मण्डलत्रयम् || १२-२१६ || तन्मध्ये विलिखेद्योनिं द्वारत्रयसमन्वितम् | बहिरष्टदलं पद्मं भूविम्बत्रितयं पुनः || १२-२१७ || कूर्मबीजं लिखेन्मध्ये त्रिकोणे हसमन्वितम् | (तन्त्रान्तरे) अथोच्यते यन्त्रराजं वैरोचन्या महेश्वरि || १२-२१८ || षट्कोणं प्रथमं लेख्यं मध्यदेशे त्रिकोणकम् | सूर्यविम्बं ततो दद्याच्चतुरस्रं ततः परम् || १२-२१९ || भूगोलं च ततो दद्याच्चतुरस्रं ततः परम् | अष्टपत्रं ततो दद्याद्यथास्थानं च देशिकः || १२-२२० || चन्द्रबिम्बं ततो दद्याद्वह्निविम्बं ततः परम् | प्. ११५६) भूगोलं च ततो दद्याद्भूपुरत्रितयं ततः || १२-२२१ || वज्रशूलसमायुक्तं कोणे टङ्कं नियोजयेत् | किञ्जल्के केशरे दद्यान्मत्रवर्णा/स्त्रिकोणके || १२-२२२ || इति कामोपरि ध्यायेद्देवीं वैरोचनीं शुभाम् | (तन्त्रान्तरे) भैरवोक्तमहं वक्ष्ये यन्त्रं सर्वसमृद्धिदम् || १२-२२३ || त्रिकोणं प्रथमं लेख्यं षट्कोणैर्वेष्टयेच्च तत् | त्रिविम्बं च ततो दद्याद्गुणानां परिणामकम् || १२-२२४ || भूपुरत्रितयं कुर्याद्वज्रशूलसमन्वितम् | कोणदेशे ततो दद्याट्टङ्कास्त्रं सुमनोहरम् || १२-२२५ || यथास्थाने लिखेद्धीमान् कर्त्तृखर्परकं शुभम् | रतिकामोपरि ध्यायेद्देवीं वैरोचनीं शुभाम् || १२-२२६ || (मेरुतन्त्रे) त्रिकोणं रसकोणं वाऽष्टदलं भूपुरं ततः | अथ धूमावतीयन्त्रं तन्त्रान्तरे | लिखेदष्टदलं पद्मं भूपुरेण च वेष्टितम् || १२-२२७ || अथ वगलामुखीयन्त्रं (मेरुतन्त्रे) सौवर्णे वाऽथ वा रौप्ये पैत्तले वाऽथ भूर्जके | कर्पूरागुरुकस्तूरीश्रीखण्डकुङ्कुमैरपि || १२-२२८ || लिखेद्यन्त्रं प्रयत्नेन लेखन्या हेमतारयोः | मध्ये योनिं समालेख्य तद्बाह्ये तु षडस्रकम् || १२-२२९ || तद्बाह्येऽष्तदलं पद्मं तद्बाह्ये षोडशच्छदम् | चतुरस्रत्रयं बाह्ये चतुर्द्वारोपशोभितम् || १२-२३० || अथ मातङ्गीयन्त्रं तन्त्रान्तरे | षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोरमम् | प्. ११५७) एतस्मिन् पूजयेत् पीठे नवशक्तीः क्रमादिमाः || १२-२३१ || अथ यन्त्रान्तरं (मेरुतत्रे) त्रिकोणं पञ्चकोणं च बहिरष्टदलद्वयम् | षोडशारं चाष्टदलं भूपुत्रितयं लिखेत् || १२-२३२ || एतद्द्वयमप्युच्छिष्टचाण्डालिन्याः | राजमातङ्गीयन्त्रं तु तद्ध्यानात् प्रागेवोक्तम् | वश्यमातङ्ग्यादिभेदानामपि तदेव यन्त्रमाकलनीयम् | अथ सुमुखीयन्त्रम् | त्रिकोणं पञ्चकोणं च वृत्तमष्टदलावृतम् | चतुरस्रं च तद्बाह्ये सुमुखीयन्त्रमीरितम् || १२-२३३ || अथ लक्ष्मीयन्त्रं (मेरुतन्त्रे) धर्मादिकल्पिते पीठे भूपुरद्वारशोभिते | दलादष्टके केशराख्ये कर्णिकायां यजेदिमाम् || १२-२३४ || भूपुरावेष्टितमष्टदलपद्मत्रयात्मकं यन्त्रमन्यत्रोक्तम् | अथ सरस्वतीयन्त्रं तन्त्रान्तरे | पद्ममष्टदले लेख्यं चतुरस्रावृतं शुभम् | यन्त्रमेतद्वरारोहे वाग्देव्याः परिकीर्त्तितम् || १२-२३५ || त्वरिताया नित्यक्लिन्नायाश्च यन्त्रं पूर्वोक्तभुवनेश्वरीयन्त्रवत् | अथान्नपूर्णायन्त्रं (मेरुतन्त्रे) त्रिकोणं च चतुःपत्रं वसुपत्रं ततः परम् | कलापत्रं च भूविम्बं चतुरस्रत्रयावृतम् || १२-२३६ || प्रत्यङ्गिरायन्त्रमन्नपूर्णायन्त्रवत् | अथ कुब्जिकायन्त्रम् | विन्दुत्रिकोणषट्कोणमष्टपत्रं सकेशरम् | श्रीमत्कुब्जेश्वरीयन्त्रं सद्वारं भूपुरत्रयम् || १२-२३७ || तन्त्रान्तरे | विन्दुत्रिकोणषट्कोणमष्टपत्राम्बुजं तथा | समातृबीजाष्टदलमष्टशृङ्गं सभूपुरम् || १२-२३८ || प्. ११५८) गङ्गायन्त्रं तु सरस्वतीयन्त्रवत् | भूपुरावृतषडस्रं वाग्मतीयन्त्रम् | अष्टदलकमलद्वयात्मकं चन्द्रयन्त्रम् | अथ भौमयन्त्रं (मेरुतन्त्रे) त्रिकोणं पूर्वमुद्धृत्य पञ्चधा विभजेत् ततः | तृतीयरेखां चिह्नाभ्यां लाञ्छयेत् समभागतः || १२-२३९ || आद्यरेखाग्रयुगलं तृतीयाचिह्नयोर्न्यसेत् | द्वितीयाग्रे समाकृष्य तृतीयाचिह्नयोर्न्यसेन् || १२-२४० || युता रेखा तृतीया तु समा भाज्या समं ततः | तुर्या चिह्नद्वयेनाथ त्रिभिश्चिह्नैश्च पञ्चमी || १२-२४१ || तृतीयाग्रे प्रकुर्वीत पञ्चम्या मध्यचिह्नजे | तुर्याग्रे योजयेत् सम्यक् पञ्चम्या चिह्नयोर्द्वयोः || १२-२४२ || अथ मीनद्वये दद्यात् सूत्रयुग्मं विचक्षणः | एवमेकाधिका सम्यक् कोष्ठानां विंशतिर्भवेत् || १२-२४३ || बुधादीनां यन्त्रं तु भूपुरावृताष्टदलकमलम् | तेषां यन्त्रान्तराणि विस्तरभयान्न लिख्यन्ते | पिङ्गलादिग्रहमातृयन्त्रं तु त्रिकोणपञ्चकोणाष्टदलभूपुररूपम् | षड्दलाद्बहिरष्टदलमिन्द्रयन्त्रम् | अग्नियन्त्रमपि तदेव | अष्टदलमात्रमग्नेर्यन्त्रान्तरम् | यमयन्त्रमिन्द्रयन्त्रवत् | नैर्-ऋतयन्त्रं तु पञ्चकोणगर्भाष्टदलपद्मम् | षड्दलाद्बहिरष्टदलवरुणयन्त्रम् | षड्दलाद्बहिरष्टदलत्रयं वायुयन्त्रम् | कुवेरयन्त्रमष्टदलमात्रम् | ईशानयन्त्रं शिवयन्त्रवत् | ब्रह्मयन्त्रं तु दशदलपद्मम् | विष्णुयन्त्रमेवानन्तयन्त्रम् | षट्कोणकर्णिकषोडशदलपद्मं ब्राह्मीयन्त्रम् | पञ्चकोणगर्भाष्टदलकमलं कौमारीयन्त्रम् | वैष्णवीयन्त्रमष्टदलपद्मम् | तदेव वाराहीयन्त्रमपि | मालामन्त्रं तु यन्त्रान्तरमुक्तं (मेरुतन्त्रे) योनिपञ्चास्रषट्कोणाष्टपत्रशतपत्रकम् | सहस्रदलभूविम्बसंवीतं द्वारशोभितम् || १२-२४४ || कैलाशाचलमध्यस्थं पीठमेतद्विचिन्तयेत् | त्रिकोणषोडशदलाष्टदलदशदलद्वयात्मकं स्वप्नवाराहीयन्त्रं तत्रैवोक्तम् | षट्कोणगर्भाष्टदलपद्ममैन्द्रीचामुण्डामहालक्ष्मीयन्त्रम् | प्. ११५९) नवदुर्गात्मकचामुण्डामन्त्रयन्त्रं तु तत्रान्तरे | एतन्मन्त्रावृतत्र्यस्रषट्कोणाष्टदलं लिखेत् || १२-२४५ || पञ्चविंशद्दलं बाह्ये चतुरस्रावृतं शुभम् | अथ दुर्गायन्त्रं (मेरुतन्त्रे) अष्टपत्राम्बुजद्वन्द्वं चतुरस्रत्रयावृतम् || १२-२४६ || चतुर्द्वारसमायुक्तं कुङ्कुमादिभिरुद्धरेत् | अथ यन्त्रपुरश्चरणं तत्रान्तरे | आदौ यन्त्रस्य सिद्ध्यर्थे तन्मन्त्रस्य पुरस्क्रियाम् || १२-२४७ || कृत्वाऽयुतप्रमाणेन पश्चाद्यन्त्रस्य वाऽचरेत् | यथाऽधारे यथाद्रव्यैर्यन्त्रं संलिख्य यत्नतः || १२-२४८ || तत्रावाह्यैव तद्देवं संपूज्य विधिपूर्वकम् | ध्यात्वा बलिं जपं होमं कृत्वा देवं विसर्जयेत् || १२-२४९ || एकैकवारमावर्त्त्य तन्मन्त्रं संस्मरन् बुधः | इत्थं जपादिभिः सिद्धे यन्त्रे नासाध्यता क्वचित् || १२-२५० || दिक्सहस्रप्रमाणेन यन्त्रे कार्या पुरस्क्रिया | अथ धारणयन्त्रसाधनमुक्तं (मेरुतन्त्रे) अथ यन्त्रविधिं वक्ष्ये सर्वतन्त्रेषु गोपितम् || १२-२५१ || सिद्धस्य लिखनादेव यन्त्रसिद्धिः प्रजायते | न भावि यत्र कार्यं तु सिद्धस्यापि तदा भवेत् || १२-२५२ || दुःस्वप्नदर्शनं पूर्वं तदा यन्त्रं न कारयेत् | साधकस्य शुभे घस्रे समाराध्येष्टदेवताम् || १२-२५२ || स्वप्यात् त्रिदिवसं भूमौ हविष्याशी जपे रतः | एतद्यन्त्रं करिष्यामि मम तत् कीदृशं प्रभो || १२-२५२ || स्वप्ने वदैतद्देवेशि तदङ्गत्वेन पूजनम् | प्. ११६०) प्रदोषसमये कृत्वा लिखेत् त्रिदिवसं भुवि || १२-२५३ || तृतीयदिवसे रात्रौ यथा स्वप्नः प्रजायते | तथैवाज्ञां गृहीत्वा तु सत्स्वप्ने चालिखेद्भुवि || १२-२५४ || अस्वप्ने वाऽथ दुःस्वप्ने नैव कुर्याल्लिखेद्धि तत् | जीवसंस्थापनं यन्त्रे कुर्याद्येन फलं लभेत् || १२-२५५ || षष्ठ्यन्तं साधकपदं मध्यबीजोर्ध्वतो लिखेत् | द्वितीयान्तं साध्यमधः कुरुद्वन्द्वं च पार्स्वयोः || १२-२५६ || हसौर्यन्त्रस्य जीवः स्यान्मध्यभागादधो लिखेत् | हंसः सोऽहं मनोरस्य लिखेदेकैकमक्षरम् || १२-२५७ || ईशानादिषु कोणेषु दक्षपार्श्वे च इद्वयम् | उद्वयं वामपार्श्वे च पूर्वाशादौ लिखेत् क्रमात् || १२-२५८ || ल/ र/ म/ क्ष/ तथा व/ य/ स/ ह/ पूर्वादिके लिखेत् | ईशानपूर्वयोर्मध्ये आ/ ह्री/ वायव्यसौम्ययोः || १२-२५९ || एवं दिक्पालबीजानि दशदिक्षु न्यसेत् क्रमात् | यन्त्रराजाय विद्महे वरप्रदाय धीमहि तन्नो यन्त्रः प्रचोदयात् | एतस्याः प्रतिकाष्ठायां लिखेद्वर्णत्रयं त्रयम् || १२-२६० || बहिः प्राणप्रतिष्ठाया मन्त्रं सर्वत्र वेष्टयेत् | एवं तु लिखितं यन्त्रं भवेत् सिद्धिप्रदायकम् || १२-२६१ || स्थलानुक्तौ भूर्जपत्रे क्षौमे वा ताम्रपत्रके | यन्त्रं विलिख्य गुटिकां बद्ध्वा सूत्रेण वेष्टयेत् || १२-२६२ || लाक्षयाऽच्छादितं स्वर्णे रुप्ये ताम्रऽथ वा क्षिपेत् | यद्देवतार्क यन्त्रं स्यात् तद्बीजेन च पूजयेत् || १२-२६३ || तदभावे मातृकार्णैर्यन्त्रपूजां समाचरेत् | प्. ११६१) अष्टोत्तरसहस्रं तु मूलं जप्त्वा हुनेद्घृतम् || १२-२६४ || तत्संपातेन संसिक्तं कृत्वा यन्त्रं नियोजयेत् | मूर्ध्नि बाहौ गले वाऽपि तत्तदिष्टार्थसिद्धये || १२-२६५ || (मेरुतन्त्रे) उपास्या वा भूतलिपिर्यन्त्रसिद्धिविधायिनी | अक्लेशेनैव सर्वेषां यन्त्राणां सिद्धिमाप्नुयात् || १२-२६६ || अथ भूतलिपिनिर्णयः (शारदायाम्) अथ भूतलिपिं वक्ष्ये सुगोप्यामपि दुर्लभाम् | यां प्राप्य शम्भोर्मुनयः सर्वान् कामान् प्रपेदिरे || १२-२६७ || पञ्च ह्रस्वाः सन्धिवर्णा व्योमेराग्निर्जलंधरा | अन्तमाद्यं द्वितीयं च चतुर्थं मध्यमं क्रमात् || १२-२६८ || पञ्चवर्गाक्षराणि स्युर्वान्तः श्वेतेन्दुभिः सह | एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः || १२-२६९ || पञ्च ह्रस्वा इति अकारादयः | सन्धिवर्णा एकारादयश्चत्वारः | व्योम हकारः | इरो यकारः अग्नी रेफः | जलं वकारः | धरा पृथ्वी तद्बीजं लकारः | अन्तमित्यादि वर्गस्येति शेषः | वान्तः शकारः | श्वेतः षकारः | इन्दु सकारः | तथा | आयंवरार्णाः वर्गाणां पञ्चमाः शार्णसंयुताः | वर्गाद्या इति विज्ञेया नव दुर्गाः स्मृता अमी || १२-२६९ || आयंवरार्णा इति | अश्च ए च अंवरार्णश्च ते | आयंवरार्णा अकारैकारहकारा इत्यर्थः | वर्गाणां पञ्चमा ङञणनमाः | शार्णः शकारः | एते वर्णा नवानां वर्गाणामाद्या इत्यर्थः | भूतलिपित्वं दर्शयति | व्योमेराग्निजलक्षोणीवर्गवर्णान् पृथग्विदुः | द्वितीयवर्गे भूर्न स्यान्नवमे सजलंधरा || १२-२७० || भूर्न स्यादिति | द्वितीयवर्णस्य वर्णचतुष्टयात्मकत्वादिति भावः | एवमग्रेऽपि बोध्यम् | प्. ११६२) तथा | विरिञ्चिविष्णुरुद्राश्विप्रजापतिदिगीश्वराः | क्रियादिशक्तिसहिता नवदुर्गेश्वराः स्मृताः || १२-२७१ || ऋषिः स्याद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् | देवता कथिता सद्भिः साक्षाद्वर्णेश्वरी परा || १२-२७२ || हादिषड्वर्णकैः कुर्यात् षडङ्गानि सजातिभिः | (मेरुतन्त्रे) स्वरहीनैर्हयाद्यैश्च मन्त्रार्णैः पञ्चपञ्चभिः || १२-२७३ || अथ ध्यानं (शारदायाम्) ध्यायैल्लिपितरोर्मूले देवीं तन्मयपङ्कजे | वदन्ति सुधियो वृक्षं नित्यं वर्णमयं शुभम् || १२-२७४ || परसंविन्महाबीजं विन्दुनादमहाशिफम् | पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् || १२-२७५ || सलिलाक्षरपत्रैः स्वैः संछादितयुगत्रयम् | वह्निवर्णाङ्कुरैर्दीप्तं रत्नैरिव सुरद्रुमम् || १२-२७६ || मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुःश्रियम् | आकाशार्णफलैर्नम्रं सर्वभूताश्रयं परम् || १२-२७७ || परामृताख्यमधुभिः सिञ्चन्तं परमेश्वरीम् | वेदागमादिभिः कॢप्तसमुन्नतिमनोहरम् || १२-२७८ || शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् | एतामाश्रित्य सुधियः सर्वान् कामान् प्रपेदिरे || १२-२७९ || अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं चन्द्रार्धान्वितमस्तकां मधुमदादालोलनेत्रत्रयाम् | बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करै प्. ११६३) राद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये || १२-२८० || अथ पुरश्चरणम् | लक्षं न्यसेज्जपेत् तावज्जुहुयादयुतं तिलैः | पूजयेदन्वहं देवीं पीठे प्रागीरिते सुधीः || १२-२८१ || (मेरुतन्त्रेऽपि) लक्षं प्रजप्यादयुतं तिलैर्हुत्वा च तर्पयेत् | एवं भूतलिपिः सेव्या यन्त्रसिद्धिः प्रजायते || १२-२८२ || श्रीविद्याराधने वाऽपि समर्थो जायते नरः | इति भूतलिपिपुरश्चरणम् | अथ मातृकान्यासपुरश्चरणम् (शारदायाम्) दीक्षितः प्रोक्तमार्गेण न्यसेल्लक्षं समाहितः || १२-२८२ || जपेत् तत्संख्यया विद्वानयुतं मधुराप्लुतैः | विदधीत तिलैर्होमं मातृकामन्वहं जपेत् || १२-२८३ || इति मातृकान्यासपुरश्चरणम् | अथ त्रिलोहीमुद्रा तत्रैव | सोमसूर्याग्निरूपाः स्युर्वर्णा लोहत्रयं तथा | रौप्यमिन्दुः स्मृतो हेम सूर्यस्ताम्रं हुताशनः || १२-२८४ || लोहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया | तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् || १२-२८५ || साग्रं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात् ततः | तस्यां संपातयेन्मन्त्री सर्पिषा पूर्वसंख्यया || १२-२८६ || निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना | आवाह्य पूजयेद्देवीमुपचारैः समाहितः || १२-२८७ || अभिषिञ्च्य विनीताय दद्यात् तां मुद्रिकां गुरुः | प्. ११६४) इयं रक्षा क्षुद्ररोगविषज्वरविनाशिनी || १२-२८८ || व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः | युद्धे विजयमाप्नोति धारयेन्मनुजेश्वरः || १२-२८९ || सोमसूर्याग्निरूपा इति | अकारादयः स्वराः सोमरूपाः | कादयो मान्ताः स्पर्शवर्णाः सूर्यरूपाः | यकारादयो व्यापकवर्णा अग्निरूपा इत्यर्थः | तथेति | तथैव लोहत्रयमपि सोमसूर्याग्निरूपमित्यर्थः | एतदेव स्फुटयति रौप्यमित्यादिना | भागा अंशाः | स्वराद्यक्षरसंख्ययेति | रौप्यस्य षोडश | हेम्नः पञ्चविंशतिः | ताम्रस्य दशभागा इत्यर्थः | असङ्कलितसङ्गतामिति | असङ्कलितामेकरूपतामनापन्नाम् | सङ्गतां परस्परसम्बद्धाम् | संजप्येति | जपश्चात्र मातृकावर्णानामेव | तस्यां संपादयेदिति | वाहेति दुत्वा तस्यां मुद्रायां संपाताज्यं निःक्षिपेदित्यर्थः | अभिषिकोक्तवर्त्मनेति | काम्याभिषेकोक्तरीत्यत्येर्थः | काम्याभिषेकस्तु तत्रैव | पूर्वोक्तं पङ्कजं कृत्वा कुम्भं संस्थाप्य पूर्ववत् | क्वाथेन पूरयेन्मन्त्री यथावत् क्षीरशाखिनाम् || १२-२९० || अष्टगन्धं विलोड्यास्मिन् नवरत्नसमन्विते | आवाह्य पूजयेद्देवीं मातृकामुक्तमार्गतः || १२-२९१ || सहस्रं साधितैस्तोयैरभिषिञ्चेत् प्रियं नरम् | भानुवारे शुभे लग्ने ब्राह्मणानपि भोजयेत् || १२-२९२ || गुरवे दक्षिणां दद्याद्भक्तियुक्तः स्वशक्तितः | रक्षाकरं विशेषेण कृत्वा द्रोहोपशान्तिदम् || १२-२९३ || ऐश्वर्यजननं पुंसां सर्वसौभाग्यसिद्धिदम् | अभिषेकमिमं प्राहुर्विश्वसंमोहनं परम् इति || देवीं मातृकासरस्वतीम् | अभिषिञ्च्येति | अभिषेकस्तु विलीममातृकावर्णैः कार्यः | प्. ११६५) अभिषिञ्चेद्विलोमेन साध्यन्तं दत्तदक्षिणम् || १२-२९४ || इत्यभिषेकान्तरे तत्रैवोक्तत्वात् | अथ नवरत्नमुद्रा तत्रैव | विभजेन्मातृकां मन्त्री नववर्गान् यथाक्रमात् | अष्टावष्टौ स्वराः स्पर्शाः पञ्चशो व्यापका अपि || १२-२९५ || नववर्गा.ः समुत्पन्नाः नवरत्नेश्वरग्रहाः | अर्केन्दरक्तज्ञगुरुभृगुमन्दाहिकेतवः || १२-२९६ || माणिक्यं मौक्तिकं चारु विद्रुमं गारुडं पुनः | पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम् || १२-२९७ || वैदूर्यं नवरत्नानि मुद्रां तैः कल्पयेच्छुभाम् | जपहोमादिकं सर्वं कुर्यात् पूर्वोक्तवर्त्मना || १२-२९८ || यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः | वहते तस्य सौभाग्यं लक्ष्मीरप्यहता भवेत् || १२-२९९ || कृत्या द्रोहा विनश्यन्ति नश्यन्ति सकलापदः | रक्षोभूतपिशाचाद्या नेक्षन्ते तं भयाकुलाः || १२-३०० || उपर्युपरि वर्धन्ते धनरत्नादिसम्पदः | इति नवरत्नमुद्रा | अथ षोढान्यासपुरश्चरणं तन्त्रान्तरे | देवीभावसमायुक्तः षोढान्यासपरो भवेत् || १२-३०१ || दशविद्याविधौ सा च दशधा भिन्नभिन्नतः | प्रत्येकं षडृषिं तं तं तद्ध्यानं च समाचरेत् || १२-३०२ || ऋषिच्छन्दादिकं यत्र कीर्तितं परमेश्वरि | तदेव तत्र गदितमनुक्ते मूलदेववत् || १२-३०३ || ध्यानं छन्दादिकं स्तोत्रं देवीवत् सर्वमेव तु | प्. ११६६) अयुतं च पुरश्चर्या न्यासस्तत्क्रमयोगतः || १२-३०३ || इति षोढान्यासपुरश्चरणम् | अथ सहस्रनामस्तवकवचानां पुरश्चरणं तत्रैव | ईश्वर उवाच | सहस्रनामस्तोत्रेषु कवचेष्वपि पार्वति | कवचादौ तु या प्रोक्ता सा वै कार्या पुरस्क्रिया || १२-३०४ || यत्रानुक्ता पुरश्चर्या तत्र किं वा विधीयते | अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकीर्तिता || १२-३०५ || सहस्रनामकवचे पुरश्चर्या त्वियं मता | एवं पुरस्क्रियां कृत्वा दशांशं हवनादिकम् || १२-३०६ || तर्पणं मार्जनं देवि कुत्रचित् परिकीर्त्तितम् | महाकालमते प्रोक्तं तत्रस्थं चेत् समाचरेत् || १२-३०७ || विप्रसंतोषणेनैव सर्वं सिद्ध्यति पार्वति | हवनं तु तथा कार्यं पुरश्चर्यादिकं भवेत् || १२-३०८ || सहस्रनामरूपं वै कीदृशं परमेश्वरि | तथा च कवचं देवि किंरूपं परिकीर्त्तितम् || १२-३०९ || शिवदेव्योस्तु संवादो ब्रह्मरन्ध्रं प्रकीर्त्तितम् | अन्ये श्लोकाः केशतुल्या ऋषिः शिर उदीरितम् || १२-३१० || छन्दो मुखं भवेद्देवि देवता हृदयं भवेत् | बीजं गुह्यमिति प्रोक्तं शक्तिं तु पदगां विदुः || १२-३११ || सर्वाङ्गं कीलकं देवि ह्यर्थवादः प्रकीर्त्तितः | स्तोत्रमध्ये स्थितं यद्यत् तत् सर्वं स्तोत्ररूपकम् || १२-३१२ || एवं च देवदेवेशि स्तोत्ररूपं प्रकीर्त्तितम् | तथैव कवचं देवि ज्ञात्वा पाठं पठेत् प्रिये || १२-३१३ || प्. ११६७) अङ्गहीने भवेन्नाशः सर्वथा परमेश्वरि | फलस्तुत्यादिकं देवि अङ्गमित्यभिधीयते || १२-३१४ || आद्योपान्तं विना देवि फलमर्धं प्रकीर्त्तितम् | अत्रार्थे प्रत्ययो देवि षडङ्गाद्या यथा स्मृताः || १२-३१५ || हवनं कवचादीनां श्लोकान्ते विहितं च वा | आद्योपान्तं पठित्वा तु पश्चात् तु हवनं मतम् || १२-३१६ || आदौ पूर्णं तु संपठ्य तथैवान्ते महेश्वरि | मध्ये नामानि पाद्यानि पुरश्चर्या प्रकीर्त्तिता || १२-३१७ || श्लोकान्ते हवनं प्रोक्तं श्लोकान्ते मार्जनादिकम् | तत्र स्तोत्रोक्तविधिना पुरश्चर्यादिकं चरेत् || १२-३१८ || स्तोत्रमावर्त्त्य संपूर्णं तदन्ते गणानां चरेत् | संपूर्णहोमयोगोऽयं कथितस्ते प्रियंवदे || १२-३१९ || सारूप्यं कवचाख्यं च सायुज्यं स्तोत्रमीरितम् | सान्निध्यं नामसाहस्रं त्रितयं परिकीर्त्तितम् || १२-३२० || कवचं कवचरूपं स्यात् स्तोत्रं सहचरो भवेत् | सहस्रनामस्तोत्रं तु पूजास्थाने प्रकीर्त्तितम् || १२-३२१ || पूजा दुर्गास्वरूपा स्याद्बलिदानं तु मारणम् | मन्त्रो राजा पुरश्चर्या राज्यसंपत्तिरीरिता || १२-३२२ || संपत्त्या तु विना राजा न शोभति महेश्वरि | संपत्तिमूलमेतद्धि सर्वमेव प्रकीर्त्तितम् || १२-३२३ || होमो मन्त्रः इति प्रोक्तः पर्जन्यास्त्रं तु तर्पणम् | जलं दुर्गस्वरूपं वै त्वभिषेकः प्रकीर्त्तितः || १२-३२४ || ब्राह्मणानां भोजनं तु दुष्टसैन्यप्रभक्षणम् | प्. ११६८) देवतागुरुविद्यैक्यं त्वात्मैक्यं परिभाव्य च || १२-३२५ || सर्वसिद्धिश्वरो भूत्वा त्रैलोक्याधिपतिर्भवेत् | यथा च राजराज्यादौ शत्रुसैन्यभयं भवेत् || १२-३२६ || सिद्धिराज्ये महादेवि तथैव परिकीर्त्तितम् | दुर्गयन्त्रादिकं देवि देशराज्ये यथा मतम् || १२-३२७ || तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतम् | मन्त्रो राजा गुरुर्मन्त्री गणेशा द्वारपालकाः || १२-३२८ || साधनं शवमुण्डस्य सिंहासनमितीरितम् | साधकेन तथा कार्यं येन सर्वं तु सिध्यति || १२-३२९ || नैमित्तिकं च काम्यं च हयद्विरदकौ मतौ | होमधूपः पताकाः स्याज्जयस्तु सिद्धभूमिका || १२-३३० || सिद्धिराजाधिपे देवि किं न सिद्ध्यति भूतले | षोढान्यासादिकं सेना देवता राज्यदायिका || १२-३३१ || यन्त्रं तु वज्रदुर्गं तु जीवचक्रं त्वभेदकम् | कवचादि पुरश्चर्या प्रोक्ता किं श्रोतुमिच्छसि || १२-३३२ || इति स्तवकवचसहस्रनामपुरश्चरणम् | अनुक्तपुरश्चरणानां स्तवकवचादीनां पुरश्चरणमेतत् | उक्तपुरश्चरणानां तु तेषां कल्पोक्तमेव तत् कार्यम् | अथ कर्पूरस्तवपुरश्चरणं (वीरतन्त्रे) देव्युवाच | कर्पूराख्यमिदं स्तोत्रं यदुक्तं भवता पुरा | षट्कर्मसाधनं तस्य प्रयोगं वद शङ्कर || १२-३३३ || श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि कर्पूरस्तवसाधनम् | प्. ११६९) सकृत् कृतेऽपि देवेशि काली तुष्टा भवेत् सदा || १२-३३४ || शनिभौमदिने देवि स्नात्वा प्रयतमानसः | संपूज्य कालिकां देवीं सङ्कल्पं सम्यगाचरेत् || १२-३३५ || कृत्वा षोढादिकं देवि पठेत् स्तोत्रमनुत्तमम् | अयुतैकप्रमाणेन तद्दशाशं हुनेत् सुधीः || १२-३३६ || तर्पणं चाभिषेकं च ब्राह्मणान् भोजयेत् ततः | पश्चात् स्वकार्यसिद्ध्यर्थं प्रयोगानाचरेत् तथा || १२-३३७ || राज्ञो भये समुत्पन्ने दुर्भिक्षे शत्रुसंकटे | त्रासोत्पन्ने महेशानि रोगशोकभये तथा || १२-३३८ || पठेत् स्तोत्रं महाकाल्याः सर्वशान्तिं प्रयच्छति | कुमारीपूजनं चान्ते कर्त्तव्यं सुसमाहितः || १२-३३९ || एवं कृते महेशानि सम्यक् सिद्धिर्भवेद्ध्रुवम् | इति कर्पूरस्तवपुरश्चरणम् | अथ सप्तशतीस्तवविधानम् | (मुक्तावल्याम्) सप्तशत्या विधानं तु शृणु वक्ष्यामि यत्नतः || १२-३४० || यज्ज्ञात्वा साधकश्रेष्ठः सर्वसिद्धिमवाप्नुयात् | (मेरुतन्त्रे) सप्तशत्यास्तु सकलं तत्त्वं वेद्म्यहमेव हि || १२-३४१ || पादोनं श्रीहरिर्वेत्ति वेत्त्यर्धं तु प्रजापतिः | व्यासस्तुर्यांशकं वेत्ति कोट्यंशमितरे जनाः || १२-३४२ || (वाराहीतन्त्रे) ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः | ऋष्यादिन्यास उक्तो (मेरुतन्त्रे) सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः || १२-३४३ || प्. ११७०) छन्दो गायत्रमुदितं महाकाली तु देवता | वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् || १२-३४४ || मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः | उष्णिक्छन्दो महालक्ष्मीर्देवता बीजमद्रिजा || १२-३४५ || वायुस्तत्त्वं धनप्राप्त्यै विनियोग उदाहृतः | उत्तरस्य चरित्रस्य मुनिः शङ्कर उच्यते || १२-३४६ || महासरस्वती देवी त्रिष्टूप् छन्द उदाहृतम् | कामो बीजं रविस्तत्त्वं कामाप्त्यै विनियोजनम् || १२-३४६ || तन्त्रान्तरे | नवार्णमन्त्रवर्णैस्तु षडङ्गन्यासमाचरेत् | देवतात्रयध्यानानि (दुर्गाप्रकरणे) प्रोक्तानि | अथ पाठक्रमो (वाराहीतन्त्रे) आधारे स्थापयित्वा तु पुस्तकं वाचयेत् ततः || १२-३४७ || हस्तसंस्थापनाद्देवि भवेदर्धफलं यतः | यावन्न पूर्यतेऽध्यायस्तावन्न विरमेत् पठन् || १२-३४८ || यदि प्रमादादध्याये विरामो भवति प्रिये | पुनरध्यायमारभ्य पठेत् सर्वं मुहुर्मुहुः || १२-३४९ || अनुक्रमात् पठेद्देवि शिरःकम्पादिकं त्यजेत् | (महाकालसंहितायाम्) ब्राह्मणान् वरयित्वैवं वस्त्रालङ्करणासनैः || १२-३५० || विदध्यात् कामनोल्लेखं पूजां शक्त्या च पुस्तके | शनैः पठेत् पाठकोऽपि वर्णोच्चारणपूर्वकम् || १२-३५१ || सुव्यक्तं नापि विश्लिष्टं न शिरश्चारगीवत् | तनुमान्दोलयन्नापि न हसन्न रुदन् व्रजन् || १२-३५२ || प्. ११७१) नाश्नन्नान्यैरालप/श्च न मध्ये छिन्नवत् तथा | आचान्तः कृतशौचश्च पदोरुद्गमनीयवान् || १२-३५३ || एतेन विधिनाऽधीते तुष्यते जगदम्बिका | यथोक्तफलदात्री च भवति प्राणवल्लभे || १२-३५४ || (वाराहीतन्त्रे) प्रणवं चादितो दत्वा स्तोत्रं वा संहितां पठेत् | अन्ते च प्रणवं दद्यादित्युवाचादिपुरुषः || १२-३५५ || तथा | स्वयं च लिखितं यच्च शूद्रेण लिखितं भवेत् | अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् || १२-३५६ || स्तोत्रे न दृश्यते यत्र प्रणवं तत्र विन्यसेत् | सर्वत्र पाठे विज्ञेयस्त्वन्यथा विफलं भवेत् || १२-३५७ || (देवीपुराणे) वाचकं पूजयित्वा तु यथाविभवविस्तरैः | वाचयीत ततो राजन् देवीमाहात्म्यमुत्तमम् || १२-३५८ || तदन्ते शान्तिशब्दस्तु जनस्य सनृपस्य च | अनेन विधिना राजन् यः पठेच्छृणुयादपि || १२-३५९ || चिन्तयेद्वाचयेद्वाऽपि तस्य पुण्यफलं शृणु | वाजपेयसहस्रस्य अश्वमेधशतस्य च || १२-३६० || यत् फलं लभते तात तत् फलं शतधा भवेत् इत्यादि || (मरीचिकल्पे) रात्रिसूक्तं जपेदादौ मध्ये सप्तशतीस्तवम् | प्रान्ते तु जपनीयं वै देवीसूक्तमिति क्रमः || १२-३६१ || एवं संपूटितं स्तोत्रं सर्वकामार्थसिद्धये | प्. ११७२) अत्र रात्रिसूक्तं च | त्वं स्वाहा त्वं स्वधा इत्यादि प्रथमचरित्रस्थस्तुतिरूपं देवीसूक्तम् | नमो देव्यै इत्यादि तृतीयचरित्रस्थस्तुतिरूपमिति नागोजिभट्टादयः | अन्ये तु सूक्तद्वयं वैदिकमेवेत्याहुः | (मेरुतन्त्रे) मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठेत् || १२-३६२ || पुटितं मूलमन्त्रेण जपन्नाप्नोति वाञ्छितम् | मूलमन्त्रस्तु दुर्गाप्रकरणोक्तो नवार्णः | अथ पुरश्चरणं (मरीचिकल्पे) कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशीम् || १२-३६३ || वृद्ध्यैकोत्तरया जाप्यं पूर्वसंपुटितं तु तत् | एवं देवि मया प्रोक्तः पौरश्चरणिकः क्रमः || १२-३६४ || तदन्ते हवनं कुर्यात् प्रतिश्लोकेन पायसैः | रात्रिसूक्तं प्रति - ऋचं तथा देव्यास्तु सूक्तकम् || १२-३६५ || प्रतिश्लोकेनेति | तस्य (कात्यायनीतन्त्रो-)क्तमन्त्रविभागेन | तदज्ञाने तु श्लोकेनैव होमः कार्य इति साम्प्रदायिकाः | नवरात्रे प्रकारान्तरेण पुरश्चरमुक्तं तत्रैव | अथातः संप्रवक्ष्यामि नवरात्रविधानकम् | जपेदेकोत्तरां वृद्धिं दिनानि नवसंख्यया || १२-३६६ || नवाक्षरीविधानेन संपूज्याथ विचक्षणः | सहस्रं प्रजपेन्मन्त्रं प्रत्येकं च यथाविधि || १२-३६७ || हुत्वा दशांशतो होमं तत्र सिद्धिमवाप्नुयात् | इति पुरश्चरणम् | अथ प्रसङ्गाच्छतचण्डोविधिर्लिख्यते | तथा च (मेरुतन्त्रे) शतचण्डीविधानं तु प्रवक्ष्ये प्रीतये नृणाम् || १२-३६८ || प्. ११७३) नृपोपद्रवमापन्ने दुर्भिक्षे भूमिकम्पने | अतिवृष्ट्यामनावृष्टौ परचक्रभये क्षये || १२-३६९ || सर्वे विघ्ना विनश्यन्ति शतचण्डीविधौ कृते | रोगाणां वैरिणां नाशो धनपुत्रसमृद्धयः || १२-३७० || शङ्करस्य भवान्या वा प्रसादनिकटे शुभम् | मण्डपं द्वारवेद्याढ्यं कुर्यात् सध्वजतोरणम् || १२-३७१ || तत्र कुण्डं प्रकुर्वीत प्रतीच्यां मध्यतोऽपि वा | स्नात्वा नित्यकृतिं कृत्वा योजयेद्दशवाडवान् || १२-३७२ || जितेन्द्रियान् सदाचारान् कुलीनान् सत्यवादिनः | व्युत्पन्ना/श्चण्डिकापाठे रतान् लज्जादयावतः || १२-३७३ || मधुपर्कविधानेन वस्त्रस्वर्णादिदानतः | जपार्थमासनं मालां दद्यात् तेभ्योऽपि भोजनम् || १२-३७४ || ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः | भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम् || १२-३७५ || मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः | नवार्णं चण्डिकामन्त्रं जपेयुश्चायुतं क्वचित् || १२-३७६ || वाडवा विप्राः | अत्र च | पञ्चभिः सप्तभिर्वाऽपि नवैकादशभिस्तथा | अदीर्घदिवसे क्षिप्रं विदध्याच्चण्डिकामखम् || १२-३७७ || अयुग्मब्राह्मणैः कार्यं शतावृत्तं सुसिद्धये | त्रिपञ्चसप्तनवभिर्दिनैः पक्षेण वा पुनः || १२-३७८ || देवीमाहात्म्यपाठं तु युगैर्विप्रैः कृतं च यत् | प्. ११७४) निष्फलं च भवेत् सर्वं भूतिनाशं च प्राप्नुयात् || १२-३७९ || इति यद्वचनत्रयं क्रोडतन्त्रनाम्ना पठ्यते तत् तु निर्मूलम् | तन्त्रानुपलम्भादनेकतन्त्रविरोधाच्च | तथा | यजमानः पूजयेच्च कन्यानां दशकं शुभम् | द्विवर्षाद्या दशाब्दान्ताः कुमारीः परिपूजयेत् || १२-३८० || तथा | विप्रां सर्वेष्टसंसिद्ध्यैः यशसे क्षत्रियोद्भवाम् | वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् || १२-३८० || द्विवर्षादीनां प्रत्येकं नामानि | द्विवर्षा सा कुमार्युक्ता त्रिमूर्तिर्हायनत्रिका | चतुरब्दा तु कल्याणी पञ्चवर्षा तु रोहिणी || १२-३८१ || षडब्दा कालिका प्रोक्ता चण्डिका सप्तहायना | अष्टवर्षा शाम्भवी स्याद्दुर्गा तु नवहायना || १२-३८२ || शुभदा दशवर्षोक्ता ता मन्त्रैः परिपूजयेत् | एकाब्दायाः प्रीत्यभावो रुद्राब्दा तु विवर्जिता || १२-३८३ || मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् | नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् || १२-३८४ || कुमारिकादिकन्यानां पूजामन्त्रान् ब्रुवेऽधुना | जगत्पूज्ये जवद्वन्द्ये सर्वशक्तिस्वरूपिणि || १२-३८५ || पूजां गृहाण कौमारि जगन्मात्रे नमोऽस्तु ते | त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् || १२-३८६ || त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् | कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् || १२-३८७ || प्. ११७५) कल्याणजननीं नित्यां कल्याणीं पूजयाम्यहम् | अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् || १२-३८८ || अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् | कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् || १२-३८९ || कामदां करुणोदारां कालिकां पूजयाम्यहम् | चण्डबीजां चण्डमयीं चण्डमुण्डप्रभञ्जनीम् || १२-३९० || पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् | सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् || १२-३९१ || सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् | दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् || १२-३९२ || पूजयामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् | सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् || १२-३९३ || सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् | एतैर्मन्त्रैर्लक्षणाढ्यां तां तां कन्यां समर्चयेत् || १२-३९४ || गन्धैः पुष्पैर्भक्ष्यभोज्यैर्वस्त्रैराभरणैरपि | वेद्यां विरचिते रम्ये सर्वतोभद्रमण्डले || १२-३९५ || घटं संस्थाप्य विधिवत् तत्रावाह्यार्चयेच्छिवाम् | तदग्रे कन्यकाश्चापि भोजयेद्ब्राह्मणानपि || १२-३९६ || उपचारैश्च विविधैः पूर्वोक्तावरणान्यपि | एवं चतुर्दिनं कृत्वा पञ्चहोमान् समाचरेत् || १२-३९७ || एतेन प्रथमेऽह्नि प्रत्येकमेकैकावृत्तिः | द्वितीये द्वे द्वे | तृतीये तिस्रस्तिस्रः | चतुर्थे चतस्रश्चतस्र इत्युक्तं भवति | तदुक्तं (रुद्रयामले) एकं द्वे त्रीणि चत्वारि जपेद्दिनचतुष्टये | प्. ११७६) पञ्चमे दिवसे प्रातर्होमं कुर्याद्विधानतः इति || अथ ब्राह्मणहोमद्रव्याप्युक्तानि (मेरुतन्त्रे) पायसान्नैस्तु मध्वक्तैर्द्राक्षारम्भाफलैरपि || १२-३९८ || मातुलुङ्गैरिक्षुखण्डैर्नारिकेलैः पुरैस्तिलैः | जातीफलैराम्रफलै रम्यैर्मधुरवस्तुभिः || १२-३९९ || सप्तशत्या दशावृत्त्या प्रतिश्लोकं हुतं चरेत् | अयुतं च नवार्णेन स्थापितेऽग्नौ विधानतः || १२-४०० || होमविधौ यो विशेषः स चाग्रे वक्ष्यन्ते मया | कृत्वाऽवरणदेवानां होमं तन्नाममन्त्रतः || १२-४०१ || कृत्वा पुर्णाहुतिं सम्यग्देवमग्निं विसृज्य च | अभिषिञ्चेच्च यष्टारं विप्रौघः कलशोदकैः || १२-४०२ || अभिषेकमन्त्रास्तु | विश्वेश्वरीं जगद्धात्रीम् इत्यादि | देव्या यया ततमिदम् इत्यादि | नमो देव्यै महादेव्यै इत्यादि | देवि प्रपन्नार्त्तिहरे प्रसीद इति चत्वारः श्लोकाः | निष्कं सुवर्णमथ वा प्रत्येकं दक्षिणां दिशेत् | (मारीचिकल्पे तु) पञ्चस्वर्णाः शतावृत्ते पक्षावृत्ते तु तत्त्रयम् | पञ्चावृत्ते स्वर्णमेकं त्रिरावृत्ते तदर्धकम् || १२-४०३ || एकावृत्ते पादमेकं दद्याद्वा शक्तितो बुधः इत्युक्तम् | (कात्यायनीतन्त्रे) एकैकं दशविप्रेभ्यो दद्याद्गोमिथुनं समम् | निष्कत्रयसमायुक्तं वस्त्रालङ्कारभूषितम् || १२-४०४ || प्. ११७७) (मेउतन्त्रे) भोजयेच्च पृथग्विप्रान् भक्ष्यभोज्यैः पृथग्विधैः | तेभ्योऽपि दक्षिणां दत्वा गृह्णीयादाशिषस्तथा || १२-४०५ || एवं कृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः | राज्यं धनं यशः पुत्रानिष्टमन्नं लभेत च || १२-४०६ || (कात्यायनीतन्त्रे) यद्यत् कार्यं समुद्दिश्य क्रियते शतचण्डिका | तत् तत् तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति || १२-४०७ || अथ सहस्रचण्डीविधानमुक्तं (मेरौ) एतद्दशगुणं कुर्याच्चण्डीसाहस्रजं विधिम् | विद्यावतः सदाचारान् ब्राह्मणान् वृणुयाच्छतम् || १२-४०८ || प्रत्यहं चण्डिकापाठान् विदध्युस्ते दशामितान् | अयुतं प्रजपेयुस्ते प्रत्येकं नववर्णकम् || १२-४०९ || पूर्वोक्ताः कन्यकाः पूज्याः पूर्वमन्त्रैः शतं शुभाः | एवं दशाहं संपाद्य होमं कुर्युः प्रयत्नतः || १२-४१० || सप्तशत्याः शतावृत्त्यां प्रतिश्लोकं विधानतः | लक्षसंख्यं नवार्णं च पूर्वोक्तैर्द्रव्यसंचयैः || १२-४११ || होतृभ्यो दक्षिणां दत्वा पूर्वोक्तान् भोजयेद्द्विजान् | सहस्रसंमितान् साधून् देव्याराधनतत्परान् || १२-४१२ || एवं सहस्रसंख्याते कृते चण्डीविधौ नृणाम् | सिद्ध्यत्यभीप्सितं सर्वं दुःखौघश्च विनश्यति || १२-४१३ || मारीदुर्भगरोगाद्या नश्यन्ति व्यसनोच्चयाः | (रुद्रयामले) राज्यभ्रंशे महोत्पाते जनमारे महाभये || १२-४१४ || प्. ११७८) गजमारेऽश्वमारे च परचक्रभये तथा | इत्यादिविविधे दुःखे क्षयरोगादिजे भये || १२-४१५ || सहस्रचण्डिकापाठं कुर्याद्वा कारयेत् तथा | (मेरुतन्त्रे) नेमं विधिं वदेद्दुष्टे खले चौरे गुरुद्रुहि || १२-४१६ || साधौ जितेन्दिये दान्ते वदेद्विधिमिमं परम् | एवं सा चण्डिका तुष्टा वक्तॄन् श्रोतॄन् प्ररक्षति || १२-४१७ || अथ होमविधिः | चतुरस्रे समे कुण्डे समन्ताद्धस्तमात्रके | एकावरणसंयुक्ते योनिमण्डलमण्डिते || १२-४१८ || दशांशविधिना होममुक्तहव्येन साधयेत् | नित्यचण्ड्यां नवचण्ड्यां कुण्डमेवंविधं स्मृतम् || १२-४१९ || एतद्द्विगुणितं कुण्डं शतचण्ड्यां प्रकीर्त्तितम् | संस्कारैरष्टभिः कुण्डं संस्कृत्याग्निं निधापयेत् || १२-४२० || कुण्डमध्ये भुवं दर्भैः परिमार्ज्य प्रलेपयेत् | प्रागग्राः स्रुवमूलेन रेखास्तिस्रः समुल्लिखेत् || १२-४२१ || पांशुमुद्धृत्य रेखाणामभ्युक्षणमतः परम् | कुण्डस्य पूजनं षष्ठः सप्तमः सप्तमुद्रया || १२-४२२ || अस्त्रावगुण्ठितं कुण्डे संस्कारश्चाष्टमः स्मृतः | अष्टमङ्गलनामानं कुण्डेऽग्निं सन्निधापयेत् || १२-४२३ || अत्र सर्वत्र मायाबीजमन्त्रः | चण्डिकापाठसंपूर्णे ब्रह्माणं दक्षिणे द्विजम् | ततस्तदग्निमत् कुण्डं नववस्त्रेण भूषयेत् || १२-४२४ || कुण्डस्योत्तरतः स्थाप्या प्रणीता वारिपूरिता | प्. ११७९) प्रणीतापात्रतः सर्वे स्थाप्याः पात्रगणाः क्रमात् || १२-४२५ || आज्यस्थाली चरुस्थाली गव्यक्षीरसमन्विता | स्रुक्स्रुवौ च घृतं गव्यं तण्डुलाः कुशमूलकाः || १२-४२६ || पालाशाः समिधस्तिस्रः पूर्णपात्रमतः परम् | सप्तद्वीपेश्वरीं ध्यात्वा गृहीत्वा कुशमूलकम् || १२-४२७ || निःक्षिपेत् प्रोक्षणीपात्रे वारुणं बीजमुच्चरेत् | तेन दर्भसमूहेन शतसंख्येन चेश्वरि || १२-४२८ || क्रमात् पात्राणि संप्रोक्षन् प्रोक्षणीपात्रवारिणा | आज्यपात्रे चरुस्थाल्यां निःक्षिपेद्घृततण्डुलम् || १२-४२९ || यथाक्रमेण कर्त्तव्यं ततोऽधिश्रयणं तयोः | आदौ वै पायसं कार्यं पर्यग्निकरणं तयोः || १२-४३० || सव्यं पालाशकाष्ठेन त्रिभिर्दर्भैश्च सोज्ज्वलम् | स्रुवयोः स्थापनं कृत्वा दक्षिणे स्थापनं कृतम् || १२-४३१ || उद्वास्य प्रथमं पूर्वादानीयाग्नेः प्रदक्षिणम् | कुण्डाचार्यान्तरे स्थाप्यं स्वबीजजपगौरवात् || १२-४३२ || स्वबीजं त्वमृतबीजम् | अभिघार्य स्वबीजेन वायव्ये स्थापयेच्चरुन् | तिष्ठन् पालाशसमिधो मौनी वैश्वानरे क्षिपेत् || १२-४३३ || कुशमुलकयुक्ताभिः प्रोक्षिण्यद्भिः प्रदक्षिणम् | पर्युक्ष्याग्निं प्रणीतायां निःक्षिपेत् कुशमूलकम् || १२-४३४ || निधाय दक्षिणं जानु भूमावग्निमुखं हुनेत् | अन्वारब्धस्रुवेणाज्यं निर्धूमे हव्यवाहने || १२-४३५ || प्रजापतिं महाकालीं महालक्ष्मीं सरस्वतीम् | प्. ११८०) एतदग्निमुखं प्रोक्तं मायाबीजपुरस्सरम् || १२-४३६ || संश्रवान् प्रोक्षणीपात्रे निःक्षिपेद्यज्ञसाधनान् | विदद्यात् कल्पितं होममुक्तेन हविषा शमी || १२-४३७ || कल्पितं सङ्कल्पितमित्यर्थः | ततः स्विष्टकृतं दद्याद्धविषा स्वोज्ज्वलेऽनले | मायाबीजं ब्रह्माणीमाहेश्वरीकौमारीवैष्णवीनारसिंही ऐन्द्रीचामुण्डायै विच्चे विष्टेते स्वाहा | एष प्रोक्तो महादेवीमन्त्रः स्विष्टकृदाहुतौ || १२-४३८ || आज्येन नवाहुतिकं मायाबीजादिनामभिः | नन्दारक्तदन्तिकाशाकम्भरीदुर्गाभीमाभ्रामरीकालीशिवदूतीचामुण्डायै प्रजापतिभ्यः | गन्धपुष्पफलोपेतां कृत्वा यज्ञात्मिकां श्रुचम् || १२-४३९ || ततः पूर्णाहुतिं दद्याद्घृतेनाच्छिन्नधारया | नवाक्षरेण मन्त्रेण महालक्ष्मीपरायणः || १२-४४० || ध्यात्वा यज्ञपुरोडाशममृतं देवदुर्लभम् | प्रोक्षणीपात्रमध्यस्थान्मन्त्रेणाश्नाति संस्रवात् || १२-४४१ || यस्मात् प्राशस्तं संस्रवपुरोडाशं प्राश्नामि सुखपुण्यदम् इति मन्त्रः | सलिलेन प्रणीतायास्तीर्थध्यानपरायणः | करोति मार्जनं दर्भैः शतेन श्लोकपाठतः || १२-४४२ || याः शिवाः शक्तयो याश्च ताभिश्च सविता सह | याश्च याः सन्निधानस्थास्तास्ते कृण्वन्तु भेषजम् इति || संसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः | मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् || १२-४४३ || प्. ११८१) अलक्ष्मीं मलरूपां याः सर्वभूतेषु संस्थितम् | क्षालयन्ति जलस्पर्शादापो देव्यः पुनन्तु माम् इति मन्त्र || अभिषिञ्चेदथात्मानं चतुर्भिश्चण्डिकास्तवैः || १२-४४४ || शूलेन पाहि नो देवीत्यादिश्लोकचतुष्टयम् | ऋत्विक्ककर्त्तृयजमानाभिषेके तु पूर्वोक्तश्लोकचतुष्टयमेव | दानं दद्याद्विधानेन हेमधेन्वम्बरादिकम् || १२-४४५ || सजपं होममावेद्य महालक्ष्मीं प्रणम्य च | शूलेन पाहि नो देवीत्येतैः श्लोकैः प्रक्षिणम् || १२-४४६ || विदध्यात् सुस्थिरो भूत्वा चण्डिकाध्यानतत्परः | इत्येतैः शूलेन इत्यादिभिः तैरस्मान्रक्ष सर्वतः इत्यन्तैरित्यर्थः | नमो देव्या इति श्लोकैः पञ्चभिर्ध्यानतत्परः || १२-४४७ || कृत्वा पञ्चनमस्कारानुपविश्यासने शुभे | सर्वस्वरूपे इत्यादिषड्भिः श्लोकैः कृताञ्जलिः || १२-४४८ || प्रार्थयेज्जगतां धात्रीं प्रणतः सन् हृदीप्सितम् | स्वशरीरे समारोप्य दद्यादस्यै विसर्जनम् इति | अनेन विधिना यस्तु प्रकुर्याच्चण्डिकार्चनम् || १२-४४९ || तस्य तुष्टा महालक्ष्मीः सर्वान् कामान् प्रयच्छति | इति होमविधिः | (प्रयोगसारे) चण्डीपाठफलं राजन् शृणुष्व गदतो मम || १२-४५० || एकावृत्त्यादिपाठानां प्रत्यहं पठतां नृणाम् | सङ्कल्पपूर्वं सम्पूज्य न्यस्याङ्गेषु मनून् सकृत् || १२-४५१ || पश्चाद्बलिप्रदानेन फलमाप्नोति मानवः | उपसर्गोपशान्त्यर्थं त्रिरावृत्तं पठेन्नरः || १२-४५२ || प्. ११८२) ग्रहदोषोपशान्त्यर्थं पञ्चावृत्तं वरानने | महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् || १२-४५३ || नवावृत्त्याभवेच्छान्तिर्मुच्येत् प्राणार्त्तिजाद्भयात् | राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत् || १२-४५४ || अर्कावृत्त्या कामसिद्धिर्वैरिनाशश्च जायते | मन्वावृत्त्या रिपुर्वश्यस्तथा स्त्रीवश्यतामियात् || १२-४५५ || सौख्यं पञ्चदशावृत्त्या श्रियं प्राप्नोति मानवः | कलावृत्त्या पुत्रपौत्रधनधान्यागमं विदुः || १२-४५६ || राजभीतिविनाशाय वैरस्योच्चटनाय च | कुर्यात् सप्तदशावृत्तं तथाऽष्टादशकं प्रिये || १२-४५७ || महार्णवविमोक्षाय विंशावृत्तं पठेन्नरः | पञ्चविंशावर्त्तनाच्च भवेद्बन्धविमोक्षणम् || १२-४६० || सङ्कटे समनुप्राप्ते दुश्चिकित्सामये तदा | जातिध्वंसे कुलच्छेदे आयुषो नाश आगते || १२-४६१ || वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये | तथैव त्रिविधोत्पाते तथा चैवातिपातके || १२-४६२ || कुर्याद्यत्नाच्छतावृत्तं ततः सम्पद्यते शुभम् | विपदस्तस्य नश्यन्ति अन्ते याति परां गतिम् || १२-४६३ || श्रियो वृद्धिः शतावृत्त्या राज्यवृद्धिस्तथा परा | मनसा चिन्तितं देवि सिद्ध्येदष्टोत्तराच्छतात् || १२-४६४ || शताश्वमेधयज्ञानां फलं प्राप्नोति सुव्रते | सहस्रावर्त्तन्यल्लक्ष्मीरावृणोति स्वयं स्थिरा || १२-४६५ || भुक्त्वा मनोगतान् कामान् नरो मोक्षमवाप्नुयात् | प्. ११८३) यथाऽश्वमेधः क्रतुषु देवानां च यथा हरिः || १२-४६६ || स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः | नातः परतरं स्तोत्रं किञ्चिदस्ति वरानने || १२-४६७ || भुक्तिमुक्तिप्रदं पुण्यं पावनानां च पावनम् | अथवा बहुनोक्तेन किमेतेन वरानने || १२-४६८ || चण्डिकायाः शतावृत्त्याः सर्वाः सिद्ध्यन्ति सिद्धयः | (मेरुतन्त्रे) कलौ न चण्डीसदृशी सिद्धदा भुवनत्रये || १२-४६९ || वामदक्षिणमार्गाभ्यामधिकारिफलप्रदा | तत्रादिमं चरित्रं तु रोगनाशाय योजयेत् || १२-४७० || उपसर्गविनाशाय मध्यमं योजयेद्बुधः | अन्त्यं विषमकामस्तु चरित्रं परिशीलयेत् || १२-४७१ || चरित्रद्वयशीलस्य न वंशश्छिद्येते क्वचित् | पठेदाद्यन्तचरितं विपत्तिस्तस्य नश्यति || १२-४७२ || अनाद्यं पठते यस्तु मारयेदचिराद्रिपून् | स्वार्थानुसारपद्यं च सप्तशत्यास्तु योजयेत् || १२-४७३ || यस्तन्मत्रेण पुटितं तत्प्रस्ताराङ्कसंख्या | पठेच्चण्डीं तथाऽद्यन्ते स कामस्तस्य सिद्ध्यति || १२-४७४ || स्वशत्रून् दैत्यभावेन स्वमित्रान् देवताधिया | भावयन् योजयेच्चण्डीं त्रिसन्ध्यं मासमात्रकम् || १२-४७५ || मृता वा मृतकल्पा वा शत्रवः स्युर्न संशयः | सितपक्षतिमारभ्य चाष्टम्यन्तमिषस्य यः || १२-४७६ || जपेल्लक्षं मनुं खाद्यैस्त्रिमधुराप्लुतैः | प्. ११८४) प्रत्यहं पूजयेद्देवीं चण्डीमाद्यन्तयोः पठेत् || १२-४७७ || विप्रान् गुरुं समाराध्य वाञ्छितं लभते द्रुतम् | अथ (कात्यायनीतन्त्रो-)क्ताः कति चित् प्रयोगा लिख्यन्ते | प्रतिमन्त्रमाद्यन्तयोः प्रणवं जपेन्मन्त्रसिद्धिः | संप्रणवव्याहृतित्रयमादावन्ते तु विलोमं तदित्येवं प्रतिश्लोकं कृत्वा शतावृत्तपाठेऽतिशीघ्रं सिद्धिः | प्रतिश्लोकमादौ जातवेदसे इति ऋचं पठेत् सर्वकामसिद्धिः | अपमृत्युवारणायादावन्ते च शतं त्र्यम्बकं जपेत् | प्रतिश्लोकं शरणागतदीनार्त्त इति श्लोकं पठेत् सर्वकार्यसिद्धिः | प्रतिश्लोकं करोतु सा नः शुभ इत्यर्धं पठेत् सर्वकामाप्तिः | स्वाभीष्टवरप्राप्त्यै एवं देव्या वरं लब्ध्वा इति श्लोकं पठेत् | सर्वापन्निवरणाय प्रतिश्लोकं दुर्गे स्मृता इति पठेत् | अस्य केवलस्यापि श्लोकस्यापि कामानुसारेण लक्षमयुतं सहस्रं शतं वा जपः | सर्ववाधा इत्यस्य लक्षजपे श्लोकोक्तं फलम् | इत्थं यदा यदा इति श्लोकस्य लक्षजपे महामारीशान्तिः | ततो वव्रे नृपो राज्य इति मन्त्रस्य लक्षजपे पुनः स्वराज्यलाभः | हीनस्ति दैत्यतेजांसि इत्यनेन सदीपबलिदाने घण्टाबन्धने च बालग्रहशान्तिः | आद्यावृत्तिमनुलोमेन पठित्वा ततो विपरीतक्रमेण पुनरनुलोमेन वामावृत्तित्रय उक्तप्रकारेषु शीघ्रं सिद्धिर्भवति | सर्वापन्निवारणाय दुर्गे स्मृता इत्यर्धम् | ततो यदन्तिके यच्च दूरके इत्यृचं तदन्ते दारिद्र्यदुःख इत्यर्धमेव कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः | मारणार्थम् एवमुक्त्वा समुत्पन्ना इति प्रतिश्लोकं पठेत् | मारणोक्तावृत्तिभिः फलसिद्धिः | प्. ११८५) ज्ञानिनामपि चेतांसि इति श्लोकत्रयमात्रेण सद्यो मोहनमित्यनुभव सिद्धम् | प्रतिमन्त्रं तच्छ्लोकपाठे त्ववश्यम् | रोगानशेषा इति श्लोकस्य प्रतिश्लोकपाठे सकलरोगनाशः तन्मात्रजपेऽपि समं फलम् | इत्युक्त्वा सा तदा देवी गम्भीरा इति श्लोकस्य प्रतिश्लोकपाठे यथा जपे वा विद्याप्राप्तिः वाग्वैकृतेर्नाशश्च | भगवत्या कृतं सर्वम् इत्यादिद्वादशोत्तरशताक्षरो मन्त्रः सर्वकामदः सर्वापन्निवारणश्च | देवि प्रपन्नार्त्तिहरे इति श्लोकस्य यथाकार्यं लक्षायुतसहस्रशतान्यमे जपे प्रतिश्लोकपाठे वा सर्वापन्निवृत्तिः सर्वकामाप्तिश्च | एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवलमेव वा नमस्कारकरणेऽतिशीघ्रं सिद्धिः | अत्र सर्वत्र प्रयोगे त्रयोदशपात्रेषु एकस्मिन्नेव पात्रे वा त्रयोदशदीपाः प्रदेयाः | प्रतिश्लोकं कामबीज संपुटितस्यैकचत्वारिंशद्दिनं त्रिरावृत्तौ सर्वकामसिद्धिः | एकविंशतिदिनपर्यन्तमुक्तरीत्या प्रत्यहं दशावृत्तौ वशीकरणम् | मायाबीज पुटितस्य फट्पल्लव सहितस्य सप्तदिनपर्यन्तं त्रयोदशावृत्तपठने उच्चाटनसिद्धिः | तादृशस्यैव दिनचतुष्टयमेकादशावृत्तौ सर्वोपद्रवनाशः | एकोनपञ्चाशद्दिनपर्यन्तं प्रतिश्लोकं श्रीबीज संपुटितस्य पञ्चदशावृत्तौ लक्ष्मी प्राप्तिः | प्रतिश्लोकं वाग्भवबीज संपुटितस्य शतावृत्त्या विद्याप्राप्तिः | अथ परार्थे प्रयोगे ओं पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रमाणो वसुनीथ यज्ञैः | घृतेन त्वं तन्ववर्धयस्व सत्याः सन्तु यजमानस्य कामाः | इति वैदिकमन्त्रं प्रत्यध्यायं प्रत्यावृत्ति वा पठेत् | नवार्णमन्त्रपुटितप्रयोगस्तु कमानामात्रे कर्त्तव्यः | तदुक्तं (वाराहीतन्त्रादौ) शतमादौ शतं चान्ते जपेन्मन्त्रं नवाक्षरम् || १२-४७८ || प्. ११८६) चण्डीसप्तशतीमध्ये संपुटोऽयमुदाहृतः | सकामैः संपुटो जाप्यो निष्कामैः संपुटं विना || १२-४७९ || सर्वकामप्रसिद्ध्यर्थं नवार्णपुटितं जपेत् इति || अत्र नवार्णमन्त्रौ प्रसिद्धौ | तत्रैको दुर्गाप्रकरणे उक्तः | अन्यस्तु (वाराहीतन्त्रे) वेदादिर्वाग्भवं चैव माया कामस्तथैव च | पृथ्वी रेफो वामनेत्रं नादविन्दुविभूषितम् || १२-४८० || माया कामो नमः पश्चान्मूलमन्त्र उदाहृतः | अस्य पुरश्चरणमपि तत्रैवोक्तम् | लक्षं जपेन्मूलमन्त्रं सर्वकामार्थसिद्धये इति | (कात्यायनीतन्त्रे) स्थितिक्रमो भुक्तिकामे मुक्तिकामे च संहृतिः || १२-४८१ || श्रीकामे पुष्टिकामे च सृष्टिक्रम उदाहृतः | सृष्टिक्रमादयश्च तत्रैवोक्ताः | आदिमारभ्य प्रजपेत् सृष्टिक्रम इहोच्यते || १२-४८२ || जपेच्छक्रादिमारभ्य शुम्भदैत्यबधावधि | आद्याच्छक्रादिपर्यन्तं स्थितिक्रम उदाहृतः || १२-४८३ || शेषमारभ्य आद्यन्तं संहारोऽयं क्रमो भवेत् | (मेरुतन्त्रे) चरित्रत्रयप्रयोगसंख्यां यथाक्रममुक्त्वा एवं सप्तशतं चात्र प्रयोगाः परिकीर्त्तिताः || १२-४८४ || तस्मात् सप्तशतीत्येतत् प्रोक्तं व्यासेन धीमता | (कात्यायनीतन्त्रे) तु सप्तशतहोममन्त्रा एवास्य सप्तशतीत्वव्यवहारप्रयोजका इत्युक्तम् | ते च मन्त्रास्तत्रैव | मार्कण्डेय ऋषिप्रोक्तप्रथमश्लोकतः प्रिये || १२-४८५ || व्योमादिवर्णसम्भूतो द्वितीयस्वरसंयुतः | प्. ११८७) व्योम हकारस्तस्यादिः सकारः | द्वितीयस्वर आकारः | तेन सा इति | तथा | नृपान्तं प्रवदेन्मन्त्राः सर्वे चाष्टादश प्रिये || १२-४८६ || वैश्योवाच ततः श्लोका व्योमाद्याः पञ्च मन्त्रकाः | व्योमाद्य आद्यो येषामिति मृगनयनावत् समासः | नृपस्योक्तिर्मान्तवर्णो द्वादशस्वरसंयुतः || १२-४८७ || मान्तवर्णो यकारः | स च द्वादशस्वरेण ऐकारेण युक्तः | सकारो विन्दुसंयुक्तश्चान्ते स मनुरीदृशः | वैश्योवाच पुनर्देवि स्वरैकादश आदितः || १२-४८८ || स्वरैकादश एकारः | वह्निबीजं विन्दुयुक्तमन्ते स्यान्मनुपञ्चकम् | वह्निबीजं रमिति | मार्कण्डेय - ऋषिप्रोक्तं मन्त्रत्रयमुदाहृतम् || १२-४८९ || तादिवर्णं च भुवनस्वरयुग्वाहनं परम् | भुवनस्वर औ | तद्युक्तं वाहनं वौ इति | राजोवाचेति षण्मन्त्रा भादितान्ताः शुभानने || १२-४९० || अथोवाच ऋषिर्ज्ञानमस्तीत्यादि सुरेश्वरि | सर्वेश्वरेश्वरी चान्ते मन्त्रा वै द्वादश स्फुटाः || १२-४९१ || राजोवाचेति भगवन्नादिरन्ते विदां वरम् | मन्त्रत्रयमिदं ख्यातं तत ऋषिरुवाच ह || १२-४९२ || नित्यैव सा पदं चादौ प्रभुरन्तेऽष्टमन्त्रकाः | ब्रह्मोवाच ततश्च त्वं स्वाहादिश्च महासुरौ || १२-४९३ || अन्ते पञ्चदशैते स्युर्मन्त्राः स्युः परमेश्वरि | एवं स्तुतादि - ऋष्युक्तिवान्तमन्त्राश्च सप्त वै || १२-४९४ || प्. ११८८) ततो भगवदुक्तिश्च भवेतादिमनुद्वयम् | वञ्चितेति च ऋष्युक्तिर्मन्त्रौ द्वौ परमेश्वरि || १२-४९५ || ऋष्युक्तिश्च तथेत्यादि मन्त्रद्वयमुदाहृतम् | सर्वे श्लोकास्त्विहाध्याये अष्टयुक् सप्ततिः क्रमात् || १२-४९६ || मध्ये चतुर्विंशतिका अर्धमन्त्राः प्रकीर्त्तिताः | सर्वाश्चाहुतयो ज्ञेयाश्चतुरुत्तरकं शतम् || १२-४९७ || उवाचान्तास्तत्र बोध्याः मन्त्रा भुवनसंख्यकाः | इति प्रथमचरित्रमन्त्रनिर्णयः | ईश्वर उवाच | द्वितीये ऋषिरुवाचेति नवषष्ट्याहुतिः क्रमात् || १२-४९८ || ततस्तृतीयेऽध्याये तु ऋषिरुवाचेति देशिकैः | षट्त्रिंशच्च तथा मन्त्राः श्लोका ज्ञेया वरानने || १२-४९९ || देव्युवाचेति मन्त्रान्ते मन्त्रः श्लोको मतः प्रिये | ऋषेरुक्तिः पुनः श्लोकाः पञ्च मन्त्राः सनातनाः || १२-५०० || एवमाहुतयस्तत्र चत्वारिंशच्चतुर्युतम् | चतुर्थे क्रमतो देवि ऋष्युक्तिः षट् च विंशतिः || १२-५०१ || पुनस्तथैव ऋष्युक्तिः श्लोकौ द्वौ मन्त्ररूपिणौ | एवं स्तुतेति मन्त्रोऽयमतिगुह्यः शुभानने || १२-५०२ || देव्युवाचेति व्रियतां मत्रोऽयं षोडशाक्षरः | देवा ऊचुस्ततश्चोक्त्वा भगवत्या कृतं वदेत् || मन्त्रोऽयं शतवर्णाढ्यो द्वादशोत्तरयुक् पुनः | ततो - ऋषिरुवाचेति इति प्रसादितेति च | चतुःसंख्यास्तु ते श्लोका मन्त्रास्तावन्त एव हि || १२-५०३ || प्. ११८९) श्लोकाश्चतुर्थेऽध्याये तु षट्त्रिंशत् परमेश्वरि | अर्धमन्त्रद्वयेनैव चत्वारिंशद्द्वियुक् पुनः || १२-५०४ || एवं मध्यचरित्रस्य पञ्चाशच्च शतोत्तरम् | तथा पञ्चशतं मन्त्रा महालक्ष्म्या विभेदतः || १२-५०५ || इति मध्यमचरित्रमन्त्रनिर्णयः | ऋषिरुवाच त्रिपुरा विष्णुमायां प्रतुष्टुवुः | षण्मन्त्राः श्लोकरूपास्ते देवा ऊचुस्ततः परम् || १२-५०६ || नमो देव्यादितः श्लोकास्त्रिंशद्विनम्रमूर्तिभिः | विष्णुमायादितो भ्रान्तिरूपान्ते त्रीणि षष्टियुक् || १२-५०७ || अवतारपृथङ्मन्त्रास्तेषां त्रिषष्टिराहुतीः | चितिरूपेण मन्त्रेण आहुतित्रयमाचरेत् || १२-५०८ || एवं मन्त्रा अशीतिस्ते ऋषिरुवाच इत्यथ | एवं स्तवादियुक्तानां त्वया कस्मान्न गृह्यते || १२-५०९ || मन्त्राः सप्तदशैते तु ऋष्युक्तिर्निशम्येति वै | इत्यादित्रितयैर्मन्त्रैः शुद्धभेदाः प्रकीर्त्तिताः || १२-५१० || अथ दूत उवाचेति देवि दैत्येश्वरः परम् | इत्यादिनवमन्त्राश्च पुना ऋषिरुवाच ह || १२-५११ || इत्युक्तेत्यादिमन्त्रेण एकेन च सरस्वती | देव्युवाचेति श्लोकास्तु चत्वारो मन्त्रभेदतः || १२-५१२ || दूत उवाचेति पुनरवलिप्ताऽसि इत्यथ | मन्त्राश्चत्वारो विज्ञेया देव्युवाच ततः परम् || १२-५१३ || एवमेतद्बली शुम्भो स च युक्तं करोतु यत् | इति मन्त्रद्वयं श्लोका अर्धमन्त्राश्च ते नव || १२-५१४ || प्. ११९०) एकोनत्रिंशच्च शतादधिका मन्त्ररूपकाः | इति पञ्चमोऽध्यायः | ऋषिरुवाचेत्याकर्णेति श्लोकाश्चत्वार ईरिताः || १२-५१५ || पुना ऋषिरुवाचेति तेनाज्ञप्तस्ततः परम् | मन्त्रत्रयमिदं प्रोक्तं देव्युवाचेति वै तथा || १२-५१६ || दैत्येश्वरेण प्रहितो एको मन्त्रः प्रकीर्त्तितः | ततश्च ऋषिरुवाच इत्यक्तः सोऽभ्यधावत || १२-५१७ || इत्यादिद्वादशश्लोकाः षष्ठेऽध्याये प्रकीर्त्तिताः | चतुर्विंशतिभेदास्ता देवताहुतयः क्रमात् || १२-५१८ || इति षष्ठोऽध्यायः | ऋष्युक्तिराज्ञ इत्यादित्रयोविंशतिमातरः | ऋषिरुवाच तावानीतौ मातृभेदद्वयं क्रमात् || १२-५१९ || सप्तविंशत्यत्र देवि भवन्त्याहुतयः क्रमात् | अत्राध्यायद्वये देवि धूम्राक्षी तु प्रकीर्त्तिता || १२-५२० || इति सप्तमोऽध्यायः | ऋषिश्चण्डे च निहते इत्याध्यायावसानकम् | त्रिषष्ठ्याहुतयः प्रोक्ता एका त्वर्धाहुतिर्मता || १२-५२१ || रक्ताक्षी देवता अष्टौ महाशक्त्यः प्रकीर्त्तिताः | इत्यष्टमोऽध्यायः | राजा विचित्रमित्यादि श्लोकद्वयमुदाहृतम् || १२-५२२ || ऋषिश्चकार कोपं हि इत्यादिश्लोकरूपतः | एकचत्वारिंशदिह आहुतिर्नवमे शुभे || १२-५२३ || देवता भैरवी तावच्छृणु गोप्यं वरानने | इति नवमोऽध्यायः | प्. ११९१) ऋषिर्निशुम्भनिहतमित्यादिद्वयमन्त्रकम् || १२-५२४ || ततो देवीति मन्त्रो द्वौ एकैवाहं मनूत्तमौ | पुनर्देव्येकमन्त्रेण व्यक्तमन्त्रा उदीरिताः || १२-५२५ || ऋषिस्ततः प्रववृते सार्धद्वाविंशतिस्त्वयम् | द्वात्रिंशन्मनवस्तत्र एको ह्यर्धमनुर्मतः || १२-५२६ || प्रथमं सिंहमासीना शूलपाशविधारिणी | मुख्या चतुर्भुजा बाणचापहस्ता शुभेक्षणा || १२-५२७ || इति दशमोऽध्यायः | ऋषिः सुमेधा विख्यातः प्रोक्तो देव्या हते शुभे | चतुस्त्रिंशत् तथा श्लोका मन्त्रास्तत्संख्यकाश्च ते || १२-५२८ || ततो देव्येकमन्त्रेण वरदाऽहं सुरेश्वरि | देवा ऊचुस्तथा सर्ववाधाप्रशमनं तथा || १२-५२९ || श्लोकेनैकेन देवेशि देव्युवाच ततः परम् | वैवस्वतेऽन्तरे प्राप्तेत्यादिश्लोकाश्चतुर्दश || १२-५३० || सार्धसर्वाहुतिर्देवि पञ्चाशत् पञ्चसंयुताः | वैष्णवी देवता ह्यत्र महागरुडवाहिनी || १२-५३१ || इत्येकादशोऽध्यायः | देव्युवाचेति च तत एभिः स्तवैश्च मां सदा | दूरेत्यर्धेन सहिता अष्टाविंशतिरूपकाः || १२-५३२ || ततश्च ऋषिरुवाच इत्युक्त्वा श्लोकमादितः | ऊर्धयुग्दशभिः श्लोकैर्मन्त्रास्तत्संख्यका मताः || १२-५३३ || एवं तु द्वादशाध्याये एकचत्वारिंशदाहुतीः | इति द्वादशोऽध्यायः | प्. ११९२) ततस्त्रयोदशेऽध्याये ऋषिरुवाच इत्यथ || १२-५३३ || एतत् ते कथितं भूपेत्यादिसार्धत्रयं मनुः | मनुचतुष्टयमित्यर्थः | मार्कण्डेय उवाचेति ततो वव्रे मनुद्वयम् || १२-५३४ || देव्युवाच पुनश्चैव स्वल्पश्लोकत्रयेण वै | अर्धानामेव मन्त्रत्वाद्भवत्यत्र षडाहुतिः || १२-५३६ || षट्संख्याहुतिरित्यर्थः | ततो मार्कण्डेय उवाचेति दत्वा तयोरिति | द्वौ मन्त्रौ पुनरुच्चार्य सावर्णिर्भविता मनुः || १२-५३७ || एकोनत्रिंशत्संख्याकाऽहुतिरत्र विधीयते | एवं त्रयोदशाध्याये होमे तर्पणकर्मणि || १२-५३८ || शतानि सप्तसंख्यानि तव प्रोक्तानि शैलजे | सकारादिनकारान्तो मनुः परमदुर्लभः || १२-५३९ || स संप्रदायविधिना ज्ञातव्यो मम वल्लभे | अन्यथा विफलो मन्त्रः सत्यं सत्यं मयोदितः || १२-५४० || विधिनेति | अष्टम्यां वा चतुर्दश्यामिति कीलकेनेत्यर्थः | तत्र होमे स्वाहान्ता एते मन्त्राः पूजायां नमोऽन्ताः | तर्पणे तर्पयाम्यन्ताः | केचित् तन्मन्त्रं पठित्वा तत्तदध्यायदेवतायै स्वाहा इत्येवम् | तत्तदध्यायहोमे तत्तदध्यादेवतां तर्पयामि इति तर्पणे | तत्तदध्यायदेवतायै नमः इति पूजने इत्याहुः | एवं होमाशक्तौ | जयन्ती मन्त्रेण नमो देव्या इति मन्त्रेण सर्वमङ्गल इति मन्त्रेण वा होमपूजातर्पणानि | जुहुयात् स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः इत्यपि (रहस्ये) | आदौ तु कवचं कृत्वा पश्चात् सप्तशतीं जयेत् इत्यादिवचनात् | प्. ११९३) कवचपाठे क्रियमाणे तच्छ्लोकैराहुतयो न देयाः | अन्धकश्च पुरा दैत्यो दुर्गाहोमपरायणः | कवचाहुतिमन्त्रेण महेशेन निपातितः इति तन्त्रान्तरवचनात् | कवचं चात्रशूलेन पाहिनो देवि इत्यादिश्लोकचतुष्टयरूपमिति केचित् | तत्र (कात्यायनीतन्त्र-) विरुद्धे (कात्यायनीतन्रो-)क्तमन्त्रविभाग एवाभियुक्तैः स्पष्टीकृत्याभिदर्शितः | तथा हि | अष्टसप्तत्युत्तरं तु श्लोकानां शतपञ्चकम् || १२-५४१ || प्रोक्तं सप्तशतीस्तोत्रे तत्सप्तशतसंख्यया | विभज्य जुहुयान्मन्त्रमिति कात्यायनीमतम् || १२-५४२ || मार्कण्डेय उवाचैकः सावर्ण्याद्यास्ततः परम् | श्लोकमन्त्राः सप्तदश अर्धश्लोकात्मकस्ततः || १२-५४३ || एकोनविंशदेवं स्युर्वैश्योक्तिर्विंशतिस्तथा | पुनरर्धं पुनः श्लोकं त्रयमर्धं पुनर्भवेत् || १२-५४४ || पञ्चविंशतिसंख्या स्याद्राजा षड्विंशतिस्तथा | अर्धश्लोकात्मकं मन्त्रद्वयमर्धं पुनर्भवेत् || १२-५४५ || एकोनत्रिंशदेवं तु मन्त्रसंख्याः प्रकीर्त्तिताः | पुनरर्धं पुनः श्लोकत्रयमर्धं पुनर्भवेत् || १२-५४६ || मार्कण्डेयः पुनश्चार्धश्लोकः श्लोकात्मकः पुनः | अर्धश्लोकात्मको मन्त्रो राजार्धश्लोकमन्त्रकः || १२-५४७ || मन्त्राश्चत्वारिंशदेव श्लोकमन्त्रचतुष्टयम् | पुनरर्धमृषिश्चार्धश्लोकमन्त्राः पुनर्दश || १२-५४८ || पुनरर्धं पुना राजा एकोना षष्टिरुच्यते | पुनरर्धं पुनः श्लोकः पुनरर्धं पुना ऋषिः || १२-५४९ || प्. ११९४) पुनरर्धं पुनः श्लोकाः षण्मन्त्राः पुनरर्धकाः | निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १२-५५० || इत्येव पाठो मन्त्राणामेकसप्ततिरुच्यते | ब्रह्मार्धश्लोकमन्त्रोऽथ श्लोकमन्त्रास्त्रयोदश || १२-५५१ || अर्धश्लोकः पुनः श्लोक ऋषिः श्लोकास्तु पञ्च वै | पुनरर्धं तु मन्त्राणां सपञ्चनवतिः स्मृताः || १२-५५२ || भगवानर्धमन्त्रौ द्वौ ऋषिः श्लोकार्धकं पुनः | श्लोकः पुना ऋषिः श्लोकद्वयं मन्त्रद्वयं भवेत् || १२-५५३ || श्लोकानामष्टसप्तत्या चतुर्भिरधिकं शतम् | अध्यायादावेव ऋषिरुवाचेति सकृन्मनुः || १२-५५४ || अष्टषष्टिमिताः श्लोकास्तावन्तो मनवो मताः | एकोनसप्ततिः सर्वेऽध्याये मन्त्रा द्वितीयके || १२-५५५ || आदावृषिरुवाचैकं पञ्चविंशत् ततः परम् | निहन्यमानाद्याः श्लोका मुखरागाकुलाक्षराः || १२-५५६ || इत्यन्ता देव्युवाचैको गर्ज गर्जेति चापरः | श्लोको - ऋषिरुवाचेति पुनश्च श्लोकपञ्चकम् || १२-५५७ || चतुश्चत्वारिंशदैवं सर्वे मन्त्रास्तृतीयके | आदावृषिरुवाचेति शक्राद्याः श्लोकमन्त्रकाः || १२-५५८ || षड्विंशास्तु ऋषिः श्लोकद्वयं देवी ततः परम् | व्रियतां त्रदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् || १२-५५९ || इत्यर्धश्लोकमन्त्रोऽथ देवा उचुस्ततः परम् | भगवत्या कृतं सर्वमित्यर्धश्लोकमन्त्रकः || १२-५६० || यदयं नियताद्यं च श्लोकमन्त्रत्रयं भवेत् | प्. ११९५) ऋषिश्लोकास्तु चत्वारो मनवः परिकीर्त्तिताः || १२-५६१ || षट्त्रिंशच्छ्लोककेऽध्याये चत्वारिंशद्द्वयाधिकम् | षट्सप्ततिश्लोकयुक्तेऽध्याये मन्त्रास्तु पञ्चमे || १२-५६२ || एकोनत्रिंशदधिकं शतं कात्यायनीमते | आदौ ऋषिरुवाचेति पुरा शुम्भादयश्च षट् || १२-५६३ || श्लोकमन्त्रास्ततो देवा ऊचुश्चैवाष्टमो मनुः | नमो देव्यादिकाः श्लोकाः पञ्च मन्त्राः प्रकीर्त्तिताः || १२-५६४ || त्रयोदशैव मन्त्रास्तु या देवीत्यादयोऽपि च | एकविंशतिकाः श्लोका भ्रान्त्यन्तास्तेषु मन्त्रकाः || १२-५६५ || प्रतिश्लोके त्रयो मन्त्रा ज्ञेयास्ते च त्रिषष्टिकाः | या देवी सर्वभूतेषु विष्णुमायेति शब्दिता || १२-५६६ || नमस्तस्यै इति प्रोक्तो विंशत्यक्षरको मनुः | नमस्तस्यै इति प्रोको द्वितीयश्चतुरक्षरः || १२-५६७ || अष्टाक्षरस्तृतीयोऽपि नमतस्यैव नमो नमः | एवं द्वांविंशतिश्लोके ज्ञेयं मन्त्रत्रयं बुधैः || १२-५६८ || पुनः श्लोकात्मको मन्त्रस्त्रिमन्त्रः श्लोककः पुनः | त्रयोविंशच्छ्लोककेषु मन्त्रा वै सप्तषष्टिकाः || १२-५६९ || पूर्वैस्त्रयोदशैर्मन्त्रैः सहाशीतिरुदाहृता | स्तुता सुरैरिति श्लोकद्वयं चैव पुना ऋषिः || १२-५७० || पुनः सप्तदशश्लोका ऋषिः श्लोकत्रयं ततः | दूतश्चैव नव श्लोका ऋषिरेकोऽम्बिका ततः || १२-५७१ || एक इत्यस्यैकश्लोकः इत्यर्थः | चतुःश्लोकी पुनर्दूतश्चतुःश्लोकी पुनः शिवा | प्. ११९६) श्लोकद्वयं मिलित्वा तु चत्वारिंशन्नवाधिकम् || १२-५७२ || अशीत्याऽपि च संयोग एकोनत्रिंशताऽधिकम् | शतमेवं तु विज्ञेयमाहुतीनां च पञ्चमे || १२-५७३ || विंशतिश्लोकसंयुक्ते षष्ठेऽध्याये प्रकीर्त्तिता | सर्वे श्लोका मन्त्ररूपा देव्ये काऽथ ऋषित्रयम् || १२-५७४ || चतुर्विंशतिमन्त्राणामित्येवं परिकीर्त्तितम् | पञ्चविंशच्छ्लोकयुक्तेऽध्याये मन्त्रास्तु सप्तमे || १२-५७५ || सर्वे मन्त्राः श्लोकरूपा ऋष्युवाचद्वयं ततः | सप्तविंशतिरेवं तु मन्त्रसंख्या प्रकीर्त्तिता || १२-५७६ || सार्धैकषष्टिश्लोकाद्येष्टमेऽध्याये प्रकीर्त्तिताः | एकषष्टिश्लोकमन्त्रा अन्तेऽर्धश्लोकमन्त्रकः || १२-५७७ || आदावेक ऋषिश्चैव त्रिषष्टिर्मन्त्रसंततिः | एकोनचत्वारिंशद्भिः श्लोकैर्युक्ते समीरिताः || १२-५७८ || अध्याये नवमे मन्त्रास्तावन्तोऽथ मनुद्वयम् | राजा ऋषिश्चेति चैकचत्वारिंशन्मनुस्त्वयम् || १२-५७९ || सार्धसप्तान्वितैर्विंशच्छ्लोकैस्तु दशमेऽन्विते | सप्तविंशतिमन्त्रास्तु श्लोकरूपास्ततोऽन्तिमः || १२-५८० || अर्धश्लोकात्मको मन्त्र ऋष्युवाचद्वयं तथा | देव्युवाचद्वयं चैव द्वात्रिंशन्मन्त्रसंग्रहः || १२-५८१ || श्लोकानां सार्धपञ्चाशज्ज्ञेयमेकादशे स्फुटम् | पञ्चाशच्छ्लोकमन्त्रास्तदन्तेऽर्धश्लोकमन्त्रकः || १२-५८२ || शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि | एषोऽर्धमन्त्र इत्याहुः केचिदत्र विचक्षणाः || १२-५८३ || प्. ११९७) देवीद्वयमृषिश्चैको देवा एकमितीरितम् | पञ्चाधिकं तु पञ्चाशन्मन्त्रा ज्ञेयाः परिस्फुटम् || १२-५८४ || अष्टत्रिंशच्छ्लोकयुक्तेऽप्यध्याये द्वादशात्मके | चत्वारिंशच्च एकश्च मन्त्रास्तत्राहुतिद्वयम् || १२-५८५ || अर्धश्लोकात्मकं श्लोकाः सप्तत्रिंशन्मिता ऋषिः | देव्युवाचेति चैवैकमेवं संख्या स्फुटोदिता || १२-५८६ || त्रयोदशे सार्धसप्तदशश्लोकाः प्रकीर्त्तिताः | ऋषिरुवाचेत्यारभ्य भोगस्वर्गापवर्गदाः || १२-५८७ || इत्यन्ताः पञ्चमन्त्रास्ते मार्कण्डेयस्ततः परम् | इति तस्य वचः श्रुत्वेत्यर्धमन्त्रः प्रकीर्त्तितः || १२-५८८ || श्लोकमन्त्रास्ततो ज्ञेयाः पञ्चैवाथार्धमन्त्रकम् | देव्युवाचेति मन्त्रोऽयं ततः श्लोकस्तु मन्त्रकः || १२-५८९ || मार्कण्डेयस्ततो मन्त्रः श्लोकौ मन्त्रद्वयं ततः | ततो देवीषडर्धानि सप्त मन्त्राः प्रकीर्त्तिताः || १२-५९० || मार्कण्डेयस्ततः पश्चाद्द्वयं मन्त्रद्वयं स्मृतम् | आवृत्त्या त्वधिको मन्त्रः सावर्णिर्भविता मनुः || १२-५९१ || एकोनत्रिंशत्संख्याका मन्त्रा अत्र स्मृता बुधैः इति | अथ प्रसङ्गात् प्रश्नविधिरुच्यते (तन्त्रविधानमुक्तावली-)धृतवचनानि | त्रयोदशदलं पद्मं लिखित्वा सुमनोहरम् | एकाङ्कादिक्रमेणाङ्कैर्दलानि परिपूरयेत् || १२-५९२ || प्रत्यध्याये श्लोकसंख्याः पृथग्लेख्याश्च पङ्क्तिशः | पूजयेत् पुस्तके दुर्गां नवर्णेन विधानवित् || १२-५९३ || देवि दुर्गे नमस्तुभ्यं सर्वज्ञे सर्वदर्शिनि | प्. ११९८) सिद्धिकार्यस्य वा सिद्धिं सत्यं मन्त्रं प्रदर्शय || १२-५९४ || एवं संप्रार्थ्य वा फलं वाऽक्षतमेव वा | कुमार्या वा शिशोर्हस्तादध्यायाङ्के निधाययेत् || १२-५९५ || विदित्वा चैवमध्यायं तत्पद्याङ्के निधापयेत् | श्लोकं ज्ञात्वा ततो मन्त्री वाचयीत स्फुटाक्षरम् || १२-५९६ || श्लोकस्यार्थानुसारेण ज्ञेयं विज्ञैः शुभाशुभम् | वरदानार्थकाः श्लोका देवीतुष्ट्यर्थकाश्च ये || १२-५९७ || त्राणाभ्युपगमार्थाश्च भाविभव्यार्थकाश्च ये | देवोत्सवाभिधेया ये श्लोकास्ते सिद्धिसूचकाः || १२-५९८ || दैत्यानां संख्ययो यत्र देवीविक्रमवर्णनम् | अमर्षवर्णनं देव्या असुरेषु रणाजिरे || १२-५९९ || एवं विधाश्च ये श्लोकाः संग्रामविजयप्रदाः | प्रार्थनार्थाश्च ये श्लोकाः स्तोत्ररूपास्तथैव च || १२-६०० || सूचयन्ति च ते सिद्धिं दीर्घकालविलम्बिनीम् | यदि स्यादुत्तरश्लोको वरदानार्थकस्तथा || १२-६०१ || सिद्धिमीदृगपि श्लोकस्तुर्णमेवाभिशंसति | आपदो वर्णनं तस्या वेदनं च सुपर्वणाम् || १२-६०२ || भूभृद्विशोश्च संवादो वर्णनं विपदस्तयोः | दूतवाक्यं च दैत्यानां विक्रमस्य च वर्णनम् || १२-६०३ || प्रयाणवर्णनं तेषां कार्यनाशस्य सूचकम् | आपद इति सुपर्वणामापदो वर्णनमित्यन्वयः | तस्या आपदो वेदनं ज्ञानं कथनमिति यावत् | स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि || १२-६०४ || विचरन्ति इत्यदिरूपमित्यर्थः | प्. ११९९) केचिदिष्टमनिष्टं वा श्लोकानावेदयन्ति च | तादृशश्लोकलाभे तु पुनः प्रश्नं समाचरेत् || १२-६०५ || इति सप्तशतीप्रकरणम् | अथ प्राणायामपुरश्चरणं तदुक्तं (सिद्धान्तसंग्रहे) अथातः संप्रवक्ष्यामि प्राणायामपुरस्क्रियाम् | बद्धपद्मासनो मन्त्री समकायशिरोऽधरः || १२-६०६ || वशीकृतेन्द्रियग्रामो नाकुलः कम्पवर्जितः | मूलाधारेऽनाहते वा भ्रूमध्ये वा स्वपङ्कजे || १२-६०७ || मन्त्रं ज्योतिर्मयं ध्यायेद्येनासौ प्राणसंयमः | प्राणसंयमः प्राणायामो येन मन्त्रेण कर्त्तव्य इत्यर्थः | तथा | तत्स्वरूपं शिवं ध्यायेत् पूर्वोक्तेनैव वर्त्मना || १२-६०८ || प्राणायामं चरेद्धीमान् पूरकादिकलक्षणम् | शिवमिति प्रकृतदेवताभिप्रायेण | तथा | प्रातःकालं समारभ्य यावद्यामद्वयं भवेत् || १२-६०९ || हविष्यान्नैस्तथा नक्तं प्रकुर्याद्भोजनं मितम् | न कुर्याद्योषितां स्पर्शं न पश्येत् पामरं जनम् || १२-६१० || शुद्धभूमौ कुशास्तीर्णे शयीत विजितेन्द्रियः | एवं लक्षमितं कुर्यात् प्राणायामं विचक्षणः || १२-६११ || ततो होमादिकं कुर्यात् पुरश्चर्योक्तवर्त्मना | भोजनं कारयेद्विप्रान् गुरुं संतोषयेत् तथा || १२-६१२ || एवं कृत्वा सर्वपापनिर्मुक्तः शुद्धविग्रहः | मन्त्रसिद्धिमवाप्नोति योगसिद्धिं विशेषतः || १२-६१३ || अणिमाद्यष्टसिद्धीनामपि स्यादाश्रयस्तु सः | प्. १२००) यन्मन्त्रं साधयेन्मन्त्री स मन्त्रस्तस्य सिध्यति || १२-६१४ || इति प्राणायामपुरश्चरणम् | अथ पुरश्चरणव्यतिरिक्तेन मन्त्रसिद्धिप्रकारो (वीरतन्त्रे) अथ सम्यक् प्रवक्ष्यामि गुरुसिद्धिपरम्पराम् | एवं ज्ञात्वा विशेषज्ञो गोपयेत् प्रीतये मम || १२-६१५ || एतत्प्रकाशनाल्लोके महाहानिः पदे पदे || १२-६१५एf || शिवशिखिशीतभानुं पञ्चमान्त्यस्वराढ्यं द्वितयमिदमपूर्वं बीजमुग्रप्रभायाः | क्षणमपि रमणीनां मण्डलान्तर्विभाव्य क्षपयति दुरदृष्टं वादिराड्जायते सः || १२-६१६ || शिवो हकारः | शिखी वह्निस्तद्बीजं रेफः | सितभानुरनुस्वारः | पञ्चमान्त्यस्वर उकारस्तेन हुमिति प्रणवादिवह्निजायान्तस्योग्रप्रभामन्त्रस्य द्वितीयं बीजमित्यर्थः | तथा | स जयति रिपुवर्गान् वादिराजान् विवादे रमयति रमणीनां चित्तचौरश्चिरायुः | कवयति कविराजैरप्यदृष्टं सुकाव्यं मधुमतिरपि हेया किं पुनः सिद्धिसंघाः || १२-६१७ || कुलयुवतिसुयोनौ मन्त्रवर्णान् विलिख्य निखिलनिगमवर्णान् सुप्तदोषादिदुष्टान् | विदितगुरुकुलान्तर्बाह्यवर्त्मा विधिज्ञो मधुपुटितपटीयान् भावयेच्छान्तचित्तः || १२-६१८ || कुलपथमनुसन्ध्यातर्पणासक्तचित्त स्तव जननि जनो यस्तर्पयेत् तीर्थतोयैः | स किल सुरतपुष्पैर्गन्धमाल्यानुरूपै प्. १२०१) रचितयुवतिवेशस्तद्धिया ध्यायते सः || १२-६१९ || परिचरति समस्तैर्न्यासपूर्वैः प्रसिद्धैः स्तवपरिकरजालैर्योनिचक्रे प्रपूज्य | सुविमलकुलजातां ह्रीघ्रिणावर्जितां यः स्वयमपि रचिताङ्गः क्षोभकृद्योगिनीनाम् || १२-६२० || पशुरिपुकुलचक्रे संस्पृशन्मध्यशाखं सुरतरुसुरनाथः पापभ्रष्टसुवेशः | कुलपतिकुलनाथस्तद्द्वयं योजयित्वा मनुपुटितविमृष्यं योजयेत् तद्बहिर्यः || १२-६२१ || जननि तव कलानां को विदां कामरूपः कुमतिरहितचित्तः संलिखेत् तान्त्रिधारे | विगतभयविवादध्वान्तजालः सुधांशु स्तव चरणतलान्तर्धृत्यजालैर्विधेयः || १२-६२२ || परिकलितवपुस्तद्धर्मभिर्देवपूज्यैः परिचरति स विज्ञो मोक्षचर्याधिया सः | मदनमदवधूनां बीजमुद्धृत्य शक्तिं तदनु कठतबीजं लोकधात्रीं तदन्तः || १२-६२३ || यदि जपति मदन्तर्भावमासाद्य सद्यः सुरनगरगतिस्तैः सिद्धवर्गैः स पूज्यः | शिवभृगुमदपृथ्वीशक्तियुक्तं सुसिद्धो हरिहरचतुरास्यस्वस्वभूतिप्रभूतम् || १२-६२४ || परमवरदसंज्ञः क्षोभकृत् कामिनीना मधिपतिरपि वाचां श्रीपतिः सार्वभौमः | प्. १२०२) भृगुमदकथिताधः कामबीजं तदग्रे भुवनभयविनाशः क्षोभिणीं योजयित्वा || १२-६२५ || जपति यदि सकृद्वा चिन्त्यते वीरसिंहः कुलयुवतिकुलान्तः क्षोभकृत् कामभावात् | मदनमदलताधः शक्तिबीजं नियोज्य स्मरहरहरिरूपी कामरूपः कुवेरः || १२-६२६ || रिपुकुलहरिणाक्षीलोचनाम्भोजविद्यु द्विपुलजननिषेकात् खण्डितान्तोग्रतापः | शिवभृगुमदमूलं लोभमूलं भजन्ति यदि विविधगुरूणां वर्त्ममूलं विमृष्य || १२-६२७ || निधिपतिरपि नाथो गीष्पतिर्भद्रचेता यदि भवति तदेतन्मुख्यमुर्वोपतित्वम् | वरुणवलविवर्जं घ्राणमेकं विवर्जं तदुपरि मृगचिह्नं द्वन्द्वमेतद्भवान्याः || १२-६२८ || निखिलमुनिवराणां मोक्षदानैकदक्षः सदसतसमधर्मा क्षेमकृन्मन्त्रराजः | शिवशमनययुक्तं बीजमेतद्भवान्या अनलशिवसधर्माश्चादिराजं स्वतन्त्रम् || १२-६२९ || तव समनययुक्तं बीजमेतद्भवान्या द्वितयमपि विमानं वक्तुमोशो महेशः | किमिह कमलजन्मा जन्मधारासहस्रै रिति भजति नराणां मन्त्रराजं स्वभाग्यै || १२-६३० || भवति जननि युष्मत्पादपद्मोयभक्त प्. १२०३) स्त्यजसि परपुमांसं नेदृशं क्वापि काले | न खलु वपुपुरर्घ्यं तस्य काचित् कदाचि न्निहितगुरुमुखाद्वा प्राप्य कस्मादकस्मात् || १२-६३१ || स्मररिपुपुरपारे मोक्षचर्यास्वपारे परमपदविलीनः सर्वसौभाग्यभोगैः | अनलपुरविभागे कालिकारन्ध्रबीजं तदपि यदि विदध्याद्दिक्षितं दण्डवर्णम् || १२-६३२ || नयनयुतलकारं मस्तके नामयुक्तं तदनु विकटदंष्ट्रासोत्कटं बीजयुक्तम् | यदि जपति समस्तं गुह्यगुह्यातिगुह्यं त्रिजगति किमिहास्ते क्लेशलभ्यं कथं चित् || १२-६३३ || क्रमपचितमपूर्वं सर्वमेवानुबद्ध्यं मनुरपरविभाव्यस्तस्य मध्यस्थरूपम् | भजति यदि चिदानन्दात्मधृक् केवलोऽसौ विविधभुवनमुख्यः कौतुकी मानमुख्यः || १२-६३४ || इति ते कथितं सर्वं रहस्यं परमाद्भुतम् | यथानुक्रमतो लोके किं न साध्यति योगिराट् || १२-६३५ || अथ भैरवसाधनं (मेरुतन्त्रे) अथातः संप्रवक्ष्यामि नानाभैरवसाधनम् | श्मशाने ते तु तिष्ठन्ति काले काले पुरे पुरे || १२-६३६ || नियमं कं चिदेकं यो न त्यजेद्धर्मगर्भितम् | वाममार्गादिनिरतोऽप्यद्वेष्टेतरवर्त्मनाम् || १२-६३७ || हीने गुरावपूर्णे वा साधने लोकभीतितः | स भवेद्भैरवो देवस्तस्य देशस्य शासकः || १२-६३८ || प्. १२०४) तत्रत्यभूतवेतालाः सदा संसेवयन्ति तम् | स्वमार्गप्रच्युतानां स शासनं कुरुते सदा || १२-६३९ || क्षीणकर्मणि तस्मि/श्च गते ग्रामो विलीयते | अन्यस्मिन् भैरवे जाते ग्रामो वसति निश्चितम् || १२-६४० || यदाम्नायो भैरवोऽसौ तच्छासनं तु तद्दिशि | तेन मार्गेण वशयेत् कार्यार्थं भैरवं तु तम् || १२-६४१ || वाग्रमाकायमायाख्यास्तारो बीजं क्रमाद्भवेत् | पूर्वाद्यूर्ध्वान्तकानां तदाम्नायानां क्रमेण च || १२-६४२ || आम्नायबीजं ग्रामस्य बीजं भ्रा/ भैरवस्य च | ग्रामनाम ततः प्रोच्य पितृगेहे निवासिने || १२-६४३ || ततस्तेषां मनुमिमं जपेद्दशसहस्रकम् | निशि श्मशाने च बलिं तदाम्नायोक्तवर्त्मना || १२-६४४ || जपादौ च जपान्ते च नित्यं दद्यादनन्यधीः | वटुकोक्तं हुनेद्गव्यं तर्पणादि ततश्चरेत् || १२-६४५ || एवं सिद्धमनुर्मन्त्री भूतानां निग्रहक्षमः | तस्मिन् देशे भवेत् तस्य प्रत्यक्षीकरणं शृणु || १२-६४६ || कृतनित्यक्रियः प्रातः सोपवासो जितेन्द्रियः | सायं सन्ध्यादिकं कृत्वा शान्तिपाठं विधाय च || १२-६४७ || प्रगृहीत्वा च सामग्रीं सायं सोत्तरसाधकः | व्रजेच्छ्मशानसामग्रीं शृणु सुस्थिरमाषकान् || १२-६४८ || अनङ्कुरान् जलतिलान् मुद्गा/स्तद्वन्मसूरिकान् | तथैव चणकान् भक्तं पायसान् पूपशष्कुलीः || १२-६४९ || कन्यकाकर्त्तितं सूत्रं कुङ्कुमेन सुरञ्जितम् | प्. १२०५) अष्टौ वितस्तिदीर्घाश्च मुष्टिस्थूलाश्च खादिराः || १२-६५० || कोला एको हस्तमात्रं गन्धपुष्पादिकं तथा | बलिद्रव्यं च पूर्वोक्तं पूर्वाम्नाये समत्स्यकम् || १२-६५१ || समांसं पश्चिमाम्नाये समद्यं चोत्तरे भवेत् | ग्राममध्ये श्मशाने च ऊर्ध्वाम्नाये सरक्तकम् || १२-६५२ || यथायोग्यं च नैवेद्यं गच्छेच्च भयवर्जितः | पादप्रक्षालनं कृत्वा ततः स्मृत्वाऽस्य देवताम् || १२-६५३ || बद्धाञ्जलिरिदं वाक्यं प्रवदेत् साधकोत्तमः | अत्र श्मशाने याः काश्चिद्देवताः निवसन्ति हि || १२-६५४ || ताः प्रयच्छन्तु मे सिद्धिं प्रसन्नाः सन्तु पान्तु माम् | पूर्वे मां शङ्करः पातु तथाऽग्नेययां च शूलधृक् || १२-६५५ || कपाली दक्षिणे पातु नैर्-ऋत्ये जटिलोऽवतु | पश्चिमे पार्वतीभर्त्ता वायव्यां प्रमथाधिपः || १२-६५६ || उत्तरे मुण्डमालाढ्य ईशाने वृषभध्वजः | ऊर्ध्वं पातु तथा शम्भुरधस्ताद्धूलिधूसरः || १२-६५७ || अग्रतो भैरवः पातु पृष्ठतः पातु खेचरः | दक्षिणे भूधरः पातु वामे तु पिशिताशनः || १२-६५८ || केशान् पातु विशालाक्षो मूर्धानं च मरुत्प्रियः | मस्तकं पातु भृग्वीशो नेत्रे पातु महामनाः || १२-६५९ || कपोलौ पातु वीरेशो गण्डौ गण्डादिमर्दनः | उत्तरोष्ठे विरूपाक्षस्त्वधरे योगिनीप्रियः || १२-६६० || दन्तेषु दक्षविध्वंसी चिवुके नृकपालधृक् | कण्ठे रक्षतु मां देवो नीलकण्ठो जगद्गुरुः || १२-६६१ || प्. १२०६) दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धे च सुन्दरः | भुजे च दक्षिणे सर्वमन्त्रनाथः सदाऽवतु || १२-६६२ || वामे भुजे सार्वभौमो हृदये पातु पाण्डुरः | दक्षस्तनं पशुपतिर्वामं पातु महेश्वरः || १२-६६३ || उत्तरे सर्वकल्याणकारकोऽवतु मां सदा | नाभौ कामप्रविध्वंसी जङ्घे पातु दयामयः || १२-६६४ || जानुनी पात्वजामित्रो गुल्फौ गौरीपतिः सदा | पादपृष्ठं ज्ञाननिधिस्तथा पादाङ्गुलोर्हरः || १२-६६५ || पादाधः पातु सततं व्योमकेशो जगत्प्रियः | इति रक्षां समाधाय मन्त्ररक्षां ततश्चरेत् || १२-६६६ || ओं ह्रा/ ह्रु/ ह्रु/ ह्रु/ च पूर्वे ओं ह्री/ ह्रु/ ह्रो/ हुताशने | ओं ह्री/ श्री/ दक्षिणे न्यस्य ओं ग्लु/ स्लु/ चापि नैर्-ऋते || १२-६६७ || ओं प्लु/ म्लु/ यलु/ प्रतीच्यां च तारः प्रो/ प्रु/ समीरणे | ओं भ्रा/ भैरवः सौम्यायां ओं ब्लु/ प्लु/ भ्रु/ च फट् शिवे || १२-६६८ || ओं ग्लौ/ ब्लु/ मूर्धदेशेऽथो स्रा/ स्रु/ स्र/ स्रस्त्वधः स्मृतम् | एवं रक्षां समाधाय कील्याः कीलादिगष्टके || १२-६६९ || मध्ये महाकीलमथो दिक्पालार्चनमारभेत् | ततो मन्त्रमिमं ब्रूयात् प्रार्थयेत् प्रेमसंयुतः || १२-६७० || भ्रा/ भैरव द्विरुच्चार्य भयङ्करहरे वदेत् | मां रक्ष रक्ष हु/ फट् च स्वाहा द्वाविंशदर्णकः || १२-६७१ || पलाशभाजने माषान् कृत्वा प्राचीं व्रजेत् ततः | कीलस्य निकटे चेन्द्रमावाह्य परिपूजयेत् || १२-६७२ || ध्यानं प्रागुक्तवत् कृत्वा तत्पुरश्चतुरस्रके | प्. १२०७) मन्त्रेणानेन चेन्द्राय मण्डले बलिमर्पयेत् || १२-६७३ || ओं ह्रा/ ह्री/ ह्रु/ समुच्चार्य भो इन्द्र सुरनायक | प्रसन्नो भव मे शीघ्रं देहि सिद्धिं सनातनीम् || १२-६७४ || इमं बलिं गृह्ण गृह्ण हू/ फट्नागाग्निवर्णकः | जलं दत्वा बलिं त्यक्त्वा नत्वेयाद्वह्निकीलकम् || १२-६७५ || अग्निं तत्र समावाह्य प्राग्वद्ध्यात्वा प्रपूजयेत् | तदग्रे मण्डलं कृत्वा दद्यान्मन्त्रेण वै बलिम् || १२-६७६ || ओं र/ रा/ रू/ रू/ च रि/ री/ तदग्रेऽग्नेपदं पदेत् | तेजोनायक मे शीघ्रं सिद्धिं देहि इमं वदेत् || १२-६७७ || मुद्गबलिं गृह्ण गृह्ण हू/ फड्देवार्णको मनुः | ततो दक्षिणकीलस्य निकटे यममर्चयेत् || १२-६७८ || म/ बीजेन समावाह्य मनुना निर्वपेद्बलिम् | ओं प्रा/ प्री/ प्रु/ ततः प्रा/ प्री/ प्रू/ भो यमपदं वदेत् || १२-६७९ || प्रेताधिपतये शीघ्रं प्रसन्नो भव संवदेत् | इमं मे मसुरं पात्रे बलिं गृह्णयुगं वदेत् || १२-६८० || हू/ फडन्तः समाख्यातो मन्त्रो गोरामवर्णकः | ततो नैर्-ऋत्यकीलस्य निकटे नैर्-ऋतं यजेत् || १२-६८१ || क्ष/ बीजेन समावाह्य बलिमन्त्रोऽथ कथ्यते | ओं प्रे/ प्रे/ प्रे/ ततो हू/ हू/ त्रिः ख/ द्विह्री/ च भोयुगम् || १२-६८२ || रक्षोनाथ पदाच्छिघ्रं प्रसन्नो भव संवदेत् | इमं मे चणकबलिं गृह्ण हू/ फड्मनुर्मतः || १२-६८३ || षट्त्रिंशदर्णोऽथ ततो व्रजेत् पश्चिमकीलकम् | व/ बीजेन समावाह्य वरुणं तत्र पूजयेत् || १२-६८४ || प्. १२०८) बलिमन्त्रो ध्रुवो ब्रा/ ब्री/ भो भो वरुण संवदेत् | जलनाथपदस्यान्ते प्रसन्नो भव संवदेत् || १२-६८५ || इमं ते चोदनबलिं गृह्ण गृह्ण च हू/ च फट् | त्रिंशदर्णो मनुः प्रोक्तो वरुणस्य बलेरयम् || १२-६८६ || ततो व्रजेद्वायुकोणं कीलस्य निकटेऽर्चयेत् | यं बीजेन समावाह्य वायुं शृणु बलेर्मनुम् || १२-६८७ || वा/ वी/ वू/ ततः क्रा/ क्री/ भो भो वायो पुनः पुनः | क्षीप्रं प्रसन्नो भवेति ममेदं पायसेति || १२-६८८ || बलिं गृह्णयुगं हू/ फट् पञ्चत्रिंशाक्षरो मनुः | उदक्कीलं ततो गत्वा कु/ बीजेन धनेश्वरम् || १२-६८९ || आवायेत् पूजयित्वा मनुना निर्वपेद्वलिम् | ओं क्रा/ क्रू/ ततः क्रा/ क्री/ भो भो यक्षपदं वदेत् || १२-६९० || नाथ शीघ्रं प्रसन्नो मे भवेति च पदं वदेत् | ममापूपबलिं गृह्ण गृह्ण हू/ फड्रदार्णकः || १२-६९१ || ईशानकीलनिकटे गत्वेशानं समाह्वयेत् | ह/ बीजेन ततः पूज्यबलिः स्यान्मनुनाऽमुना || १२-६९२ || ओं श्रा/ श्री/ श्रू/ ततः श्रा/ श्री/ श्री/ श्री/ स्याच्छष्कुलीपदम् | बलिं गृह्णयुगं हू/ फड्नवविंशतिवर्णकः || १२-६९३ || पुष्पाक्षतान् समादाय मध्यस्तम्भादधः स्थितः | अधस्तनस्तम्भाय नमो मन्त्रोऽयं तु नवाक्षरः || १२-६९४ || अनेन मनुना स्तम्भनिर्भयः परिपूजयेत् | महाकवचमन्त्रेण कुर्याद्देहस्य रक्षणम् || १२-६९५ || ओं ह्रा/ ह्री/ ह्रु/ ततो ह्रश्च क्ष्रा/ क्ष्री/ क्ष्रु/ क्ष्रः समुच्चरेत् | प्. १२०९) स्त्रा/ स्त्री/ स्त्रु/ स्त्र/ स्तथा घ्रा/ घ्री/ घ्रो/ घ्रो/ म्रा/ म्री/ ततो वदेत् || १२-६९६ || म्रू/ म्रो/ म्रे/ म्र/ ततो म्रो/ म्रौ/ त्रिधोक्तेन त्रिधा त्रिधा | हू/ सप्तकं समुच्चार्य फडन्तं सर्वतो वदेत् || १२-६९७ || रक्ष रक्ष पदं प्रोच्य रक्ष रक्षेति भैरव | नाथ नाथ फडन्तोऽयमेकपञ्चाशदक्षरः || १२-६९८ || इत्यात्मरक्षां कृत्वाऽथ स्तम्भस्य च समीपतः | आसनं सम्यगास्तीर्य तत्र प्राङ्मुख आस्थितः || १२-६९९ || साग्रे सप्ते तु भूभागे गोमयाद्युपलेपिते | पद्ममष्टदलं कृत्वा तद्बहिः षोडशच्छदम् || १२-७०० || तद्बाह्येऽष्टदलं चापि भूपुरं च ततो लिखेत् | चतुरस्रत्रयोपेतं चतुर्द्वारसमन्वितम् || १२-७०१ || तन्मध्ये देवमावाह्य सम्यङ्मूलेन पूजयेत् | कर्णिकायां षडङ्गानि ह्यसिताङ्गादिभैरवान् || १२-७०२ || पत्राष्टके पूजयित्वा पूजयेत् षोडशच्छदे | कुलीशं सकुलीशं च जामित्रं रामठं रिभम् || १२-७०३ || प्रचण्डं चण्डकेशं च चण्डात्मानं च चामरम् | चारित्रं च चमत्कारं चञ्चलं चारुभूषणम् || १२-७०४ || चामीकरं चारुवहं चकितं चेति षोडश | नत्यन्तनामभिः पूज्याः षोडशानन्दपूरिताः || १२-७०५ || ब्राह्म्याद्याश्चाष्टपत्रेषु बहिर्वीथ्यां दिगीश्वरान् | तद्बाह्यायां तदस्त्राणि तद्बाह्यायां त्विमान् यजेत् || १२-७०६ || प्रचण्डचण्डोर्ध्वकेशभीषणाभिषणाभिधाः | व्योमकेशो व्योमवाहो व्योमव्यापक एव च || १२-७०७ || प्. १२१०) एतान् वीरान् समाहूय चायाहीति समुच्चरेत् | अभ्यर्चयेन्निर्भयः सन् बलिं न्यासान् समाचरेत् || १२-७०८ || पश्चिमाभिमुखो भूत्वा मालां संपूज्य संयजेत् | उच्चैः स्वरं तदाऽयाति प्रत्यहं भैरवः स्वयम् || १२-७०९ || वामहस्तेन दद्याच्च यथाम्नायोदितं बलिम् | सम्भोजयन् जपं कुर्यान्निर्भयः प्रीतमानसः || १२-७१० || तृप्तो देवो यदा ब्रूयाद्वरं वरय वाञ्छितम् | दक्षिणे पायसेनैव तस्य तृप्तिः प्रजायते || १२-७११ || वामादीनां मांसमद्यरक्ताद्यैश्चरुणाऽपि वा | प्रणम्य दण्डवद्भूमौ वाञ्छितं वरमुच्चरेत् || १२-७१२ || आगत्य च गृहे पश्चात् त्र्यहं कुर्यान्महोत्सवम् | एवं कलियुगे सिद्धिः श्मशानस्य प्रकीर्त्तिता || १२-७१३ || जपेदेनं समारूढो दैवी प्रत्यक्षता भवेत् | समस्तभैरवानां तु मन्त्रादेवं मयोदितम् || १२-७१४ || इति भैरवसाधनम् | अथ योगिनीसाधनं (भूतडामरे) अथातः संप्रवक्ष्यामि योगिनीसाधनोत्तमम् | सर्वार्थसाधनं नाम देहिनां सर्वसिद्धिदम् || १२-७१५ || अतिगुह्या महाविद्या देवानामपि दुर्लभा | यासामभ्यर्चनं कृत्वा यक्षेशोऽभूत् कुलाधिपः || १२-७१६ || तासामाद्यां प्रवक्ष्यामि सुराणां सुन्दरीं प्रिये | अस्या अभ्यर्चनेनैव राजत्वं लभते नरः || १२-७१७ || अथ प्रातः समुत्थाय कृत्वा स्नानादिकं शुभम् | प्. १२११) प्रासादं च समासाद्य कुर्यादाचमनं ततः || १२-७१८ || प्रणवान्ते सहस्रारे हु/ फड्दिग्बन्धनं चरेत् | प्राणायामं ततः कुर्यान्मूलमन्त्रेण मन्त्रवित् || १२-७१९ || षडङ्गं मायया कुर्यात् पद्ममष्टदलं लिखेत् | तस्मिन् पद्मे महामन्त्रबीजन्यासं समाचरेत् || १२-७२० || पीठे देवीं समभ्यर्च्य ध्यायेद्देवीं जगत्प्रियाम् | ध्यानं यथा | पूर्णचन्द्रमुखीं गौरीं विचित्राम्बरधारिणीम् || १२-७२१ || पीतोन्नतकुचां रामां सर्वाद्यामभयप्रदाम् | इति ध्यात्वा न मूलेन दद्यात् पाद्यादिकं शुभम् || १२-७२२ || पुनर्धूपं निवेद्यैव नैवेद्यं मूलमन्त्रतः | गन्धचन्दनताम्बूलं सकर्पूरं सुशोभनम् || १२-७२३ || प्रणवान्ते भुवनेशीमागच्छ सुरसुन्दरि | वह्निभार्या जपेन्मन्त्रं त्रिसन्ध्यं च दिने दिने || १२-७२४ || सहस्रैकप्रमाणेन ध्यात्वा देवीं सदा बुधः | मासान्ते व्याप्य दिवसं बलिपूजां सुशोभनाम् || १२-७२५ || कृत्वा च प्रजपेन्मन्त्रं निशीथे याति सुन्दरी | सुदृढं साधकं मत्वा महिम्ना साधकालये || १२-७२६ || सुप्रसन्ना साधकाग्रे सदा स्मेरमुखी ततः | दृष्ट्वा देवीं साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् || १२-७२७ || सुचन्दनं सुमनसो ज्ञात्वाऽभिलषितं वदेत् | मातरं भगिनीं वाऽपि भार्यां वा भक्तिभावतः || १२-७२८ || यदि माता तदा वित्तं दिव्यं च सुमनोहरम् | प्. १२१२) भूपतित्वं प्राथितं यत् तद्ददाति दिने दिने || १२-७२९ || पुत्रवत् पालितं लोके सत्यं सत्यं सुनिश्चितम् | स्वसा ददाति दिव्यं च दिव्यवस्त्रं तथैव च || १२-७३० || दिव्यकन्यां समानीय नागकन्यां दिने दिने | यद्यद्भवति भूतं च भविष्यति च यत् पुनः || १२-७३१ || तत्सर्वं साधकेन्द्राय निवेदयति निश्चितम् | यद्यत् प्रार्थयते सर्वं ददाति सा दिने दिने || १२-७३२ || भ्रातृवत् पालितं लोके कामनाभिर्मनोरथैः | भार्या स्याद्यदि सा देवी साधकस्य मनोहरा || १२-७३३ || राजेन्द्रः सर्वराजानां संसारे साधकोत्तमः | स्वर्गे मर्त्त्ये च पाताले गतिः सर्वत्र निश्चितम् || १२-७३४ || यद्यद्ददाति सा देवी वर्णितुं नैव शक्यते | तया सार्थं च सम्भोगं करोति साधकोत्तमः || १२-७३५ || अन्यस्त्रीगमनं त्यक्त्वा अन्यथा नश्यति ध्रुवम् | इति सुन्दरीसाधनम् | अथ मनोहरासाधनं तत्रैव | ततोऽन्यसाधनं वक्ष्ये निर्मितं ब्रह्मणा पुरा || १२-७३६ || नदीतीरं समासाद्य कुर्यात् स्नानादिकं ततः | पूर्ववत् सकलं कार्यं चन्दनैर्मण्डलं लिखेत् || १२-७३७ || स्वमन्त्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम् | ध्यानं यथा | कुरङ्गनेत्रां शरदिन्दुवक्त्रां विम्बाधरां चन्दनगन्धलिप्ताम् | चेलांशुकां पीनकुचां मनोज्ञां श्यामां सदा कामदुघां विचित्राम् || एवं ध्यात्वा जपेद्देवीमगुरूधुपदीकैः || १२-७३८ || प्. १२१३) गन्धं पुष्पं रसं चैव ताम्बूलादी/श्च मूलतः | तारं माया तथाऽगच्छ मनोहरे पावकवल्लभा || १२-७३९ || स्नात्वाऽयुतं प्रतिदिनं जपेन्मन्त्रं प्रसन्नधीः | मासान्ते दिवसं प्राप्य कुर्याच्च जपमुत्तमम् || १२-७४० || आनिशीथं जपेन्मन्त्रं ज्ञात्वा च साधकं दृढम् | गत्वा च साधकाभ्यासे सुप्रसन्ना मनोहरा || १२-७४१ || वरं वरय शीघ्रं त्वं यद्यन्मनसि वर्त्तते | साधकेन्द्रोऽपि तां भक्त्या पाद्याद्यैरर्चयेन्मुदा || १२-७४२ || प्राणायामं षडङ्गं च मायया च समाचरेत् | मत्स्यमांसबलिं दत्वा पूजयेच्च समाहितः || १२-७४३ || चन्दनोदकपुष्पेण फलेन च मनोहराम् | ततोऽर्चिता प्रसन्ना सा पुष्णाति प्रार्थितं चरेत् || १२-७४४ || सुवर्णस्य शतं भारं सा ददादि दिने दिने | सविशेषं व्ययं कुर्यात् स्थिते तत् तु न दास्यति || १२-७४५ || अन्यस्त्रीगमनं तस्य न भवेदिदमीरितम् | अव्याहतगतिस्तस्य भवतीति न संशयः || १२-७४६ || साधिताऽपि विधानेन यदि नायानि यक्षिणी | विषं क्रोधात्मकं प्रोच्यामुकयक्षिण्यतः परम् || १२-७४७ || भूतेशान्मादनं वायुद्वयं क्रोधास्त्रसंयुतम् | क्रोधेनानेन चाक्रम्य जपेदष्टसहस्रकम् || १२-७४८ || एवं कृते समायाति वाञ्छितार्थं प्रयच्छति | मुद्रामाह | मुष्टिमन्योन्यमास्थाय कनिष्ठे वेष्टयेदुभे || १२-७४९ || प्. १२१४) प्रसार्याकुञ्च्य तर्जन्यौ कार्या चैषाऽङ्कुशाकृतिः | इयं क्रोधाङ्कुशी मुद्रा यक्षिण्याकर्षणक्षमा || १२-७५० || इयं ते कथिता विद्या सुगोप्या या सुरेश्वरि | तव स्नेहेन भक्त्या च वशोऽहं परमेश्वरि || १२-७५१ || इति मनोहरासाधनम् | अथ धनदामन्त्रस्तत्रैव | तत्तूर्य विन्दुना युक्तं लज्जाबीजं सविन्दुकम् | लक्ष्मीबीजं ततो देवि सम्बोध्य च रतिप्रिया || १२-७५२ || स्वाहान्तो मनुराख्यतो मन्त्रराजोत्तमोत्तमः | मन्त्रान्तरम् | तत्तूर्यं विन्दुसंयुक्तं लक्ष्मीः प्रणव एव च || १२-७५३ || मायाबीजं समुद्धृत्य सम्बोध्य च रतिप्रियाम् | वह्निजायामिति प्रोक्तो मन्त्रराजोत्तमोत्तमः || १२-७५४ || कुवेरोऽस्य मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽथ देवता | धनदाप्रीतये तस्या विनियोगः प्रकीर्त्तितः || १२-७५५ || षड्दीर्घमायया चैव कराङ्गन्यास इष्यते | ततो ध्यानम् | कुङ्कुमोदरगर्भाभां किञ्चिद्यौवनशालिनीम् || १२-७५६ || मृणालकोमलभुजां केयूराङ्गदभूषिताम् | तुलाकोटिपरिभ्रान्तपादपद्मद्वयान्विताम् || १२-७५७ || माणिक्यहारमुकुटकुण्डलादिविभूषिताम् | नीलोत्पलदृशं किञ्चिदुद्यत्कुचविराजिताम् || १२-७५८ || कराब्जभ्राम्यत्कमलां रक्तवस्त्राङ्गरागिणीम् | हेमप्राकारमध्यस्थां रत्नसिंहासनोपरि || १२-७५९ || प्. १२१५) ध्यायेत् कल्पतरोर्मूले देवीं तां धनदायिकाम् | ध्यात्वा च साधकश्रेष्ठः पूजयेद्भक्तितत्परः || १२-७६० || नवयोन्यात्मकं चक्रं विलिखेत् कर्णिकोपरि | दिग्दलं पद्ममालिख्य चतुरस्रं ततो बहिः || १२-७६१ || कोणेषु वज्रान् संलिख्य मध्ये बीजं समुल्लिखेत् | अङ्गानि केशरेऽभ्यर्च्य दले शक्तीः प्रपूजयेत् || १२-७६२ || लक्ष्मीः पद्मा तथा पद्मालया श्रीश्च हरिप्रिया | हरा चैवाऽथ कमलालयाऽब्जलोलचञ्चला || १२-७६३ || एताः शक्तीः प्रपूज्याथ मध्ये देवीं प्रपूजयेत् | प्रजपेद्दक्षसूत्रेण रत्नालिकृतकेन च || १२-७६४ || लक्षे जपेत् मन्त्रसिद्धिः प्रयोगानाचरेद्बुधः | रात्रौ चेज्जपते चाष्टसहस्रं सप्त वासरान् || १२-७६५ || एतेनैव सुसिद्धः स्यात् पुरश्चर्यादिको विधिः | किमत्र दुर्लभं देवि साधयेद्यदि मानवः || १२-७६६ || भुक्त्वा वाऽप्यथ वाऽभुक्त्वा पायसान्नं प्रदाय च | दशकृत्त्वोऽथ वा शौचमकृत्वा वा कुले च ताम् || १२-७६७ || यं स्मरेद्देवि विद्यां तां दारिद्र्यैर्नाभिभूयते | कामदेवं जपेत् पार्श्वे देव्याः प्रत्यहमादरात् || १२-७६८ || तेन देया महाप्रीतिर्वाञ्छितार्थं ददाति च | पूजान्ते च समायाति रात्रौ देवी धनेश्वरी || १२-७६९ || सर्वालङ्कारमुत्सृज्य दत्वा याति निजालयम् | धनं च विपुलं दत्वा साधकस्य मनोरथान् || १२-७७० || पूरयित्वा महेशानि वशगा जायते शुभा | प्. १२१६) स्वयमाहेति यक्षेशी यो मां स्मरति मानवः || १२-७७१ || तस्य दारिद्र्यसन्यासं दासीवत् करवाण्यहम् | द्वितीयमन्त्रस्य पुरश्चरणमाह | सहस्रसप्ततिर्यावत पुरश्चरणमुच्यते || १२-७७२ || होमो घृतेन खण्डेन मधुना च दशांशतः | ताम्रपात्रे मण्डलं च कृत्वा चन्दनलेपिते || १२-७७३ || पूजा कार्या महादेव्याः क्षणाद्दारिद्र्यशान्तये | अङ्गन्यासकरन्यासौ चाङ्गे चैवास्य देवता || १२-७७४ || कुवेरस्य मतेनास्याः पूजाऽपि क्रियते तथा | इति धनदासाधनम् | अथाप्सरःसाधनं (भूतडामरे) प्रालेयं श्रीः शशी देव्या अनादिः श्रीस्तिलोत्तमा || १२-७७५ || तारादिमन्त्रमुद्धृत्य प्रोक्ता काञ्चनमालिका | तारं श्रीर्वर्मणा युक्ता भाव्या कुण्डलहारिणी || १२-७७६ || तारं वर्मसमायुक्तं रत्नमाल्येति पञ्चमी | तारं ब्रह्मेति रम्भाख्या विषं श्रीरुर्वशी परा || १२-७७७ || अनादिबीजमाता च भूतिनीत्यप्सराः क्रमात् | क्रोधं नत्वा प्रवक्ष्येऽहमथासां सिद्धिसाधनम् || १२-७७८ || शैलशृङ्गं समारुह्य जपेल्लक्षं समाहितः | पौर्णमास्यां समभ्यर्च्य घृतदीपं निवेदयेत् || १२-७७९ || प्रजपेत् सकलां रात्रिमायाति बन्धनक्षये | चन्दनार्घेण संतुष्टा वरं वरय भाषिते || १२-७८० || कामिता सा भवेद्भार्या प्रयच्छति रसायनम् | प्. १२१७) सहस्रं वत्सरं याति वरं दद्याद्यथेप्सितम् || १२-७८१ || जपेदयुतमात्रं तु क्षीराशो सप्तवासरान् | चन्दनेन विधायाथ मण्डलं सप्तमे दिने || १२-७८२ || संपूज्य भक्तितः शुक्लाष्टम्यां पूर्वतमूर्धनि | प्रजपेत् सकलां रात्रिं समायाति निशात्यये || १२-७८३ || आगत्य पुरतस्तिष्ठेत् सितवस्त्रोन्नतस्तनी | चुम्बत्याऽलिङ्गयत्याशु भार्या भवति कामिका || १२-७८४ || राज्यं यच्छति संतुष्टा त्रिदिनं दर्शयत्यपि | पञ्चवर्षयहस्रं तु भुक्त्वा भोगमनुत्तमम् || १२-७८५ || मृते राजकुले जन्म प्रयच्छति तिलोत्तमा | अन्यथा म्रियते शीघ्रं विपरीते कृते सति || १२-७८६ || नीचगासङ्गमं कृत्वा मण्डलं चन्दनेन च | धूपं चैवागुरुं दत्वा बलिं च प्रतिपादयेत् || १२-७८७ || जपेदष्टसहस्रं तु नित्यं सप्तदिनावधि | सप्तमे दिवसे पूजां कृत्वा धूपं प्रदापयेत् || १२-७८८ || प्रजपेत् सकलां रात्रिं समायाति निशात्यये | चन्दनार्घेण संतुष्टा वरं वरय भाषिते || १२-७८९ || साधकेनापि वक्तव्यं मातृवत् परिपालय | वस्त्रालङ्करणं भक्ष्यं सेवकेभ्यः प्रयच्छति || १२-७९१ || मृते राजकुले जन्म दद्यात् काञ्चनमालिका | न तिथिर्न च नक्षत्रं नोपवासो विधीयते || १२-७९२ || शैलमूर्ध्नि समास्थायायुतं मासं जपेन्मनुम् | धूपं दत्वा समभ्यर्च्य पुना रात्रौ जपेत् ततः || १२-७९३ || प्. १२१८) अर्धरात्रे समायाति प्राग्वदर्घ्यं प्रदापयेत् | कामिता सा भवेद्भार्या प्रत्यहं संप्रयच्छति || १२-७९४ || लक्षमेकं हिरण्यं च सिद्धद्रव्यं रसायनम् | दर्शयेत् पृष्ठमारोप्य स्वर्गं कुण्डलहारिणी || १२-७९५ || देवतायतनं गत्वा जपेदष्टसहस्रकम् | मासमेकं तु मासान्ते पौर्णमास्यां पुनर्जपेत् || १२-७९६ || समभ्यर्च्यार्धरात्रौ च श्रूयते नूपरध्वनिम् | समायात्यन्तिकं दद्यात् पुष्पासनमनुत्तमम् || १२-७९७ || किमिच्छसि वद त्वं मे भव भार्येति साधकः | भार्याकर्म करोत्येवं राज्यं यच्छति कामिकम् || १२-७९८ || याति वर्षसहस्राणि प्रत्यहं परितोषिता | प्रतिपत्तिथिमारभ्य कृत्वा चन्दनमण्डलम् || १२-७९९ || धूपं च गुग्गुलुं दत्वा जपेदष्टसहस्रकम् | त्रिसन्ध्यं पौर्णमास्यां च पूजां कृत्वा सुशोभनाम् || १२-८०० || प्रजपेत् सकलां रात्रिं समायाति निशात्यये | कामिता सा भवेद्भार्या चान्यथा म्रियते ध्रुवम् || १२-८०१ || ददाति कामिकं भोज्यं सिद्धद्रव्यं रसायनम् | दशवर्षसहस्राणि जीवतेऽन्ते मृते पुनः || १२-८०२ || जन्म राजकुले कुर्याद्दद्यात् क्रोधप्रसादतः | रात्रौ देवगृहं गत्वा चन्दनेन च मण्डलम् || १२-८०३ || कृत्वा धूपं ततो दत्वाऽयुतं मासयुतं मनुम् | मासान्ते महतीं पूजां कृत्वा रात्रौ जपं चरेत् || १२-८०४ || निशात्यये समायाति प्रदद्यात् कुसुमासनम् | प्. १२१९) कृते च स्वागतं पृच्छेत् किमिच्छसि च भाषते || १२-८०५ || साधकः प्राह भार्या त्वं भव यच्छ रसायनम् | याति वर्षसहस्राणि अप्सराः स्वयमुर्वशी || १२-८०६ || परस्त्रीं वर्जयेत् सर्वां चान्यथा म्रियते ध्रुवम् | एकाकी शयने स्थित्वा शुची रात्रौ च कुङ्कुमैः || १२-८०७ || लिखित्वा भूषिणीं भूर्जे चन्दनेन तु धूपयेत् | जपेदष्टसहस्रं तु मासं यावत् प्रयत्नतः || १२-८०८ || मासान्ते तु समभ्यर्च्य जपेदष्टसहस्रकम् | रात्र्यर्धान्तिकमायाति भार्या भवति कामिता || १२-८०९ || सिद्धद्रव्यं हिरण्यं च तुष्टा यच्छति भूषिणी | क्रोधराजः पुनः प्राह यदि नायाति साधकः || १२-८१० || अनेन क्रोधयोगेन जपेदप्सरसां चयम् | विषं प्राथमिकं बीजमुद्धरेच्च कटुद्वयम् || १२-८११ || अमुकीं क्रोधबीजं च वातमादरसंयुतम् | जपेत् सकृत् समुद्धृत्य मन्त्रमष्टसहस्रकम् || १२-८१२ || म्रियते शीर्यते मूर्ध्नि प्रस्फुटत्यप्सरेति च | वन्दयेदप्सरोवृन्दं मन्त्रेणानेन साधकः || १२-८१३ || विषबन्धद्वयं प्रोच्यहनयुग्ममुदीरयेत् | अमुकीं क्रोधमन्त्रोऽयमप्सरोवश्यकारकः || १२-८१४ || अथ वक्ष्येऽप्सरोवश्यकारकं मनुमुत्तमम् | विषं चलद्वयं प्रोच्य अमुकीं वश्यमानय || १२-८१५ || सकूर्चास्त्रजपादेवाप्सरोवश्यमियाद्ध्रुवम् | प्. १२२०) अथ ज्वालामुखीसाधनं (फेत्कारिणीतन्त्रे) नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् || १२-८१६ || गृध्रगणपरिवृते द्विठान्तो मनुरीरितः | ओं नमो हृदयं प्रोक्तं भगवति शिरः स्मृतम् || १२-८१७ || ज्वालामालिनि च शिखा गृध्रगणपरिवृते | वर्मस्वाहास्त्रमित्येतज्जातियुक्तं न्यसेत् तनौ || १२-८१८ || अभुक्त्वा नियतं चैतज्जयमन्त्रं जपेज्जयी | अथ मन्त्रान्तरं तत्रैव | रुद्राङ्गनाग्निजायाभ्यां रुद्रज्वालामुखीत्यपि || १२-८१९ || मन्त्रान्तरं समाख्यातं ज्वालामुख्या अनन्तरम् | दीपतैलाक्तपादोऽर्धरात्रे गुरुदिनादितः || १२-८२० || जपेदष्टसहस्रं तु त्रयोविंशतिवासरान् | प्रत्यहं पलषट्कं च ददातीति न संशयः || १२-८२१ || पूर्वमन्त्रमाहात्म्यमाह | नारायणेन कथितमगस्त्यैः कथितं पुनः | सुसिद्धिमिच्छता गोप्यो नामापि न समीरयेत् || १२-८२२ || पुत्रस्य नृपतेश्चापि धार्मिकस्य विशेषतः | नवदुर्गाविधानेन दर्शयेत् कार्यगौरवात् || १२-८२३ || नृपोऽपि सम्यगाचारो मन्त्रज्ञो विविधं धनम् | निवेद्य विधिवत् पश्चान्मन्त्रग्रहणमाचरेत् || १२-८२४ || स्मृतिमात्रेण वैवर्णान् रिपून् सर्वान् विनाशयेत् | प्रदद्याद्दक्षिणां तस्य सहस्रं शतमेव वा || १२-८२५ || गवां सुवर्णं निष्काणां भूमिं वा शस्यशालिनीम् | सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् || १२-८२६ || निष्कमलङ्कारः | इति ज्वालामुखीसाधनम् | प्. १२२१) अथ कर्णपिशाचीमन्त्रस्तत्रैव | कहयुग्मं कालिके च गृह्ण युग्मं तथैव च | पिण्डं पिशाचि स्वाहेति द्वीपार्णः कथितो मनुः || १२-८२७ || ध्यानम् | ध्यायेत् पिशाचीं चलशूलहस्तां श्यामां सुदीर्घां युवतीं त्रिनेत्राम् | क्रुद्धां विवर्णां तनुवृत्तमध्यां गुञ्जाफलैः कल्पितहारयष्टिम् || साधनप्रकारमाह | एकविंशद्दिनं यावदुदयास्तमयं जपेत् | नित्यं सायं स्वमाहारं पिण्डं हर्म्योपरि क्षिपेत् || १२-८२८ || त्रिसप्ताहाच्च तुष्टा सा शययां गत्वा पिशाचिनी | पञ्चविंशतिदेशानां कथां च कथयत्यपि || १२-८२९ || त्रिंशद्दिनैश्च देवेशि जम्बूद्वीपकथां नयेत् | द्वात्रिंशता तथा गौरि त्रैलोक्यं श्रावयेद्ध्रुवम् || १२-८३० || त्रिस्वादुबलिदानेन सर्वं वदति तत्क्षणात् | सभायां यदि संघाते द्यूते च रिपुसंसदि || १२-८३१ || सर्वं कथयति क्षिप्रं नूनं तुष्टा पिशाचिनी | केनापि नैव वेद्या सा साधकस्तां प्रपश्यति || १२-८३२ || इति कर्णपिशाचीसाधनम् | अथ विभूषिण्यादिसाधनानि (फेत्कारिणीतन्त्रे) आद्या विभूषिणी देवी परा कुण्डलधारिणी || १२-८३३ || हारिणी सिंहिनी चैव हंसिनी तु ततो नटी | देवी कामेश्वरी चैव प्रोक्ता देवी रतिप्रिया || १२-८३४ || विभूषिणीमन्त्रमाह | क्रोधास्त्रद्वयमायान्ते भूतिनी च त्रिकूर्चतः | तारलज्जाद्वयादस्त्रद्वयान्ते च विभीषिका || १२-८३५ || प्. १२२२) क्रोधद्वयान्तो मन्त्रोऽयं विभूषिण्या उदीरितः || १२-८३५एf || ध्यानम् | कर्त्त्री चैव करे परे नरशिरस्तुङ्गाकृतिर्भीषणा दन्तान्तर्गतमांसशोणितवसासंयुक्तभूतव्रता | कालव्यालकरालसत्त्वविकटव्यालम्बिदंष्ट्राङ्कुरा यस्याः केशकुलाकुलाखिलमहीशैलाऽस्तु सा रक्षतु || १२-८३६ || साधनप्रकारमाह | एकवृक्षतरं गत्वा यामिन्यां प्रवसेत् त्र्यहम् | जपेदष्टसहस्रं तु ध्यायन्नव्यग्रमानसः || १२-८३७ || जपान्ते पूजनं नाम्नाऽगुरुधूपं निवेदयेत् | प्रजपेदर्धरात्रे तु समायाति विभूषिणी || १२-८३८ || चन्दनोदकमिश्रेण दत्तार्घा तुष्यति ध्रुवम् | माता वा भगिनी भार्या हृष्टा भवति कामिता || १२-८३९ || करमेलनकं कृत्वा माता भूत्वा जगत्त्रये | शताष्टपरिवारस्य सदाऽभ्यञ्जनभूषणम् || १२-८४० || भगिनी चेन्महायोगिन् सहस्रयोजनादपि | ददाति स्त्रियमानीय दिव्यं रसरसायनम् || १२-८४१ || भार्या चेत् स्पृष्टमारोप्य स्वर्गं नयति तत्क्षणात् | दिने रत्नसहस्रं तु रसं चैव रसायनम् || १२-८४२ || दद्यादिति शेषः | सर्वाशाः पूरत्येव सदा देवी विभूषणी | अथ कुण्डलधारिणीमन्त्रस्तत्रैव | ध्रुवमायास्त्रयुगला प्रोक्ता कुण्डलधारिणी || १२-८४३ || जपेदष्टसहस्रं तु मासमात्रं दिने दिने | कर्णे कुण्डलधारिणी शशिकुण्डलधारिणी || १२-८४४ || प्. १२२३) आयाति रुधिरेणार्घा देयास्तुष्टा वदत्यपि | किं कर्त्तव्यं मया वत्स मातेति भव साधकः || १२-८४५ || पञ्चाशता दिनेनापि त्रैलोक्यमपि दास्यति | अथ सिन्दूरहारिणीमन्त्रस्तत्रैव | क्रोधद्वयास्त्रयुगतः सिन्दूरहारिणीपदम् || १२-८४६ || कूर्चत्रयान्तः संप्रोक्तः सिन्दूरहारिणीमनुः || १२-८४६एf || ध्यानम् | स्वर्णालङ्कृतिहारिणी चलदलव्यालोलशाखाम्बरा सोत्कण्ठीकृतगात्रकर्मसुभगा शुभ्रांशुचन्द्रप्रभा | अन्तः संततकान्तिदन्तमलिना त्रैलोक्यशोभास्पदा पायादूर्धनवांशुशूललतिका सिन्दूरहारिण्यसौ || १२-८४७ || शून्यदेवालयं गत्वा जपेदष्टसहस्रकम् | शीघ्रमायात्यागता सा भार्या भवति कामिता || १२-८४८ || पञ्चविंशति दिनानि वस्त्रालङ्कारभूषणम् | ददाति साधकेन्द्राय देवी सिन्दूरहारिणी || १२-८४९ || अथ सिंहिनीमन्त्रस्तत्रैव | लज्जाद्वयास्त्रयुगलं सिंहिनीति पदं ततः | क्रोधबीजत्रयाद्यन्तः कीर्त्तितः सिंहिनीमनुः || १२-८५० || ध्यानम् | शैलाग्रद्रुमस्वर्गदन्तवदने दुर्गान्तदैत्यस्थिता केशा अस्थिसमस्तविष्णुचरणप्रभ्रष्टसंत्रासिनी | या दन्तान्तरलम्बिधारणरणे प्रक्षुब्धसिद्धाङ्गना सेयं पातु समस्तकण्टककुलव्याकम्पिमालाकुला || १२-८५१ || प्. १२२४) गत्वैकलिङ्गं यामिन्यां प्रजपेदयुतं मनुम् | ततो हृष्टाऽतिवरदा सिंहिन्यायाति पूजिता || १२-८५२ || किं करोमि वदत्येवं भार्या भवति कामिता | दीनाय वस्त्रयुगलं दद्याद्रसरसायनम् || १२-८५३ || अथ हंसिनीमन्त्रस्तत्रैव | तारत्रिकूर्चास्त्रयुगाद्धंसिनी भूतिनी ततः | कूर्चत्रयान्तः कथितो हंसिनीमनुरुत्तमः || १२-८५४ || ध्यानम् | शुभ्रा शुभ्रसरोजतुल्यनयना दुग्धासवेनार्चिता प्रारब्धध्वनिमुग्धमानववधूसंसेविता सादरम् | किञ्चित्तुङ्गविलोलपाङ्गवलितव्यामुग्धमीलन्मुखी मुक्तायुक्तविलोलहारललिता श्रीहंसिनी पातु नः || १२-८५५ || वज्रपाणिगृहं गत्वा प्रतिमां शोभनां लिखेत् | हयमारेण संपूज्य जपेदयुतसंख्यकम् || १२-८५६ || यावदर्धनिशां देवी हंसिन्यायाति निश्चितम् | चन्दनार्घप्रदानेन हृष्टा वदति साधकम् || १२-८५७ || किं मया ते प्रकर्त्तव्यं किङ्करी भव साधकः | वस्त्रालङ्कारभोज्याद्यं व्ययार्थं संप्रयच्छति || १२-८५८ || तदशेषव्ययाभावान्न ददाति प्रकुप्यति | अथ चेटीसाधनं तत्रैव | ततः कूर्चयुगं चास्त्रयुगं चेटी ततः परम् || १२-८५९ || ङेऽन्तं क्रोधयुगं चोक्त्वा चेटीयुग्मं त्रपां ततः || १२-८५९एf || ध्यानम् | गच्छन्ती मितभाषिणी शशिमुखी भ्रष्टोत्तरीयाधरा प्. १२२५) बिभ्रन्ती कलसं सरोजयुगलं स्वर्णान्तसीमन्तिनी | श्रीखण्डादिविलेपनामलवपुःसौरभ्यसंभाविता किञ्चिद्धर्मसमार्जितार्पितकरा पायादियं चेटिका || १२-८६० || कुत्रापि भीषणस्थाने नामोच्चारणमात्रतः | ध्रुवं चेटी समागत्य चेतीकर्म करोत्यपि || १२-८६१ || अथवाऽस्य गृहद्वारे त्र्यहं रात्रौ जपं चरेत् | आगत्य नियतं देवी चेटीकर्म करोति च || १२-८६२ || अथ कामेश्वरीमन्त्रस्तत्रैव | तारकूर्चास्त्रयुक्कामेश्वरि भूतिन्यतः परम् | ङेन्तं क्रोधत्रयं कामेश्वरीमन्त्र उदाहृतः || १२-८६३ || ध्यानम् | कामस्कन्धसमागता मधुलतावासन्तिपुष्पान्विता गायन्ती मधुराधरस्मितमुखी वीणावती चञ्चला | रक्ताम्भोजविलोचना मधुमदैर्मत्ता समन्तादियं पायात् पुष्पधनुर्धरा मधूमती कामेश्वरी भूतिनी || १२-८६४ || मातृस्थानं समागात्य कृत्वा मांसस्य भक्षणम् | मांसादिना बलिं दत्वा सहस्रं सप्त वासरान् || १२-८६५ || जपान्नियतमायाति रुधिरार्घं निवेदयेत् | कामेश्वरी भवेत् तुष्टा भार्या भवति कामिता || १२-८६६ || सर्वाशाः पूरयत्येव राज्यं यच्छति निश्चितम् | अथ रतिप्रियामन्त्रस्तत्रैव | तारं लज्जा च कूर्चास्त्रद्वययुक्ता रतिप्रिया || १२-८६७ || क्रोधत्रपास्त्रयुक्कामेश्वरीमन्त्रोक्तवत् क्रिया || १२-८६७एf || प्. १२२६) ध्यानम् | हेमप्राकारमध्ये सुरविटपितटे हेमपीठाधिरूढा यक्षीमालाविसर्पत्परिमलकुसुमोद्भासिधम्मिल्लभारा | पीनोत्तुङ्गस्तनाढ्या कुवलयनयना रक्तवर्णा कराभ्यां भ्राम्यद्रक्तोत्पलाभा सकलसुरयुता दिव्यभूषाङ्गरागा || १२-८६८ || रात्रौ देवगृहं गत्वा तत्र शययां प्रकल्पयेत् | सितवस्त्रं चन्दनं च जातीपुष्पं प्रदापयेत् || १२-८६९ || धूपं तु गुग्गुलं दत्वाऽष्टसहस्रं जपेन्मनुम् | जपान्ते नित्यमायाति चुम्बनालिङ्गनादाभिः || १२-८७० || कामिता जायते भार्या सत्यं देवी कुमारिका | दद्यादष्टदिनेनैव दिव्यं वस्त्रयुगं ततः || १२-८७१ || कामिकं भोजनं दिव्यं परिवारस्य दास्यति | अन्यद्वैश्वानरगृहाद्द्रव्यमानीय यच्छति || १२-८७२ || सहस्रमेतानि जपेज्जपान्ते सिद्ध्यति ध्रुवम् | मुहुर्मुहुर्जपेन्मन्त्रमित्याह क्रोधभूपतिः || १२-८७३ || इति विभूषिण्यादिसाधनानि | अथ धरित्रीसाधनम् | तदुक्तं (वैष्णवीकल्पे) अथातः संप्रवक्ष्यामि धरित्रीसाधनं परम् | रहस्यातिरहस्यं च सर्वतन्त्रेषु गोपितम् || १२-८७४ || सर्वैश्वर्यकरं नॄणां दुर्लभं परमाद्भुतम् | यज्ज्ञात्वा साधकेश्रेष्ठो धनदेन समो भवेत् || १२-८७५ || शरत्काले च केदारमध्ये कमलसंकुले | विनिर्माय कुटीं रम्यां स्थापयेत् कलशं शुभम् || १२-८७६ || भौमाष्टम्यामाहृतया मृदा नक्तं विनिर्मितम् | प्. १२२७) गन्धर्वकर्दमैर्लिप्तं वेष्टितं शुक्लवाससा || १२-८७७ || वक्ष्यमाणेन मन्त्रेण तत्रावाह्य वसुन्धराम् | नानोपचारसम्भारैस्त्रिसन्ध्यं पूजयेत् सुधीः || १२-८७८ || भूबीजं तारमायान्ते ङेन्ता चैव वसुन्धरा | हृदयं वह्निजायान्तो द्वादशार्णो मनुः स्मृतः || १२-८७९ || महावराहोऽस्य मुनिर्गायत्री छन्द ईरितम् | वसुन्धरा देवता च भूबीजं बीजमुच्यते || १२-८८० || मायाबीजं धरित्र्याश्च विनियोगः प्रसादने | मन्त्रवर्णैः षडङ्गानि कृत्वा ध्यायेद्वसुन्धराम् || १२-८८१ || ध्यानम् | फूल्लाम्भोरुहमध्यस्थामिन्दीवरदलप्रभाम् | पीतकौशेयवसनां नानालङ्कारभूषिताम् || १२-८८२ || नीलोत्पलद्वयं शालिमञ्जरीं चेक्षुकं करैः | बिभ्राणां सर्वलोकस्य धात्रीं वसुमतीं भजे || १२-८८३ || एवं ध्यात्वा जपेन्मन्त्रं वेदलक्षं समाहितः | जपान्ते वसुधादेवी भाषते कलशोदरान् || १२-८८४ || वरं ब्रूहि प्रदास्यामि यत् ते मनसि वर्त्तते | इति ब्रुवाणां तां देवीं प्रसूनाञ्जलिभिस्त्रीभिः || १२-८८५ || संपूज्य प्रणमेद्भूमौ दण्डवत् साधकोत्तमः | श्लोकार्धपतितमन्त्रः | नमस्तुभ्यं भगवति जगद्धात्रि वसुन्धरे || १२-८८६ || विष्णुपत्नि वराहस्य दंष्ट्राकोटिकृतालये | विश्वम्भरे नमस्तुभ्यं सर्वभूताश्रये धरे || १२-८८७ || रत्नानां च निधीनां च त्वदभ्यन्तरवर्त्तिनाम् | प्. १२२८) लब्धुकामोऽस्मि कल्याणि प्रसादात् तव मेदिनि || १२-८८८ || इति संप्रार्थयेद्देवीं सा ददाति वरं ततः | द्रक्ष्यसि प्राप्स्यसीत्येवं ततः पश्यति साधकः || १२-८८९ || पदे पदे च रत्नानि विधानं योजनत्रये | ततस्तानि समादाय यथेष्टं विहरेद्भुवि || १२-८९० || आदौ पुरस्क्रियां कुर्याद्वर्णलक्षं जपेन्मनुम् | तद्दशांशं च जुहुयात् संस्कृते हव्यवाहने || १२-८९१ || ससर्पिषा पायसेन तद्दशांशं च तर्पयेत् | मार्जयेत् तद्दशांशेन तद्दशांशेन वैष्णवान् || १२-८९२ || विप्रान् संभोजयेन्मन्त्री ततः साधनमाचरेत् | पुरश्चर्यामकृत्वा तु न मन्त्रः कोऽपि सिद्ध्यति || १२-८९३ || इति धरित्रीसाधनम् | एवं किन्नर्यादिसाधनानि विस्तरभयादुपेक्षितानि | मेरुतन्त्रं महाकालसंहितां शक्तिसङ्गम् | वाडवानलतन्त्रं च तन्त्रं कालानलाभिधम् || १२-८९४ || कालीतन्त्रं परातन्त्रं तन्त्रराजं तथैव च | मुण्डमालाख्यतन्त्रं च योगिनीहृदयं तथा || १२-८९५ || कुमारीतन्त्रमाम्नायरहस्यं श्रीमतोत्तमम् | कुलिकाम्नायतन्त्रं च कुलचूडामणिं तथा || १२-८९६ || तन्त्रचूडामणिं तद्वद्भावचूडामणिं तथा | समयाचारतन्त्रं च विश्वसारं तथैव च || १२-८९७ || भैरव्या भुवनेश्वर्याश्चामुण्डायास्तथैव च | योगिन्याश्चापि वाराह्याः पञ्च तन्त्राणि च क्रमात् || १२-८९८ || नीलतन्त्रं गौतमीयतन्त्रं फेत्कारिणीमपि | प्. १२२९) वामकेश्वरतन्त्रं च वीरतन्त्रं तथैव च || १२-८९९ || संमोहनाख्यतन्त्रं च तन्त्रं गन्धर्वसंज्ञकम् | माहेश्वरीयतन्त्रं च तन्त्रं प्रथमसंज्ञकम् || १२-९०० || तद्वत् कात्यायनीतन्त्रं बालातन्त्रं तथैव च | उड्डीशं मालिनीतन्त्रं गुह्यातन्त्रं तथैव च || १२-९०१ || कौलेशं कुब्जिकातन्त्रं कुलरत्नावलीमपि | विशुद्धेश्वरतन्त्रं च गणेश्वरविमर्षिणीम् || १२-९०२ || सिद्धसारस्वतं शम्भुविद्यातन्त्रं तथैव च | तद्वद्भैरवतन्त्रं च ज्ञानार्णवकुलार्णवौ || १२-९०३ || तथैव वैष्णवीकल्पं कालीकल्पं कुलामृतम् | श्रीमत्प्रत्यङ्गिराकल्पं ताराकल्पं तथैव च || १२-९०४ || निरुत्तराख्यतन्त्रं च तन्त्रमुत्तरसंज्ञकम् | तन्त्रं तद्वत् स्वतन्त्राख्यं मन्त्रदेवप्रकाशिकाम् || १२-९०५ || श्रीक्रमं व्रह्मरुद्रादियामलानि कुलागमम् | शैषागमं सोमशम्भुमतं देव्यागमं तथा || १२-९०६ || डामरं भूतपूर्वं च यक्षपर्वं च डामरम् | वैनायकीसंहितां च वैशम्पायनसंहिताम् || १२-९०७ || अगस्त्यसंहितां तद्वद्बृहच्छ्रीक्रमसंहिताम् | सुरेन्द्रसंहितां चैव नन्दिकेश्वरसंहिताम् || १२-९०८ || वशिष्ठसंहितां तद्वद्वायवीयां च संहिताम् | गोरक्षसंहितां तद्वत्सिद्धनाथाद्यसंहिताम् || १२-९०९ || संहितां चैव वाराहीं महाथर्वणसंहिताम् | संहितां तत्त्वसाराद्यां दक्षिणामूर्तिसंहिताम् || १२-९१० || प्. १२३०) विष्वक्सेनीसंहितां च तथैव ब्रह्मसिंहताम् | निबन्धेषु क्रियासारं त्रिपुरासारसंग्रहम् || १२-९११ || प्रपञ्चसारं सिद्धान्तसारं मन्त्रमहोदधिम् | शारदातिलकं चापि पुरश्चरणचन्द्रिकाम् || १२-९१२ || मन्त्ररत्नावलीं तद्वदाचारकुसुमावलीम् | सग्रहेषु प्रसिद्धेषु ताराभक्तिसुधार्णवम् || १२-९१३ || आगमाद्यां कल्पलतां मन्त्ररत्नाकरं तथा | क्रियासंग्रहनामानं ग्रन्थं सिद्धान्तसंग्रहम् || १२-९१४ || कालीतत्त्वं तथा श्यामारहस्यं मन्त्रचण्डिकाम् | तारारहस्यवृत्तिं च दुर्गाभक्तितरङ्गिणीम् || १२-९१५ || तन्त्रसारं तन्त्ररत्नं तन्त्रचिन्तामणिं तथा | तत्त्वसारं योगसारं श्रीरामार्चनचन्द्रिकाम् || १२-९१६ || ग्रन्थं विधानमालाख्यं विधिमुक्तावलीमपि | नानाविधाः पद्धतीश्च तथोपनिषदोऽपि च || १२-९१७ || ज्योतिःशास्त्रं शालिहोत्रं पुराणानि स्मृतीरपि | सम्यगालोक्य लोकानामुपकारविधित्सया || १२-९१८ || महाराजधिराजेन सुरराजानुकारिणा | श्रीमत्प्रतापसिंहेन विद्याब्धेः पारदृश्वना || १२-९१९ || संवत्सरे निशानाथवह्निनागधरा १८३१ङ्किते | तपस्यर्जुनपक्षे हि तिथौ भास्करवासरे | पुरश्चर्याणवो नाम ग्रन्थ एष विनिर्मितः || १२-९२० || महीमहीपालगणोत्तमाङ्गस्रग्धूलिभिर्धूसरपादपद्मः | वीरो महादानमहाहवेषु प्रतापसिंहो नृपतिश्चकास्ति || १२-९२१ || प्. १२३१) उन्मीलयन् स्वजनमानसमानसानि संकोचयन् प्रतिनृपाननकैरवाणि | संमोदयन् सकलकोविदलोककोकान् यस्य प्रतापसवितोदयते धरायाम् || १२-९२२ || यस्य क्षोणिपतेः प्रतापतपने विभ्राजमाने परे राजन्ते न महीक्षितः क्षितितले खद्योतपोतद्युतः | यत्कीर्त्तीन्दुमरीचिभिस्त्रिभुवने शुभ्रीकृते सर्वतः श्यामत्वं द्विषतामकीर्त्तितिमिरस्तोमेषु विश्राम्यति || १२-९२३ || यावल्लोकोपकारी रचयति दिनकृद्वासरानस्ततन्द्र श्चन्द्रो यावत् त्रियामाः कुमुदविशदया ज्योत्स्नयाऽलङ्करोति यावन्नामानि विष्णोः प्रजपति जनता सन्ति भूतानि यावद् भूभर्त्तुस्तस्य कीर्तिः स्फुरतु वसुमती मण्डले तावदेषा || १२-९२४ || यद्विष्णुं प्रवदन्ति वैष्णवगणाः शैवाः शिवं मन्वते गाणेशा निगदन्ति दन्तिवदनं शौरा दिनेशं विदुः | चिच्छक्तिं कलयन्ति शाक्तनिवहाः साङ्ख्या परं पूरुषं ब्रह्माब्रह्मविदो वदन्त्यवतु वस्तद्दैव्यसिंहं वपुः || १२-९२५ || बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत स्रोतशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् | नव्येऽस्मिन् नरदेवनिर्मितपुरश्चर्यार्णवे द्वादशः सद्युक्तिं स्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः || १२-९२६ || इति श्रीगिरिराजचक्रचूडामणिनरनारायणेत्यादिविविधविरुदावलीविराजमानमानोन्नत श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहदेवविरचिते पुरश्चर्यार्णवे ब्राह्म्यादिमन्त्रपुरश्चरणपूर्वकयन्त्रस्तवकवचादिपुरश्चरणभेदनिरूपणं नाम द्वादशस्तरङ्गः समाप्तः || १२ || शुभमस्तु |########### END OF FILE #######